1.1 SK Oं Śरीमद् Āनन्दतीर्थभगवत्पादाचार्य-विरचितः Śरी Mअहाभारततात्पर्यनिर्णयः अथ प्रथमोऽध्यायः (सर्वशास्त्रतात्पर्यनिर्णयः ) Oं | नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय | ज् ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते
1.2 SK आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः | सं शान्तसं विदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाग्रे
1.3 SK तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य | भूत्यै निजाण्स्रितजनस्य हि सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्ते
1.4 SK दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान् | ध्यानं गतान् सृतिगतां श्च सुषुप्तिसं स्थान् ब्रह्मादिकान् कलिपरान् मनुजां स्तथैक्षत्
1.5 SK स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृत् आं विहृतिं ममेच्छन् | सोऽयं विहार इह मे तनुभृत् स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः
1.6 SK इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता | तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत् प्रवदन्ति मायाम्
1.7 SK सङ्कर्षणण्स्च स बभूव पुनः सुनित्यः सं हारकारणवपुस्तदनुज्ञयैव | देवी जयेत्यनु बभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी
1.8 SK स्थित्यै पुनः स भगवाननिरुद्धनामा देवी चशान्तिरभवच्छरदां सहस्रम् | स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमां श्चरमात्मनेऽदात्
1.9 SK निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितान् उदरे निवेश्य | चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेण्समुखान् समग्रान्
1.10 SK पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्च | इ.एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत्
1.11 SK निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः | आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा
1.12 SK कालाच्च देशगुणतोऽस्य न चाऽदिरन्तो वृद्धिक्षयौ न तु परस्य सदातनस्य | नैतादृशः क्व च बभूव न चैव भाव्यो नास्त्युत्तरः किमु परात् परमस्य विष्णोः
1.13 SK सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः | यस्याऽज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं न तु कस्य चेशम्
1.14 SK आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ | वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषां ऋष्यादयः क्रमश ऊनगुणाः शतां शाः
1.15 SK आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा | तस्या उमा विपतिनी च गिरस्तयोऽस्तु शच्यादिकाः क्रमश एव यथा पुमां सः
1.16 SK त् आभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमतः श्रुतिस्थाः | शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न
1.17 SK तेषां स्वरूपमिदमेव यतोऽथ मुक्ता अप्येवमेव सततोच्चविनीचरूपाः | शब्दः शतं दशसहस्रमिति स्म यस्मात् तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः
1.18 SK एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च सं सृतिपरा असुरास्तमोगाः | एवं सदैव नियमः क्वचिदन्यथा नयावन्न पूर्तिरुत सं सृतिगाः समस्ताः
1.19 SK पूर्तिश्च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवसऽ न्घाः | आनन्त्यमेव गणण्सोऽस्ति यतो हि तेषां इत्थं ततः सकलकालगता प्रवृत्तिः
1.20 SK एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः | पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व
1.21 SK साम्यं न चास्य परमस्य च केन चाऽप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य | प्राप्येत चेतनगणैः सततास्वतन्त्रैर्नित्यस्वतन्त्रवपुषः परमात् परस्य
1.22 SK इइ.अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः | अन्यैश्च शास्त्रवचनैः सहतत्त्वसूत्रैर्निर्णीयते सहृदयं हरिणा सदैव
1.23 SK ऽनारायणस्य न समः ऽ ऽपुरुषोत्तमोऽहं जीवाक्षरे ह्यतिगतोऽस्मिऽ ततो ᳚ऽन्यदार्तम्᳚१ | ᳚मुक्तोऽपसृप्य᳚२ ऽइह नास्ति कुतश्च कश्चित्ऽ ᳚नानेव᳚३ ऽधर्मपृथगात्मदृगेत्यधो हिऽ
1.24 SK ᳚आभास एव᳚४ ऽपृथगीशत एष जीवोऽ ऽमुक्तस्य नास्ति जगतो विषये तु शक्तिः ऽ | ऽमात्रापरोऽसि न तु तेऽश्नुवते महित्वं ऽ ऽषाड्गुण्यविग्रहऽ ऽसुपूर्णगुणैकदेहः ऽ
1.25 SK ऽमाहात्म्यदेहऽ ऽसृतिमुक्तिगतेऽ ऽशिवश्च ब्रह्मा च तद्गुणगतौ न कथञ्चनेशौऽ | ऽन श्रीः कुतस्तदपरेऽ ऽऽस्य सुखस्य मात्रा-मण् स्नन्ति मुक्तसुगणाण्स्च शतावरेणऽ
1.26 SK ᳚आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम् | विष्णोः सदैवाति वशात् कदापि गच्छन्ति केशादिगणा न मुक्तौ᳚
1.27 SK ५ ऽयस्मिन् परेऽन्येऽप्यजजीवकोशाऽ ऽनाहं परायुर्न मरीचिमुख्याः ऽ | ऽजानन्ति यद्गुणगणान् न रमादयोऽपि नित्यस्वतन्त्र उत कोऽस्ति तदन्य ईशः ऽ
1.28 SK ऽनैवैक एव पुरुषः पुरुषोत्तमोऽसा-वेकह् . कुतः स पुरुषोऽ ऽयत एव जात्या | अर्थात् श्रुतेश्च गुणतो निजरूपतश्च नित्यान्य एव कथमस्मि स इत्यपि स्यात्ऽ
1.29 SK १ Bऋ. U. ५.५.१ २ Bर. Sऊ. १.३.२ ३ Kअ. U. ४.११ ४ Bर. Sऊ. २.३.५० ५ ᳚Ḹअभासक᳚ इत्यादि श्रुतिवचनमेव | न स्ववचनम् - Bहा. Pर. इइइ.ऽसर्वोत्तमो हरिरिदं तु तदाज्ञयैव चेत्तुं क्षमं स तु हरिः परमस्वतन्त्रः | पूर्णाव्ययागणितनित्यगुणार्णवोऽसौऽ इत्येव वेदवचनानि परोक्तयश्च
1.30 SK ᳚ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम् | मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम्
1.31 SK अविरुद्धं च यत्त्वस्य प्रमाणं तच्च नान्यथा | एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन
1.32 SK वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः | प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः
1.33 SK एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित् | अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन
1.34 SK मोहार्थान्यन्यशास्त्राणि कृत् आन्येवाऽज्ञया हरेः | अतस्तेषूक्तमग्राह्यमसुराणां तमोगतेः
1.35 SK यस्मात् कृत् आनि तानीह विष्णुनोक्तैः शिवादिभिः | एषां यन्न विरोधि स्यात् तत्रोक्तं तन्न वार्यते
1.36 SK विष्ण्वाधिक्यविरोधीनि यानि वेदवचां स्यपि | त् आनि योज्यान्यानुकूल्याद् विष्ण्वाधिक्यस्य सर्वशः
1.37 SK अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः | तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित्
1.38 SK अज्ञत्वं पारवश्यं वा वेधभेदादिकं तथा | तथा प्राकृतदेहत्वं देहत्यागादिकं तथा
1.39 SK अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम् | प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम्
1.40 SK इव्न तस्य कश्चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ | सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः
1.41 SK ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः | यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम्
1.42 SK निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना | व्यासरूपेण तद् ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः
1.43 SK यथार्थवचनानां च मोहार्थानां च सं शयम् | अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत्
1.44 SK तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः | सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता
1.45 SK अभेदः सर्वरूपेषु जीवभेदः सदैव च | विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा
1.46 SK त् आरतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा | तस्मादेतद्विरुद्धं यन्मोहाय तदुदाहृतम्
1.47 SK तस्माद् ये ये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु᳚ | इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम्
1.48 SK ᳚एष मोहं सृज् आम्याण्सु यो जनान् मोहयिष्यति | त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय
1.49 SK अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज | प्रकाण्सं कुरु चाऽत्मानमप्रकाण्सं च मां कुरु᳚
1.50 SK इति वाराहवचनं ब्रह्माण्डोक्तं तथाऽपरम् | ᳚अमोहाय गुणा विष्णोराकारश्चिच्छरीरता
1.51 SK निर्दोषत्वं त् आरतम्यं मुक्तानामपि चोच्यते | एतद्विरुद्धं यत् सर्वं तन्मोहाय इति निर्णयः ᳚
1.52 SK व्.स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम् | शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत्
1.53 SK ᳚परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् | शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि
1.54 SK ज् ञानं विना तुया मुक्तिः साम्यं च मम विष्णुना | तीर्थाऽदिमात्रतो ज्ञानं ममाऽधिक्यं च विष्णुतः
1.55 SK अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा | इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा᳚६
1.56 SK उक्तं पाद्मपुराणे चशैव एव शिवेन तु | यदुक्तं हरिणा पूर्वं उमायै प्राह तद्धरः
1.57 SK ᳚त्वामाराध्य तथा ण्सम्भो ग्रहीष्यामि वरं सदा | द्वापराऽदौ युगे भूत्वा कलया मानुषाऽदिषु
1.58 SK स्वाऽगमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु | मां च गोपाय येन स्यात् सृष्टिरेषोत्तराधरा᳚७
1.59 SK न च वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः | क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः
1.60 SK निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि | वेदेषु च परो विष्णुः सर्वस्मादुच्यते सदा
1.61 SK ᳚अस्य देवस्य मील् . हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः | विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्वनाविरावत्᳚८
1.62 SK ६ Pअद्म Pउ. ६.७१.११४-११६ | ७ Pअद्म Pउ. ६.७१.१०६-१०७ ८ Ṛग्वेद ७.४०.५ वि.᳚स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीमम् उपहत्नुमुग्रम्᳚९ | ᳚यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्᳚१०
1.63 SK ᳚एको नारायण आसीन्न ब्रह्मा न चशङ्करः ᳚ | ᳚वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न चशङ्करः ᳚
1.64 SK ᳚यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् | तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति᳚११
1.65 SK ᳚यो वेद निहितं गुहायां परमे व्योमन् | सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता᳚१२
1.66 SK ᳚प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्᳚१३ | ᳚सत्यमेनं अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ᳚ १४
1.67 SK ᳚यच्चिकेत सत्यमित् तन् न मोघं वसु स्पार्हमुत जेतोऽत दाता᳚१५ | ᳚सत्यः सो अस्य महिमा गृणे ण्सवो यज्ञेषु विप्रराज्ये᳚१६
1.68 SK ᳚सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा | सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम्
1.69 SK असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम् | जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः
1.70 SK जीवेशयोर्भिदा चैव जीवभेदः परस्परम् | जडेण्सयोर्जडानां च जडजीवभिदा तथा
1.71 SK पञ्चभेदा इमे नित्याः सर्वावस्थासु सर्वशः | ९ Ṛग्वेद २.३३.११ १० Ṛग्वेद १०.१२५.५ ११ Mउ. U. ३.१.३ १२ Tऐ. U. २.१ १३ Ṛग्वेद २.१५.१ १४ Ṛग्वेद ४.१७.५ १५ Ṛग्वेद १०.५५.६ १६ Ṛग्वेद ८.३.४ विइ.मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा
1.72 SK क्षितिपा मनुष्यगन्धर्वा दैवाण्स्च पितरश्चिराः | आजानजाः कर्मजाण्स्च देवा इन्द्रः पुरन्दरः
1.73 SK रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः | एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा | एको रुद्रस्तथा ण्सेषो नकश्चिद्वायुना समः
1.74 SK मुक्तेषु ण्स्रीस्तथा वायोः सहस्रगुणित् आ गुणैः | ततोऽनन्तगुणो विष्णुर्न कश्चित् तत्समः सदा᳚
1.75 SK इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः | त् आत्पर्यं महदत्रेत्युक्तं ᳚यो माम्᳚१७ इति स्वयं तेन
1.76 SK ᳚भूम्नो ज्यायस्त्वम्᳚१८ इति ह्युक्तं सूत्रेषु निर्णयात् तेन | १९ तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन
1.77 SK ᳚नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना ण्स्रुतेन | यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्᳚२०
1.78 SK ᳚विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया | मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च
1.79 SK उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत् | सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे
1.80 SK त् आरतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा | एतद्विना न कस्यापि विमुक्तिः स्यात् कथञ्चन
1.81 SK १७ Bह. Gई. १५.१९ १८ Bर. Sऊ. ३.३.५९ १९ ᳚इति᳚ शब्दः प्रकारवचनः | अनेन प्रकारेण ᳚जन्माद्यस्य यतः ᳚ (Bर. Sऊ. १.१.२), ᳚द्युम्भ्वाद्यायतनं स्वशब्दात्᳚ (Bर. Sऊ. १.३.१), ᳚अक्षरमम्बरान्धृतेः ᳚ (Bर. Sऊ. १.३.१०), ᳚सर्वोपेता च तद्दर्शनाद्᳚ (Bर. Sऊ. २.१.३१) इत्यादि सूत्रेषु उक्तं , इति भावः | अतः ᳚सूत्रेषु᳚ इति बहुवचनम् -Bहा. Pर. २० Kअ. U. १.२.२३, Mउ. U. ३.२.३ विइइ.पञ्चभेदां श्च विज्ञाय विष्णोः स्वाभेदमेव च | निर्दोषत्वं गुणाद्रेकं ज् ञात्वा मुक्तिर्नचान्यथा
1.82 SK अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये | तदावेशां स्तथा सम्यग् ज्ञात्वा मुक्तिर्नचान्यथा
1.83 SK सृष्टिरक्षाऽहृतिज्ञाननियत्यज्ञानबन्धनान् | मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा
1.84 SK वेदां श्च पञ्चरात्राणि सेतिहासपुराणकान् | ज् ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्वचित्
1.85 SK माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः | स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्नचान्यथा
1.86 SK त्रिविधा जीवसऽ न्घास्तु देवमानुषदानवाः | तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा
1.87 SK मध्यमा मानुषा येतु सृतियोग्याः सदैव हि | अधमा निरयायैव दानवास्तु तमोलयाः
1.88 SK मुक्तिर्नित्या तमश्चैव नाऽवृत्तिः पुनरेतयोः | देवानां निरयो नास्ति तमश्चापि कथञ्चन
1.89 SK नासुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित् | मानुषाणां मध्यमानां नैवैतद्द्वयमाप्यते
1.90 SK असुराणां तमः प्राप्तिस्तदा नियमतो भवेत् | यदा तुज्ञानिसद्भावे नैव गृह्णन्ति तत्परम्
1.91 SK तदा मुक्तिश्च देवानां यदा प्रत्यक्षगो हरिः | स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा
1.92 SK सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा | इx.आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः
1.93 SK यथाक्रमं गुणोद्रेकात् तदन्यैरा विरिञ्चतः | ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग्गणाः
1.94 SK तैरेवाप्यं पदं तत्तु नैवान्यैः साधनैरपि | एवं सर्वपदानां तु योग्याः सन्ति पृथग् गणाः
1.95 SK तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम् | तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित्
1.96 SK अयोग्यमिच्छन् पुरुषः पतत्येव न सं शयः | तस्माद् योग्यानुसारेण सेव्यो विष्णुः सदैव हि
1.97 SK अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः | द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन
1.98 SK नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः | सत्यसङ्कल्पतो विष्णुर्नान्यथा च करिष्यति
1.99 SK दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा | अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये᳚ | भविष्यत्पर्ववचनमित्येतदखिलं परम्
1.100 SK ᳚ण्सृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यं अतिनेनीयमानः | एधमानद्विल् . उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्
1.101 SK परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति | अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति᳚२१
1.102 SK ᳚तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते᳚२२ | २१ Ṛग्वेद ६.४७.१६-१७ २२ Tऐ. Ā. ३.१२.१७ x.᳚तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय᳚२३
1.103 SK ᳚यस्य देवे परा भक्तिर्यथादेवे तथा गुरौ | तस्यैते कथिता ह्यर्थाः प्रकाण्सन्ते महात्मनः ᳚ २४
1.104 SK ᳚भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला | मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणी
1.105 SK ज् ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते᳚ | इत्यादि वेदवचनं साधनप्रविधायकम्
1.106 SK ᳚निश्शेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे | सदा तिष्ठति भक्तश्चेद् ब्रह्महाऽपि विमुच्यते᳚
1.107 SK ᳚धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाऽच्युत | पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरे᳚
1.108 SK ᳚भक्त्या त्वनन्यया ण्सक्य अहमेवं विधोऽर्जुन | ज् ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप᳚२५
1.109 SK ᳚अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः | तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात्
1.110 SK पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते | पतितानां तमस्यन्धे निः शेषसुखवर्जिते
1.111 SK जीवाभेदो निर्गुणत्वं अपूर्णगुणता तथा | साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च
1.112 SK प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च | तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः
1.113 SK २३ Śवे. U. ३.८ २४ Śवे. U. ६.२३ २५ Bह. Gई. ११.५४ xइ.एतैर्विहीना या भक्तिः सा भक्तिरिति निश्चिता | अनादिभक्तिर्देवानां क्रमाद् वृद्धिं गतैव सा
1.114 SK अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्च सा पुनः | सैवाऽनन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति
1.115 SK यथा ण्सौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा | सुखज्ञानादिकं रूपं एवं भक्तेर्न चान्यथा
1.116 SK भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित् | स एव मुक्तिदाता च भक्तिस्तत्रैककारणम्
1.117 SK ब्रह्मादीनां च मुक्तानां त् आरतम्ये तु कारणम् | त् आरतम्यस्थिताऽनादिनित्या भक्तिर्न चेतरत्
1.118 SK मानुषेष्वधमाः किञ्चिद् द्वेषयुक्ताः सदा हरौ | दुःखनिष्ठास्ततस्तेऽपि नित्यमेव न सं शयः
1.119 SK मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृत् आः | किञ्चिद्भक्तियुता नित्यं उत्तमास्तेन मोक्षिणः
1.120 SK ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः ᳚ | इत्यादीनि च वाक्यानि पुराणेषु पृथक् पृथक्
1.121 SK ᳚षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः | सप्तपादश्चतुर्हस्तो द्वात्रिं शल्लक्षणैर्युतः | असं शयः सं शयच्छिद् गुरुरुक्तो मनीषिभिः
1.122 SK तस्माद् ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा | अन्येऽपि स्वात्मनो मुख्याः क्रमाद् गुरव ईरिताः
1.123 SK क्रमाल्लक्षणहीनाण्स्च लक्षणालक्षणैः समाः | मानुषा मध्यमाः सम्यग् दुर्लक्षणयुतः कलिः
1.124 SK xइइ.सम्यग्लक्षणसम्पन्नो यद् दद्यात् सुप्रसन्नधीः | शिष्याय सत्यं भवति तत्सर्वं नात्र सं शयः
1.125 SK अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत् | नातिप्रसन्नहृदयो यद् दद्याद् गुरुरप्यसौ | न तत् सत्यं भवेत् तस्माद् अर्चनीयो गुरुः सदा
1.126 SK स्वावराणां गुरुत्वं तु भवेत् कारणतः क्वचित् | मर्यादार्थं तेऽपि पूज्या न तु यद्वत् परो गुरुः ᳚ | इत्येतत् पञ्चरात्रोक्तं पुराणेष्वनुमोदितम्
1.127 SK ᳚यदा मुक्तिप्रदानस्य स्वयोग्यं पश्यति ध्रुवम् | रूपं हरेस्तदा तस्य सर्वपापानि भस्मसात्
1.128 SK यान्ति पूर्वाण्युत्तराणि नश्लेषं यान्ति कानिचित् | मोक्षण्स्च नियतस्तस्मात् स्वयोग्यहरिदर्शने᳚
1.129 SK भविष्यत्पर्ववचनमित्येतत् सूत्रगं तथा | २६ श्रुतिश्च तत्परा तद्वत् ᳚तद्यथा᳚२७ इत्यवदत् स्फुटम्
1.130 SK ᳚मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम् | स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम्
1.131 SK उत्तरोत्तरवश्याण्स्च मुक्ता रुद्रपुरस्सराः | निर्दोषा नित्यसुखिनः पुनरावृत्तिवर्जिताः | स्वेच्छयैव रमन्तेऽत्र नानिष्टं तेषु किञ्चन
1.132 SK असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः | कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद् गणाः
1.133 SK २६ ऽएतत्सूत्रगम्ऽ इत्यस्य एतत् प्रमेयं सूत्रगम् | ᳚तदधिगम उत्तरपूर्वाघयोरश्लेषविनाण्सौ तद्व्यपदेशाद्᳚ (Bर. Sऊ. ४.१.१३) इति सूत्रगतम्, इत्यर्थः -Bहा. Pर. २७ Cहा. U. ४.१४.३ xइइइ.तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा | ब्रह्मैवं सर्वजीवेभ्यः सदा सर्वगुणाधिकः
1.134 SK मुक्तोऽपि सर्वमुक्तानां आधिपत्ये स्थितः सदा | आण्स्रयस्तस्य भगवान् सदा नारायणः प्रभुः ᳚
1.135 SK इति ऋग्यजुः सामाथर्वपञ्चरात्रेतिहासतः | पुराणेभ्यस्तथाऽन्येभ्यः शास्त्रेभ्यो निर्णयः कृतः
1.136 SK विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः | आनन्दतीर्थमुनिना पूर्णप्रज्ञाभिधायुजा
1.137 SK त् आत्पर्यं शास्त्राणां सर्वेषां उत्तमं मया प्रोक्तम् | प्राप्यानुज्ञां विष्णोरेतज्ज्ञात्वैव विष्णुराप्योऽसौ
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).
Source