Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 10

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये रामस्वधामप्रवेशो नाम नवमोऽध्यायः मम सङ्ग्रहे (श्रीजयतीर्थसं स्कृतहस्तलिखितग्रन्थालये), उत्तरादिमठीय ग्रन्थसङ्ग्रहे च वर्तन्ते -व्यासनकेरे प्रभञ्जनाचार्यः चि.(व्यासावतारानुवर्णनम्) अथ दशमोऽध्यायः Oं | द्वापरेऽथ युगे प्राप्ते त्वष्टाविं शतिमे पुनः | स्वयम्भुशर्वशक्राद्या दुग्धाब्धेस्तीरमाययुः
SK
पयोब्धेरुत्तरं तीरमासाद्य विबुधर्षभाः | तुष्टुवुः पुण्डरीकाक्षमक्षयं पुरुषोत्तमम्
SK
नमोनमोऽगण्यगुणैकधाम्ने समस्तविज्ञानमरीचिमालिने | अनाद्यविज्ञानतमोनिहन्त्रे परामृत् आनन्दपदप्रदायिने
SK
स्वदत्तमालाभुविपातकोपतो दुर्वाससः शापत आण्सु हि श्रिया | शक्रे विहीने दितिजैः पराजिते पुरा वयं त्वां शरणं गताः स्म
SK
त्वदाज्ञया बलिना सन्दधाना वराद् गिरीशस्य परैरचाल्यम् | वृन्दारका मन्दरमेत्य बाहुभिर्न शेकुरुद्धर्तुमिमे समेताः
SK
तदा त्वया नित्यबलत्वहेतुतो योऽनन्तनामा गरुडस्तदं सके | उत्पाट्य चैकेन करेण मन्दरो निधापितस्तं स सह त्वयाऽवहत्
SK
पुनः परीक्षद्भिरसौ गिरिः सुरैः सहासुरैरुन्नमितस्तदं सतः | व्यचूर्णयत् तानखिलान् पुनश्च ते त्वदीक्षया पूर्ववदुत्थिताः प्रभो
SK
पुनश्च वामेन करेण वीश्वरे निधाय तं स्कन्धगतस्त्वमस्य | अगाः पयोब्धिं सहितः सुरासुरैर्मथ्ना च तेनाब्धिमथाप्यमथ्नाः
SK
कृतश्च कद्र्वास्तनयोऽत्र वासुकिर्नेत्रं त्वया कश्यपजः स नागराट्| ममन्थुरब्धिं सहितास्त्वया सुराः सहासुरा दिव्यपयो घृत् आधिकम्
SK
नैच्छन्त पुच्छं दितिजा अमङ्गल् . अं तदित्यथाग्रं जगृहुर्विषोल्बणम् | श्रान्ताण्स्च तेऽतो विबुधास्तु पुच्छं त्वया समेता जगृहुस्त्वदाण्स्रयाः
SK
अथातिभारादविशत् सुकाञ्चनो गिरिः स पाताल् . अमथ त्वमेव | तं कच्छपात्मा त्वभरः स्वपृष्ठे ह्यनन्यधार्यं पुरुलीलयैव
SK
चिइ.उपर्यधश्चाऽत्मनि नेत्रगोत्रयोस्त्वया परेणाऽविशता समेधिताः | ममन्थुरब्धिं तरसा मदोत्कटाः सुरासुराः क्षोभितनक्रचक्रम्
SK
श्रान्तेषु तेष्वेक उरुक्रम त्वं सुधारसाप्त्यै मुदितो ह्यमथ्नाः | तदा जगद्ग्रासि विषं समुत्थितं त्वदाज्ञया वायुरधात् करे निजे
SK
कलेः स्वरूपं तदतीव दुष्षहं वराद् विधातुः सकलैश्च दुः स्पृशम् | करे विमथ्यास्तबलं विधाय ददौ स किञ्चिद् गिरिशाय वायुः
SK
स तत् पिबत् कण्ठगतेन तेन निपातितो मूर्च्छित आण्सु रुद्रः | हरेः करस्पर्शबलात् स सञ्ज्ञामवाप नीलोऽस्य गल् . अस्तदाऽसीत्
SK
अथ त्वदाज्ञां पुरतो निधाय निधाय पात्रे तपनीयरूपे | स्वयं च निर्मथ्य बलोपपन्नं पपौ स वायुस्तदु चास्य जीर्णम्
SK
अत्यल्पपानाच्च बभूव शूला ण्सिवस्य शीर्ष्णण्स्च करावशिष्टम् | अभूत् कलिः सर्वजगत्सु पूर्णं पीत्वा विकारो न बभूव वायोः | कलेः शरीरादभवन् कुनागाः सवृश्चिकाः श्वापदयातुधानाः
SK
अथ त्वयाऽब्धौ तु विमथ्यमाने सुराऽभवत् तामसुरा अवापुः | उच्चैः श्रवा नाम तुरङ्गमोऽथ करी तथैरावतनामधेयः
SK
अन्ये च दिक्पालगजा बभूवुर्वरं तथैवाप्सरसां सहस्रम् | तथाऽयुधान्याभरणानि चैव दिवौकसां पारिजातस्तरुश्च
SK
तथैव साक्षात् सुरभिर्निशेशो बभूव तत् कौस्तुभं लोकसारम् | अथेन्दिरा यद्यपि नित्यदेहा बभूव तत्रापरया स्वतन्वा
SK
ततो भवान् दक्षिणबाहुना सुधाकमण्डलुं कलशं चापरेण | प्रगृह्य तस्मान्निरगात् समुद्राद् धन्वन्तरिर्नाम हरिन्मणिद्युतिः
SK
ततो भवद्धस्तगतं दितेः सुताः सुधाभरं कलशं चापजह्रुः | मुक्तं त्वया ण्सक्तिमताऽपि दैत्यान् सत्यच्युतान् कारयता वधाय
SK
चिइइ.ततो भवाननुपममुत्तमं वपुर्बभूव दिव्यप्रमदात्मकं त्वरन् | श्यामं नितम्बार्पितरत्नमेखलं ज् आम्बूनदाभाम्बरभृत् सुमध्यमम्
SK
बृहन्नितम्बं कलशोपमस्तनं सत्पुण्डरीकायतनेत्रमुज्ज्वलम् | समस्तसारं परिपूर्णसद्गुणं दृष्ट्वैव तत् सम्मुमुहुः सुरारयः
SK
परस्परं तेऽमृतहेतुतोऽखिला विरुद्ध्यमानाः प्रददुः स्म ते करे | समं सुधायाः कलशं विभज्य निपाययास्मानिति वञ्चितास्त्वया
SK
धर्मच्छलं पापजनेषु धर्म इति त्वया ज्ञापयितुं तदोक्तम् | यद्यत् कृतं मे भवतां यदीह सं वाद एवोद्विभजे सुधामिमाम्
SK
यथेष्टतोऽहं विभजामि सर्वथा नविश्वसध्वं मयि केनचित् क्वचित् | इति प्रहस्याभिहितं निशम्य स्त्रीभावमुग्धास्तु तथेति तेऽवदन्
SK
ततश्च सं स्थाप्य पृथक् सुरासुरां स्तवातिरूपोच्चलितान् सुरेतरान् | सर्वान् भवद्दर्शिन ईक्ष्य लज्जिताऽस्म्यहं दृशो मीलयतेत्यवोचः
SK
निमीलिताक्षेष्वसुरेषु देवता न्यपाययः साध्वमृतं ततः पुमान् | क्षणेन भूत्वा पिबतः सुधां शिरो राहोर्न्यकृन्तश्च सुदर्शनेन
SK
तेनामृत् आर्थं हि सहस्रजन्मसु प्रतप्य भूयस्तप आरितो वरः | स्वयम्भुवस्तेन भवान् करेऽस्य बिन्दुं सुधां प्रास्य शिरो जहार
SK
शिरस्तु तस्य ग्रहतामवाप सुरैः समाविष्टमथो सबाहु | क्षिप्तः कबन्धोऽस्य शुभोदसागरे त्वया स्थितोऽद्यापि हि तत्र सामृतः
SK
अथासुराः प्रत्यपतन्नुदायुधाः समस्तशस्ते च हतास्त्वया रणे | कलिस्तु स ब्रह्मवरादजेयो ह्यृते भवन्तं पुरुषेषु सं स्थितः
SK
तस्यार्द्धदेहात् समभूदलक्ष्मीस्तत्पुत्रका दोषगणाण्स्च सर्वशः | अथेन्दिरा वक्षसि ते समास्थिता त्वत्कण्ठगं कौस्तुभमास धाता
SK
यथाविभागं च सुरेषु दत्तास्त्वया तथाऽन्येऽपि हि तत्र जाताः | इत्थं त्वया साध्वमृतं सुरेषु दत्तं हि मोक्षस्य निदर्शनाय
SK
चिव्.भवेद्धि मोक्षो नियतं सुराणां नैवासुराणां स कथञ्चन स्यात् | उत्साहयुक्तस्य च तत् प्रतीपं भवेद्धि राहोरिव दुःखरूपम्
SK
कलिस्त्वयं ब्रह्मवरादिदानीं विबाधतेऽस्मान् सकलान् प्रजाण्स्च | अज्ञानमिथ्यामतिरूपतोऽसौ प्रविश्य सज्ज्ञानविरुद्धरूपः
SK
त्वदाज्ञया तस्य वरोऽब्जजेन दत्तः स आविश्य शिवं चकार | कदागमां स्तस्य कुयुक्तिबाधान् नहि त्वदन्यश्चरितुं समर्थः
SK
वेदाण्स्च सर्वे सहशास्त्रसङ्घा उत्सादितास्तेन न सन्ति तेऽद्य | तत् साधु भूमाववतीर्य वेदानुद्धृत्य शास्त्राणि कुरुष्व सम्यक्
SK
अदृश्यमज्ञेयमतर्क्यरूपं कलिं निलीनं हृदयेऽखिलस्य | सच्छास्त्रशस्त्रेण निहत्य शीघ्रं पदं निजं देहि महाजनस्य
SK
ऋते भवन्तं नहि तं निहन्ता त्वमेक एवाखिलशक्तिपूर्णः | ततो भवन्तं शरणं गता वयं तमोनिहत्यै निजबोधविग्रहम्
SK
इतीरितस्तैरभयं प्रदाय सुरेश्वराणां परमोऽप्रमेयः | प्रादुर्बभूवामृतभूरिल् . आयां विशुद्धविज्ञानघनस्वरूपः
SK
वसिष्ठनामा कमल् . ओद्भवात्मजः सुतोऽस्य शक्तिस्तनयः पराण्सरः | तस्योत्तमं सोऽपि तपोऽचरद्धरिः सुतो मम स्यादिति तद्धरिर्ददौ
SK
उवाच चैनं भगवान् सुतोषितो वसोर्मदीयस्य सुताऽस्ति शोभना | वने मृगार्थं चरतोऽस्य वीर्यं पपात भार्यां मनसा गतस्य
SK
तच्छ्येनहस्ते प्रददौ स तस्यै दातुं तदन्येन तु युद्ध्यतोऽपतत् | जग्रास तन्मत्स्यवधूर्यमस्वसुर्जलस्थमेनां जगृहुश्च दाण्साः
SK
तद्गर्भतोऽभून्मिथुनं स्वराज्ञे न्यवेदयन् सोऽपि वसोः समर्पयत् | पुत्रं समादाय सुतां स तस्मै ददौ सुतोऽभूदथ मत्स्यराजः
SK
कन्या तुसा दाण्सराजस्य सद्मन्यवर्द्धतातीव सुरूपयुक्ता | च्व्नाम्ना च सा सत्यवतीति तस्यां तवाऽत्मजोऽहं भविताऽस्म्यजोऽपि
SK
इतीरितश्चक्रधरेण तां मुनिर्जगाम मार्ताण्डसुतां समुद्रगाम् | उत्तारयन्तीमथ तत्र विष्णुः प्रादुर्बभूवाऽशु विशुद्धचिद्घनः
SK
विदोषविज्ञानसुखैकरूपोऽप्यजो जनान् मोहयितुं मृषैव | योषित्सु पुं सो ह्यजनीव दृश्यते न जायते क्वापि बलादिविग्रहः
SK
यथा नृसिं हाकृतिराविरासीत् स्तम्भात् तथा नित्यतनुत्वतो विभुः | आविर्भवद् योषिति नो मलोत्थस्तथाऽपि मोहाय निदर्शयेत् तथा
SK
स्त्रीपुम्प्रसऽ न्गात् परतो यतो हरिः प्रादुर्भवत्येष विमोहयन् जनम् | अतो मलोत्थोऽयमिति स्म मन्यते जनोऽशुभः पूर्णगुणैकविग्रहम्
SK
द्वीपे भगिन्याः स यमस्य विश्वकृत् प्रकाण्सते ज्ञानमरीचिमण्डलः | प्रभासयन्नण्डबहिस्तथाऽन्तः सहस्रलक्षामितसूर्यदीधितिः
SK
अगण्यदिव्योरुगुणार्णवः प्रभुः समस्तविद्याधिपतिर्जगद्गुरुः | अनन्तशक्तिर्जगदीश्वरः समस्तदोषातिविदूरविग्रहः
SK
शुभमरतकवर्णो रक्तपादाब्जनेत्राधरकरनखरसनाग्रश्चक्रशङ्खाब्जरेखः | रविकरवरगौरं चर्म चैणं वसानस्तटिदमलजटासन्दीप्तजूटं दधानः
SK
विस्तीर्णवक्षाः कमल् . आयताक्षो बृहद्भुजः कम्बुसमानकण्ठः | समस्तवेदान् मुखतः समुद्गिरन्ननन्तचन्द्राधिककान्तसन्मुखः
SK
प्रबोधमुद्राभयदोर्द्वयान्वितो यज्ञोपवीत् आजिनमेखलोल्लसन् | दृशा महाज्ञानभुजङ्गदष्टमुज्जीवयानो जगदत्यरोचत
SK
स लोकधर्माभिरिरक्षया पितुर्द्विजत्वमाप्याऽशु पितुर्ददौ निजम् | ज् ञानं तयोः सं स्मृतिमात्रतः सदा प्रत्यक्षभावं परमात्मनो ददौ
SK
द्वैपायनः सोऽथ जगाम मेरुं चतुर्मुखाद्यैरनुगम्यमानः | उद्धृत्य वेदानखिलान् सुरेभ्यो ददौ मुनिभ्यश्च यथाऽदिसृष्टौ
SK
च्वि.सर्वाणि शास्त्राणि तथैव कृत्वा विनिर्णयं ब्रह्मसूत्रं चकार | तच्छुश्रुवुर्ब्रह्मगिरीशमुख्याः सुरा मुनीनां प्रवराण्स्च तस्मात्
SK
समस्तशास्त्रार्थनिदर्शनात्मकं चक्रे महाभारतनामधेयम् | वेदोत्तमं तच्च विधातृशङ्करप्रधानकैस्तन्मुखतः सुरैः श्रुतम्
SK
अथो गिरीशादिमनोनुशायी कलिर्ममाराऽशु सुवान्मयैः शरैः | निकृत्तशीर्षो भगवन्मुखेरितैः सुराण्स्च सज्ज्ञानसुधारसं पपुः
SK
अथो मनुष्येषु तथाऽसुरेषु रूपान्तरैः कलिरेवावशिष्टः | ततो मनुष्येषु च सत्सु सं स्थितो विनाण्स्य इत्येष हरिर्व्यचिन्तयत्
SK
ततो नृणां कालबलात् सुमन्दमायुर्मतिं कर्म च वीक्ष्य कृष्णः | विव्यास वेदान् स विभुश्चतुर्धा चक्रे तथा भागवतं पुराणम्
SK
येये च सन्तस्तमसाऽनुविष्टास्तां स्तान् सुवाक्यैस्तमसो विमुञ्चन् | चचार लोकान् स पथि प्रयान्तं कीटं व्यपश्यत् तमुवाच कृष्णः
SK
भवस्व राजा कुशरीरमेतत् त्यक्त्वेति नैच्छत् तदसौ ततस्तम् | अत्यक्तदेहं नृपतिं चकार पुरा स्वभक्तं वृषलं सुलुब्धम्
SK
लोभात् स कीटत्वमुपेत्य कृष्णप्रसादतश्चाऽशु बभूव राजा | तदैव तं सर्वनृपाः प्रणेमुर्ददुः करं चास्य यथैव वैश्याः
SK
उवाच तं भगवान् मुक्तिमस्मिं स्तव क्षणे दातुमहं समर्थः | तथाऽपि सीमार्थमवाप्य विप्रतनुं विमुक्तो भव मत्प्रसादात्
SK
ज् ञानं च तस्मै विमलं ददौ स महीं च सर्वां बुभुजे तदन्ते | त्यक्त्वा तनुं विप्रवरत्वमेत्य पदं हरेराप सुतत्त्ववेदी
SK
एवं बहून् सं सृतिबन्धतः स व्यमोचयद् व्यासतनुर्जनार्दनः | बहून्यचिन्त्यानि च तस्य कर्माण्यशेषदेवेशसदोदितानि
SK
अथास्य पुत्रत्वमवाप्तुमिच्छं श्चचार रुद्रः सुतपस्तदीयम् | ददौ च तस्मै भगवान् वरं तं स्वयं च तप्त्वेव तपो विमोहयन्
SK
च्विइ.विमोहनायासुरसर्गिणां प्रभुः स्वयं करोतीव तपः प्रदर्शयेत् | कामादिदोषां श्च मृषैव दर्शयेन्न तावता तेऽस्य हि सन्ति कुत्रचित्
SK
ततस्त्वरण्योः स्म बभूव पुत्रकः शिवोऽस्य सोऽभूच्छुकनामधेयः | शुकी हि भूत्वाऽभ्यगमद् घृत् आची व्यासं विमथ्नन्तमुतारणी तम्
SK
अकामयन् कामुकवत् स भूत्वा तयाऽर्थितस्तं शुकनामधेयम् | चक्रे ह्यरण्योस्तनयं च सृष्ट्वा विमोहयं स्तत्त्वमार्गेष्वयोग्यान्
SK
शुकं तमाण्सु प्रविवेश वायुर्व्यासस्य सेवार्थमथास्य सर्वम् | ज् ञानं ददौ भगवान् सर्ववेदान् सभारतं भागवतं पुराणम्
SK
शेषोऽथ पैलं मुनिमाविशत् तदा वीशः सुमन्तुमपि वारुणिं मुनिम् | ब्रह्माऽविशत् तमुत वैशपायनं शक्रश्च जैमिनिमथाऽविशद् विभुः
SK
कृष्णस्य पादपरिसेवनोत्सुकाः सुरेश्वरा विविशुराण्सु तान् मुनीन् | समस्तविद्याः प्रतिपाद्य तेष्वसौ प्रवर्तकां स्तान् विदधे हरिः पुनः
SK
ऋचां प्रवर्तकं पैलं यजुषां च प्रवर्तकम् | वैशम्पायनमेवैकं द्वितीयं सूर्यमेव च
SK
चक्रेऽथ जैमिनिं साम्नामथर्वाङ्गिरसामपि | सुमन्तुं भारतस्यापि वैशम्पायनमादिशत् | प्रवर्तने मानुषेषु गन्धर्वादिषु चाऽत्मजम्
SK
नारदं पाठयित्वा च देवलोकप्रवृत्तये | आदिशत् ससृजे सोऽथ रोमाञ्चाद् रोमहर्षणम्
SK
तं भारतपुराणानां महारामायणस्य च | पञ्चरात्रस्य कृत्स्नस्य प्रवृत्त्यर्थमथाऽदिशत्
SK
तमाविशत् कामदेवः कृष्णसेवासमुत्सुकः | स तस्मै ज्ञानमखिलं ददौ द्वैपायनः प्रभुः
SK
च्विइइ.सनत्कुमारप्रमुखां श्चक्रे योगप्रवर्तकान् | भृग्वादीन् कर्मयोगस्य ज्ञानं दत्वाऽमलं शुभम्
SK
जैमिनिं कर्ममीमां साकर्तारमकरोत् प्रभुः | देवमीमां सिकाद्यन्तः कृत्वा पैलमथाऽदिशत् | शेषं च मध्यकरणे पुराणान्यथ चाकरोत्
SK
शैवान् पाण्सुपताच्चक्रे सं शयार्थं सुरद्विषाम् | वैष्णवान् पञ्चरात्राच्च यथार्थज्ञानसिद्धये | ब्राह्मां श्च वेदतश्चक्रे पुराणग्रन्थसङ्ग्रहान्
SK
एवं ज् ञानं पुनः प्रापुर्देवाण्स्च ऋषयस्तथा | सनत्कुमारप्रमुखा योगिनो मानुषास्तथा | कृष्णद्वैपायनात् प्राप्य ज्ञानं ते मुमुदुः सुराः
SK
समस्तविज्ञानगभस्तिचक्रं विताय विज्ञानमहादिवाकरः | निरस्य(निपीय)६८ चाज्ञानतमो जगत्ततं प्रभासते भानुरिवावभासयन्
SK
चतुर्मुखेशानसुरेन्द्रपूर्वकैः सदा सुरैः सेवितपादपल्लवः | प्रकाण्सयं स्तेषु सदाऽत्मगुह्यं मुमोद मेरौ च तथा बदर्याम्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source