Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 2

SK
Oं | जयति हरिरचिन्त्यः सर्वदेवैकवन्द्यः परमगुरुरभीष्टावाप्तिदः सज्जनानाम् | निखिलगुणगणार्णो नित्यनिर्मुक्तदोषः सरसिजनयनोऽसौ श्रीपतिर्मानदो नः
SK
उक्तः पूर्वेऽध्याये शास्त्राणां निर्णयः परो दिव्यः | श्रीमद्भारतवाक्यान्येतैरेवाध्यवस्यन्ते
SK
क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि | कुर्युः क्वचिच्च व्यत्यासं प्रमादात् क्वचिदन्यथा
SK
अनुत्सन्ना अपि ग्रन्था व्याकुला इति सर्वशः | उत्सन्नाः प्रायशः सर्वे कोट्यं शोऽपि न वर्तते
SK
ग्रन्थोऽप्येवं विलुल् . इतः किम्वर्थो देवदुर्गमः | कलावेवं व्याकुलिते निर्णयाय प्रचोदितः
SK
हरिणा निर्णयान् वच्मि विजानं स्तत्प्रसादतः | शास्त्रान्तराणि सञ्जानन् वेदां श्चास्य प्रसादतः
SK
देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान् | यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः
SK
जगाद भारताद्येषु तथा वक्ष्ये तदीक्षया | सङ्क्षेपात् सर्वशास्त्रार्थं भारतार्थानुसारतः | निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम्
SK
᳚भारतं सर्ववेदाण्स्च तुलामारोपिताः पुरा | देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः | व्यासस्यैवाऽज्ञया तत्र त्वत्यरिच्यत भारतम्᳚
SK
᳚महत्वाद् भारवत्वाच्च महाभारतमुच्यते | xव्निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते᳚२८
SK
᳚निर्णयः सर्वशास्त्राणां सदृष्टान्तो हि भारते | कृतो विष्णुवशत्वं हि ब्रह्मादीनां प्रकाण्सितम्
SK
यतः कृष्णवशे सर्वे भीमाद्याः सम्यगीरिताः | सर्वेषां ज् ञानदो विष्णुर्यशोदातेति चोदितः
SK
यस्माद्व्यासात्मना तेषां भारते यश ऊचिवान् | ज् ञानदश्च शुकादीनां ब्रह्मरुद्रादिरूपिणाम्
SK
ब्रह्माधिकश्च देवेभ्यः शेषाद्रुद्रादपीरितः | प्रियश्च विष्णोः सर्वेभ्य इति भीमनिदर्शनात्
SK
भूभारहारिणो विष्णोः प्रधानाङ्गं हि मारुतिः | मागधादिवधादेव दुर्योधनवधादपि
SK
यो य एव बलज्येष्ठः क्षत्रियेषु स उत्तमः | अङ्गं चेद्विष्णुकार्येषु तद्भक्त्यैव न चान्यथा
SK
बलं नैसर्गिकं तच्चेद्वरास्त्रादेस्तदन्यथा | अन्यावेशनिमित्तं चेद्बलमन्यात्मकं हि तत्
SK
देवेषु बलिनामेव भक्तिज्ञाने न चान्यथा | स एव च प्रियो विष्णोर्नान्यथा तु कथञ्चन
SK
तस्माद्यो यो बलज्येष्ठः स गुणज्येष्ठ एव च | बलं हि क्षत्रिये व्यक्तं ज् ञायते स्थूलदृष्टिभिः
SK
ज् ञानादयो गुणा यस्माज्ज्ञायन्ते सूक्ष्मदृष्टिभिः | तस्माद्यत्र बलं तत्र विज्ञातव्या गुणाः परे
SK
देवेष्वेव न चान्येषु वासुदेवप्रतीपतः | २८ Mअहा. १.१.२०९ * xवि.क्षत्रादन्येष्वपि बलं प्रमाणं यत्र केशवः | प्रवृत्तो दुष्टनिधने ज्ञानकार्ये तथैव च
SK
अन्यत्र ब्राह्मणानां तु प्रमाणं ज् ञानमेव हि | क्षत्रियाणां बलं चैव सर्वेषां विष्णुकार्यता
SK
कृष्णरामादिरूपेषु बलकार्यो जनार्दनः | दत्तव्यासादिरूपेषु ज्ञानकार्यस्तथा प्रभुः
SK
मत्स्यकूर्मवराहाण्स्च सिं हवामनभार्गवाः | राघवः कृष्णबुद्धौ च कृष्णद्वैपायनस्तथा
SK
कपिलो दत्त ऋषभौ शिं शुमारो रुचेः सुतः | नारायणो हरिः कृष्णस्तापसो मनुरेव च
SK
महिदासस्तथा हं सः स्त्रीरूपो हयशीर्षवान् | तथैव वडवावक्त्रः कल्की धन्वन्तरिः प्रभुः
SK
इत्याद्याः केवलो विष्णुर्नैषां भेदः कथञ्चन | न विशेषो गुणैः सर्वैर्बलज्ञानादिभिः क्वचित्
SK
श्रीब्रह्मरुद्रशेषाण्स्च वीन्द्रेन्द्रौ काम एव च | कामपुत्रोऽनिरुद्धश्च सूर्यश्चन्द्रो बृहस्पतिः
SK
धर्म एषां तथा भार्या दक्षाद्या मनवस्तथा | मनुपुत्राण्स्च ऋषयो नारदः पर्वतस्तथा
SK
कश्यपः सनकाद्याण्स्च वह्न्याद्याण्स्चैव देवताः | भरतः कार्तवीर्यश्च वैन्याद्याण्स्चक्रवर्तिनः
SK
गयश्च लक्ष्मणाद्याण्स्च त्रयो रोहिणिनन्दनः | प्रद्युम्नो रौक्मिणेयश्च तत्पुत्रश्चानिरुद्धकः
SK
नरः फल्गुन इत्याद्या विशेषावेशिनो हरेः | वालि साम्बादयश्चैव किञ्चिदावेशिनो हरेः
SK
xविइ.तस्माद्बलप्रवृत्तस्य रामकृष्णात्मनो हरेः | अन्तरङ्गं हनूमां श्च भीमस्तत्कार्यसाधकौ
SK
ब्रह्मात्मको यतो वायुः पदं ब्राह्ममगात् पुरा | वायोरन्यस्य न ब्राह्मं पदं तस्मात् स एव सः
SK
यत्र रूपं तत्र गुणाः भक्त्याद्यास्त्रीषु नित्यशः | रूपं हि स्थूलदृष्टीनां दृश्यं व्यक्तं ततो हि तत्
SK
प्रायो वेत्तुं न शक्यन्ते भक्त्याद्यास्त्रीषु यत् ततः | यासां रूपं गुणास्तासां भक्त्याद्या इति निश्चयः
SK
तच्च नैसर्गिकं रूपं द्वात्रिं शल्लक्षणैर्युतम् | नालक्षणं वपुर्मात्रं गुणहेतुः कथञ्चन
SK
आसुरीणां वरादेस्तु वपुर्मात्रं भविष्यति | न लक्षणान्यतस्तासां नैव भक्तिः कथञ्चन
SK
तस्माद् रूपगुणोदारा जानकी रुग्मिणी तथा | सत्यभामेत्यादिरूपा ण्स्रीः सर्वपरमा मता
SK
ततः पश्चाद् द्रौपदी च सर्वाभ्यो रूपतो वरा | भूभारक्षपणे साक्षादङ्गं भीमवदीशितुः
SK
हन्ता च वैरहेतुश्च भीमः पापजनस्य तु | द्रौपदी वैरहेतुः सा तस्माद् भीमादनन्तरा
SK
बलदेवस्ततः पश्चात् ततः पश्चाच्च फल्गुनः | नरावेशादन्यथा तु द्रौणिः पश्चात् ततोऽपरे
SK
रामवज्जाम्बवत्याद्याः षट्ततो रेवती तथा | लक्ष्मणो हनुमत्पश्चात् ततो भरतवालिनौ | शत्रुघ्नस्तु ततः पश्चात् सुग्रीवाद्यास्ततोऽवराः
SK
xविइइ.रामकार्यं तु यैः सम्यक् स्वयोग्यं न कृतं पुरा | तैः पूरितं तत् कृष्णाय बीभत्स्वाद्यैः समन्ततः
SK
अधिकं यैः कृतं तत्र तैरूनं कृतमत्र तत् | कर्णाद्यैरधिकं यैस्तु प्रादुर्भावद्वये कृतम् | विविदाद्यैर्हि तैः पश्चाद् विप्रतीपं कृतं हरेः
SK
प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृतः | नैतयोरकृतं किञ्चिच्छुभं वा यदि वाऽशुभम् | अन्यत्र पूर्यते क्वापि तस्मादत्रैव निर्णयः
SK
पश्चात्तनत्वात् कृष्णस्य वैशेष्यात् तत्र निर्णयः | प्रादुर्भावमिमं यस्माद् गृहीत्वा भारतं कृतम्
SK
उक्ता रामकथाऽप्यस्मिन् मार्कण्डेयसमास्यया | तस्माद् यद् भारते नोक्तं तद्धि नैवास्ति कुत्रचित् | अत्रोक्तं सर्वशास्त्रेषु नहि सम्यगुदाहृतम्᳚
SK
इत्यादि कथितं सर्वं ब्रह्माण्डे हरिणा स्वयम् | मार्कण्डेयेऽपि कथितं भारतस्य प्रशं सनम्
SK
᳚देवतानां यथा व्यासो द्विपदां ब्राह्मणो वरः | आयुधानां यथा वज्रमोषधीनां यथा यवाः | तथैव सर्वशास्त्राणां महाभारतमुत्तमम्᳚
SK
वायुप्रोक्तेऽपि तत् प्रोक्तं भारतस्य प्रशं सनम् | २९ ᳚कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् | को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्᳚३०
SK
एवं हि सर्वशास्त्रेषु पृथक् पृथगुदीरितम् | उक्तोऽर्थः सर्व एवायं माहात्म्यक्रमपूर्वकः
SK
२९ ᳚कृष्णद्वैपायनं व्यासम्᳚ इति श्लोकः न केवलं व्Ḹअयुप्रोक्तेऽस्ति | किन्तु भारतेऽप्यस्तीति ज् ञेयम् -Bहा. Pर. ३० Pअद्म Pउ. १.१.४३-४४; Vइष्णु Pउ. ३.४-५; Mअहा. १२.३३४.९ | xइx.भारतेऽपि यथा प्रोक्तो निर्णयोऽयं क्रमेण तु| तथा प्रदर्शयिष्यामस्तद्वाक्यैरेव सर्वशः
SK
᳚नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च | त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्᳚
SK
३१ ज् ञानप्रदः स भगवान् कमलाविरिञ्चशर्वादिपूर्वजगतो निखिलाद्वरिष्ठः | भक्त्यैव तुष्यति हरिप्रवणत्वमेव सर्वस्य धर्म इति पूर्वविभागसं स्थः
SK
निर्दोषकः सृतिविहीन उदारपूर्णसं विद्गुणः प्रथमकृत् सकलात्मशक्तिः | मोक्षैकहेतुरसुरूपसुरैश्च मुक्तैर्वन्द्यः स एक इति चोक्तमथोत्तरार्धे
SK
नम्यत्वमुक्तमुभयत्र यतस्ततोऽस्य मुक्तैरमुक्तिगगणैश्च विनम्यतोक्ता | इत्थं हि सर्वगुणपूर्तिरमुष्य विष्णोः प्रस्ताविता प्रथमतः प्रतिजानतैव
SK
᳚कृष्णो यज्ञैरिज्यते सोमपूतैः कृष्णो वीरैरिज्यते विक्रमद्भिः | कृष्णो वन्यैरिज्यते सम्मृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः ᳚
SK
सृष्टा ब्रह्मादयो देवा निहता येन दानवाः | तस्मै देवादिदेवाय नमस्ते शार्ङ्गधारिणे
SK
स्रष्टृत्वं देवानां मुक्तिस्रष्टृत्वमुच्यते नान्यत् | उत्पत्तिर्दैत्यानामपि यस्मात् सम्मिता विशेषोऽयम्
SK
अथ च दैत्यहतिस्तमसि स्थिरा नियतसं स्थितिरेव न चान्यथा | तनुविभागकृतिः सकलेष्वियं नहि विशेषकृत् आ सुरदैत्यगा
SK
३१ ऽक्वचिदन्तरितानपिऽ इति वचनात्, इदमाद्यपद्यमसहमानाः केचिदादौ न लिखन्ति | केरल् . अदेशस्य पुरातनपुस्तकेषु अद्यापि दृश्यते | कथमन्यथा लोकाचार्यो व्यासः लक्षपरिमितं ग्रन्थं कुर्वन् ग्रन्थादौ लोकशिक्षणाय मङ्गल् . अपद्यं न रचयेत्? यतोऽल्पीयसि ग्रन्थे भागवते हरिवं शादौ च ᳚सत्यं परं धीमहि᳚ इति, ᳚सोऽनादिर्वासुदेवः शमयतु दुरितं जन्मजन्मार्जितम्᳚ इति च लोकशिक्षणार्थं मङ्गल् . अमकरोत् | अतो अस्मिन्महाग्रन्थे सकलशिष्टानां गुरुर्व्यासः मङ्गल् . अमाचरेदेवेति ज्ञेयम् | -Bहा. Pर. xx.तमिममेव सुरासुरसञ्चये हरिकृतं प्रविशेषमुदीक्षितुम् | प्रतिविभज्य च भीमसुयोधनौ स्वपरपक्षभिदा कथिता कथा
SK
᳚नमो भगवते तस्मै व्यासायामिततेजसे | यस्य प्रसादाद् वक्ष्यामि नारायणकथामिमाम्
SK
वासुदेवस्तु भगवान् कीर्तितोऽत्र सनातनः | प्रतिबिम्बमिवाऽदर्शे यं पश्यन्त्यात्मनि स्थितम्
SK
नास्ति नारायणसमं न भूतं न भविष्यति | एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्᳚
SK
आद्यन्तयोरित्यवदत् स यस्माद् व्यासात्मको विष्णुरुदारशक्तिः | तस्मात् समस्ता हरिसद्गुणानां निर्णीतये भारतगा कथैषा
SK
᳚सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते | वेदशास्त्रात् परं नास्ति न दैवं केशवात् परम्᳚
SK
᳚आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः | इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा᳚
SK
᳚स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् | सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः ᳚
SK
᳚को हि तं वेदितुं शक्तो यो न स्यात् तद्विधोऽपरः | तद्विधश्चापरो नास्ति तस्मात् तं वेद सः स्वयम्
SK
को हि तं वेदितुं शक्तो नारायणमनामयम् | ऋते सत्यवतीसूनोः कृष्णाद् वा देवकीसुतात्
SK
अप्रमेयोऽनियोज्यश्च स्वयं कामगमो वशी | मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव
SK
न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः | xxइ.परमात् परमेतस्माद् विश्वरूपान्न विद्यते
SK
वसुदेवसुतो नायं नायं गर्भेऽवसत् प्रभुः | नायं दशरथाज्जातो न चापि जमदग्नितः
SK
ज् आयते नैव कुत्रापि म्रियते कुत एव तु | न वेध्यो मुह्यते नायं बद्ध्यते नैव केनचित् | कुतो दुःखं स्वतन्त्रस्य नित्यानन्दैकरूपिणः
SK
ईशन्नपि हि देवेशः सर्वस्य जगतो हरिः | कर्माणि कुरुते नित्यं कीनाण्स इव दुर्बलः
SK
नाऽत्मानं वेद मुग्धोऽयं दुःखी सीत् आं च मार्गते | बद्धः शक्रजितेत्यादि लीलैषाऽसुरमोहिनी
SK
मुह्यते शस्त्रपातेन भिन्नत्वग्रुधिरस्रवः | अजानन् पृच्छति स्मान्यां स्तनुं त्यक्त्वा दिवं गतः
SK
इत्याद्यसुरमोहाय दर्शयामास नाट्यवत् | अविद्यमानमेवेशः कुहकं तद् विदुः सुराः
SK
प्रादुर्भावा हरेः सर्वे नैव प्रकृतिदेहिनः | निर्दोषा गुणसम्पूर्णा दर्शयन्त्यन्यथैव तु
SK
दुष्टानां मोहनार्थाय सतामपि तु कुत्रचित् | यथायोग्यफलप्राप्त्यै लीलैषा परमात्मनः ᳚
SK
᳚ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः | यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते᳚३२
SK
᳚अहं कृत्स्नस्य जगतः प्रभवः प्रल् . अयस्तथा | मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय᳚३३
SK
३२ Bह. Gई. ७.२ ३३ Bह. Gई. ७.६-७ xxइइ.᳚अवजानन्ति मां मूढा मानुषीं तनुमाण्स्रितम्᳚३४ | ᳚मोघाण्सा मोघकर्माणो मोघज्ञाना विचेतसः | राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ᳚ ३५
SK
᳚महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाण्स्रिताः | भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्᳚३६
SK
᳚पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् | न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव᳚३७
SK
᳚परं भूयः प्रवक्ष्यामि ज् ञानानां ज् ञानमुत्तमम् | यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ᳚ ३८
SK
᳚ममयोनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम् | सम्भवः सर्वभूतानां ततो भवति भारत᳚३९
SK
᳚द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च | क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते
SK
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः | यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः
SK
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः | अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः
SK
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् | स सर्वविद् भजति मां सर्वभावेन भारत
SK
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ | ३४ Bह. Gई. ९.११ ३५ Bह. Gई. ९.१२ ३६ Bह. Gई. ९.१३ ३७ Bह. Gई. ११.४३ ३८ Bह. Gई. १४.१ ३९ Bह. Gई. १४.३ xxइइइ.एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत᳚४०
SK
᳚द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च | दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु᳚ ४१
SK
᳚असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्᳚४२ | ᳚ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी᳚ ४३
SK
᳚मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ᳚ ४४ | ᳚तानहं द्विषतः क्रूरान् सं सारेषु नराधमान् | क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु᳚४५
SK
᳚आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि | मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्᳚४६
SK
᳚सर्वभूतेषु येनैकं भावमव्ययमीक्षते | अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम्᳚४७
SK
᳚सर्वगुह्यतमं भूयः शृणु मे परमं वचः | इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्᳚४८
SK
᳚मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे᳚४९
SK
᳚पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् | सर्वेष्वेतेषु राजेन्द्र ज्ञानेष्वेतद् विशिष्यते᳚५०
SK
४० Bह. Gई. १५.१६-२० ४१ Bह. Gई. १६.६ ४२ Bह. Gई. १६.८ ४३ Bह. Gई. १६.१४ ४४ Bह. Gई. १६.१८ ४५ Bह. Gई. १६.१९ ४६ Bह. Gई. १६.२० ४७ Bह. Gई. १८.२० ४८ Bह. Gई. १८.६४ ४९ Bह. Gई. १८.६५ ५० Mअहा. १२.३३७.६३ * xxइव्.᳚ज्ञानेष्वेतेषु राजेन्द्र साङ्ख्यपाण्सुपतादिषु | यथायोगं यथान्यायं निष्ठा नारायणः परः ᳚ ५१
SK
᳚पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप | एकान्तभावोपगता वासुदेवं विशन्ति ते᳚५२
SK
(जनमेजय उवाच) ᳚बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु | को ह्यत्र पुरुषण्स्रेष्ठस्तं भवान् वक्तुमर्हति᳚५३
SK
वैशम्पायन उवाच - ᳚नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह | बहूनां पुरुषाणां हि यथैका योनिरुच्यते | तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्᳚५४
SK
᳚आह ब्रह्मैतमेवार्थं महादेवाय पृच्छते | तस्यैकस्य ममत्वं हि स चैकः पुरुषो विराट्᳚
SK
᳚अहं ब्रह्मा चाऽद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः | मत्तो जगत् स्थावरं जङ्गमं च सर्वे वेदा सरहस्याण्स्च पुत्र᳚
SK
तथैव भीमवचनं धर्मजं प्रत्युदीरितम् | ᳚ब्रह्मेशानादिभिः सर्वैः समेतैर्यद्गुणां शकः | नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा
SK
५१ Mअहा. १२.३३७.६४ * ५२ Mअहा. १२.३३७.६७ * ५३ Mअहा. १२.३३८.१ * ५४ Mअहा. १२.३३८.२-३ * xxव्.स एष भगवान् कृष्णो नैव केवलमानुषः | यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः ᳚
SK
वचनं चैव कृष्णस्य ज्येष्ठं कुन्तीसुतं प्रति | ᳚रुद्रं समाण्स्रिता देवा रुद्रो ब्रह्माणमाण्स्रितः | ब्रह्मा मामाण्स्रितो नित्यं नाहं किञ्चिदुपाण्स्रितः
SK
यथा᳚श्रितानि ज्योतीं षि ज्योतिः श्रेष्ठं दिवाकरम् | एवं मुक्तगणाः सर्वे वासुदेवमुपाण्स्रिताः ᳚
SK
भविष्यत्पर्वगं चापि वचो व्यासस्य सादरम् | ᳚वासुदेवस्य महिमा भारते निर्णयोदितः
SK
तदर्थास्तु कथाः सर्वा नान्यार्थं वैष्णवं यशः | तत्प्रतीपं तु यद् दृश्येन्न तन्मम मनीषितम्
SK
भाषास्तु त्रिविधास्तत्र मया वै सम्प्रदर्शिताः | उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिना
SK
शैवदर्शनमालम्ब्य क्वचिच्छैवी कथोदिता | समाधिभाषयोक्तं यत् तत् सर्वं ग्राह्यमेव हि
SK
अविरुद्धं समाधेस्तु दर्शनोक्तं च गृह्यते | आद्यन्तयोर्विरुद्धं यद् दर्शनं तदुदाहृतम्
SK
दर्शनान्तरसिद्धं च गुह्यभाषाऽन्यथा भवेत् | तस्माद् विष्णोर्हि महिमा भारतोक्तो यथार्थतः
SK
तस्याङ्गं प्रथमं वायुः प्रादुर्भावत्रयान्वितः | प्रथमो हनुमान् नाम द्वितीयो भीम एव च | पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः
SK
त्रेताद्येषु युगेष्वेष सम्भूतः केशवाज्ञया | एकैकशस्त्रिषु पृथग् द्वितीयाङ्गं सरस्वती
SK
xxवि.शं रूपे तु रतेर्वायौ श्रीरित्येव च कीर्त्यते | सैव च द्रौपदी नाम काल् . ई चन्द्रेति चोच्यते
SK
तृतीयाङ्गं हरेः शेषः प्रादुर्भावसमन्वितः | प्रादुर्भावा नरश्चैव लक्ष्मणो बल एव च
SK
रुद्रात्मकत्वाच्छेषस्य शुको द्रौणिश्च तत्तनू | इन्द्रे नरां शसम्पत्त्या पार्थोऽपीषत् तदात्मकः
SK
प्रद्युम्नाद्यास्ततो विष्णोरङ्गभूताः क्रमेण तु| चरितं वैष्णवानां तद् विष्णूद्रेकाय कथ्यते᳚
SK
तथा भागवतेऽप्युक्तं हनूमद्वचनं परम् | ᳚मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः | कुतोऽस्य हि स्यू रमतः स्व आत्मन् सीत् आकृत् आनि व्यसनानीश्वरस्य
SK
न वै स आत्माऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः | न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि जहाति कर्हिचित्᳚५५
SK
यत्पादपङ्कजपरागनिषेवकाणां दुःखानि सर्वाणि लयं प्रयान्ति | स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीसऽ न्गिनामिति रतिं प्रथयं श्चचार
SK
᳚क्वचिच्छिवं क्वचिदृषीन् क्वचिद् देवान् क्वचिन्नरान् | नमत्यर्चयति स्तौति वरानर्थयतेऽपि च
SK
लि ङ्गं प्रतिष्ठापयति वृणोत्यसुरतो वरान् | सर्वेश्वरः स्वतन्त्रोऽपि सर्वशक्तिश्च सर्वदा | सर्वज्ञोऽपि विमोहाय जनानां पुरुषोत्तमः ᳚
SK
तस्माद् यो महिमा विष्णोः सर्वशास्त्रोदितः स हि | नान्यदित्येष ण्सास्त्राणां निर्णयः समुदाहृतः | ५५ Bहा. Pउ. ५.१९.५-६ xxविइ.भारतार्थस्त्रिधा प्रोक्तः स्वयं भगवतैव हि
SK
᳚मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथा परे | तथोपरिचराद्यन्ये भारतं परिचक्षते᳚५६
SK
᳚सकृष्णान् पाण्डवान् गृह्य योऽयमर्थः प्रवर्तते | प्रातिलोम्यादिवैचित्र्यात् तमास्तीकं प्रचक्षते
SK
धर्मो भक्त्यादिदशकः श्रुतादिः शीलवैनयौ | सब्रह्मकास्तु ते यत्र मन्वादिं तं विदुर्बुधाः
SK
नारायणस्य नामानि सर्वाणि वचनानि तु | तत्सामर्थ्याभिधायीनि तमौपरिचरं विदुः
SK
भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः | योगः प्राणो बलं चैव वृकोदर इति स्मृतः
SK
एतद्दशात्मको वायुस्तस्माद् भीमस्तदात्मकः | सर्वविद्या द्रौपदी तु यस्मात् सैव सरस्वती
SK
अज्ञानादिस्वरूपस्तु कलिर्दुर्योधनः स्मृतः | विपरीतं तु यज्ज्ञानं दुः शासन इतीरितः
SK
नास्तिक्यं शकुनिर्नाम सर्वदोषात्मकाः परे | धार्तराष्ट्रास्त्वहङ्कारो द्रौणी रुद्रात्मको यतः
SK
द्रोणाद्या इन्द्रियाण्येव पापान्यन्ये तु सैनिकाः | पाण्डवेयाण्स्च पुण्यानि तेषां विष्णुर्नियोजकः
SK
एवमध्यात्मनिष्ठं हि भारतं सर्वमुच्यते | दुर्विज्ञेयमतः सर्वैर्भारतं तु सुरैरपि
SK
स्वयं व्यासो हि तद् वेद ब्रह्मा वा तत्प्रसादतः | ५६ Mअहा. १.१.५० * xxविइइ.तथाऽपि विष्णुपरता भारते सारसङ्ग्रहः ᳚
SK
इत्यादिव्यासवाक्यैस्तु विष्णूत्कर्षोऽवगम्यते | वाय्वादीनां क्रमश्चैव तद्वाक्यैरेव चिन्त्यते
SK
᳚वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स स्मृतः | न ब्रह्मसदृशः कश्चिच्छिवादिषु कथञ्चन᳚
SK
᳚ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे | बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्व च कश्चनैव᳚
SK
᳚बल् . इत्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि | यदीम् उपह्वरते साधते मतिर् ऋतस्य धेना अनयन्त सस्रुतः
SK
पृक्षो वपुः पितुमान् नित्य आण्सये द्वितीयम् आ सप्तशिवासु मातृषु | तृतीयम् अस्य वृष्भस्य दोहसे दशप्रमतिं जनयन्त योषणः
SK
निर्यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः | यद् ईम् अनु प्रदिवो मध्व आधवे गुहासन्तम् मातरिश्वा मथायति
SK
प्र यत् पितुः परमान् नीयते पर्या पृक्षुधो वीरुधो दं सु रोहति | उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा ण्सुचिः
SK
आद् इन् मातृराविशद् यास्वा ण्सुचिर् अहिं स्यमान उर्विया विवावृधे | अनुयत् पूर्वा अरुहत् सनाजुवो नि नव्यशीष्ववरासु धावते᳚५७
SK
᳚अश्वमेधः क्रतुश्रेष्ठो ज्योतिः श्रेष्ठो दिवाकरः | ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः ᳚
SK
᳚बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् | बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः ᳚
SK
᳚वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः | ५७ Ṛग्वेद १.१४१.१-५ xxइx.अनावृत्तिर्देहिनां देहपाते तस्माद् वायुर्देवदेवो विशिष्टः ᳚
SK
᳚तत्त्वज्ञाने विष्णुभक्तौ धैर्ये स्थैर्ये पराक्रमे | वेगे च लाघवे चैव प्रलापस्य च वर्जने
SK
भीमसेनसमो नास्ति सेनयोरुभयोरपि | पाण्डित्ये च पटुत्वे च शूरत्वे च बलेऽपि च᳚
SK
तथा युधिष्ठिरेणापि भीमं प्रति समीरितम् | ᳚धर्मश्चार्थश्च कामश्च मोक्षण्स्चैव यशो ध्रुवम् | त्वय्यायत्तमिदं सर्वं सर्वलोकस्य भारत᳚
SK
विराटपर्वगं चापि वचो दुर्योधनस्य हि | ५८ ᳚वीराणां शास्त्रविदुषां कृतिनां तत्त्वनिर्णये | सत्त्वे बाहुबले धैर्ये प्राणे ण्सारीरसम्भवे
SK
साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे | चत्वारः प्राणिनां श्रेष्ठाः सम्पूर्णबलपौरुषाः
SK
भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान् | चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः | अन्योन्यानन्तरबलाः क्रमादेव प्रकीर्तिताः ᳚
SK
वचनं वासुदेवस्य तथोद्योगगतं परम् | ᳚यत् किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव | सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्
SK
यादृशे च कुले जातः सर्वराजाभिपूजिते | ५८ ᳚वीराणां शास्त्रविदुषाम्᳚, ᳚नास्ति नारायणसमम्᳚ इत्यादि महाभारताद्युक्तानि भगवत्पादैरुदाहृतानि मुद्रितपुस्तकेषु अनुपलभ्यत्वेऽपि प्राचीनकोशेषु प्रायशः दृष्यन्ते | xxx.यादृशानि च कर्माणि भीम त्वमसि तादृशः ᳚ ५९
SK
᳚अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः | धूरर्जुनेन वोढव्या वोढव्य इतरो जनः ᳚ ६० | उक्तं पुराणे ब्रह्माण्डे ब्रह्मणा नारदाय च
SK
᳚यस्याः प्रसादात् परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः | माता च यैषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ
SK
या मारुताद् गर्भमधत्त पूर्वं शेषं सुपर्णं गिरीशं सुरेन्द्रम् | चतुर्मुखाभां श्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ᳚
SK
᳚यस्याधिको बले नास्ति भीमसेनमृते क्वचित् | न विज्ञाने न च ज्ञान एष रामः स लाङ्गली᳚
SK
᳚यस्य न प्रतियोद्धाऽस्ति भीममेकमृते क्वचित् | अन्विष्यापि त्रिलोकेषु स एष मुसलायुधः ᳚
SK
तथा युधिष्ठिरेणैव भीमाय समुदीरितम् | ᳚अनुज्ञातो रौहिणेयात् त्वया चैवापराजित | सर्वविद्यासु बीभत्सुः कृष्णेन च महात्मना
SK
अन्वेष रौहिणेयं च त्वां च भीमापराजितम् | वीर्ये शौर्येऽपि वा नान्यस्तृतीयः फल्गुनादृते᳚
SK
तथैव द्रौपदीवाक्यं वासुदेवं प्रतीरितम् | ᳚अधिज्यमपि यत् कर्तुं शक्यते नैव गाण्डिवम् | अन्यत्र भीमपार्थाभ्यां भवतश्च जनार्दन᳚
SK
तथैवान्यत्र वचनं कृष्णद्वैपायनेरितम् | ५९ Mअहा. ५.७५.३-४ * ६० Mअहा. ५.७५.१८ * xxxइ.᳚द्वावेव पुरुषौ लोके वासुदेवादनन्तरौ | भीमस्तु प्रथमस्तत्र द्वितीयो द्रौणिरेव च᳚
SK
᳚अक्षयाविषुधी दिव्ये ध्वजो वानरलक्षणः | गाण्डीवं धनुषां श्रेष्ठं तेन द्रौणेर्वरोऽर्जुनः ᳚
SK
इत्याद्यनन्तवाक्यानि सन्त्येवार्थे विवक्षिते | कानिचिद् दर्शितान्यत्र दिण्मात्रप्रतिपत्तये
SK
तस्मादुक्तक्रमेणैव पुरुषोत्तमता हरेः | अनौपचारिकी सिद्धा ब्रह्मता च विनिर्णयात्
SK
पूर्णप्रज्ञकृतेयं सङ्क्षेपादुद्धृतिः सुवाक्यानाम् | श्रीमद्भारतगानां विष्णोः पूर्णत्वनिर्णयायैव
SK
स प्रीयतां परतमः परमादनन्तः सन्तारकः सततसं सृतिदुस्तरार्णात् | यत्पादपद्ममकरन्दजुषो हिपार्थाः स्वाराज्यमापुरुभयत्र सदा विनोदात्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source