Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 32

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये (धृतराष्ट्रादिस्वर्गप्राप्तिर्नाम) एकत्रिं शोऽध्यायः च्द्लिइइ.(पाण्डवस्वर्गारोहणम्) अथ द्वात्रिं शोऽध्यायः Oं | ततः कुरुक्षेत्रमवाप्य कृष्णो दीक्षां प्रपेदे द्विषडब्दसत्रे | स एव च व्यासभृगूद्वहात्मा चक्रेऽत्र सादस्यमजोऽप्रमेयः
SK
तत्रर्त्विजो दक्षभृगुप्रधानाः प्Ḹअर्था यदूनां प्रवरैः समेताः | ब्रह्मेशशक्रप्रमुखाः सुराण्स्च चक्रुः सुसाचिव्यमनन्तदासाः
SK
सर्वे च जीवा वसुधातल् . अस्था येऽन्येऽन्तरिक्षद्युमुखोत्तरेषु | वसन्ति नारायणपादसं श्रयास्ते चात्र सर्वे मुमुदुः सनागाः
SK
सुनिर्णयस्तत्त्वविनिर्णयार्थिनां तत्त्वस्य चाभूदिह वादशीलिनाम् | मिथो विवादात् सुरभूसुराणां व्Ḹअक्याद्धरेर्व्यासभृगूद्वहात्मनः
SK
धर्मार्थकामानखिलानवापुस्तदर्थिनो मुक्तिमपीह कृष्णात् | यथेष्टपानाण्सनवाससो जना विचेरुरत्रामरमानवादयः
SK
क्षेत्रं तदासीद्धरिलोकसम्मितं यदीयुरत्राखिलसज्जना युतिम् | न्Ḹअनाप्तकामाण्स्च ततो बभूवुर्निर्यत्नदृश्यश्च यतोऽत्र केशवः
SK
द्वादशाब्दं महासत्रमेवमेतादृशं हरिः | समाप्यावभृथस्नातः पूजयित्वाऽखिलान् जनान्
SK
अनुजज्ञे क्रमेणैव वत्सरेण समागतान् | स्वकुलं सञ्जिहीर्षुः स विप्रशापमजीजनत्
SK
उपदिश्य परं ज्ञ्Ḹअनमुद्धवायामुमाण्स्रमम् | बदर्याख्यं प्रापयित्वा सप्तमाब्दं शतोत्तरम् | प्रतीक्षन् पालयामास पार्थैः सह भुवं प्रभुः
SK
समारब्धं कलियुगं यदा दुर्योधनोऽपतत् | षट्त्रिं शाब्दं पुनः कृष्णः कृतमेवान्ववर्तयत्
SK
कृतादपि विशेषोऽयं यत् पुण्यस्याधिकं फलम् | च्द्लिव्.अल्पमेव च पापस्य कालात् कृष्णाज्ञया तथा
SK
एवं सुधार्मिके लोके हरिभक्तिपरायणे | नष्टेषु कलिलि ङ्गेषु युगवृत्तिमभीप्सवः
SK
ब्रह्मरुद्रादयो देवाः स्तुत्वा केशवमव्ययम् | व्यज्ञ्Ḹअपयन् स्वलोकाप्तिं Oं इत्याह स चाच्युतः
SK
प्राचुर्ये सज्जनस्य स्यान्न कलेर्वृद्धिरञ्जसा | इति स्वकुलसं हृत्यै प्रभासमनयत् प्रभुः
SK
पुण्यक्षेत्रेऽपि न मृतिः स्वगृहे त्वतिधर्मदा | गत्यैवाल्पमपि क्षेत्रं स्यान्महत्फलमित्यजः
SK
प्रकाण्सयितुमेवैनान् प्रभासाय कुशस्थलात् | नीत्वा दानादिसद्धर्मां स्तैरकारयदच्युतः
SK
ते ततः शापदोषेण कृष्णेनैव विमोहिताः | मैरेयमत्ता अन्योन्यं निपात्य स्वां तनुं गताः | तद् दृष्ट्व्Ḹअ बलदेवोऽपि योगेन स्वतनुं ययौ
SK
ततः परेशोऽगणितानुभावः स्वसारथिं प्Ḹअण्डवानां सकाण्सम् | स्वलोकयानप्रतिवेदनाय स्वस्यानु चैषां त्वरयाऽभ्ययातयत्
SK
अथाऽसतः पिप्पलमूल ईशितुरूरुस्थितं प्Ḹअदतल् . अं सुताम्रम् | दृष्ट्व्Ḹअ जरा नाम ससर्ज शल्यं भक्तोऽप्यलं रोहितं शङ्कमानः
SK
अच्छेद्याभेद्यदेहस्य शल्ये पादमुपस्थिते | समीपमागतो व्याधो दृष्ट्व्Ḹअ भीतोऽपतद् भुवि
SK
विप्रवाक्यं म्Ḹअनयानः क्Ḹअरयित्वाऽमुना हरिः | प्Ḹअपं म्Ḹअं जहि देवेति याचन्तमनयद् दिवम्
SK
प्Ḹअदप्रहारदोषेण तं भृगुं व्याधतां गतम् | पश्चात्तापेन भक्त्या च सुप्रीतस्तच्छरीरिणम् | च्द्ल्व्.स्वाज्ञ्Ḹअप्राप्तविमानेन दिवं निन्ये जनार्दनः
SK
नीचा योनिर्नीचनीच कर्माऽप्तं नीचकर्मतः | अदुष्टत्वात्तु मनसो भक्तिलोपो नचाप्यभूत् | भृगोरत्राबुद्धिपूर्वं न्Ḹअतिदोषकृदप्यभूत्
SK
ततो विरि ञ्चेशपुरन्दराद्याः पुनः स्तुवन्तोऽभिययुः प्रणम्य | कृष्णं स चाऽश्वेव ययौ स्वलोकं स्वतेजसा सर्वमिदं प्रकाण्सयन्
SK
गोपालमन्त्रं भजतां फलप्रद एकेन र् ऊपेण स भुव्यदृश्यः | तस्थौ द्वितीयेन च सूर्यमण्डले तृतीयमासीच्छिवपूजितं वपुः
SK
सम्पूजितं ब्रह्मलोके चतुर्थं कञ्जोद्भवेनाथ परं स्वधाम | समाप्नुवानं वपुरस्य पञ्चमं भक्त्याऽन्वयुर्देववराः स्वशक्त्या
SK
तत्तेजसा ते प्रतिमुष्टदृष्टयः पुरुष्टुताद्या अमितोरुदीधितेः | य्Ḹअवत् स्वगम्यं त्वनुगम्य तस्थुर्निमीलिताक्षा विहतोर्ध्वचाराः
SK
वीन्द्रेशशेषानुगतः स्वयम्भूर्धाम प्रविष्टं तमजं प्रणम्य | वीन्द्रादिकैरप्ययुतः स्वपित्राऽश्लिष्टो रहश्चाकथयत् तथाऽस्तौत्
SK
स पूर्वरूपेण समाप्य चैक्यं विभज्य चेच्छानुसृतोऽथ रेमे | हरिः श्रिया ब्रह्ममुखैश्च मुक्तैः सम्पूज्यमानोऽमितसद्गुणात्मा
SK
ब्रह्माऽपि शर्वादियुतः स्वलोकं प्राप्तः पुनस्तत्र गतं च कृष्णम् | रेमेऽभिपश्यन् प्रतिपूजयं स्तं सुराण्स्च सर्वे रविबिम्बसं स्थम्
SK
यतो न दर्शिता भ्रान्तिः प्रादुर्भावेष्वपि क्वचित् | देहत्यागानुकारेण हरिणा तदिहाच्युतः
SK
मोहयित्वाऽसुरानन्धं तमः प्रापयितुं प्रभुः | चिदानन्दैकदेहोऽपि त्यक्तं देहमिवापरम् | सृष्ट्व्Ḹअ स्वदेहोपमितं शयानं भुव्यगाद् दिवम्
SK
द्Ḹअरुकोक्त्या समायातः प्Ḹअर्थस्तमदहत् तदा | च्द्ल्वि.रौहिणेयादिकानां च शरीराणि प्रधानतः | द्Ḹअरुको विष्णुलोकं तु पुनराप यथागतम्
SK
तथैव जनमोहाय प्राप्य वह्नावदृश्यताम् | रुग्मिण्यगाद्धरेः प्Ḹअर्श्वं सत्या कृत्वा तपस्तथा
SK
चिदानन्दैकदेहे हि द्विरूपे इव ते यतः | एकैवातः कृष्णवत् ते दुष्टान् मोहयतस्तथा
SK
अन्या महामहिष्यस्तु त्यक्त्वा देहं हुताण्सने | क्Ḹअण्स्चित् काण्स्चित्तु तपसा त्यक्तदेहा हरिं ययुः
SK
रौहिणेयादिकानां च भार्या वह्निमुखे तनुम् | त्यक्त्वा स्वभर्त्Ḹऋनेवाऽपुः सर्वा एव पतिव्रताः
SK
वसुदेवः प्Ḹअर्थमुखाच्छ्रुत्वैतद् योगमास्थितः | त्यक्त्वा देहं कश्यपत्वं प्राप कृष्णानुरागतः
SK
तस्यार्जुनोऽश्वमेधाग्नावन्त्यकर्माकरोत् तदा | त्यक्तदेहास्तस्य भार्या वह्नौ प्रापुस्तमेव च
SK
स्त्रियो बालां स्तथाऽदाय धनं चैव धनञ्जयः | विनिर्ययौ द्वारवत्यास्तां जग्रास च सागरः
SK
स्त्रीबालसहिते पार्थ एकस्मिन् पथि गच्छति | शापात् सुपापा Ḹअभीराः स्त्रीजनान् जह्रुरुद्धताः
SK
य्Ḹअस्ताः षोडण्ससाहस्रवनिताः शतसं युताः | कृष्णण्सापान्म्लेच्छवशं ययुर्दर्पनिमित्ततः
SK
ह्रियमाणे धने चैव वनितासु च वासविः | युयुत्सुर्गाण्डिवं सज्यं कृच्छ्रेणैव चकार ह
SK
क्षीणास्तस्य शरा दैवान्नास्त्राणि स्मृतिमाययुः | स तद् दैवकृतं ज्ञ्Ḹअत्वा सं स्मरन् पुरुषोत्तमम् | च्द्ल्विइ.निघ्नञ्छत्रून् गाण्डिवेन शेषं रक्षन् कुरूनगात्
SK
तदा कुरुक्षेत्रगतं जगद्गुरुं सुपूर्णविज्ञ्Ḹअनबलर्द्धिसत्सुखम् | तमेव वासिष्ठकुलोद्वहं हरिं निरीक्ष्य दुःखेन पपात पादयोः
SK
स तेन पुं सां प्रवरेण हेतुभिः सम्बोधितोऽज्ञ्Ḹअनतम्ॐ शुमालिना | सं स्थाप्य चेतः पुनरेव तस्मिन् जहौ शुचः प्रायश एव धैर्यात्
SK
स्त्रियो म्लेच्छहृताः कृष्णप्रेषिताद् दाल्भ्यतः पुनः | गोविन्दैकादशीं श्रुत्वा कृत्वा सारस्वते जले | निमज्ज्य वायोर्वचनात् त्यक्तदेहा दिवं ययुः
SK
अर्जुनस्तु कुरुक्षेत्रे हार्दिक्ययुयुधानयोः | सुतौ सारस्वते चैव देशे राज्येऽभ्यषेचयत्
SK
अनिरुद्धसुतं वज्रं प्रियं कृष्णस्य सद्गुणम् | सशूरसेनेन्द्रप्रस्थराजानमकरोद् वशी
SK
स्त्रीबालां श्च धनं चैव तस्मिन् सं स्थाप्य फल्गुनः | ययौ भ्रात्Ḹऋनशेषं च वृत्तं तेषामवर्णयत्
SK
ते चावियोगसमयं स्मरन्तो मुरवैरिणा | अभ्यषिञ्चन् भागवतं म्Ḹअहाराज्ये परीक्षितम्
SK
स्त्रीहारिणां च म्लेच्छानां वधायैनमयोजयन् | कृतं च तेन तत् कर्म वोढ्रा पैतामहं धुरम् | समयं परिरक्षद्भिर्न पार्थैरेव यत् कृतम्
SK
व्Ḹअसुदेवपदा स्पृष्टभूकण्टकसमुद्धृतिः | समयः प्Ḹअण्डवानां हि तस्यैवानुगतिः परम्
SK
अनुव्रजद्भिर्विश्वेशं न्Ḹअस्माभिर्भूस्तदुज्झिता | भोज्या रक्ष्य्Ḹअऽपि वा तेषामित्येव समयः पुरा
SK
तत्र काल् . ई भीमभार्या वैष्णवं योगमास्थिता | च्द्ल्विइइ.कृष्णयैकत्वमापन्ना त्यक्त्वा देहं तु मानुषम्
SK
सुभद्राद्यास्तु या भार्याः प्Ḹअर्थानां तु तदाज्ञया | युयुत्सुश्चात्र शिक्षार्थं पौत्रस्यैवावसन् पुरे
SK
सन्त्यज्य राज्यचिह्नानि वैष्णवं योगमास्थिताः | वीराध्वानं ययुः सर्वे कृष्णया सह पाण्डवाः
SK
प्रागुदीचीं दिशं पूर्वं ययुस्तत्रार्जुनो धनुः | न्Ḹअत्यजल्लोभतस्तं तु समुद्रमुप पावकः | दृष्ट्व्Ḹअ ययाचे राजानं तदुक्तः प्रास्यदम्बुधौ
SK
प्रातिभाव्यं तु वरुणे निस्तीर्याग्निरदृश्यताम् | ययौ तेऽपि ययुः क्षिप्रं प्लवन्तः सप्तवारिधीन्
SK
अहोभिः सप्तभिर्योगं समारूढ्Ḹअः प्रदक्षिणम् | कृत्वा क्वचिदसज्जन्त आसेदुर्गन्धमादनम् | अत्र नारायणक्षेत्रे तेषां तन्वोऽपतन् क्रमात्
SK
द्रौपदीसहदेवादिपञ्चानां तत्र मारुतिः | सदेहनाकानिच्छुत्वाद् देहप्रपतनं हि तत्
SK
तेषामिहेति याथार्थ्यं जानन् पप्रच्छ धर्मजम् | केनकेनापतद् देहो दोषेण न इति क्रमात्
SK
मृतिकाले हि यो यस्य दोषं वक्त्यृणमोचनम् | तस्मात् स्यादुक्तदोषस्येत्याह यच्छ्रुतिरेव तत् | ऋणमोक्षाय सर्वेषां भीमो दोषानवादयत्
SK
सोऽपीच्छापतितान् देहानजानञ्छुद्धकर्मणाम् | अपश्यन् कारणं प्राह दोषान् स्यादेवमित्यपि | राजा सम्भावनामात्रं नहि कार्यमकारणम्
SK
᳚स्वच्छन्दमृत्यवो योगाद् देहानुत्सृज्य पाण्डवाः | कृष्णा चाऽपुः परं स्थानं यन्न यान्त्यपि देवताः ᳚ | च्द्लिx.इति श्रुतेर्न ते पापाद् देहां स्तत्यजुरूर्जिताः
SK
᳚ऋणान्युन्मुच्य दोषोक्त्या स्वानां भीमः स्वकां तनुम् | तत्याज परमं ध्यायन्नाप च स्थानमुत्तमम्᳚ | इति स्कान्दपुराणोक्तं व्यासवाक्यमृषीन् प्रति
SK
भीमादृते हि चतुर्षु पक्षपातस्तु वासवौ | योग्य एवेति कृष्णाया न दोषः स्यात् कथञ्चन
SK
नीतिर् ऊपे वीर्यबले महान्त्येषां यतः क्रमात् | प्राणत्वाद् भोगशक्तिश्च नहि दोषाय मारुतेः
SK
᳚यथास्वरूपविज्ञ्Ḹअनमात्मन्यपि न दोषकृत्᳚ | इति व्यासस्मृतेरेषामुक्तदोषोद्भवः कथम्
SK
कदाचिदतिमानोऽपि त्रयाणामेषु जायते | तथाऽपि तत्फलं नैतत् तारतम्यं हि मुक्तिगम् | गुणदोषाधिकाल्पत्वादत्रस्थमपि हि श्रुतम्
SK
आरब्धकर्मनाण्से हि पतेद् देहोऽप्यपापिनः | युधिष्ठिरोऽपि हि स्वर्गं बुभुजे नैव तत्तनुः
SK
अतिमानादयो दोषाः कुत एव हि मारुतेः | अनादिकालतः सर्वदोषहीना गुणाधिकाः
SK
सर्वजीवगणेभ्यो ये ते हि वायुत्वमाप्नुयुः | ऋजवो नाम ये देवा देवानामपि देवताः
SK
अभावं ह्यतिमानादेर्भीमस्याऽह च केशवः | ᳚यत्किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव | सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्᳚
SK
इति तस्माद् यथा युद्धे धर्महानिममन्यत | एवमत्राप्यधर्मेण देहपातं नृपोऽब्रवीत्
SK
च्द्ल्x.पूज्येभ्यः पूर्वमेवैषां देहपातमभीप्सताम् | तत्कामाद् देहपातोऽभून्न पापान्मुच्यतां यथा
SK
नहि पापफलान्मुक्तौ देहपातः कथञ्चन | किन्तु कर्मक्षयादेव तथा सर्वत्र निश्चितः
SK
तेषु स्वलोकान् प्राप्तेषु धर्मजश्चाऽत्मना सह | ययौ पुरो देवरथस्तदाऽस्यावततार ह
SK
रथमारुहेति कथितो रथिना पुरतः शुनः | आरोहमब्रवीन्नैतद् युक्तमित्याह सोऽपि तु
SK
न्Ḹअऽरुहेयं विना ण्स्वानमिति तेन स्थिरोदिते | स्वरूपं दर्शयामास धर्मो ह्याप्तः श्वरूपताम्
SK
आनृशं स्यपरत्वेन कीर्तिमेवाऽत्मनो वृषः | ख्यापयामास कौन्तेयरूपिणो धर्मसूक्तिभिः
SK
ततः स रथमारुह्य लोकानामुत्तरोत्तरम् | अतिक्रम्याखिलान् राज्ञो जगाम श्रीपतिप्रियः
SK
सर्वेषामुत्तरं लोकमैन्द्रं प्राप्येदमेव ते | स्थानमित्युदितो देवैर्दुर्योधनमवैक्षत | सभ्रातृकं ज्वलन्तं च सर्वेषामुपरि स्थितम्
SK
तं दृष्ट्व्Ḹअ परमक्रुद्धो निमील्य नयने शुभे | भ्रातरो मे क्व कृष्णा च सकर्णाः क्व च बान्धवाः | धृष्टद्युम्नादयः पुत्रा हैडिम्बाद्याण्स्च सर्वशः
SK
य्Ḹअदवश्चेति पप्रच्छ देवां स्ते च तमब्रुवन् | किं ते तैः स्वकृतं कर्म भुज्यतेऽत्र नचापरैः
SK
इत्युक्त आह पापोऽयं पृथिवीक्षयकारकः | सर्वातिशङ्की मित्रध्रुङ् नारायणपराङ्मुखः
SK
च्द्ल्xइ.न्Ḹअस्तिकोऽतिशठः क्रूरो द्वेष्टा विष्णोण्स्च तद्भुवाम् | कथं दुर्योधनः स्थानं सर्वोत्तममवाप्तवान्
SK
कथं च सर्वधर्मज्ञ्Ḹअ नारायणपरायणाः | सं स्थिताः परमे धर्मे दृश्यन्तेऽत्र न मत्प्रियाः
SK
यत्र सन्तस्तु ते सन्ति तत्र स्थातव्यमेव मे | निरयेऽपि नचात्रापि नानेन सह पापिना | अस्य वीरतमस्येदं धार्तराष्ट्रस्य युज्यते
SK
इत्युक्ता देवत् आ दूतं स्वानां सन्दर्शनार्थिनः | राज्ञः सम्प्रेषयामासुस्तत्सन्दर्शितवर्त्मना
SK
दुर्गन्धेन सुकृच्छ्रेण तमसा प्रावृतेन च | गत्वैव कियतीं भूमिं तद्दुर्गन्धासहो नृपः | इच्छन् निवर्तनं तत्र स्वानां व्Ḹअच इवाण्सृणोत्
SK
क्षणं तिष्ठ महाराज सन्निधानबलात् तव | वेदना नो न महतीत्येच्छ्रुत्वा युधिष्ठिरः
SK
के यूयमिति पप्रच्छ दीनध्वनिविशङ्कितः | भीमोऽहमर्जुनः कर्ण इत्याद्युक्तमिवाण्सृणोत्
SK
श्रुत्वा तत् कृपयाऽविष्टः शोकामर्षसमन्वितः | आह दूतं यथेष्टं त्वं गच्छ नाहमितो व्रजे
SK
नच स्वर्गेण मे कार्यं त्यक्त्वा स्वजनमीदृशम् | इत्युक्तः प्रययौ दूतस्तस्थावेव युधिष्ठिरः
SK
ततोऽत्र देवाः पुरुहूतपूर्वकाः समाययुः स्नेहवशाद् युधिष्ठिरे | तेष्व्Ḹअगतेष्वेव न तत्र वाचो दीना न दुर्गन्धतमोऽप्यपश्यत् | स्वर्गोत्तमं देशमपश्यदेतमभ्रान्तचेताः स युधिष्ठिरस्तदा
SK
आहात्र धर्मः पुनरात्मसद्यशः प्रकाण्सयन् पाण्डुसुताभिधं स्वम् | धर्माद् विशिष्टा हि सदाऽनृशं सता दृष्टा चसा त्वय्यधिका त्रिशो मया
SK
च्द्ल्xइइ.शक्रोऽप्युवाचैनमिदं मृषा ते प्रदर्शितं द्रोणकृते मृषागिरः | कृच्छ्रादिदं ते कथितं नचातिविस्रम्भ आसीत् तव कृष्णवाक्ये
SK
नह्याज्ञया वासुदेवस्य किञ्चित् पापं भवेत् सर्वविधर्मिणोऽपि | ब्रह्मापराक्ष्येऽपि विकर्म सूचकं प्रारब्धपापस्य विषाण्सनं यथा
SK
पश्यात्र भीमप्रमुखान् सुखस्थान् सम्पूज्यमानां स्त्रिदशैः सुरूपान् | कुतः परब्रह्मदृशां सुशुद्धसत्कर्मणां कृष्णपरायणानाम् | परेण योगेन विसृष्टतन्वां दुःखं भवेद् देववराधिपानाम्
SK
एते हि देवप्रवराः पृथिव्यां जाता भुवो भारजिहीर्षुमीशम् | प्रतोष्य तद्भावितबुद्धिकर्मभिः पुनश्च तेनैव सहाऽपिरे दिवम्
SK
न ते नृप्Ḹअद्यापि हि मानुषो गतो भावस्ततो द्वेष्टि सुयोधनादीन् | निमज्ज्य तद् विष्णुपदोदकेऽत्र विसृज्य देहं भज देवभावम्
SK
सुयोधनाद्या यदिमे सुपापा Ḹअरब्धकर्मक्षयमाप्य नित्ये | निः शेषसौख्योज्झितनित्यदुःखेऽवशाः पतिष्यन्त्यपुनर्निवृत्ताः
SK
देवां शजा ये तु समस्तशस्ते स्वमूलरूपं समवाप्य काले | स्वतारतम्यानुसृतां विमुक्तिं प्राप्स्यन्ति नात्रापि विचार्यमस्ति
SK
इत्युक्त आण्स्वेव निमज्ज्य गङ्गां धर्मात्मजस्तं प्रविसृज्य देहम् | सद्यो बभौ दैवमवाप्य कायं विसृष्टरोषादिसमस्तदोषः
SK
स तु प्रपश्यन् स्वजनं समस्तं स्वमूलरूपातिसमीपसं स्थम् | ददर्श भीमं च मरुत्समीपे मध्ये ज्वलन्तं मरुतां गणस्य
SK
ददर्श कृष्णामपि तत्समीपे श्रिया ज्वलन्तीं समतीत्य चान्याः | स्प्रष्टुं च सं स्कारवशादियेष निषिध्य तं प्राह सुराधिराजः
SK
एषा हि साक्षाज्जगतां प्रियस्य प्राणात्मनो जीववरेश्वरस्य | प्राणप्रिया ण्स्रीरिति नाम यस्याः शमात्मकेऽस्मिन् रमते यदेषा
SK
च्द्ल्xइइइ.युष्मच्चतुर्देहगतस्य वायोर्वायुप्रिया भीमतनोस्तथैव | भोगाय सृष्टा पुरुषोत्तमेन युष्मत्प्रियार्थं भवत् आं च दारैः
SK
प्रीतिस्ततो ह्यभ्यधिका बभूव भीमस्य चास्यास्तदनु स्म पार्थे | ततो भवत्स्वेव यथाक्रमेण गुणानुसारेण समीरणस्य
SK
इदा हिसा ण्सुद्धतनुः प्रजाता ण्सच्यादियोगापगताग्र्यदेहा | यूयं च सर्वे मरुतो विशेषसं योगहीनाः स्वशरीरसं स्थाः
SK
स्पर्शेऽपि नास्याः पवमानपत्न्याः सुपूतताऽलं भवत् आमिदानीम् | नचोत्तरत्रापि भवेत् कथञ्चिद् दिवौकसां म्Ḹअनुषदेहिनो यथा
SK
इतीरितं तं प्रतिसन्निवृत्तं विनाण्सयन् मानुषवासनां स्वयम् | समाण्स्लिषच्छुद्धतनुः स्तनोत्थो धर्मो हरेः सोऽभवदाण्सु तत्समः
SK
ततस्तु पार्था अखिलाः स्वमूलरूपैः सहैवाऽविविशुर्मुदाऽन्विताः | स्वीयानि धामानि ततोऽप्यनूनभोगाः सदा सन्न्यवसं श्च तत्र
SK
तत्रापि कृष्णेन समागमोऽभूत् पुरेव तेषामतितत्पराणाम् | चिक्रीड एभिः सहितस्तथैव कृष्णोऽपि तद्वत् सरथोऽर्जुनेन
SK
अन्ये च देवां शभवाः समस्ताः स्वमूलरूपैक्यमवापुराण्सु | कर्मक्षयादेव सुरेतरास्तु पुण्यक्षयं प्राप्य भुवि प्रजाताः
SK
चतुः सहस्रं त्रिशतोत्तरं ते सं वत्सराणामनुभूय दिव्यान् | भोगान् नरत्वेऽपि सदेश्वरोऽहमसज्जगच्चेति धियाऽप्नुवं स्तमः
SK
दुःखेऽपि तेषामिह तारतम्यं कलेः परं दुःखमिहाखिलाच्च | यथा विरि ञ्चस्य सुखं परं स्यान्मुक्तौ हरिद्वेषकृतो विशेषः
SK
केचित् पिशाचासुरराक्षसत्वमवाप्य विष्णोरपि तत्पराणाम् | द्वेषात् तमोऽन्धं त्वरया समाप्नुयुर्देवाः स्वकाले निजयोग्यमुक्तिम्
SK
चतुः सहस्रे त्रिशतोत्तरे गते सं वत्सराणां तु कलौ पृथिव्याम् | जातः पुनर्विप्रतनुः स भीमो दैत्यैर्निगूढं हरितत्त्वमाह
SK
च्द्ल्xइव्.तदैव कृष्णाऽपि भुवि प्रजाता प्रीत्यै हरेरन्धतमस्यपातयत् | महासुरान् विष्णुपरार्जुनाद्या कृते प्रजाता हरितोषणाय | पुनश्च ते स्थानमवाप्य सर्वे स्वीयं परान्ते तु विमुक्तिमाप्नुयुः
SK
व्Ḹअयुत्वमाप्तः स हनूमदं शो ब्राह्मं पदं प्राप्य वृकोदरश्च | व्Ḹअगीश्वरत्वं गतयैव कृष्णया सहैव मुक्तिं गमिताऽखिलोत्तमाम्
SK
भुवि द्युलोके च विरि ञ्चतायां मुक्तौ च ताभ्यामधिकं समस्तात् | सन्तोष्यते पूर्णगुणो रमेशः सदैव नित्योर्जिततद्रतिभ्याम्
SK
᳚भूषन् न योऽधि बभ्रूषु नम्नते᳚ ᳚बल् . इत्था तद् वपुषे धायि दर्शतम्᳚ | ᳚तां सु ते कीर्तिम् मघवन् महित्वा᳚ ८४ इत्यादिसूक्तानि च तत्प्रमाणम्
SK
अन्यानि वाक्यानि च वैदिकानि सपञ्चरात्रोक्तिपुराणकानि | पृष्टण्स्च भीष्मोऽत्र युधिष्ठिरेणैतन्मोक्षधर्मेष्वपि किञ्चिदाह
SK
एवं प्रयातेषु सुकेशवेषु स्वानेव लोकान् यदुपाण्डवेषु | परीक्षिदाद्यास्तु तदन्वयोत्था व्यासानुशिष्टाः पृथिवीमरक्षन्
SK
तै क्षेमकान्तैरिह भारतादिशास्त्राणि शृण्वद्भिरशेषविद्भिः | व्यासप्रभावाच्च कलौ च धर्मो ज् ञ्Ḹअनं च सुत्रातमगान्न नाण्सम्
SK
सं वत्सराणां तु सहस्रके गते प्राप्तेषु चद्यामखिलेषु सत्सु | दग्धा पुरा ये त्रिपुरं घ्नतैव रुद्रेण जाताः पृथिवीतल् . ए ते
SK
अदर्शनं सर्वमुनीन्द्रवृन्दैः सहैव सज्ज् ञ्Ḹअनमहानिदाने | व्यासे प्रयातेऽपि सुतत्त्वविद्या तत्सम्प्रदायादपि तैरवाप्ता
SK
उत्सादितत्वात्तु दुरागमानां तत्सम्प्रदायस्य च नाण्सितत्वात् | प्रसारितत्वाच्च सदागमानां प्Ḹअपा अपि ज् ञ्Ḹअनमवापुरेतत्
SK
शुना पुरोडाण्समिवावलीढं वेदश्रुतिं व्Ḹअऽन्त्यजनैरवाप्ताम् | ८४ Ṛग्वेद १.१४०.६, १.१४१.१, १०.५४.१ च्द्ल्xव्.अनन्तदुःखाप्तिसुयोग्यदैत्यैर्विद्यामवाप्तां तु न सेहिरे सुराः
SK
न्Ḹअवाग्गतिः क्वापि सुवेदिनां भवेत् प्राप्यं सुखं नित्यमवश्यमेभिः | प्राप्यं तमोऽन्धं त्वसुरैर्न मुक्तिः कदाचिदाप्या तदचिन्तयन् सुराः
SK
ज्ञ्Ḹअनप्रदानाय सतां तदन्यज्ञ्Ḹअनप्रणाण्साय च विष्णुनैते | क्लृप्तास्ततस्ते सविरि ञ्चशर्वा विज्ञ्Ḹअपयामासुरुपेत्य विष्णुम्
SK
क्षीरोदधेरुत्तरतीरविष्ठितैरभिष्टुतः सुष्टुतिभिः पुरुष्टुतः | प्रदाय तेषामभयं रमापतिः क्षणादभूच्चारुतमाकृतिः शिशुः
SK
यस्त्रैपुराणां प्रथमोऽत्र जातः शुद्धोदनेत्येव जिनेति चोक्तः | क्षेत्रे गयाख्येऽस्य शिशुं प्रजातं सम्प्रास्य दूरेऽत्र बभूव विष्णुः | अजानमानाः स्वशिशुं गतं तं शिशुं हरिं वीक्ष्य निजं स्म मेनिरे
SK
तेषां तदा वैदिककर्म वीक्ष्य सम्प्राहसत् तद्वपुषैव केशवः | तं जातमात्रं प्रहसन्तमीक्ष्य सुविस्मितैः पृष्ट उवाच विष्णुः | बुद्धोऽहमित्येव सुनित्यबोधाज्जगाद चैषामथ बुद्धदर्शनम्
SK
तथाऽप्यविश्वासमवेक्ष्य तेषां सस्मार देवानखिलान् जनार्दनः | विज्ञ्Ḹअय ते तस्य मनोगतं निजान् प्रचिक्षिपुर्हेतिगणानमुष्मिन्
SK
स जातमात्रः शिवपूर्वकाणां शूलादिहेतीरखिला निगीर्य | दैत्यातिमोहाय निजं च चक्रं स्वमुक्तमाण्स्वेव वशी समग्रहीत्
SK
तदासनत्वेन विधाय तस्मिन् समास्थितं देवगणाः प्रणम्य | जग्मुः स्वधामानि वचां सि चास्य स्वीचक्रुराण्स्वेव जिनादिदैत्याः
SK
ते ज् ञ्Ḹअनधर्मावपहाय पापा विमोहिता देववरेण सर्वे | जग्मुस्तमोऽन्धं क्षणिकं समस्तं ज्ञ्Ḹअनं नसच्चेति दृढं स्मरन्तः
SK
न्Ḹअरायणोऽप्याप्य सुरेन्द्रवृन्दं वृत्तं च तेषामखिलं निगद्य | पृष्टण्स्च तैराह निजं हृदिस्थं बौद्धागमार्थं सृतिबन्धमोचनम्
SK
क्षणादयं क्षणिकास्तद्विशेषा यतः प्रयान्त्येव निसर्गतोऽखिलाः | च्द्ल्xवि.ततः स्थिरत्वेऽपि विशेषसं श्रयादुक्तं क्षणस्थायि मया समस्तम्
SK
तद्वान् विशेषण्स्च यतो न भिन्नो सदा स्वनिर्वाहकशक्तियुक्तौ | अतः क्षणस्थायि समस्तमेतत् स्थिरात्मकं चेति हि नास्ति भेदः
SK
ज्ञोऽहं सदैकः परमो मयैतत् सदाऽननीयं हि यतोऽस्वतन्त्रम् | ज्ञ्Ḹअनात्मकं विश्वमतो मयोक्तं जडस्वरूपं च किमु स्म चेतनम्
SK
शं शीलकोऽहं यत एव चोच्चः शूनामकस्तद्धि मया निधेयम् | शून्याभिधं दोषविरुद्धरूपो दोषोज्झितोऽन्यस्त्वखिलादनामा | एनैव साद्यं त्वसदेव नामतस्त्वभाव एनैव भवेद् यतस्तत्
SK
इत्यादि बोद्धव्यमिदं समस्तं मयोदितं क्वापि न हेयमस्ति | इत्यादि देवान् प्रतिबोधयं श्च देवैः सहोवास स बुद्धदेवः | गत्वा स्वधामाप्यपरेण रूपेणाऽस्ते पृथक् चैकतनुर्यथेष्टम्
SK
ततस्तु बुद्धोदितपक्षसं स्थो जिनोऽपि चक्रे मतमन्यदेव | बौद्धेन जैनेन मतेन चैव दैत्यां शकाः प्रीतिमगुः समस्ताः
SK
प्रशान्तविद्येत्यभिधं तथाऽन्यद् बुद्धोक्तशास्त्रं त्रिदशा अवाप्य | तोषं ययुर्वेदसमस्तसारं य्Ḹअमास्थितानामचिरेण मुक्तिः
SK
अन्ये मनुष्य्Ḹअ अपि भारताद्यं सत्सम्प्रदायं परिगृह्य विष्णुम् | यजन्त आपुः परमां गतिं तन्न सेहिरे क्रोधवशादिदैत्याः
SK
शैवं तपस्ते विपुलं विधाय जगद्विमोहोर्जितशक्तिमस्मात् | प्राप्य प्रजाता भुवि मोहनं च चक्रुः कुतर्कैरभिदां वदन्तः
SK
तेषां प्रपाताय सतां च मुक्त्यै जन्माऽस भीमस्य यदुक्तमत्र | दुर्गा पुनर्विप्रकुलेऽवतीर्णा हनिष्यति व्रातमथासुराणाम्
SK
ततः कलेरन्तमवाप्य धर्मज्ञ्Ḹअनादिकल्याणगुणप्रहीने | लोके विरि ञ्चत्रिपुरघ्नशक्रपूर्वाः पयोब्धिं त्रिदशाः प्रजग्मुः
SK
न्Ḹअरायणस्तैः स्तुतिपूर्वमर्थितो भवाय लोकस्य स शम्भल् . आख्ये | च्द्ल्xविइ.ग्रामे मुनेर्विष्णुयशोऽभिधस्य गृहे बभूवाऽविरचिन्त्यशक्तिः
SK
कलेस्तु कात्कारत एष कल्की ज्ञ्Ḹअनं कलं कं सुखमेव तद्वान् | कल्कीति वा तेन समस्तदस्युविनाण्सनं तेन दिनाद् व्यधायि
SK
अधर्मवृत्तं विमुखं हरेश्च निहत्य निः शेषजनं तुरङ्गी | सं स्थापयामास स धर्मसेतुं ज्ञ्Ḹअनं स्वभक्तिं च निजप्रजासु
SK
इत्याद्यनन्तानि हरेरुदारकर्माणि रूपाणि च सद्गुणाण्स्च | नित्यव्यपेताखिलदोषकस्य ब्रह्मेत्यनन्तेति च नाम येन
SK
आनन्दतीर्थाख्यमुनिः सुपूर्णप्रज्ञ्Ḹअभिधो ग्रन्थमिमं चकार | न्Ḹअरायणेनाभिहितो बदर्यां तस्यैव शिष्यो जगदेकभर्तुः
SK
यस्तत्प्रसादादखिलां श्च वेदान् सपञ्चरात्रान् सरहस्यसङ्ग्रहान् | वेदेतिहासां श्च पुराणयुक्तान् यथावदन्या अपि सर्वविद्याः
SK
समस्तशास्त्रार्थविनिर्णयोऽयं विशेषतो भारतवर्त्मचारी | ग्रन्थः कृतोऽयं जगतां जनित्रं हरिं गुरुं प्रीणयताऽमुनैव | विनिर्णयो नास्त्यमुना विना यद् विप्रस्थितानामिव सर्ववाचाम्
SK
तद् ब्रह्मसूत्राणि चकार कृष्णो व्याख्याऽथ तेषामयथा कृताऽन्यैः | निगूहितं यत् पुरुषोत्तमत्वं सूत्रोक्तमप्यत्र महासुरेन्द्रैः | जीवेश्वरैक्यं प्रवदद्भिरुग्रैर्व्याख्याय सूत्राणि चकार चाऽविः
SK
व्यासाज्ञया भाष्यवरं विधाय पृथक्पृथक् चोपनिषत्सुभाष्यम् | कृत्वाऽखिलान्यं पुरुषोत्तमं च हरिं वदन्तीति समर्थयित्वा
SK
तनुस्तृतीया पवनस्य सेयं सद्भारतार्थप्रतिदीपनाय | ग्रन्थं चकारेममुदीर्णविद्या यस्मिन् रमन्ते हरिपादभक्ताः
SK
᳚तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः | निर्यदीं बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः | च्द्ल्xविइइ.यदीं अनु प्रदिवो मध्व आधवे गुहासन्तं म्Ḹअतरिश्वा मथायति᳚८५
SK
इत्यादिवाक्योक्तमिदं समस्तं तथा पुराणेषु च पञ्चरात्रे | अत्रोदिता याण्स्च कथाः समस्ता वेदेतिहासादिविनिर्णयोक्ताः
SK
तस्मादयं ग्रन्थवरोऽखिलोरुधर्मादिमोक्षान्तपुमर्थहेतुः | किं वोदितैरस्य गुणैस्ततोऽन्यैर्नारायणः प्रीतिमुपैत्यतोऽलम्
SK
यस्य त्रीण्युदितानि वेदवचने र् ऊपाणि दिव्यान्यलं बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् | व्Ḹअयो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे
SK
यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः | प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source