Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 29

SK
च्द्xxइव्.अथ एकोनत्रिं शोऽध्यायः Oं | यदैव कृष्णौ सकलाधिराज्ये युधिष्ठिरं यौवराज्ये च भीमम् | विप्रैर्युतावभिषिच्याऽशिषण्स्च युक्ता दत्वा हर्षयामासतुस्तौ
SK
तदैव चार्वाक इति प्रसिद्धं रक्षस्त्रिदण्डी यतिरेव भूत्वा | युधिष्ठिरं गर्हयामास विप्रास्त्वां गर्हयन्तीति सुपापशीलम्
SK
श्रुत्वैव तद् दुःखितमाण्सु धर्मजं दृष्ट्व्Ḹअ विप्राः शेपुरमुं भृशार्ताः | अगर्हितं नित्यमस्माभिरेनं यतोऽवोचो गर्हितमद्य पाप | भस्मीभवाऽश्वेव ततस्त्वितीरिते क्षणादभूत् पापतमः स भस्मसात्
SK
भस्मीकृतेऽस्मिन् यतिवेषधारिणि युधिष्ठिरं दुःखितं वृष्णिसिं हः | प्रोवाच नायं यतिरुग्रकर्मा सुयोधनस्यैव सखा सुपापः
SK
रक्षोऽधमोऽयं निहतोऽद्य विप्रैस्तन्मा ण्सुचः कृतकार्योऽसि राजन् | इतीरितः शान्तमनाः स विप्रान् सन्तर्पयामास धनैश्च भक्त्या
SK
असान्त्वयच्च बान्धवान् स पौरसं श्रितादिकान् | ददौ यथेष्टतो धनं ररक्ष चानु पुत्रवत्
SK
स भीष्मद्रोणकर्णानां वधाद् दुर्योधनस्य च | प्Ḹअपाण्सङ्की तप्यमानो राज्यत्यागे मनो दधे
SK
च्द्xxव्.भीमं सम्प्रार्थयित्वैव न वेत्थ्सीत्याह फल्गुनम्
SK
तस्मिन् क्रुद्धे नृपं प्राहुर्विप्रास्त्वत्तोऽपि तत्त्ववित् | शक्रोऽर्जुन इति श्रुत्वाऽप्येतद्धर्मे ससं शयम्
SK
मत्स्नेहादेव सर्वेऽपि धर्मोऽयमिति वादिनः | इत्येवं शङ्कमानं तमूचतुर्विप्रयादवौ | कृष्णो धर्मोऽयमित्येव शास्त्रयुक्त्या पुनः पुनः
SK
न्Ḹअतिनिश्चितबुद्धिं तं तदाऽपि पुरुषोत्तमौ | हतपक्षगतत्वेन तच्छङ्काया अगोचरः | यतो भीष्मस्ततो याहि तमित्यूचतुरव्ययौ
SK
स ताभ्यां भ्रातृभिश्चैव मुनिभिश्च समन्वितः | भीष्मं ययौ लज्जितेऽस्मिन्स्तं भीष्म्Ḹअयाऽह केशवः
SK
पृच्छेत्युक्तः स भीष्मेण पप्रच्छाखिलमञ्जसा | तत्रोवाचाखिलान् धर्मान् कृष्णो भीष्मशरीरगः
SK
भीष्मो ह्याह हरिं प्Ḹअर्था बोधनीयास्त्वयैव हि | क्Ḹअ ण्सक्तिर्मम देवेश पार्थान् बोधयितुं प्रभो
SK
इत्युक्तो भगवानाह त्वत्कीर्त्यै त्वयि सं स्थितः | प्रवक्ष्य्Ḹअम्यखिलान् धर्मान् सूक्ष्मं तत्त्वमपीति ह
SK
राज्ञः प्रथमतो धर्मो भगवद्धर्मपालनम् | तदर्थं कण्टकोद्धारो धर्मा भागवत् आ अपि | मनोवाक्कर्मभिर्विष्णोरच्छिद्रत्वेन चार्चनम्
SK
पूर्णाण्सेषगुणो विष्णुः स्वतन्त्रश्चैक एव तु | तद्वशं सर्वमन्यच्च सर्वदेति विनिश्चयः
SK
देवत् आक्रमविज्ञ्Ḹअनमपूजाऽन्यस्य वै हरेः | पूजा भागवतत्वेन देवादीनां च सर्वशः
SK
च्द्xxवि.वृथा कर्माकृतिः क्वापि निराण्सीस्त्वं सदैव च | विष्णोर्भागवत् आनां च प्रतीपस्याकृतिः सदा | परस्परविरोधे तु विशिष्टस्यानुकूलता
SK
प्रियं विष्णोस्तदीयानामपि सर्वं समाचरेत् | धर्ममप्यप्रियं तेषां नैव किञ्चित् समाचरेत्
SK
साम्ये विरोधे च बहूननुवर्तेत वैष्णवान् | एते साधारणा धर्मा ज्ञेया भागवत् आ इति
SK
तत्त्वविज्ञ्Ḹअपनं धर्मो विप्रस्य तु विशेषतः | शारीरदण्डसन्त्यागः पुत्रभार्यादिकानृते | तत्रापि नाङ्गहानिः स्याद् वेदना वा चिरं नतु
SK
नचार्थदण्डः कर्तव्यो विप्रवैश्यादिभिः क्वचित् | शारीरदण्डविषये वैश्यादीनां च विप्रवत्
SK
यथालब्धेन वर्तेत भिक्षया वा द्विजोत्तमः | शिष्ययाज्योपलब्धैर्वा क्षत्रधर्मेण वाऽपदि
SK
महापदि विशां धर्मैः क्षत्रियः सुरविप्रयोः | अन्यत्र सर्ववित्तेन वर्तेतैतां श्च पालयन्
SK
विरोधिनः क्षत्रियाच्च प्रसह्यैव हरेद् धनम् | सामादिक्रमतो धर्मान् वर्तयेद् दण्डतोऽन्ततः | अपलायी सदा युद्धे सतां क्Ḹअर्यमृते भवेत्
SK
कृषिवाणिज्य गोरक्षा कुसीदं वैश्यजीवनम् | परिचर्यैव शूद्रस्य वृत्तिरन्ये स्वपूर्ववत् | वर्तेयुर्ब्राह्मणाद्याण्स्च क्रमात् पूज्या हरिप्रियाः
SK
हरिभक्तावनुच्चस्तु वर्णोच्चो नातिपूज्यते | विना प्रणामं पूज्यस्तु वर्णहीनो हरिप्रियः | आदरस्तत्र कर्तव्यो यत्र भक्तिर्हरेर्वरा
SK
च्द्xxविइ.ज्ञ्Ḹअपनं क्षत्रियाणां च धर्मो विप्राभ्यनुज्ञया | तदभावे तु वैश्यानां शूद्रस्य परमापदि
SK
᳚वर्णेष्वज् ञेष्ववर्णस्तु न ज् ञ्Ḹअनी स्यात् कथञ्चन᳚ | इति श्रुतेरवर्णस्य ज् ञ्Ḹअपनप्राप्तिरेव न
SK
ज्ञेयं सर्वत्रिवर्णस्थस्त्रीभिर्वेदान् विनाऽखिलम् | स्वीयपुन्नियतिः स्त्रीणां स्वदारनियतिर्नृणाम्
SK
धर्मो गुणोत्तमानां तु स्मृत्यैवान्धं तमो व्रजेत् | गुणसर्वस्वहानिः स्यादुत्तरोत्तरतोऽत्र च
SK
अधोऽधोऽधिकदोषः स्यात् स्त्रीणामन्यत्र मध्यतः | वेदा अप्युत्तमस्त्रीभिः कृष्णाद्याभिरिवाखिलाः
SK
देव्यो मुनिस्त्रियश्चैव नरादिकुलजा अपि | उत्तमा इति विज्ञेयास्तच्छूद्रैरप्यवैदिकम् | ज्ञेयमन्यैर्हरेर्नाम निजकर्तव्यमेव च
SK
सर्वथाऽन्धं तमो याति वरं सदृशमेव वा | यो विष्णोर्मन्यते किञ्चिद् गुणैः कैश्चिदपि क्वचित्
SK
ब्रह्मेशानादिकमपि भेदं यो वा न मन्यते | भेददृक् तद्गुणादौ च प्रादुर्भावगतेऽपि यः
SK
प्राकृतं देहमथवा दुःखाज्ञ्Ḹअनश्रमादिकम् | मन्यते तारतम्यं व्Ḹअ तद्भक्तेष्वन्यथैव यः
SK
मनोवाक्तनुभिर्यो वा तस्मिन्स्तद्भक्त एव वा | विरोधकृद् विष्ण्वधीनादन्यत् किञ्चिदपि स्मरन्
SK
अन्याधीनत्वविच्चास्य सर्वपूर्त्यविदेव च | भक्तिहीनश्च ते सर्वे तमोऽन्धं य्Ḹअन्त्यसं शयम्
SK
तत्त्वे सं शययुक्ता ये सर्वे ते निरयोपगाः | च्द्xxविइइ.दोषेभ्यस्ते गुणाधिक्ये नैव यान्त्यधमां गतिम् | गुणदोषसाम्ये मानुष्यं सर्वदैव पुनः पुनः
SK
य्Ḹअवद् दोषक्षयश्चोर्ध्वा गतिः क्रमश एव तु | सर्वदोषक्षये मुक्तिरात्मयोग्यानुसारतः
SK
भक्तिज्ञ्Ḹअनोन्नतावेव स्वर्गश्च शुभकर्मणः | विष्णुवैष्णववाक्येन हानिः प्Ḹअपस्य कर्मणः
SK
इत्यादि धर्मसर्वस्वं भीष्मस्थेनैव विष्णुना | प्Ḹअर्थानां गदितं तच्च श्रुत्वा धर्मसुतोऽनुजान् | पप्रच्छ विदुरं चैव सारं धर्मादिषु त्रिषु
SK
आह क्षत्ता धर्ममेव सारमर्थं च मध्यमम् | नीचं क्Ḹअमं निष्फलत्वादर्थमेवार्जुनोऽब्रवीत्
SK
सारं स द्विविधो ज् ञेयो दैवो मानुष एव च | दैवो विद्या हिरण्य्Ḹअदिर्मानुषः परिकीर्तितः
SK
मध्यमो धर्म एवात्र साध्यं साधनमेव च | विद्याह्वयोऽर्थो धर्मस्य विद्ययैव च मुच्यते
SK
म्Ḹअनुषोऽर्थोऽपि विद्यायाः क्Ḹअरणं सुप्रयोजितः | तुष्टोऽर्थेन गुरुर्यस्मात् कैवल्यं द्Ḹअतुमप्यलम्
SK
धर्मार्थतां विनाऽप्यर्थैस्तुष्येयुर्गुरुदेवताः | यद्यनुद्देशितो धर्मोऽप्यर्थमेवानुसं व्रजेत्
SK
गुरुताऽर्थगतैव स्यात् कामोऽवस्ताद्धि निष्फलः | यमावत्र विदां श्रेष्ठ्Ḹअवर्जुनोक्तमनूचतुः
SK
अथाह भीमः प्रवरः सुतत्त्वदृशां समस्तानभिभाष्य हर्षात् | स्मयन् न कामादतिरिक्तमस्ति किञ्चिच्छुभं क्कावरतां स यायात्
SK
क्Ḹअम्यं हि कामाभिधमाहुरार्याः क्Ḹअम्याः पुमर्थाः सह साधनैर्यत् | च्द्xxइx.अकाम्यतां य्Ḹअत्यपुमर्थ एव पुमर्थितत्वाद्धि पुमर्थ उक्तः
SK
विज्ञ्Ḹअनभक्त्यादिकमप्यतीव सत्साधनं क्Ḹअमबहिष्कृतं चेत् | न साधनं स्यात् परमोऽपि मोक्षो न साध्यतां य्Ḹअति विना हिकामात्
SK
परात् परोऽप्यादिपुमान् हरिश्च स्वस्येतरेषामपि काम्य एव | अकामितोऽवाग्गतिमेव दद्यात् कामः पुमर्थोऽखिल एव तेन
SK
इच्छैव कामोऽस्तु तथाऽपि नैतामृते हि चित्त्वं घटकुड्यवत् स्यात् | सारस्ततः सैव चिदात्मकाऽपि सा चेतना गूढतनुः सदैव
SK
न प्रश्नयोग्यः पृथगेव कामस्तेनैष राजन् यदि तारतम्यम् | इच्छस्ययं ते त्रिविधो हि वेद्यो धर्मार्थयुक्तः परमो मतोऽत्र | एकाविरोधी यदि मध्यमोऽसौ द्वयोर्विरोधी तु स एव नीचः
SK
तस्मात् स्वबुद्धिप्रमदाभिरेव कामं रमेथा अनुरूपकामः | राजन् न कामादपरं शुभं हि परो हि कामो हरिरेव येन
SK
प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः | इदं वचो व्याससमासयुक्तं सम्प्रोच्य भीमो वरराम वीरः
SK
प्रशस्य भीममन्यां श्च राजा मोक्षमथास्तुवत् | स्वयुक्तेरप्रतीपत्वान्निराचक्रे न मारुतिः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source