Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 27

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये न्Ḹअरायणास्त्रोपशमनं न्Ḹअम षड्विं शोऽध्यायः च्च्च्ल्xxxइx.(कर्णवधः ) अथ सप्तविं शोऽध्यायः Oं | अथानुज्ञामुपादाय द्रौणेर्दुर्योधनो नृपः | कर्णं सेनापतिं चक्रे सोऽगाद् युद्धाय दं सितः
SK
तत्राभवद् युद्धमतीव दारुणं पाण्डोः सुतानां धृतराष्ट्रजैर्गजे | तत्रोदयाद्रिप्रतिमे प्रदृश्यते भीमो यथोद्यन् सविताऽतिनिर्मलः
SK
तं कालयन्तं नृपतीन् क्षेमधूर्तिरभ्यागमत् तस्य गजं जघान च | तं वीर्यमत्तं प्रतिलभ्य भीमो निनाय मृत्योः सदनाय शीघ्रम्
SK
निहत्य तं मारुतिरभ्यकृन्तच्छिरां सि यूनां परपक्षपातिनाम् | विक्षोभयामास च शत्रुसैन्यं सिं हो यथैव श्वसृगालयूथम्
SK
सङ्क्षोभ्यमाणं तदनीकमीक्ष्य द्रौणी रथेन प्रतिजग्मिवां स्तम् | तद् युद्धमासीदतिघोरमद्भुतं पुरा यथा नाऽस च कस्यचित् क्वचित्
SK
दृष्ट्वैव तद् देवगन्धर्वविप्रा ऊचुर्नेदृग् दृष्टपूर्वं सुयुद्धम् | नचोत्तरं वाऽपि भविष्यतीदृक् कलां च सर्वाणि न षोडण्सीमियुः
SK
नैतादृशी ज्ञानसम्पद् बलं वा द्वयं कुतो वायुमृते शिवं तथा | द्वयोः समाहार इह द्वयोरपि ज्ञानस्य बाह्वोश्च बलस्य सूर्जितः
SK
इतीर्यमाणे विबुधैर्नरोत्तमौ दिशः समस्ता गगनं च पत्रिभिः | निरन्तरं चक्रतुरुत्तमोजसौ दृष्ट्वैव तद् भीतिमगुर्महारथाः
SK
शरासने मारुतिना निराकृतो द्रौणिर्महास्त्राणि मुमोच तस्मिन् | त् आन्यस्त्रवर्यैर्बलवानविस्मयः सं शामयामास सुतोऽनिलस्य
SK
पुनः शरैरेव परस्परं त् आवयुद्ध्यतां चित्रमलं च सुष्ठु | तदा तुभीमस्य शरैर्भृशार्तो द्रौणिः पपाताऽशु दृढं विचेतनः
SK
भीमश्च विह्वलतनुः स तु किञ्चिदेव पूर्वं गते गुरुसुते प्रययौ क्षणेन | निर्धूतयुद्धश्रम आत्तधन्वा योद्धुं गजौघं प्रतिनादिताण्सः
SK
च्च्च्xच्.तस्मिन् गजान् मर्दयति धार्तराष्ट्रो युधिष्ठिरम् | अगाद् युद्धाय तौ युद्धं राजानौ चक्रतुश्चिरम्
SK
तत्र तं विरथं चक्रे सहसैव युधिष्ठिरः | स गदामाददे गुर्वीं तं भीमोऽभ्यपतद् गदी
SK
दृष्ट्वा कृपस्तं स्वरथमारोप्यापययौ ततः | तदैव कर्णनकुलौ भृशं बाणैरयुद्ध्यताम्
SK
नकुलं विरथं कृत्वा कर्णोऽथ प्रपलायितम् | अनुद्रुत्य च वेगेन कण्ठे धनुरवासृजत्
SK
उक्त्वा च पुरुषा वाचः कुन्त्या वचनगौरवात् | न जघानैव नकुलं विसृज्य च ययौ परान्
SK
विन्दानुविन्दावथ कैकयौ रणे समासदत् सात्यकिरुग्रविक्रमः | तयोरमुष्याभवदुग्रवैशसं प्रवर्षतोरुत्तमसायकान् बहून्
SK
त् आभ्यां निरुद्धः सहसा जहार तत्रानुविन्दस्य शिरोऽथ विन्दः | युयोध शैनेयमथारथावुभौ परस्परं चक्रतुरुत्तमाहवे
SK
ततश्च चर्मासिधरौ प्रचेरतुः श्येनौ यथाऽकाण्सतल् . ए कृतश्रमौ | निकृत्य चान्योन्यमुभौ च चर्मणी वरासिपाणी युगपत् समीयतुः
SK
तत्रापहस्तेन शिरः सकुण्डलं जहार विन्दस्य मृधे स सात्यकिः | निहत्य तं बन्धुजनैः सुपूजितो जगाम शत्रूनपरान् प्रकम्पयन्
SK
कृपमायान्तमीक्ष्यैव तपसां मां प्रपीडयेत् | इति मत्वा पार्षतस्तु भीमं शरणमेयिवान्
SK
कर्णं समन्तात् प्रतिकालयन्तं वरूथिनीमिन्द्रसुतः समभ्ययात् | क्षणात् तमाजौ विरथं च चक्रे ततोऽपहारं स चकार चम्वाः
SK
पराजितः सं यति सूर्यसूनुः सुतेन शक्रस्य स धार्तराष्ट्रम् | च्च्च्xचि.जगाद बाहुं प्रतिगृह्य पार्थो जिगाय मामन्यमनस्कमाजौ
SK
कामं रथो मे धनुरप्यभेद्यं दत्तं भृगूणामधिपेन दिव्यम् | यन्ता नतादृङ् मम यादृशो हरिः शल्यो यदि स्यात् त्वदरिं निहन्याम्
SK
इतीरिते सौत्यकृते स शल्यं प्रोवाच स क्रुद्ध इवाभवत् तदा | दुर्योधनो रथिनः सारथेस्तु व्यावर्णयन्नुत्तमतामशामयत्
SK
बुद्ध्या बलेन ज्ञानेन धैर्याद्यैरपि योऽधिकः | रथिनः सारथिः स स्यादर्जुनस्य यथा हरिः | यथा ण्सिवस्य ब्रह्माऽभूद् दहतस्त्रिपुरं पुरा
SK
इत्यादिवाक्यैः सं शान्त इव शल्योऽस्य सारथिः | बभूव तेन सहितः सेनां व्यूह्य रवेः सुतः
SK
गच्छन् युद्धाय दर्पेण प्राह यो मेऽर्जुनं पुमान् | दर्शयेत् तस्य दास्यामि प्रीतो वित्तमनर्गल् . अम्
SK
इति ब्रुवन्तं बहुशः प्राह शल्यः प्रहस्य च | निवातकवचा येन हता दग्धं च खाण्डवम् | को नाम तं जयेन्मर्त्यो दृष्टो वोऽपि स गोग्रहे
SK
काकगोमायुधर्मा त्वं हं ससिं होपमं रणे | मा याहि पार्थं मा याहि हतोऽनेन यमक्षयम्
SK
इत्युक्ते रविजो मद्रान् नितरां पर्यकुत्सयत् | शल्योऽपि सर्वदेशेषु नीचमध्योत्तमा नराः | सन्तीत्युक्त्वाऽस्य सारथ्यं चक्रे पार्थहितेप्सया
SK
कर्णोऽथ शल्यनियतेन रथेन पार्थसेनामवाप्य विदुधाव शरैः समन्तात् | सं रक्षितो युधि सुयोधनगौतमाद्यैराचार्यजेन च महास्त्रविदां वरेण
SK
तं भीमपार्षतशिनिप्रवराभिगुप्ता सा पाण्डवेयपृतनाऽभिववर्ष बाणैः | त् आं सूर्यसूनुरथ बाणवरैर्विदार्य सम्प्रार्दयच्छितशरैरपि धर्मसूनुम्
SK
च्च्च्xचिइ.कृत्वा तमाण्सु विरथं धनुरस्य कण्ठे सज्यं निधाय परुषा गिर आह चोच्चैः | दृष्ट्वैव मारुतिरमुं भृशमातुतोद दुर्योधनं विरथकार्मुकमत्र कृत्वा
SK
तं प्राणसं शयगतं नृपतिं निरीक्ष्य कर्णं जगाद युधि मद्रपतिः प्रदर्श्य | यस्यार्थ एव समरस्त्वमियं च सेनां तं त्वं यमस्य सदनं प्रयियासुमद्य | भीमेन पीडितममुं परिपाहि शीघ्रं किं ते युधिष्ठिरमिमं हि मुधाऽभिपीड्य
SK
श्रुत्वाऽस्य वाक्यमतिहाय युधिष्ठिरं तं कर्णो ययौ नृपतिरक्षणतत्परोऽलम् | दृष्ट्वैव तं पवनसूनुरभि त्वियाय क्रोधाद् दिधक्षुरिव कर्णममेयधामा
SK
राजावनाय शिनिपुङ्गवपार्षतौ च सन्दिश्य कर्णमभिगच्छत आस रूपम् | अन्ते कृत् आन्तनरसिं हतनोर्यथैव विष्णोर्हरं ग्रसत आत्तसमस्तविश्वम् | तद्वेगतः प्रतिचचाल धरा समस्ता विद्राविता च सकला प्रतिवीरसेना
SK
वैकर्तनेन शरसञ्चयताडितः स बाणं च वज्रसदृशं प्रमुमोच तस्मिन् | तेनाऽहतो मृतकवत् स पपात कर्णो भीमः क्षुरं च जगृहेऽभिययौ च पद्भ्याम्
SK
निन्दां हरेस्तु विदधाति परोक्षगोऽपि यस्तं प्रगृह्य करवाणि विजिं ह्वमेव | एवं हि वायुतनयस्य महाप्रतिज्ञा छेत्तुं स तेन रविजस्य ससार जिं ह्वाम्
SK
आयान्तमन्तिकममुं प्रसमीक्ष्य शल्यो नेत्याह हेतुभिरहो न मृषा प्रतिज्ञा | कार्या त्वयैव पुरुहूतसुतस्य जिं ह्वां मा तेन पातय मरुत्सुत सूतसूनोः
SK
इत्युक्त्वा प्रमुखात् तस्य रथेनैव तु मद्रराट्| वैकर्तनमपोवाह सर्वलोकस्य पश्यतः
SK
जित्वा सूर्यसुतं भीमः कौरवाणामनीकिनीम् | सर्वां विद्रावयामास द्रौणिदुर्योधनावृत् आम्
SK
अक्षोहिणीत्रयं तेन तदा विलुल् . इतं क्षणात् | तदैव गुरुपुत्रोऽयात् पाण्डवानामनीकिनीम्
SK
विमृद्य सकलां सेनां कृत्वा च विरथं नृपम् | धृष्टद्युम्नं यमौ चैव सात्यकिं द्रौपदीसुतान् | क्षणेन विरथीकृत्य सर्वां श्चक्रे निरायुधान्
SK
च्च्च्xचिइइ.त् आन् भग्नदर्पान् रणतोऽपयातानन्वेव बाणावृतमन्तरिक्षम् | कुर्वन् ययौ धर्मराजस्तमाह किं नः स्वधर्मे निरतान् विहं सि
SK
क्षत्रियान् परधर्मस्थो मा हिं सीरिति चोदितः | प्रहस्य तान् विहायैव ययौ यत्राच्युतार्जुनौ
SK
सं शप्तकैस्तत्र सं युद्ध्यमानं समाह्वयामास सुरेशसूनुम् | स बाणयुक्तं भुजगेन्द्रकल्पमुन्नम्य बाहुं युधये सुशूरम्
SK
पार्थः सं शप्तकगणैः सं सृष्टः समरार्थिभिः | आहूतो द्रौणिना चैव कार्यं कृष्णमपृच्छत | चोदयामास च हयान् कृष्णो द्रौणिरथं प्रति
SK
उभौ च तावस्त्रविदां प्रधानौ महाबलौ सं यति जातदर्पौ | शरैः समस्ताः प्रदिशो दिशश्च द्रोणेन्द्रसूनू तिमिराः प्रचक्रतुः
SK
द्रौणिस्तदा स्यन्दनवाजिरोमस्वरोमकूपध्वजकार्मुकेभ्यः | शरानमोघान् सततं सृज् आनो बबन्ध पार्थं शरपञ्जरेण
SK
तस्मिन् निबद्धे हरिरप्रमेयो विबोधयामास सुरेन्द्रसूनुम् | आलिङ्गनेनास्य ददौ बलं च स उत्थितोऽस्त्राण्यमुचन्महान्ति
SK
निवार्य तान्यस्त्रवरैर्गुरोः सुतश्चिच्छेद च ज्यां युधि गाण्डिवस्य | ववर्ष पार्थं च शरैरथाऽन्या ज्याऽसीत् तया गाण्डिवं सोऽप्ययुङ्क्त
SK
ततः शरेण कुपितः शितेन द्रौणिसारथेः | शिरो जहार कौन्तेयः सारथ्यं सोऽकरोत् स्वयम्
SK
शरान् विसृजता तेन सारथ्यमपि कुर्वता | शरकूटेन पार्थः स पुनर्बद्धो द्विजन्मना
SK
पुनरालिङ्ग्य कृष्णस्तमधाच्छत्रुविघातकम् | बलमस्मिं स्ततः पार्थः उत्तस्थौ शरचापभृत् | ववर्ष चशरान् भूयो द्रोणपुत्रेऽरिमर्दनः
SK
च्च्च्xचिव्.पुनस्तस्य नुनोद ज्यां द्रौणिः सन्धाय तां पुनः | पार्थो द्रोणसुतस्याण्स्वरश्मीं श्चिच्छेद सायकैः
SK
विरश्मयो हया द्रौणेः पुनः पार्थशराहताः | अपोहुर्दूरमेतस्मात् सोऽपि सं स्थाप्य तान् पुनः | चिन्तयामास नैतस्मादधिकं शक्यतेऽर्जुने
SK
सारथित्वात् केशवस्य ध्वजस्थत्वाद्धनूमतः | गाण्डिवत्वात् कार्मुकस्य चेषुध्योरक्षयत्वतः
SK
अवध्यत्वात् तथाऽश्वानामभेद्यत्वाद् रथस्य च | अतो योद्धुं समर्थोऽपि नाद्य यामि धनञ्जयम्
SK
एवं स मत्वा प्रविवेश सेनां पाण्डोः सुतानामथ तं समभ्ययात् | पाण्ड्यस्तयोरास सुयुद्धमद्भुतं प्रवर्षतोः सायकपूगमुग्रम्
SK
अष्टावष्टण्सतान्यूहुः शकटानि यदायुधम् | अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप तत्र ह
SK
अथ तं विरथं कृत्वा छित्वा कार्मुकमाहवे | सकुण्डलं शिरो द्रौणिर्जहार मकुटोज्ज्वलम्
SK
अथ विद्रावयामास पृतनां पाण्डवीं शरैः | तदा जघान पार्थोऽपि दण्डधाराख्यमागधम्
SK
विद्राप्यमाणां पृतनां निरीक्ष्य गुरोः सुतेनाभ्यगमत् त्वरावान् | धृष्टद्युम्नस्तं स ऊचे सुपापं हनिष्ये त्वामद्य युद्धे गुरुघ्नम्
SK
इत्युक्तो दर्शयामास पार्षतः खड्गमुत्तमम् | अयं तव पितुर्हन्ता वदिष्यति तवोत्तरम्
SK
इत्युक्त्वा धनुरादाय ववर्ष चशरान् बहून् | तयोः समभवद् युद्धं तुमुलं रोमहर्षणम्
SK
च्च्च्xच्व्.तत्र पार्षतं द्रौणिः क्षणेन विरथायुधम् | कृत्वाऽन्ताय शरां स्तीक्ष्णान् मुमोच नच तस्य ते | त्वचं च चिच्छिदुर्द्रौणिः खड्गहस्तोऽभिजग्मिवान्
SK
खड्गेन सास्त्रैः शस्त्रैरप्यनिर्भिण्णत्वचं तदा | मौर्व्या ममन्थ धनुषः पातयित्वा धरातल् . ए
SK
आकृष्यमाणं पार्षतं दृष्ट्वा कृष्णप्रचोदितः | पार्थो भीमश्चोभयतः शरैरभिनिजघ्नतुः
SK
स ताभ्यां वज्रसदृशैः शरैरभिहतो भृशम् | विसृज्य पार्षतं स्वीयमारुरोह रथं पुनः
SK
जगाम च ततोऽन्यत्र पाञ्चाल्योऽपि रथं पुनः | आरुं ह्यान्यं स्वात्तधन्वा कृतवर्माणमभ्ययात्
SK
तयोरासीत् सुतुमुलं युद्धमद्भुतदर्शनम् | तत्र नातिप्रयत्नेन पाञ्चाल्यो विरथायुधम् | चकार कृतवर्माणं तमपोवाह गौतमः
SK
अथ दुर्योधनो राजा माद्रेयावभ्ययाद् रथी | त् आभ्यां तस्याभवद् घोरं युद्धमद्भुतदर्शनम् | तत्र नातिप्रयत्नेन तेन तौ विरथीकृतौ
SK
स्वयं युधिष्ठिरो राजा तदा तं समवारयत् | व्यश्वसूतध्वजं चक्रे तं च दुर्योधनो रणे
SK
अथाऽगतं सूर्यसुतं पुनश्च जगाम भीमो रभसो रथेन | दुर्योधनं चास्य समक्षमेव चकार वीरो विरथं क्षणेन
SK
निवार्य कर्णं च शरैरमुष्य सूनोः सुषेणस्य शिरश्चकर्त | पपात भूमौ स पितुः समीपे यथा हतः सत्यसेनोऽमुनैव | यथैव कर्णावरजौ पुरैव निशायुद्धे कर्णपुरः प्रपातितौ
SK
हतं तमीक्ष्यैव विकर्तनात्मजः क्रोधान्वितो भीमसेनं विहाय | च्च्च्xच्वि.ययौ प्रमृद्यैव चमूं युधिष्ठिरं रथेऽपरे स्वश्वयुते व्यवस्थितम्
SK
न्यवारयेतां शिनिपौत्रपार्षतौ कृष्णासुताः सोमकसङ्घयुक्ताः | स तान् समस्तान् विरथान् विधाय युधिष्ठिरं प्राप युतं यमाभ्याम्
SK
निहत्य सोऽश्वान् युधि धर्मसूनोर्निरायुधौ तौ च यमौ चकार | त् आनेकयानोपगतान् पुनश्च ममर्द बाणैश्च वचोभिरुग्रैः
SK
तदैव मोक्षाय नृपस्य भीमो दुर्योधनं विरथं सं विधाय | विव्याध मर्मस्वतितीक्ष्णसायकैस्तं दर्शयामास रवेः सुताय
SK
शल्यस्तदा धर्मसुतं विहाय कर्णो ययौ तत्र युधिष्ठिरोऽपि | गत्वा ण्सनैः शिबिरं तत्र शिश्ये कर्णो यदा राजगृध्नी जगाम
SK
द्रौणिः कृपश्चात्र तदैव जग्मतुस्तदा भीमो द्रौणिकर्णौ जगाम | यदा भीमो द्रौणिकर्णौ जगाम कृपो नृपं रथमारोपयच्च
SK
नृपं समादाय कृपेऽपयाते भीमार्दितौ द्रौणिकर्णौ शरौघैः | विहाय तं जग्मतुः सोमकानां चमूं शरौघैरभिपातयन्तौ
SK
अथात्र राजानमचक्षमाणो धनञ्जयो वासुदेवप्रणुन्नः | अभ्याययौ पार्षतः स्वां तु सेनां कर्णाहतां वीक्ष्य कुरूनपीडयत्
SK
न्यवारयत् समायान्तं कपिप्रवरकेतनम् | द्रौणिर्दुः शासनश्चैव धृष्टद्युम्नमवारयत्
SK
उभावतिरथौ तौ तु शस्त्रास्त्रैरभ्यवर्षताम् | दुः शासनः पार्षतश्च कुर्वन्तौ बाणजं तमः
SK
तत्र दुः शासनेनाऽजौ स्तम्भितो द्रुपदात्मजः | यतमानोऽपि निर्यत्नः कृतो युद्धे निरायुधः
SK
तदाऽभवद् युद्धमतीव दारुणं द्रौणेस्तनूजेन तु वज्रपाणेः | तत्रापि बद्धः शरपञ्जरेण पार्थोऽपनुत्ताऽपि हि गाण्डिवज्या
SK
च्च्च्xच्विइ.पार्थोऽथ कृष्णेधितबाहुवीर्यो निहत्य सूतं गुरुपुत्रकस्य | छित्वा चरश्मीं स्तुरगानमुष्य विद्रावयामास शरैः सुदूरम्
SK
अतीत्य पुत्रं तु गुरोः समागते पार्थे कर्णो द्रावयामास सेनाम् | पाण्डोः सुतानां शरवर्षधारो दुर्योधनश्चानु ययौ तमेव
SK
कर्णमायान्तमालोक्य द्रावयन्तं निजां चमूम् | धनुरन्यत् समादाय धृष्टद्युम्नो न्यवारयत्
SK
तयोरासीन्महद् युद्धं चिरं सममविश्रमम् | तदैव सात्यकिर्वीरो दुर्योधनमवारयत्
SK
निवारितः सात्यकिना रणे दुर्योधनो नृपः | निहत्य सात्यकेरश्वान् द्रौपदेश्चापमच्छिनत्
SK
तदन्तरैव कर्णोऽपि पार्षताण्स्वानपातयत् | तयोर्विरथयोरेव भग्नं तत् पाण्डवं बलम्
SK
बलं स्वकीयं बहुधा विभिन्नं समीक्ष्य भीमो मृगराजकेतुः | कृत्वा धराकम्पकमुग्रनादं रणेऽभ्ययात् कौरवराजसैन्यम्
SK
नादेन बाणैश्च वृकोदरेण भग्नं तदा कौरवसैन्यमाण्सु | दिशो विदुद्राव सुयोधनोऽपि कृतो रणे तेन विवाहननायुधः
SK
दृष्ट्वैव तत् पाण्डवानां च सेना समावृत्त् आ क्षिप्रमवार्यवेगा | तया पुनः कौरवाणां बलं तद् भग्नं दूराद् दूरतरं प्रदुद्रुवे
SK
हन्यमानं दिशो यातं पाञ्चालैर्भीमसं श्रयात् | सुयोधनबलं दृष्ट्वा जज्वालाऽधिरथिः क्रुधा
SK
सोऽमोघं रामदेवत्यमस्त्रं भार्गवसञ्ज्ञितम् | सर्वास्त्रनाण्सकं दिव्यमप्रतिद्वन्द्वमाददे
SK
तच्च भीमपुरोगेषु सैन्येष्वमुचदुद्ब्लणम् | तदस्त्रं वर्जयामास भीमं रामप्रसादतः | च्च्च्xच्विइइ.अन्ये तु दुद्रुवुः केचिच्छिष्टाः प्रापुर्यमक्षयम्
SK
नह्यस्त्रं द्रवमाणां स्तद्धन्ति तेन सपार्षताः | पाञ्चाला द्रौपदेयाण्स्च शैनेयाद्याण्स्च सर्वशः
SK
पलायनेनोर्वरिता अर्जुनोऽप्यस्त्रमुद्यतम् | वीक्ष्य प्रत्यस्त्रहीनं तदप्राप्यैव रवेः सुतम्
SK
वासुदेवमिदं प्राह वर्जयित्वैव सूतजम् | अन्यत्र यामि नैवास्मादस्त्राज्जीवनमन्यथा
SK
इत्यूचिवां सं पार्थं तं कृष्णोऽप्राप्यैव सूतजम् | अन्येनैव पथा भीमं प्रापयामास विश्वकृत्
SK
तत्रार्जुनोऽवदद् भीमं याहि द्रष्टुं युधिष्ठिरम् | प्रवृत्तिं विद्धि भूपस्य मां तु सं शप्तका युधे | आह्वयन्ति हतोच्छेषास्तानहं यामि तद् युधे
SK
इत्यूचिवां सं तमुवाच भीमो ज् आनन् स्वबाह्वोर्बलमप्रमेयम् | सं शप्तकान् सूतजं कौरवां श्च योत्स्येऽहमेकस्त्वमुपैहि भूपम्
SK
त्यक्त्वा रणं नाहमितो व्रजेयं न मां वदेत् कश्चन युद्धभीतम् | इति ब्रुवाणं तमनन्तशक्तिः प्रीतः कृष्णः प्रशशं साधिकेष्टम्
SK
ययौ युधिष्ठिरं द्रष्टुं शिबिरं सार्जुनो हरिः | दृष्ट्वा तौ नृपतिः कर्णं हतं मत्वा ण्सशं स ह
SK
अभिवाद्य हनिष्यामीत्युक्तः पार्थेन सा क्रुधा | भृशं विनिन्द्य बीभत्सुमाह कृष्णाय गाण्डिवम् | देहि पुत्रं स राधाया हनिष्यति न सं शयः
SK
अथवा भीम एवैनं निवृत्ते त्वयि पातयेत् | त्वं तु कुन्त्या वृथा सूतः क्लीबो मिथ्याप्रतिश्रुतः
SK
अहं हि सूतपुत्रेण क्लिष्टो मारुतितेजसा | च्च्च्xचिx.जीवामीत्यग्रजेनोक्त उद्बबर्हासिमुत्तमम् | वासुदेवस्तदाऽहेदं किमेतदिति सर्ववित्
SK
तमाह गाण्डिवं दातुं यो वदेत् तद्वधो मया | प्रतिज्ञातस्ततो हन्मि नृपमित्याह तं हरिः
SK
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् | यत्सतां हितमत्यन्तं तत् सत्यमिति निश्चयः
SK
धर्मस्य चरणं श्रेयो धर्मज्ञानं तु दुष्करम् | यः सतां धारको नित्यं स धर्म इति निश्चयः
SK
कौशिकाख्यो ब्राह्मणो हि लीनं ग्रामजनं क्वचित् | तस्करेष्वभिधायैव निरयं प्रत्यपद्यत
SK
कश्चिद् व्याधो मृगं हत्वा मातापितृनिमित्ततः | भक्षार्थमभ्यगात् स्वर्गमसुरोऽसौ मृगो यतः | उपद्रवाय लोकस्य तपश्चरति दुर्मतिः
SK
तस्मात् सद्धारको धर्म इति कृत्वा विनिश्चयम् | मा नृपं जहि सत्यां त्वङ्कुरु वाचं ततः कुरु | इत्युक्तो बहुधाऽनिन्दत् क्रोधादेवार्जुनो भृशम्
SK
त्वं नृशं सोऽकृतज्ञश्च निर्वीर्यः परुषं वदः | त्वत्तः सुखं नास्ति किञ्चिन्न मां गर्हितुमर्हसि
SK
भीमो मां गर्हितुं योग्यो यो ह्यस्माकं सदा गतिः | यो युद्ध्यते सर्ववीरैरद्यापि त्वं तु निन्दकः
SK
इत्याद्युक्त्वाऽत्मनाण्साय विकोशं चकृवानसिम् | पुनः कृष्णेन पुष्टः सन् स्वाभिप्रायमुवाच सः | तच्छ्रुत्वा गर्हयित्वैनं पुनराह जनार्दनः
SK
मतिपूर्वं देहहानात् पापं महदवाप्यते | धर्मार्थकाममोक्षाणां साधनं देहतोऽस्ति यत्
SK
च्द्.अतो मा त्यज देहं तु कुरु चाऽत्मप्रशं सनम् | वधो गुरूणां त्वङ्कारः स्वप्रशं सैव चात्मनः | इत्युक्तः स त्वहङ्काराच्छशं स स्वगुणानलम्
SK
गुरुनिन्दाऽत्मपूजा च न धर्माय भवेत् क्वचित् | तथाऽप्यर्जुनहार्दं तत् सम्प्रकाण्स्य जनार्दनः
SK
तस्य लज्जां समुत्पाद्य नाण्सयित्वा च तं मदम् | नाहं वेद परं धर्मं कृष्ण एव गतिर्मम
SK
इति भावं समुत्पाद्य दोषान् नाण्सयितुं हरिः | कारयामास तत् सर्वमर्जुनेन जगत्पतिः
SK
तत एवदविज्ञानात् कुपितो नृपतिर्भृशम् | आहास्तु राजा भीमस्त्वं युवा मां जहि च स्वयम् | वनं वा विफलो यामीत्युक्त्वोत्तस्थौ स्वतल्पतः
SK
तं वासुदेवः प्रतिगृह्य हेतुमुक्त्वा सर्वं शमयामास नेता | पार्थश्च भूपस्य पपात पादयोः क्षमापयन् सोऽपि सुप्रीतिमाप
SK
तौ भ्रातरौ वासुदेवप्रसादान्महापदो मुक्तिमाप्यातिहृष्टौ | भक्त्या समस्ताधिपतिं शशं सतुस्त्वया समः को नु हरे हितो नः
SK
ततः प्रणम्य बीभत्सुरग्रजं परिरम्भितः | तेनाभिनन्दितः प्रीत्या चाऽशीर्भिः प्रययौ युधे
SK
तं शङ्कितं कर्णजये स्विन्नगात्रं हरिस्तदा | सङ्कीर्त्य पूर्वकर्माणि नरावेशं विशेषतः | व्यञ्जयामास धैर्यं च तस्याऽसीत् तेन सुस्थिरम्
SK
भीमस्तदा ण्सत्रुबलं समस्तं विद्रावयामास जघान चाऽजौ | वीरान् रणायाभिमुखान् स्वयन्त्रा कुर्वं श्च वार्ता रममाण एव
SK
तदाऽसदत् तं शकुनिः ससैन्यो दुर्योधनस्यावरजैरुपेतः | च्दि.तं भीमसेनो विरथं निरायुधं विधाय बाणैर्भुवि च न्यपातयत्
SK
न जघ्निवां स्तं सहदेवभागं प्रकल्पितं स्वेन तदाऽक्षगोष्ठ्याम् | तं मूर्च्छितं श्वासमात्रावशेषं दुर्योधनः स्वरथेनापनिन्ये
SK
दुर्योधनस्यावरजा दशात्र प्रदुद्रुवुर्भीमसेनं विहाय | तदाऽर्जुनं वासुदेवं च दृष्ट्वा प्रीतः श्रुत्वा धर्मराजप्रवृत्तिम्
SK
पुनश्च निघ्नन्तमरिप्रवीरान् विद्रावयन्तं च निजां वरूथिनीम् | ससार दुः शासन आत्तधन्वा भीमोऽपि तं सिं ह इवाभिपेतिवान्
SK
तं रूक्षवाचो मुहुरर्पयन्तं विधाय भीमो विरथं क्षणेन | प्रगृह्य भूमौ विनिपात्य वक्षो विदारयामास गदाप्रहारतः
SK
आक्रम्य कण्ठं च पदोदरेऽस्य निविश्य पश्यन् मुखमात्तरोषः | विकोशमाकाण्सनिभं विधाय महासिमस्योरसि सञ्चखान
SK
कृत्वाऽस्य वक्षस्युरुसत्तटाकं पपौ निकामं तृषितोऽमृतोपमम् | तच्छोणित् आम्भो भ्रमदक्षमेनं सं स्मारयामास पुराकृत् आनि
SK
वाक्सायकां श्चास्य पुरा समर्पितान् सं स्मारयामास पुनः पुनर्भृशम् | दन्तान्तरं न प्रविवेश तस्य रक्तं ह्यपेयं पुरुषस्य जानतः
SK
तथाऽपि शत्रुप्रतिभीषणाय पपाविवाऽस्वाद्य पुनः पुनर्भृशम् | स्मरन् नृसिं हं भगवन्तमीश्वरं स मन्युसूक्तं च ददर्श भक्त्या
SK
᳚यस्ते मन्यो᳚ ८१ इत्यतो नारसिं हं सोमं तस्मै चाऽर्पयच्छोणित् आख्यम् | युद्धाख्ययज्ञे सोमबुद्ध्याऽरिवक्ष इहेति साम्ना गदया विभिन्दन्
SK
उवाच वाचं पुरुषप्रवीरः सत्यां प्रतिज्ञां लोकमध्ये विधाय | याः सपतयस्ता अपतयो हि जाता यासाऽपतिः सा सपतिश्च जाता
SK
पश्यन्तु चित्रां परमस्य शक्तिं ये वै तिलाः षण्ढतिला बभूवुः | ८१ Ṛग्वेद १०.८३.१ च्दिइ.एनं गृहीतं च मया यदीह कश्चित् पुमान् मोचयतु स्ववीर्यात्
SK
इति ब्रुवाणः पुनरेव रक्तं पपौ सुधां देववरो यथा दिवि | पुनश्च सप्राणममुं विसृज्य नदन् ननर्तारिबले निरायुधः
SK
प्रत्यनृत्यन् येऽस्मान् पुनर्गौरिति गौरिति | त् आन् वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति
SK
इति ब्रुवन् नृत्यमानोऽरिमध्य आस्फोटयञ्छत्रुगणानजोहवीत् | शशाक च द्रष्टुममुं न कश्चिद् वैकर्तनद्रौणिसुयोधनादिषु
SK
भयाच्च कर्णस्य पपात कार्मुकं निमीलयामास तदाऽक्षिणी च| सम्बोधितो मद्रराजेन युद्धे स्थितः कथञ्चित् स तु पार्थभागः
SK
द्रौणिर्विहायैनमपाजगाम दूरं तदा भीमसेनो जगाद | पीतः सोमो युद्धयज्ञे मयाऽद्य वध्यः पशुर्मे हरये सुयोधनः
SK
इति ब्रुवन् मृतमुत्सृज्य शत्रुं दुर्योधनं चाऽशु रुषाऽभिदुद्रुवे | आयान्तमीक्ष्यैव तमुग्रपौरुषं दुद्राव भीतः स सुयोधनो भृशम्
SK
बलद्वयं चापययौ विहाय भयाद् भीमं कृष्णपार्थौ विनैव | आयोधनं शून्यमभून्मुहूर्तं ननर्त भीमो व्याघ्रपदेन हर्षात्
SK
सङ्कल्प्य शत्रून् गोवदेवाऽजिमध्ये शार्दूलवत् तच्चरितं निशाम्य | जहास कृष्णण्स्च धनञ्जयश्च शशं सतुश्चैनमतिप्रहृष्टौ
SK
यदा सरङ्गः पवमानसूनुना ण्सून्यः कृतस्तत्र महूर्तमात्रात् | दुर्योधनस्यावरजाः शरौघैरवीवृषन् भीममुदारसत्त्वम्
SK
त् आन् मारुतिर्बाणवरैर्निकृत्तशीर्षान् यमायानयदाण्सु वीरः | तस्मिन् दिने विं शतिधार्तराष्ट्र हतास्तदन्ये समरात् प्रदुद्रुवुः
SK
कर्माण्यनन्यौपयिकानि भीमे कुर्वत्येवं भीतभीतेऽरिसऽ न्घे | निमीलिताक्षे च भयेन कर्णे कर्णात्मजो नकुलं प्रत्यधावत्
SK
च्दिइइ.माद्रीसुतो वृषसेनं शरौघैरवारयत् तं विरथं चकार | कर्णात्मजः सोऽप्यसिचर्मपाणिस्तस्यानुगां स्त्रिसहस्रं जघान
SK
कर्णात्मजस्तस्य सञ्छिद्य चर्म भीमार्जुनादीनपि बाणसङ्घैः | अवीवृषत् तस्य पार्थः शरेण ग्रीवाबाहूरून् युगपच्चकर्त
SK
एकेन बाणेन सुते हते स्वे वैकर्तनो वासविमभ्यधावत् | तयोरभूद् द्वैरथयुद्धमद्भुतं सर्वास्त्रविद्वरयोरुग्ररूपम्
SK
पक्षग्रहास्तत्र सुरासुरास्तयोरन्ये च जीवा गगनं समास्थिताः | महान् विवादोऽप्यभवत् तयोः कृते तदा गिरीशोऽवददब्जयोनिम्
SK
सुरासुराणां भीमदुर्योधनौ द्वौ समाण्स्रयौ तत्प्रियौ कर्णपार्थौ | प्राणोपमौ तेन चैतत्कृते ते सुरासुराः कर्तुमिच्छन्ति युद्धम् | तदा विनाण्सो जगतां महान् स्यात् तेनानयोः सममेवास्तु युद्धम्
SK
इतीरिते वासवः पद्मयोनिं जगाद कृष्णो यत्र जयश्च तत्र | कामो न कृष्णस्य मृषा भवेद्धि कामोऽस्य पार्थस्य जयं प्रदातुम्
SK
इत्यूचिवान् वासवः फल्गुनस्य जयोऽस्तु कर्णस्य वधस्तथेति | उक्त्वाऽनमत् कञ्जभवस्तथेति प्राहासुरान् देवताण्स्चाऽबभाषे
SK
न कर्णार्जुनयोरर्थे विरोधं कुरुत क्वचित् | भीमदुर्योधनार्थे वा पश्यन्त्वेव च सं युगम् | इत्युक्ते शान्तिमापन्ना ददृशुः सं युगं तयोः
SK
ववर्षतुस्तौ च महास्त्रशस्त्रैर्भीमो रथस्थोऽवरजं जुगोप | शैनेयपाञ्चालमुखाण्स्च पार्थमावार्य तस्थुः प्रसभं नदन्तः
SK
दुर्योधनो द्रौणिमुखाण्स्च कर्णं ररक्षुरावार्य तदाऽस युद्धम् | तत्रार्जुनं बाणवरैः स कर्णः समर्दयामास विशेषयन् रणे
SK
तदा नदन् भीमसेनो जगाद गदां समादाय समात्तरोषः | अहं वैनं गदया पोथयामि त्वं वा जहीमं समुपात्तवीर्यः | कृष्णोऽपि तं बोधयामास सम्यङ् नरावेशं व्यञ्जयन् भूय एव
SK
च्दिव्.समृद्धवीर्यः स तदा धनञ्जयः सुयोधनद्रौणिकृपान् सभोजान् | साकं च बाणैर्विरथां श्चकार विव्याध तानप्यरिहा सुपुङ्खैः
SK
ते किञ्चिद् दूरतस्तस्थुः पश्यन्तो युद्धमुत्तमम् | अमानुषं तत् पार्थस्य दृष्ट्वा कर्म गुरोः सुतः | गृहीत्वा पाणिना पाणिं दुर्योधनमभाषत
SK
दृष्टं हि भीमस्य बलं त्वयाऽद्य तथैव पार्थस्य यथा जिता वयम् | अलं विरोधेन समेत्य पाण्डवैः प्रशाधि राज्यं च मया समेतः
SK
धनञ्जयस्तिष्ठति वारितो मया जनार्दनो नैव विरोधमिच्छति | वृकोदरस्तद्वचने स्थितः सदा युधिष्ठिरः शान्तमनास्तथा यमौ
SK
हितार्थमेतत् तव वाक्यमीरितं गृहाण मे नैव भयादुदीरितम् | अहं ह्यवध्यो मम चैव मातुलो न शङ्कितुं मे वचनं त्वमर्हसि
SK
इतीरितः प्राह सुयोधनस्तं दुः शासनस्याद्य पपौ हि शोणितम् | शार्दूलचेष्टामकरोच्च भीमो न मे कथञ्चित् तदनेन सन्धिः
SK
इत्युक्तो द्रौणिरासीत् स तूष्णीं कर्णधनञ्जयौ | महास्त्रशस्त्रवर्षेण चक्रतुः खमनन्तरम्
SK
आग्नेयवारुणैन्द्रादीन्येतान्यन्योन्यमृत्यवे | ब्रह्मास्त्रमप्युभौ तत्र प्रयुज्याऽनदतां रणे | अन्योन्यास्त्रप्रतीघातं कृत्वोभौ च विरेजतुः
SK
क्रमेण वृद्धोरुबलेन तत्र सुरेन्द्रपुत्रेण विरोचनात्मजः | निराकृतो नागमयं शरोत्तमं ब्रह्मास्त्रयुक्तं विससर्ज वासवौ
SK
तं वासुदेवो रथमानमय्य मोघं चकारार्जुनतः किरीटम् | चूर्णीकृतं तेन सुरेन्द्रसूनोर्दिव्यं ययौ बाणगतश्च नागः
SK
नमिते वासुदेवेन रथे पञ्चाङ्गुलं भुवि | अपाङ्गदेशमुद्दिश्य मुक्ते नागे किरीटिनः
SK
च्द्व्.भङ्क्त्वा किरीटं वियति गच्छति प्रभुणोदितः | बाणैस्तक्षकपुत्रं तं वासविः पूर्ववैरिणम्
SK
हत्वा निपातयामास भूमौ कर्णस्य पश्यतः | ब्रह्मास्त्रस्यातिवेगित्वं प्राप्तं कर्णेन भार्गवात्
SK
पुनश्च पार्थेन महास्त्रयुद्धं प्रकुर्वतः सूर्यसुतस्य चक्रम् | रथस्य भूमिर्ग्रसति स्म शापादस्त्राणि दिव्यानि च विस्मृतिं ययुः
SK
उद्धर्तुकामो रथचक्रमेव पार्थं ययाचेऽवसरं प्रदातुम् | नेत्याह कृष्णोऽञ्जलिकं सुघोरं त्रिनेत्रदत्तं जगृहे च पार्थः
SK
सत्येन धर्मेण च सन्नियोज्य मुमोच कर्णस्य वधाय बाणम् | चिच्छेद तेनैव च तस्य शीर्षं सन्धित्सतो बाणवरं सुघोरम्
SK
अपराह्णेऽपराह्णस्य सूतजस्येन्द्रसूनुना | छिन्नमञ्जलिकेनाऽजौ सोत्सेधमपतच्छिरः
SK
तस्मिन् हते दीनमुखः सुयोधनो ययौ समाहृत्य बलं सशल्यः | युधिष्ठिरः कर्णवधं निशम्य तदा समागत्य ददर्श तत्तनुम्
SK
शशं स कृष्णं च धनञ्जयं च भीमं च येऽन्येऽपि युधि प्रवीराः | गत्वा चतेशिबिरं मोदमाना ऊषुः सकृष्णास्तदनुव्रताः सदा

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source