SKइति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये (यागसमाप्तिर्नाम) त्रिं शोऽध्यायः च्द्xल्वि.(धृतराष्ट्रादिस्वर्गप्राप्तिः ) अथ एकत्रिं शोऽध्यायः Oं | यज्ञेश्वरेणाभियुतेषु युक्त्या महीं प्रशासत्सु पृथासुतेषु | यियक्षुरागान्निशि विप्रवर्यो युधिष्ठिरं वित्तमभीप्समानः
SKप्रातर्ददानीति नृपस्य वाक्यं निशम्य विप्रस्त्वरितो मखार्थे | भीमं ययाचे स नृपोक्तमाण्सु निशम्य चादान्निजहस्तभूषणम्
SKअनर्घमग्निप्रतिमं विचित्ररत्नाञ्चितं विप्रवरस्तदाप्य | ययौ कृतार्थोऽथ च नन्दिघोषमकारयद् वायुसुतस्तदैव
SKअकालजं तं तु निशम्य राजा पप्रच्छ दूतैस्तमुवाच भीमः | यन्मर्त्यदेहोऽपि विनिश्चितायुरभून्नृपस्तेन ममाऽस हर्षः
SKइतीरितोऽसौ नृपतिस्त्वरेत धर्मार्थमित्यस्य मतं प्रपूजयन् | जगाद साध्वित्यथ भूय एव धर्मे त्वरावानपि सम्बभूव
SKअथाम्बिकेयं विषयेषु सक्तं दुस्सङ्गदुष्टं कृतभूरिदोषम् | समस्तराजाप्ययहेतुभूतं निचाय्य तं म्Ḹअरुतिरन्वकम्पत
SKअकुर्वतस्तीक्ष्णतपः कुतश्चिन्नैवास्य लोकाप्तिरमुष्य भूयात् | रागाधिकोऽयं न तपश्च कुर्यादित्यस्य वैराग्यकराणि चक्रे
SKआज्ञ्Ḹअं परैरस्य निहन्ति सोदरैर्वधूजनैरप्यतिपूजितेऽस्मिन् | स निष्टनत्येवमपीतरैः स सुपूजितो नाऽस तदा विरागः
SKसर्वे हि पार्थास्तमृते सभार्या वैचित्रवीर्यं परमादरेण | पर्येव चक्रुः सततं सभार्यं कृष्णा च नस्यात् तनयार्तिमानिति
SKस प्रीयमाणो नितरां च तेषु नैवाधिकं प्रीयते भीमसेने | स्मरन् सुतां स्तेन हतान् समस्तानपि प्रभावं परमस्य जानन्
SKतस्यापनेतुं विषयेषु सक्तिं द्वेषं तथैवाऽत्मनि भीमसेनः | जगाद माद्रीसुतयोः समक्षमास्फोट्य सं शृण्वत एव तस्य
SKच्द्xल्विइ.ताविमौ मे भुजौ वृत्तौ पीनौ चन्दनरूषितौ | ययोरन्तरमासाद्य जरढस्य सुता हताः
SKयमौ तदन्वमोदेतां तत्स्नेहाद् गौरवादपि | नैव तत् कृष्णया ज्ञ्Ḹअतं पृथया च सपुत्रया
SKतच्छ्रुत्वोत्पन्ननिर्वेदं क्षत्ता ज्येष्ठस्य वर्द्धयन् | उवाच जीविताण्सा ते ननु राजन् महीयसी | भीमापवर्जितं पिण्डमादत्से गृहपालवत्
SKनचापराधो भीमस्य ब्रुवतस्त्वामिदं वचः | अग्निर्निसृष्टो दत्तश्च गरो दाराण्स्च दूषिताः | हृतं क्षेत्रं धनं यस्य किं भीमेन कृतं त्वयि
SKअलमासज्जतस्तेऽद्य निर्वेदकरमीरितम् | उपकाराय भीमेन तव द्वेषं त्यजात्र तत्
SKविमुच्य द्वेषकामौ त्वं वने तीर्थनिषेवकः | तपसाऽराधय हरिं ततः पूतो भविष्यसि
SKइत्युक्तो द्वेषमुत्सृज्य भीमे निर्वेदमागतः | अनुज्ञ्Ḹअं तपसे प्राप्तुमुपवासपरोऽभवत्
SKअनश्नन्तं चतुर्थेऽह्नि धृतराष्ट्रं युधिष्ठिरः | ज्ञ्Ḹअत्वा सम्प्रार्थयामास भोजनार्थं पुनः पुनः
SKअनुज्ञ्Ḹअं वनवासाय त्वत्तः प्राप्यैव सर्वथा | भोक्ष्येऽन्यथा नेति वदन् धृतराष्ट्रः श्रमान्वितः | उपवासकृशो भार्यां शिश्रिये मूर्च्छितः क्षणात्
SKशन्तमेन करेणाथ धर्मजस्तं मृदु स्पृशन् | शनैः सञ्ज्ञ्Ḹअमगमयदब्रवीच्च सुदुःखितः
SKपुरस्कृत्य युयुत्सुं त्वं कुरु राज्यमकण्टकम् | च्द्xल्विइइ.वयमेव त्वदर्थाय कुर्मः सर्वे तपो वने
SKनेत्याह धृतराष्ट्रस्तं कुलधर्मो हि नो वने | अन्ते देहपरित्यागस्तन्माऽनुज् ञ्Ḹअतुमर्हसि
SKतयोर्विवदतोरेवं कृष्णद्वैपायनः प्रभुः | सर्वज्ञः सर्वकर्तेश आविर्भूतोऽब्रवीन्नृपम्
SKतपसाऽशेषदोषाणां क्षयकाममिमं नृपम् | अनुजानीहि नैवास्य धर्मविघ्नकरो भव
SKक्Ḹअले निर्वेदमापन्नस्तपसा दग्धकिल्बिषः | शुभ्रां गतिमयं य्Ḹअयादन्यथा न कथञ्चन
SKइत्युक्तो धर्मराजस्तमनुजज्ञे स चाण्सितः | शिक्षयामास सद्धर्मान् नीतिं च विदुषेऽप्यलम् | केवलस्नेहतो राज्ञे शुश्राव विनयाय सः
SKअनुज्ञ्Ḹअय गृहं प्राप्ते धर्मजे विदुरं पुनः | श्राद्धाय वित्तमाकाङ्क्षन् प्रेषयामास तद्वचः
SKश्रुत्वा युधिष्ठिरो भीममाह दातव्यमद्य नः | पुत्रपौत्राप्तबन्धूनां श्राद्धेच्छोर्वित्तमञ्जसा
SKतमाह भीमः प्Ḹअपानां विमुखानां मधुद्विषः | प्Ḹअरलौकिकसाहाय्यं न कार्यमितरार्थतः | दत्तेनापि हि वित्तेन पुत्रश्राद्धं करिष्यति
SKतज्ज् ञ्Ḹअत्वा ददतां दोषो भवेदिति विचिन्तयन् | कष्टात् कष्टतरं य्Ḹअन्तु सर्वे दुर्योधनादयः
SKभीष्म्Ḹअदीनां वयं श्राद्धकर्तारस्तेन किं ततः | क्Ḹअनीनत्वात्तु कर्णस्य सहास्माभिः पृथैव हि | श्राद्धकर्मण्यधिकृता किं तस्मै दीयते धनम्
SKच्द्xलिx.इत्युक्तवन्तं नृपतिरर्जुनश्चोचतुः पुनः | यियासोर्याचमानाय निजबाहुबलार्जितम् | देहि वित्तं परमतः किं त्वामेषोऽभियाचते
SKइत्युक्तमपि नेत्येव ब्रुवाणं शुद्धधार्मिकम् | अप्रीत्या जोषमास्वेति प्रोच्योवाच युधिष्ठिरः
SKकोशतो यद् बहिर्वित्तं द्Ḹअनभोगादिकारणम् | मम सन्निहितं सर्वं तत् पित्रेऽद्यार्पितं मया
SKएवमेवार्जुनोऽप्याह विदुरं पुनरूचतुः | मुख्यधर्मरते भीमे न पिता क्रोद्धुमर्हति | इत्युक्तो वित्तमादाय गत्वा क्षत्ताऽग्रजेऽब्रवीत्
SKयुधिष्ठिरार्जुनौ भक्तिं नितरां त्वयि चक्रतुः | न्Ḹअतिहृष्टस्त्वदाज्ञ्Ḹअयां भीमस्तन्मा क्रुधोऽत्र च
SKशुद्धे क्षत्रियधर्मे हि नितरोऽयं वृकोदरः | नृप्Ḹअर्जुनौ धर्मरतावपि लोककृप्Ḹअपरौ
SKअजातकोपस्तच्छ्रुत्वा धृतराष्ट्रः प्रशान्तधीः | कृत्वा ण्स्राद्धानि सर्वेषां महादानान्यनारतम् | दशरात्रं ददौ शुद्धमनसा निरृणत्वधीः
SKसर्वं समर्प्य गोविन्दे पार्थेभ्योऽन्येभ्य एव च | स्वजनेभ्यः समादाय स्रवन्नेत्रेभ्य उच्चधीः | अनुज्ञ्Ḹअं निर्गतः प्राह पौरजानपदान् नृपः
SKधर्मतो रक्षिता यूयमस्मत्पूर्वैर्महात्मभिः | नचाहं परमस्नेहाद् युष्म्Ḹअभिः सुकृप्Ḹअलुभिः | अरक्षितेति कथितः प्रमादादपि सज्जनाः
SKइष्टं च यज्ञैः पूर्तैश्च चरितं युष्मदाण्स्रयात् | पुत्रस्तु मम पापात्मा सर्वक्षत्रविनाण्सकः | सर्वातिशङ्की मूढश्च वृद्धानां शासनातिगः
SKच्द्ल्.सौभ्रात्रं येन सन्त्यज्य पाण्डवेषु महात्मसु | कृतं विरूपं सुमहत् कुर्याद् यन्नापरः क्वचित्
SKअप्रियाणि च कृष्णस्य सुबहून्याचरत् कुधीः | प्रायस्तेनापि मन्देन न युष्म्Ḹअस्वशिवं कृतम्
SKभ्रातरोऽस्य च सर्वेऽपि तच्छीलमनुवर्तिनः | हताण्स्च स्वेन पापेन ससुतामात्यबान्धवाः
SKसोऽहं वयोगतश्चैव पुत्राधिभिरभिप्लुतः | तत्सम्बन्धकृतं प्Ḹअपं स्वकृतं च्Ḹअत्यपेशलम् | प्Ḹअण्डवेषु सकृष्णेषु तपसा मार्ष्टुमुद्यतः
SKतत्र मामनुजानीध्वं कृपया मित्रवत्सलाः | मत्प्रियार्थमपि स्नेहः प्Ḹअण्डवेषु महात्मसु
SKक्रियमाणोऽपि कर्तव्यो भूय एव सदाऽचलः | ते हि मे पुत्रकाः सन्त इहामुत्र च सौख्यदाः
SKइत्युक्तैः स्वगुणानुच्चैः कीर्तयद्भिः सुदुःखितैः | पर्यश्रुनयनैः कृच्छ्रात् पौरजानपदैश्चिरात् | अनुज्ञ्Ḹअतो ययौ पार्थैरनुयातः सुदूरतः
SKसञ्जयो विदुरश्चैनं सभार्यमनुजग्मतुः | अनुवव्राज तं कुन्ती वनाय कृतनिश्चया
SKव्Ḹअर्यमाणाऽपि तनयैः सभार्यैर्भृशदुःखितैः | सं स्थाप्य तान् सुकृच्छ्रेण ययौ साऽन्वेव तं नृपम्
SKसं न्दर्शितपथो राजा कुन्तीविदुरसञ्जयैः | ग्Ḹअन्धारीसहितः प्राप कुरुक्षेत्रे जगद्गुरोः | क्रमेणैवाऽश्रमं व्यासदेवस्य सुरपूजितम्
SKत्रिवत्सरादस्य निजस्य लोकस्याऽप्तिं सभार्यस्य जगाद तत्र | च्द्लि.ब्रह्माङ्कजस्तेन भृशं प्रतीतो व्यासोपदिष्टं व्यचरत् तपोऽग्र्यम्
SKसक्षत्तृग्Ḹअन्धारिपृथे ससञ्जये तपोभिराराधयति प्रभुं हरिम् | वैचित्रवीर्येऽत्र सदारबन्धुभृत्यास्तु पार्था दृशये समाययुः
SKक्षत्तैकतामत्र युधिष्ठिरेण प्राप्तोऽथ भार्यासहितं ससञ्जयम् | उपासमानेषु विचित्रवीर्यपुत्रं पृथां चैव पृथासुतेषु
SKप्रादुर्बभूवामितशक्तितेजोज्ञ्Ḹअनाद्भुतैश्वर्यसुखादिर् ऊपः | व्यासो हरिस्तत्र समीक्ष्य सर्वे सम्पूजयामासुरुदग्रभक्त्या
SKतैः पूजितस्तत्र निषण्ण आह यद्यद् यदिष्टं प्रवदन्तु तत्तत् | द्Ḹअस्यामि तस्याद्य तदित्यमुष्मिन् भक्त्युच्छ्रयः प्Ḹअण्डुसुतैः सदारैः | वृतोऽत्र कुन्ती रविसूनुजन्ममृत्यूत्थदोषापगमं ययाचे
SKतेषां प्रदत्तेष्वभिवाञ्छितेषु वैचित्रवीर्यः सह भार्ययैव | सम्मन्त्र्य निः शेषरणेहतानां सन्दर्शनं प्रार्थितवां स्तमीशम्
SKततस्तु ते सत्यवतीसुतस्य सर्वेश्वरस्याऽज् ञया सर्व एव | समागताः स्वर्गलोकात् क्षणेन दत्ता चदिव्या दृगमुष्य राज्ञः
SKऊषुण्स्च रात्रिं परमाज्ञयैव सर्वे स्वभार्यासहिता यथा पुरा | तृप्तः सदारो नृपतिश्च तत्र सर्वेऽपि दृष्ट्व्Ḹअ महदद्भुतं तत्
SKअथाऽज् ञयैवास्य परस्य सर्वाः स्त्रियो निजेशैः सहिता ययुः स्वम् | विनोत्तरां तां तु कथां निशम्य पारीक्षितोऽयाचत तातदृष्टिम्
SKतं च्Ḹअऽनयामास तदैव कृष्णो ह्यचिन्त्यशक्तिः स विकुण्ठलोकात् | दृष्ट्व्Ḹअ सपारीक्षित आप तुष्टिं स्वतातमीशेन समाहृतं पुनः
SKसम्पूज्य तं कृष्णमपीशवन्द्यं क्षमापयामास परीक्षिदात्मजः | चक्रे च विस्रम्भमतीव भारते पुनश्च तत्रत्यजनैः समेतः
SKप्Ḹअर्थाः पुनः प्राप्य पुरं स्वकीयं धर्मेण पृथ्वीं परिपालयन्तः | भोगानरागा अजुषन्त योग्यान् युक्ता जगद्धातरि वासुदेवे
SKच्द्लिइ.वर्षत्रयान्ते त्मसमाहिताग्निं त्यक्ताग्निभिस्तैर्वनमालिहद्भिः | ते शुश्रुवुर्धृतराष्ट्रं सभार्यं सहैव कुन्त्या परिदग्धदेहम्
SKव्रील् . आमुखा ध्यानपरा निशम्य स्वर्यातमात्मीयपितृव्यमाण्सु | समेत्य भर्त्रा प्रतिपूज्यमानां कुन्तीं च तप्ता विदधुः क्रियाण्स्च
SKते विष्णुभक्त्या परिपूतकर्मभिर्ज्ञ्Ḹअनेन चान्ते तमनुस्मरन्तः | प्Ḹअर्थैः सुपुत्रैः सुकृतोर्ध्वकर्मभिर्वृद्धिं सुखस्याऽपुरनप्ययां शुभाम्
SKग्Ḹअवद्गणिर्व्याससकाण्समेत्य शुश्रूषया तस्य पुनर्निजां गतिम् | प्रपेदिवान् पाण्डुसुताण्स्च कृष्णं प्रतीक्षमाणाः पृथिवीमशासन्
SKअष्टादशाब्दाः पृथिवीं समस्तां प्रशासतामेवमगुर्महात्मनाम् | अरिक्तधर्मार्थसुखोत्तमानामनुज्झितानन्तपदस्मृतीनाम्