9.1 SK इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये श्रीरामचरिते (हनूमति श्रीरामदयादानं न्Ḹअम) अष्टमोऽध्यायः ल्xxxइव्.(रामस्वधामप्रवेशः ) अथ नवमोऽध्यायः Oं | अथाऽप्तराज्यो भगवान् स लक्ष्मणं जगाद राजा तरुणो भवाऽशु | इतीरितस्त्वाह स लक्ष्मणो गुरुं भवत्पदाब्जान्न परं वृणोम्यहम्
9.2 SK न मां भवत्पादनिषेवणैकस्पृहं तदन्यत्र नियोक्तुमर्हति | नहीदृशः कश्चिदनुग्रहः क्वचित् तदेव मे देहि ततः सदैव
9.3 SK इतीरितस्तस्य तदेव दत्त्वा दृढं समाण्स्लिष्य च राघवः प्रभुः | स यौवराज्यं भरते निधाय जुगोप लोकानखिलान् सधर्मकान्
9.4 SK प्रशासतीशे पृथिवी बभूव विरिञ्चलोकस्य समा गुणोन्नतौ | जनोऽखिलो विष्णुपरो बभूव न धर्महानिश्च बभूव कस्यचित्
9.5 SK गुणैश्च सर्वैरुदिताण्स्च सर्वे यथायथा योग्यतयोच्चनीचाः | समस्तरोगादिभिरुज्झिताण्स्च सर्वे सहस्रायुष ऊर्जिता धनैः
9.6 SK सर्वेऽजरा नित्यबलोपपन्ना यथेष्टसिद्ध्या च सदोपपन्नाः | समस्तदोषैश्च सदा विहीनाः सर्वे सुरूपाण्स्च सदा महोत्सवाः
9.7 SK सर्वे मनोवाक्तनुभिः सदैव विष्णुं यजन्ते नतु कञ्चिदन्यम् | समस्तरत्नोद्भरिता चपृथ्वी यथेष्टधान्या बहुदुग्धगोमती
9.8 SK समस्तगन्धाण्स्च सदाऽतिहृद्या रसा मनोहारिण एव तत्र | शब्दाण्स्च सर्वे श्रवणातिहारिणः स्पर्शाण्स्च सर्वे स्पर्शेन्द्रियप्रियाः
9.9 SK न कस्यचिद् दुःखमभूत् कथञ्चिन्न वित्तहीनश्च बभूव कश्चन | नाधर्मशीलो न च कश्चनाप्रजो न दुष्प्रजो नैव कुभार्यकश्च
9.10 SK स्त्रियो नचाऽसन् विधवाः कथञ्चिन्न वै पुमां सो विधुरा बभूवुः | नानिष्टयोगश्च बभूव कस्यचिन्नचेष्टहानिर्नच पूर्वमृत्युः
9.11 SK यथेष्टमाल्याभरणानुलेपना यथेष्टपानाण्सनवाससोऽखिलाः | बभूवुरीशे जगतां प्रशासति प्रकृष्टधर्मेण जनार्दने नृपे
9.12 SK ल्xxxव्.स ब्रह्मरुद्रमरुदश्विदिवाकरादिमूर्द्धन्यरत्नपरिघट्टितपादपीठः | नित्यं सुरैः सह नरैरथ वानरैश्च सम्पूज्यमानचरणो रमते रमेशः
9.13 SK तस्याखिलेशितुरनाद्यनुगैव लक्ष्मीः सीत् आभिधा त्वरमयत् स्वरतं सुरेशम् | नित्यावियोगिपरमोच्चनिजस्वभावा सौन्दर्यविभ्रमसुलक्षणपूर्वभावा
9.14 SK रेमे तया स परमः स्वरतोऽपि नित्यं नित्योन्नतप्रमदभारभृतस्वभावः | पूर्णोडुराजसुविराजितसन्निशासु दीप्यन्नशोकवनिकासु सुपुष्पितासु
9.15 SK गायन्ति चैनमनुरक्तधियः सुकण्ठा गन्धर्वचारणगणाः सह चाप्सरोभिः | तं तुष्टुवुर्मुनिगणाः सहिताः सुरेशै राजान एनमनुयान्ति सदाऽप्रमत्ताः
9.16 SK एवं त्रयोदशसहस्रमसौ समास्तु पृथ्वीं ररक्ष विजितारिरमोघवीर्यः | आनन्दमिन्दुरिव सन्दधदिन्दिरेशो लोकस्य सान्द्रसुखवारिधिरप्रमेयः
9.17 SK देव्यां स चाजनयदिन्द्रहुताण्सनौ द्वौ पुत्रौ यमौ कुशलवौ बलिनौ गुणाढ्यौ | शत्रुघ्नतो लवणमुद्बणबाणदग्धं कृत्वा चकार मधुरां पुरमुग्रवीर्यः
9.18 SK कोटित्रयं स निजघान तथाऽसुराणां गन्धर्वजन्म भरतेन सतां च धर्मम् | सं शिक्षयन्नयजदुत्तमकल्पकैः स्वं यज्ञैर्भवाजमुखसत्सचिवाण्स्च यत्र
9.19 SK अथ शूद्रतपश्चर्यानिहतं विप्रपुत्रकम् | उज्जीवयामास विभुर्हत्वा तं शूद्रतापसम्
9.20 SK जङ्घनामाऽसुरः पूर्वं गिरिजावरदानतः | बभूव शूद्रः कल्पायुः स लोकक्षयकाम्यया | तपश्चचार दुर्बुद्धिरिच्छन् माहेश्वरं पदम्
9.21 SK अनन्यवध्यं तं तस्माज्जघान पुरुषोत्तमः | श्वेतदत्तां तथा मालामगस्त्यादाप राघवः
9.22 SK अनन्नयज्ञकृच्छ्वेतो राजा क्षुद्विनिवर्तनम् | कुर्वन् स्वमां सैर्धात्रोक्तो मालां रामार्थमर्पयत् | अगस्त्याय न साक्षात्तु रामे दद्यादयं नृपः
9.23 SK ल्xxxवि.क्षुदभावमात्रफलदं न साक्षाद् राघवेऽर्पितम् | क्षुदभावमात्रमाकाङ्क्षन् मामसौ परिपृच्छति
9.24 SK व्यवधानतस्ततो रामे दद्याच्छवेत इति प्रभुः | मत्वा ब्रह्माऽदिशन्मालां प्रदातुं कुम्भयोनये
9.25 SK त् आमगस्त्यकरपल्लवार्पितां भक्त एष मम कुम्भसम्भवः | इत्यवेत्य जगृहे जनार्दनस्तेन सं स्तुत उपागमत् पुरम्
9.26 SK अथ केचिदासुरसुराः सुराणका इत्युरुप्रथितपौरुषाः पुरा | ते तपः सुमहदास्थिता विभुं पद्मसम्भवमवेक्ष्य चोचिरे
9.27 SK भूरिपापकृतिनोऽपि निश्चयान्मुक्तिमाप्नुम उदारसद्गुण | इत्युदीरितमजोऽवधार्य तत् प्राह च प्रहसिताननः प्रभुः
9.28 SK यावदेव रमया रमेश्वरं नो वियोजयथ सद्गुणार्णवम् | त् आवदुच्चमपि दुष्कृतं भवन्मोक्षमार्गपरिपन्थि नो भवेत्
9.29 SK इत्युदीरितमवेत्य तेऽसुराः क्षिप्रमोक्षगमनोत्सुकाः क्षितौ | साधनोपचयकाङ्क्षिणो हरौ शासति क्षितिमशेषतोऽभवन्
9.30 SK त् आननादिकृतदोषसञ्चयैर्मोक्षमार्गगतियोग्यतोज्झितान् | मैथिलस्य तनया व्यचालयन्मायया स्वतनुवा स्वमार्गतः
9.31 SK आज्ञयैव हि हरेस्तु मायया मोहितास्तु दितिजा व्यनिन्दयन् | राघवं निशिचराहृत् आं पुनर्जानकीं जगृह इत्यनेकशः
9.32 SK ब्रह्मवाक्यमृतमेव कारयन् पातयं स्तमसि चान्ध आसुरान् | नित्यमेव सहितोऽपि सीतया सोऽज्ञसाक्षिकमभूद् वियुक्तवत्
9.33 SK तेन चान्धतम ईयुरासुरा यज्ञमाह्वयदसौ च मैथिलीम् | तत्र भूमिशपथच्छलान्नृणां दृष्टिमार्गमपहाय सा स्थिता
9.34 SK गुरुं हि जगतो विष्णुर्ब्रह्माणमसृजत् स्वयम् | ल्xxxविइ.तेन तद्वचनं सत्सु नानृतं कुरुते क्वचित्
9.35 SK नासत्स्वप्यनृतं कुर्याद् वचनं पारलौकिकम् | ऐहिकं त्वसुरेष्वेव क्वचिद्धन्ति जनार्दनः
9.36 SK निजाधिक्यस्य विज्ञप्त्यै क्वचिद् वायुस्तदाज्ञया | हन्ति ब्रह्मत्वमात्मीयमद्धा ज्ञापयितुं प्रभुः
9.37 SK नान्यः कश्चित् तद्वराणां शापानामप्यतिक्रमी | अयोग्येषु तु रुद्रादिवाक्यं तौ कुरुतो मृषा | एकदेशेन सत्यं तु योग्येष्वपि कदाचन
9.38 SK न विष्णोर्वचनं क्वापि मृषा भवति कस्यचित् | एतदर्थोऽवतारश्च विष्णोर्भवति सर्वदा
9.39 SK प्रविश्य भूमौ सा देवी लोकदृष्ट्यनुसारतः | रेमे रामेणावियुक्ता भास्करेण प्रभा यथा
9.40 SK एवं रमालाल् . इतपादपल्लवः पुनः स यज्ञैश्च यजन् स्वमेव | वराण्स्वमेधादिभिराप्तकामो रेमेऽभिरामो नृपतीन् विशिक्षयन्
9.41 SK रामस्य दृश्या त्वन्येषामदृश्या जनकात्मजा | भूमिप्रवेशादूर्ध्वं सा रेमे सप्तशतं समाः
9.42 SK एवं विधान्यगणित् आनि जनार्दनस्य रामावतारचरितानि तदन्यपुम्भिः | शक्यानि नैव मनसाऽपि हि तानि कर्तुं ब्रह्मेशशेषपुरुहूतमुखैः सुरैश्च
9.43 SK तस्यैवमब्जभवलोकसमामिमां क्ष्मां कृत्वाऽनुशासत उदीक्ष्य गुणान् धरायाः | वैशेष्यमात्मसदनस्य हि काङ्क्षमाणा वृन्दारकाः कमलजं प्रति तच्छशं सुः
9.44 SK आमन्त्र्य तैः सह विभुर्भगवत्प्रयाणं स्वीयाय सद्मन इयेष दिदेश चैव | रुद्रं स्वलोकगमनाय रघूत्तमस्य सम्प्रार्थने स च समेत्य विभुं ययाचे
9.45 SK एकान्तमेत्य रघुपेण समस्तकालो रुद्रो जगाद वचनं जगतो विधातुः | वैशेष्यमात्मभवनस्य हि काङ्क्षमाणास्त्वामर्थयन्ति विबुधाः सहिता विधात्रा
9.46 SK ल्xxxविइइ.पुत्रस्तवेश कमलप्रभवस्तथाऽहं पौत्रस्तु पौत्रकवचो यदपि ह्ययोग्यम् | सम्भावयन्ति गुणिनस्तदहं ययाचे गन्तुं स्वसद्म नतिपूर्वमितो भवन्तम्
9.47 SK यत्कार्यसाधनकृते विबुधार्थितस्त्वं प्रादुश्चकर्थ निजरूपमशेषमेव | तत् साधितं हि भवता तदितः स्वधाम क्षिप्रं प्रयाहि हर्षं विबुधेषु कुर्वन्
9.48 SK Oं इत्युवाच भगवां स्तदशेषमेव श्रुत्वा रहस्यथ तनुस्त्वपरा हरस्य | दुर्वासनामयुगिहाऽगमदाण्सु राम मां भोजय क्षुधितमित्यसकृद् ब्रुवाणा
9.49 SK सिद्धं न देयमथ साध्यमपीति वाचं श्रुत्वाऽस्य वाक्समयजातमुरु स्वहस्तात् | अन्नं चतुर्गुणमदादमृतोपमानं रामस्तदाप्य बुभुजेऽथ मुनिः सुतुष्टः
9.50 SK तृप्तो ययौ च सकलान् प्रति कोपयानः कश्चिन्न मेऽर्थितवरं प्रतिदातुमीशः | एवम्प्रतिज्ञक ऋषिः स हि तत्प्रतिज्ञां मोघां चकार भगवान् नतु कश्चिदन्यः
9.51 SK कुन्ती तु तस्य हि मुनेर्वरतोऽजयत् तु रामः स कृष्णतनुवा स्वबलाज्जिगाय | तस्मिञ्छिवे प्रतिगते मुनिरूपके च याहीति लक्ष्मणमुवाच रमापतिः सः
9.52 SK एकान्ते तु यदा रामश्चक्रे रुद्रेण सं विदम् | द्वारपालं स कृतवां स्तदा लक्ष्मणमेव सः
9.53 SK यद्यत्र प्रविशेत् कश्चिद्धन्मि त्वेति वचो ब्रुवन् | तदन्तराऽगतमृषिं दृष्ट्वाऽमन्यत लक्ष्मणः
9.54 SK दुर्वाससः प्रतिज्ञा तुरामं प्राप्यैव भज्यताम् | अन्यथा त्वयशो रामे करोत्येष मुनिर्ध्रुवम्
9.55 SK राघवो घ्नन्नपि तु मां करोत्येव दयां मयि | इति मत्वा ददौ मार्गं स तु दुर्वाससे तदा
9.56 SK स्वलोकगमनाकाङ्क्षी स्वयमेव तु राघवः | इयं प्रतिज्ञा हेतुः स्यादिति हन्मीति सोऽकरोत्
9.57 SK अत्यन्तबन्धुनिधनं त्याग एवेति चिन्तयन् | ल्xxxइx.याहि स्वलोकमचिरादित्युवाच स लक्ष्मणम्
9.58 SK इत्युक्तः स ययौ जगद्भवभयध्वान्तच्छिदं राघवं ध्यायन्नाप च तत्पदं दशशतैर्युक्तो मुखाम्भोरुहैः | आसीच्छेषमहाफणी मुसलभृद् दिव्याकृतिर्लाङ्गली पर्यङ्कत्वमवाप यो जलनिधौ विष्णोः शयानस्य च
9.59 SK अथ राघवः स्वभवनोपगतौ विदधे मतिं सह जनैरखिलैः | समघोषयच्च य इहेच्छति तत् पदमक्षयं सपदि मैत्वितिसः
9.60 SK श्रुत्वा तु तद् य इह मोक्षपदेच्छवस्ते सर्वे समाययुरथाऽतृणमापिपीलम् | रामाज्ञया गमनशक्तिरभूत् तृणादेर्ये तत्र दीर्घभविनो नहि ते तदैच्छन्
9.61 SK सं स्थापयामास कुशं स्वराज्ये तैः साकमेव च लवं युवराजमीशः | सं स्थाप्य वालितनयं कपिराज्य आण्सु सूर्यात्मजोऽपि रघुवीरसमीपमायात्
9.62 SK अथाऽह वायुनन्दनं स राघवः समाण्स्लिषन् | तवाहमक्षगोचरः सदा भवामि नान्यथा
9.63 SK त्वया सदा महत् तपः सुकार्यमुत्तमोत्तमम् | तदेव मे महत् प्रियं चिरं तपस्त्वया कृतम्
9.64 SK दशास्यकुम्भकर्णकौ यथा सुशक्तिमानपि | जघन्थ न प्रियाय मे तथैव जीव कल्पकम्
9.65 SK पयोब्धिमध्यगं च मे सुसद्म चान्यदेव वा | यथेष्टतो गमिष्यसि स्वदेहसं युतोऽपि सन्
9.66 SK यथेष्टभोगसं युतः सुरेशगायकादिभिः | समीड्यमानसद्यशा रमस्व मत्पुरः सदा
9.67 SK तवेप्सितं न किञ्चन क्वचित् कुतश्चिदेव वा | मृषा भवेत् प्रियश्च मे पुनः पुनर्भविष्यसि
9.68 SK इतीरितो मरुत्सुतो जगाद विश्वनायकम् | xच्.विधेहि पादपङ्कजे तवेश भक्तिमुत्तमाम्
9.69 SK सदा प्रवर्द्धमानया तया रमेऽहमञ्जसा | समस्तजीवसञ्चयात् सदाऽधिका हि मेऽस्तु सा
9.70 SK नमो नमो नमो नमो नतोऽस्मि ते सदा पदम् | समस्तसद्गुणोच्छ्रितं नमामि ते पदं पुनः
9.71 SK इतीरिते तथेति तं जगाद पुष्करेक्षणः | जगाम धाम चाऽत्मनस्तृणादिना सहैव सः
9.72 SK खगा मृगास्तृणादयः पिपीलिकाण्स्च गर्दभाः | तदाऽसुरुत्तमा यतो नृवानरास्तु किं पुनः
9.73 SK सदैव रामभावनाः सदा सुतत्त्ववेदिनः | यतोऽभवं स्ततस्तु ते ययुः पदं हरेस्तदा
9.74 SK स तैः समावृतो विभुर्ययौ दिशं तदोत्तराम् | अनन्तसूर्यदीधितिर्दुरन्तसद्गुणार्णवः
9.75 SK सहस्रसूर्यमण्डलज्वलत्किरीटमूर्द्धजः | सुनीलकुन्तल् . आवृत् आमितेन्दुकान्तसन्मुखः
9.76 SK सुरक्तपद्मलोचनः सुविद्युदाभकुण्डलः | सुहासविद्रुमाधरः समस्तवेदवाग्रसः
9.77 SK दिवाकरौघकौस्तुभप्रभासकोरुकन्धरः | सुपीवरोन्नतोरुसज्जगद्भरां सयुग्मकः
9.78 SK सुवृत्तदीर्घपीवरोल्लसद्भुजद्वयाङ्कितः | जगद् विमथ्य सम्भृतः शरोऽस्य दक्षिणे करे
9.79 SK स्वयं स तेन निर्मितो हतौ मधुश्च कैटभः | शरेण तेन विष्णुना ददौ च लक्ष्मणानुजे
9.80 SK xचि.स शत्रुसूदनोऽवधीन्मधोः सुतं रसाह्वयम् | शरेण येन चाकरोत् पुरीं च माधुराभिधाम्
9.81 SK समस्तसारसम्भवं शरं दधार तं करे | स वामबाहुना धनुर्दधार शार्ङ्गसञ्ज्ञितम्
9.82 SK उदारबाहुभूषणः शुभाङ्गदः सकङ्कणः | महाङ्गुलीयभूषितः सुरक्तसत्कराम्बुजः
9.83 SK अनर्घरत्नमालया वनाख्यया चमालया | विलासिविस्तृतोरसा बभार च श्रियं प्रभुः
9.84 SK स भूतिवत्सभूषणस्तनूदरे वलित्रयी | उदारमध्यभूषणोल्लसत्तटित्प्रभाम्बरः
9.85 SK करीन्द्रसत्करोरुयुक् सुवृत्तजानुमण्डलः | क्रमाल्पवृत्तजङ्घकः सुरक्तपादपल्लवः
9.86 SK लसद्धरिन्मणिद्युती रराज राघवोऽधिकम् | असङ्ख्यसत्सुखार्णवः समस्तशक्तिसत्तनुः
9.87 SK ज् ञानं नेत्राब्जयुग्मान्मुखवरकमलात् सर्ववेदार्थसारां स्तन्वा ब्रह्माण्डबाह्यान्तरमधिकरुचा भासयन् भासुरास्यः | सर्वाभीष्टाभये च स्वकरवरयुगेनार्थिनामादधानः प्रायाद् देवाधिदेवः स्वपदमभिमुखश्चोत्तराण्सां विशोकाम्
9.88 SK दघ्रे च्छत्रं हनूमान् स्रवदमृतमयं पूर्णचन्द्रायुताभं सीत् आ सैवाखिलाक्ष्णां विषयमुपगता ण्स्रीरिति ह्रीरथैका | द्वेधा भूत्वा दधार व्यजनमुभयतः पूर्णचन्द्रां शुगौरं प्रोद्यद्भास्वत्प्रभाभा सकलगुणतनुर्भूषित् आ भूषणैः स्वैः
9.89 SK साक्षाच्चक्रतनुस्तथैव भरतश्चक्रं दधद् दक्षिणे नाऽयात् सव्यत एव शङ्खवरभृच्छङ्खात्मकः शत्रुहा | अग्रे ब्रह्मपुरोगमाः सुरगणा वेदाण्स्च सोङ्कारकाः पश्चात् सर्वजगज्जगाम रघुपं यान्तं निजं धाम तम्
9.90 SK xचिइ.तस्य सूर्यसुतपूर्ववानरा दक्षिणेन मनुजास्तु सव्यतः | रामजन्मचरितानि तस्य ते कीर्तयन्त उचथैर्द्रुतं ययुः
9.91 SK गन्धर्वैर्गीयमानो विबुधमुनिगणैरब्जसम्भूतिपूर्वै र्वेदोदारार्थवाग्भिः प्रणिहितसुमनः सर्वदा स्तूयमानः | सर्वैर्भूतैश्च भक्त्या स्वनिमिषनयनैः कौतुकाद् वीक्ष्यमाणः प्रायाच्छेषगरुत्मदादिकनिजैः सं सेवितः स्वं पदम्
9.92 SK ब्रह्मरुद्रगरुडैः सशेषकैः प्रोच्यमानसुगुणोरुविस्तरः | आरुरोह विभुरम्बरं शनैस्ते च दिव्यवपुषोऽभवं स्तदा
9.93 SK अथ ब्रह्मा हरिं स्तुत्वा जगादेदं वचो विभुम् | त्वदाज्ञया मया दत्तं स्थानं दशरथस्य हि
9.94 SK मात्Ḹऋणां चापि तल्लोकस्त्वयुताब्दादितोऽग्रतः | अनर्हायास्त्वयाऽज्ञप्ता कैकेय्या अपि सद्गतिः | सूत्वा तु भरतं नैषा गच्छेत निरयानिति
9.95 SK तथाऽपि सा यदावेशाच्चकार त्वय्यशोभनम् | निकृतिर्नाम सा क्षिप्ता मया तमसि शाण्स्वते
9.96 SK कैकयी तु चलान् लोकान् प्राप्ता नैवाचलान् क्वचित् | पश्चाद् भक्तिमती यस्मात् त्वयि सा युक्तमेव तत्
9.97 SK मन्थरा तु तमस्यन्धे पातिता दुष्टचारिणी | सीत् आर्थं येऽप्यनिन्दं स्त्वां तेऽपि याता महत् तमः
9.98 SK प्रायशो राक्षसाण्स्चैव त्वयि कृष्णत्वमागते | शेषा यास्यन्ति तच्छेषा अष्टाविं शे कलौ युगे | गते चतुस्सहस्राब्दे तमोगास्त्रिशतोत्तरे
9.99 SK अथ ये त्वत्पदाम्भोजमकरन्दैकलिप्सवः | त्वया सहाऽगतास्तेषां विधेहि स्थानमुत्तमम्
9.100 SK xचिइइ.अहं भवः सुरेशाद्याः किङ्कराः स्म तवेश्वर | यच्च कार्यमिहास्माभिस्तदप्याज्ञापयाऽशु नः
9.101 SK इत्युदीरितमाकर्ण्य शतानन्देन राघवः | जगाद भावगम्भीरसुस्मिताधरपल्लवः
9.102 SK जगद्गुरुत्वमादिष्टं मया ते कमलोद्भव | गुर्वादेशानुसारेण मयाऽदिष्टा च सद्गतिः
9.103 SK अतस्त्वया प्रदेया हि लोका एषां मदाज्ञया | हृदि स्थितं च जानासि त्वमेवैकः सदा मम
9.104 SK इतीरितो हरेर्भावविज्ञानी कञ्जसम्भवः | पिपीलिकातृणान्तानां ददौ लोकाननुत्तमान् | वैष्णवान् सन्ततत्वाच्च नाम्ना सान्तानिकान् विभुः
9.105 SK ते जरामृतिहीनाण्स्च सर्वदुःखविवर्जिताः | सं सारमुक्ता न्यवसं स्तत्र नित्यसुखाधिकाः
9.106 SK ये तु देवा इहोद्भूता नृवानरशरीरिणः | ते सर्वे स्वां शितामापुस्तन्मैन्दविविदावृते
9.107 SK असुरावेशतस्तौ तु न राममनुजग्मतुः | पीत् आमृतौ पुरा यस्मान्मम्रतुर्नच तौ तदा
9.108 SK तयोश्च तपसा तुष्टण्स्चक्रे तावजरामरौ | पुरा स्वयम्भूस्तेनोभौ दर्पादमृतमन्थने | प्रसं ह्यापिबतां देवैर्देवां शत्वादुपेक्षितौ
9.109 SK पीत् आमृतेषु देवेषु युद्ध्यमानेषु दानवैः | तैर्दत्तमात्महस्ते ते रक्षायै पीतमाण्सु तत् | तस्माद् दोषादापतुस्तावासुरं भावमूर्जितम्
9.110 SK अङ्गदः कालतस्त्यक्त्वा देहमाप निजां तनुम् | रामाज्ञयैव कुर्वाणो राज्यं कुशसमन्वितः
9.111 SK xचिव्.विभीषणण्स्च धर्मात्मा राघवाज्ञापुरस्कृतः | सेनापतिर्धनेशस्य कल्पमावीत् स राक्षसान्
9.112 SK रामाज्ञया जाम्बवां श्च न्यवसत् पृथिवीतल् . ए | उत्पत्त्यर्थं ज् आम्बवत्यास्तदर्थं सुतपश्चरन्
9.113 SK अथो रघूणां प्रवरः सुरार्चितः स्वयैकतन्वा न्यवसत् सुरालये | द्वितीयया ब्रह्मसदस्यधीश्वरस्तेनार्चितोऽथापरया निजालये
9.114 SK तृतीयरूपेण निजं पदं प्रभुं व्रजन्तमुच्चैरनुगम्य देवताः | अगम्यमर्यादमुपेत्य च क्रमाद् विलोकयन्तोऽतिविदूरतोऽस्तुवन्
9.115 SK ब्रह्मा मरुन्मारुतसूनुरीशः शेषो गरुत्मान् हरिजः शक्रकाद्याः | क्रमादनुव्रज्य तु राघवस्य शिरस्यथाऽज्ञां प्रणिधाय निर्ययुः
9.116 SK स्वं स्वं च सर्वे सदनं सुरा ययुः पुरन्दराद्याण्स्च विरिञ्चपूर्वकाः | मरुत्सुतोऽथो बदरीमवाप्य नारायणस्यैव पदं सिषेवे
9.117 SK समस्तशास्त्रोद्भरितं हरेर्वचो मुदा तदा ण्स्रोत्रपुटेन सम्भरन् | वदं श्च तत्त्वं विबुधर्षभाणां सदा मुनीनां च सुखं ह्युवास
9.118 SK रामाज्ञया किम्पुरुषेषु राज्यं चकार रूपेण तथाऽपरेण | रूपैस्तथाऽन्यैश्च समस्तसद्मन्युवास विष्णोः सततं यथेष्टम्
9.119 SK इत्थं स गायञ्छतकोटिविस्तरं रामायणं भारतपञ्चरात्रम् | वेदां श्च सर्वान् सहितब्रह्मसूत्रान् व्याचक्षाणो नित्यसुखोद्भरोऽभूत्
9.120 SK रामोऽपि सार्द्धं पवमानात्मजेन स सीतया लक्ष्मणपूर्वकैश्च | तथा गरुत्मत्प्रमुखैश्च पार्षदैः सं सेव्यमानो न्यवसत् पयोब्धौ
9.121 SK कदाचिदीशः सकलावतारानेकं विधायाहिपतौ च शेते | पृथक् च सं व्यूह्य कदाचिदिच्छया रेमे रमेशोऽमितसद्गुणार्णवः
9.122 SK इत्यशेषपुराणेभ्यः पञ्चरात्रेभ्य एव च | xच्व्.भारताच्चैव वेदेभ्यो महारामायणादपि
9.123 SK परस्परविरोधस्य हानान्निर्णीय तत्त्वतः | युक्त्या बुद्धिबलाच्चैव विष्णोरेव प्रसादतः
9.124 SK बहुकल्पानुसारेण मयेयं सत्कथोदिता | नैकग्रन्थाण्स्रयात् तस्मान्नाऽशङ्क्याऽत्र विरुद्धता
9.125 SK क्वचिन्मोहायासुराणां व्यत्यासः प्रतिलोमता | उक्ता ग्रन्थेषु तस्माद्धि निर्णयोऽयं कृतो मया
9.126 SK एवं च वक्ष्यमाणेषु नैवाऽशङ्क्या विरुद्धता | सर्वकल्पसमश्चायं पारावर्यक्रमः सदा
9.127 SK पुं व्यत्यासेन चोक्तिः स्यात् पुराणादिषु कुत्रचित् | कृष्णामाह यथा कृष्णो धनञ्जयशरैर्हतान् | शतं दुर्योधनादीं स्ते दर्शयिष्य इति प्रभुः
9.128 SK भीमसेनहतास्ते हि ज्ञायन्ते बहुवाक्यतः | विस्तारे भीमनिहताः सङ्क्षेपेऽर्जुनपातिताः | उच्यन्ते बहवश्चान्ये पुं व्यत्याससमाण्स्रयात्
9.129 SK विस्तारे कृष्णनिहता बलभद्रहता इति | उच्यन्ते च क्वचित् कालव्यत्यासोऽपि क्वचिद् भवेत्
9.130 SK यथा सुयोधनं भीमः प्राहसत् कृष्णसन्निधौ | इति वाक्येषु बहुषु ज्ञायते निर्णयादपि | अनिर्णये तु कृष्णस्य पूर्वमुक्ता गतिस्ततः
9.131 SK व्यत्यासास्त्वेवमाद्याण्स्च प्रातिलोम्यादयस्तथा | दृश्यन्ते भारताद्येषु लक्षणग्रन्थतश्च ते | ज् ञायन्ते बहुभिर्वाक्यैर्निर्णयग्रन्थतस्तथा
9.132 SK तस्माद् विनिर्णयग्रन्थानाण्स्रित्यैव च लक्षणम् | बहुवाक्यानुसारेण निर्णयोऽयं मया कृतः
9.133 SK xच्वि.उक्तं लक्षणण्सास्त्रे च कृष्णद्वैपायनोदिते | ᳚त्रिभाषा योन जानाति रीतीनां शतमेव च
9.134 SK व्यत्यासादीन् सप्त भेदान् वेदाद्यर्थं तथा वदेत् | स याति निरयं घोरमन्यथाज्ञानसम्भवम्᳚
9.135 SK इत्यन्येषु चशास्त्रेषु तत्रतत्रोदितं बहु | ᳚व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा | उक्षणः सुधुरः साधु सप्त भेदाः प्रकीर्तिताः ᳚
9.136 SK इत्यादिलक्षणान्यत्र नोच्यन्तेऽन्यप्रसङ्गतः | ६७ ६७ ᳚व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा | उक्षणः सुधुरः साधुः सप्तभेदाः प्रकीर्तिताः | (९.१३५.१)| श्रद्दधानाय शिष्य्Ḹअय पृच्छते मे सुताय च | विधिवद्वद हे (भो) तात व्यत्यासाद्यर्थनिर्णयम् | (९.१३५.२ | शृणु नारद वक्ष्य्Ḹअमि यावत्ते मतिगोचरम् | व्यत्यासादिप्रभेदानां सङ्कोचादर्थनिर्णयम् | (९.१३५.३)| एष्वेकैकप्रभेदस्तु पृथग्भिन्नः सहस्रधा | तल्लक्षणं तदर्थां श्च तदुदाहरणानि च | (९.१३५.४)| म्Ḹउलरामायणे प्रोक्तं पञ्चरात्रागमेषु च| विस्तराद् व्यासरूपेण हरिणैवामितात्मना | (९.१३५.५)| ते सर्वेऽनन्तवेदार्थनिर्णयायैव कीर्तिताः | ततः कलिबलान्मर्त्याः मन्दायुर्मतिशालिनः | (९.१३५.६)| दृष्ट्व्Ḹअ वेदान् विभज्यैव तदर्थज्ञ्Ḹअपनाय च | कृत्वा लक्षणण्सास्त्रं च तस्मिन्नपि च ईरिताः | (९.१३५.७)| व्यत्यासेनैव सङ्कोचात् स्वोक्तवादार्थनिर्णयः | य्Ḹअवद्भिः स्यात् प्रभेदानां प्रभेदैस्ते च नोऽखिलाः | (९.१३५.८)| इदानीं तत्समालोड्य निश्चित्यैव प्रवच्मि च | भारतस्य पुराणानां य्Ḹअवद्भिः स्याद्विनिर्णयः | xच्विइ.तत्र भेदान् तदर्थां श्च शृणुष्वैकाग्रमानसः | (९.१३५.९)| व्यत्यासो व्यत्ययः प्रोक्तः पुं व्यत्यासस्तदादिमः | यथाऽरण्ये पर्वणि तु केशवः प्राह पार्षतीम् | (९.१३५.१०)| सान्त्वयन् धार्तराष्ट्रां श्च शतमर्जुनसायकैः | मृतान् सन्दर्शयिष्येऽहं इति पुं व्यत्ययः स्मृतः | (९.१३५.११)| हरिवं शे हरिः कृष्णो गोपगोजनसं वृतः | चिक्रीडे जाह्नवीतीरे व्यत्यासो दैशिकः स्मृतः | (९.१३५.१२)| म्Ḹअर्कण्डेये तथा पूर्वं रामः कृतयुगेऽहनत् | दशकण्ठं कथेत्यादौ व्यत्यासः क्Ḹअलिकः स्मृतः | (९.१३५.१३)| हिं साकर्मरतत्वात्तु हिं सार इति केसरीम् | व्यत्यासः सिं ह इत्यादावक्षरव्यत्ययः स्मृतः | (९.१३५.१४)| क्वचिद्रामो दाण्सरथिर्हत्वा कं समपीपलत् | मधुरां पुरमित्यादौ कथाव्यत्यय ईरितः | (९.१३५.१५)| विपरीतक्रमं यत्र प्रतिलोमं तदीरितम् | तद्भावः प्रातिलोम्यं च तत्प्रभेदः क्वचिद्भवेत् | (९.१३५.१६)| विधिप्राणौ तयोर्भार्ये गुरुत्मच्छेषण्सङ्कराः | षण्महिष्य हरेस्तद्वत् सौपर्णी वारुणी उमा | (९.१३५.१७)| इन्द्रकामौ तयोः पत्न्यौ क्रमाच्छतगुणाधिकाः | इत्याग्नेयपुराणोक्तं तारतम्यप्रकाण्सनम् | इत्यादावर्थनिर्वाहः प्रातिलोम्यप्रभेदतः | (९.१३५.१८)| कलिश्च द्वापरस्त्रेता कृतं पुण्यं पुरा युगाः | क्रमादित्यादिषु प्रातिलोम्यादुक्तो विनिर्णयः | (९.१३५.१९)| वत्सो गोस्तनमक्षीरं यदाऽदौ पिबति स्फुटम् | तदा गोमूत्रोदयः स्यात् क्षीरस्याधिक्यसिद्धये | (९.१३५.२०)| यदा गोपो दुहत्येनां तदा मूत्रो न विद्यते | पश्चात् पिबति वत्से तु पुनर्मूत्रोदयो भवेत् | (९.१३५.२१)| एवं क्वचित् कथासु स्यादादावन्ते च सङ्गतिः | मध्ये सङ्गतिविच्छेदः कथान्तरसमागमः | (९.१३५.२२)| xच्विइइ.अनुसारेण तेषां तु निर्णयः क्रियते मया | एवमादिषु विज्ञेयो गोमूत्रीभेदतः क्रमात् | यथाऽरण्ये पाण्डवानां कथासङ्गतिसम्मताः | (९.१३५.२३)| तान् विहायैव तन्मध्ये हरिश्चन्द्रस्य भूभृतः | नल् . अस्य राघवस्यापि गोमूत्रीभेदतः क्रमात् | (९.१३५.२४)| एवं सर्वपुराणेषु मध्ये चित्रकथाः स्मृताः | आद्यन्तयोः सङ्गतिश्च गोमूत्रीभेदतः स्मृताः | (९.१३५.२५)| प्रघसः सर्वशास्त्रार्थविरुद्धार्थानुवर्णनम् | क्वचिन्मोहायासुराणां पुराणेषु तथोच्यते | तादृशानां तु वाक्यानां ग्राह्योऽर्थस्त्वविरोधतः | (९.१३५.२६)| म्Ḹउर्खं दृष्ट्व्Ḹअ सुतं तातो विषं भुङ्क्ष्वेति वक्ष्यति | तच्छ्रुत्वा तद्विरुद्धार्थमाचरन्न तथाऽचरेत् | (९.१३५.२७)| एवं सर्वस्य जगतः पिता गुरुरुदारधीः | व्यासोऽन्यथा क्वचिद्भक्ति हिताय स्वजनाय च | तथा जगत्सत्यं च मिथ्याभूतं निरीश्वरम् | (९.१३५.२८)| अप्रतिष्ठमज्ञेयं हरेर्जीवैरभिन्नताम् | नीचतामवरेभ्यश्च देवेभ्यश्च जरामृत्Ḹ Ḷ | (९.१३५.२९)| जन्मादिदोषसम्पर्कः निर्गुणत्वमपूर्णता | असर्वज्ञत्वमज्ञत्वमभेदो जडजीवयोः | (९.१३५.३०)| जडयोर्जीवयोर्वाऽपि जडसर्वेशयोरपि | अनधीनं जगद्विष्णोरस्वातन्त्र्यं हरेस्तथा | (९.१३५.३१)| स्वतन्त्रता चजीवस्य सर्वज्ञत्वमदुःखिता | विष्णोः प्राकृतदेहादिः स्वावतारविपर्ययः | इत्यादौ प्रघसाद्भेदात् ग्राह्योऽर्थस्त्वविरोधतः | (९.१३५.३२)| प्रामाण्यमेकदेशस्यान्यस्यैवाप्रमाणता | यत्र तत्रोक्षणाद् भेदात् ग्राह्योऽर्थो न चापरः | (९.१३५.३३)| उक्तं रामायणे गङ्गापार्वत्यौ हिमवत्सुते | रुद्रस्य वल्लभेऽतस्तं गङ्गाधरमुमापतिम् | (९.१३५.३४)| प्राहुस्तत्रेतरद्ग्राह्यं प्Ḹउर्वं त्याज्यं सतां मते | उच्छिष्टं शिवनिर्माल्यं वमनं मृतकर्पटम् | (९.१३५.३५)| xचिx.क्Ḹअकविष्टासमुद्भूतं पञ्च पूतानि भारत | इत्यादौ उक्षणाद् भेदात् तत्त्वं निश्चीयते बुधैः | (९.१३५.३६)| क्रमं च व्युत्क्रमं त्यक्त्वा यत्र बोधः क्रमोद्गमः | तत्रैव सुधुराद्भेदाद् ग्राह्योऽर्थो बहुसम्मतः | (९.१३५.३७)| रूपं शब्दश्च गं धश्च स्पर्शश्चापि तथा रसः | व्योमादिपञ्चभूतानां गुणा ह्येते विशेषतः | (९.१३५.३८)| इत्युक्तं पञ्चरात्रे तु भेदाण्स्च सुधुरात् तथा | तत्र नोक्तप्रकारेण ग्राह्योऽर्थस्तु यथाक्रमम् | (९.१३५.३९)| कल्पभेदात् कथाभेदो यत्रोक्तस्सत्कथासु च | तत्रोभयं ग्राह्यमेव दुष्य्Ḹअं शो नैव वर्तते | (९.१३५.४०)| तत्र साधुप्रभेदेन सङ्ग्राह्यस्तत्त्वनिर्णयः | उक्तं भागवते षष्ठस्कन्धे व्यासेन तत्त्वतः | (९.१३५.४१)| इन्द्रो हत्वाऽकरोत् त्वाष्ट्रं विश्वरूपं द्विजोत्तमम् | ब्रह्महत्यापीडितस्तु ब्रह्माणं शरणं ययौ | (९.१३५.४२)| चतुर्मुखश्चतुर्धा तं विभज्य प्राक्षिपन्महान् | भूमौ वारिषु वृक्षेषु नारी ऋतुषु क्रमात् | (९.१३५.४३)| उषरं द्Ḹउषितं भूमौ फेनं दुष्टं जलेषु च| स्रव्यं द्Ḹउष्यं च वृक्षादौ ह्यङ्गना ऋतुदूषिता | हत्यामुक्तः शचीनाथः पुनः स्वर्गमपीपलत् | (९.१३५.४४)| श्रीभविष्यत्पुराणे तु इत्यर्थो व्यासचोदितः | वृत्रहत्यां विभज्याथ क्षिप्तवान् स चतुर्मुखः | (९.१३५.४५)| वह्नौ प्रथमजातासु ज्वालासु च नदीषु च| पर्वताग्रेषु विप्रेन्द्र नारीऋतुषु तां क्रमात् | (९.१३५.४६)| इत्यादौ साधुभेदेन कीर्तितं कल्पभेदतः | तत्रोभयं ग्राह्यमेव सप्तभेदाः प्रकीर्तिताः | (९.१३५.४७)| इदं रहस्यं परमं गुह्यं यच्छ्रुतं श्रीहरेर्मुखात् | तत्ते समासतः प्रोक्तं ज्ञ्Ḹअत्वा मुक्तिं गमिष्यसि | तदुक्तमविविच्यैव मुक्तिः कस्यापि नो भवेत् | (९.१३५.४८)| इति व्यत्यासादिसप्तभेदप्रतिपादकपुराणवाक्यसङ्ग्रहः ᳚ | च्.तस्मान्निर्णयशास्त्रत्वाद् ग्राह्यमेतद् बुभूषुभिः
9.137 SK इतीरिता रामकथा परा मया समस्तशास्त्रानुसृतेर्भवापहा | पठेदिमां यः शृणुयादथापि वा विमुक्तबन्धश्चरणं हरेर्व्रजेत्
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).
Source