Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 16

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये (पाण्डवशास्त्राभ्यासो नाम) पञ्चदशोऽध्यायः च्ल्xxइ.(सृग्Ḹअलवधः ) अथ षोडण्सोऽध्यायः काले त्वेतस्मिन् भूय एवाखिलैश्च नृपैर्युक्तो मागधो योद्धुकामः | प्रायाद् यदूं स्तत्र नित्याव्ययातिबलैश्वर्योऽपीच्छयाऽगात् स कृष्णः
SK
सन्दर्शयन् बलिनामल्पसेनाद्युपस्कराणां बहल् . ओपस्करैश्च | प्राप्ते विरोधे बलिभिर्नीतिमग्र्यां ययौ सरामो दक्षिणाण्सां रमेशः
SK
सोऽनन्तवीर्यः परमोऽभयोऽपि नीत्यै गच्छन् जामदग्न्यं ददर्श | क्रीडार्थमेकोऽपि ततोऽतिदुर्गं श्रुत्वा गोमन्तं तत्र ययौ सहाग्रजः
SK
तदा दुग्धाब्धौ सं सृतिस्थैः सुराद्यैः पूजां प्राप्तुं स्थानमेषां च योग्यम् | मुक्तस्थानादाप नारायणोऽजो बलिश्चाऽगात् तत्र सन्द्रष्टुमीशम्
SK
तत्रासुरावेशममुष्य विष्णुः सन्दर्शयन् सुप्तिहीनोऽपि नित्यम् | सं सुप्तविच्छश्य उदारकर्मा सञ्ज्ञायै देवानां मुखमीक्ष्याप्रमेयः
SK
देवाण्स्च तद्भावविदोऽखिलाण्स्च निमीलिताक्षाः शयनेषु ण्सिश्यरे | तदा बलिस्तस्य विष्णोः किरीटमादायागाज्जहसुः सर्वदेवाः
SK
नारायणे सर्वदेवैः समेते ब्रह्मादिभिर्हासमाने सुपर्णः | गत्वा पाताल् . अं युधि जित्वा बलिं च किरीटमादायाभ्ययाद् यत्र कृष्णः
SK
तत् तस्य शीर्ष्णि प्रतिमुच्य नत्वा खगः स्तुत्वा देवदेवं रमेशम् | स्मृत आगच्छेत्येव विसर्जितोऽमुना ययौ दुग्धाब्धिं यत्र नारायणोऽसौ
SK
किरीटं तत् कृष्णमूर्ध्नि प्रविष्टं तत्तुल्यमासीत् तस्य रूपेष्वभेदात् | तदिच्छया चैव नारायणस्य शीर्ष्ण्यप्यासीद् युगपद् दुग्धवार्धौ
SK
पूर्वं प्राप्तान्येव दिव्यायुधानि पुनर्वैकुण्ठं लोकमितानि भूयः | तदाऽवतेरू रौहिणेयस्य चैवं भार्याऽप्यायाद् वारुणी नाम पूर्वा
SK
सैवापरं रूपमास्थाय चाऽगाच्छ्रीरित्याख्यं सेन्दिरावेशमग्र्यम् | कान्तिश्चाऽगात् तस्य सोमस्य चान्या भार्या द्वयोः पूर्वतना सुरूपा
SK
च्ल्xxइइ.त् आभी रामो मुमुदे तत्र तिष्ठञ्छशाङ्कपूगोद्रिक्तकान्तिः सुधामा | तस्या वारुण्याः प्रतिमा पेयरूपा कादम्बरी वारुणी तां पपौ सः
SK
एवं तयोः क्रीडतोः स्वैरमत्र राजन्यवृन्दानुगतो जरासुतः | गिरिं गोमन्तं परिवार्यादहत् तं दृष्ट्वा देवौ पुप्लुवतुर्बलाब्धौ
SK
गिरिस्ताभ्यां पीडितः सन् निमग्नो भूमौ पद्भ्यां योजनैकादशं सः | निष्पीडित् आज्जलधारोद्गताऽस्माद् वह्निं व्याप्तं शमयामास सर्वम्
SK
सेनां प्रविष्टौ सर्वराजन्यवृन्दं व्यमथ्नातां देववरौ स्वशस्त्रैः | तत्र हं सो डिभकश्चैकलव्यः सकीचकस्तौ शिशुपालपौण्ड्रकौ
SK
भौमात्मजो दन्तवक्रश्च रुग्मी सौभाधिपो मैन्दमैन्दानुजौ च | अन्ये च ये पार्थिवाः सर्व एव क्रोधात् कृष्णं परिवार्याभ्यवर्षन्
SK
शस्त्रैरस्त्रैर्द्रुमपूगैः शिलाभिर्भक्ताण्स्च ये शल्यबाह्लीकमुख्याः | ससोमदत्ताः सौमदत्तिर्विराटः पाञ्चालराजश्च जरासुतस्य | भयात् कृष्णं शस्त्रवर्षैरवर्षन् कारागृहे वासिता मागधेन
SK
सर्वानेताञ्छरवर्षेण कृष्णो विसूतवाजिध्वजशस्त्रवर्मणः | कृत्वा वमच्छोणित् आनार्तरूपान् विद्रावयामास हरिर्यथा मृगान्
SK
हत्वा सेनां विं शदक्षोहिणीं त् आं त्रिभिर्युक्तां रुग्मिणं नैव कृष्णः | रुग्मिण्यर्थे पीडयामास शस्त्राण्यस्य च्छित्वा विरथं द्रावयानः
SK
जरासुतो रौहिणेयेन युद्धं चिरं कृत्वा तन्मुसलेन पोथितः | विमोहितः प्राप्तसञ्ज्ञश्चिरेण क्रुद्धो गदां तदुरस्यभ्यपातयत्
SK
तेनाऽहतः सुभृशं रौहिणेयः पपात मूर्च्छाभिगतः क्षणेन | अजेयत्वं तस्य दत्तं हि धात्रा पूर्वं गृहीतो विष्णुना रामगेन
SK
तथाकृते बलभद्रे तु कृष्णो गदामादाय स्वामगान्मागधेशम् | तताड जत्रौ स तयाऽभिताडितो जगाम गां मूर्च्छयाऽभिप्लुताङ्गः
SK
च्ल्xxइइइ.अथोत्तस्थौ रौहिणेयः सहैव समुत्तस्थौ मागधोऽप्यग्र्यवीर्यः | क्रुद्धो गृहीत्वा मौलिमस्याऽशु रामो वधायोद्यच्छन्मुसलं बाहुषाल् . ई
SK
अथाब्रवीद् वायुरेनं न राम त्वया हन्तुं शक्यते मागधोऽयम् | वृथा नते बाहुबलं प्रयोज्यममोघं ते यद् बलं तद्वदस्त्रम्
SK
अन्यो हन्ता बलवानस्य चेति श्रुत्वा ययौ बलभद्रो विमुच्य | जरासुतं पुनरुद्यच्छमानं जघान कृष्णो गदया स्वयैव
SK
तेनाऽहतः स्रस्तसमस्तगात्रः पपात मूर्छाभिगतः स राजा | चिरात् सञ्ज्ञां प्राप्य चान्तर्हितोऽसौ सम्प्राद्रवद् भीतभीतः सलज्जः
SK
ययौ शिष्टै राजभिः सं युतश्च पुरं जीवेत्येव कृष्णेन मुक्तः | पुनर्युद्धं बहुशः केशवेन कृत्वा जितो राजगणैः समेतः
SK
कृष्णो जित्वा मागधं रौहिणेययुक्तो ययौ दमघोषेण सार्द्धम् | पितृष्वसायाः पतिना तेन चोक्तः पूर्वं जितेनापि युधि स्म बान्धवात्
SK
यामः पुरं करिवीराख्यमेव महालक्ष्म्याः क्षेत्रसन्दर्शनाय | श्रुत्वा वाक्यं तस्य युद्धे जितस्य भीत्या युक्तस्याऽत्मना तद्युतोऽगात्
SK
गन्धर्वोऽसौ दनुनामा नरोऽभूत् तस्मात् कृष्णे भक्तिमां श्चाऽस राजा | पुरप्राप्तां स्तान् स विज्ञाय पापः सृगालाख्यो वासुदेवः क्रुधाऽगात्
SK
सूर्यप्रदत्तं रथमारुह्य दिव्यं वरादवध्यस्तिग्मरुचेः स कृष्णम् | योद्धुं ययावमुचच्चास्त्रसङ्घाञ्छिरस्तस्याथाऽशु जहार कृष्णः
SK
द्विधा कृत्वा देहमस्यारिणा च पुत्रं भक्तं तस्य राज्येऽभिषिच्य | स शक्रदेवं माणिभद्रः पुरा यो ययौ पुरीं स्वां सहितोऽग्रजेन
SK
च्ल्xxइव्नीतिं बलिष्ठस्य विहाय सेनां दूराद् युद्धं युद्धं दर्शयित्वैव गुप्त्यै | स्वसेनायाः सर्वपूर्णात्मशक्तिः पुनः पुरीं प्राप्य स पूजितोऽवसत्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source