SKइति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये प्Ḹअण्डवराज्यलाभो नाम एकोनविं शोऽध्यायः च्च्xxxवि.(खाण्डवदाहः ) अथ विं शोऽध्यायः Oं | यज्ञोरुदाननरदेववन्द्यताप्रश्नर्षिपूजासु युधिष्ठिरोऽभूत् | धर्मानुशास्तिहरितत्त्वशं सनस्वराष्ट्ररक्षादिषु भीम आसीत्
SKस्त्रीधर्मसं शासनभृत्यकोशरक्षाव्ययादौ गुणदोषचिन्तने | अन्तः पुरस्थस्य जनस्य कृष्णा त्वासीद्धरेर्धर्मनिदर्शनी च
SKबीभत्सुरासीत् परराष्ट्रमर्द्दने तेनानियम्यां स्तु जरासुतादीन् | स कीचकादीं श्च ममर्द्द भीमस्तस्यैव ते बलतो नित्यभीत् आः
SKराष्ट्रेषु भीमेन विमर्द्दितेषु जिताण्स्च युद्धेषु निरुद्यमास्ते | बभूवुरासीद्धरिधर्मनिष्ठः प्रायेण लोकश्च तदीयशासनात्
SKआजीविनां वेतनदस्तदाऽसीन्माद्रीसुतः प्रथमोऽथ द्वितीयः | सन्धानभेदादिषु धर्मराजपश्चाच्च खड्गी स बभूव रक्षन्
SKधृष्टद्युम्नस्तत्र सेनाप्रणेता ण्सक्रप्रस्थे नित्यमास्तेऽतिहार्दात् | विशेषतो भीमसखा सआसीद् राष्ट्रं चैषां सर्वकामैः सुपूर्णम्
SKनावैष्णवो न दरिद्रो बभूव न धर्महानिश्च बभूव कस्यचित् | तेषां राष्ट्रे शासति भीमसेने न व्याधितो नापि विपर्ययान्मृतिः
SKयुधिष्ठिरं यान्ति हि दर्शनोत्सुकाः प्रतिग्रहायाप्यथ याजनाय | कार्यार्थतो नैव वृकोदरेण कार्याणि सिद्धानि यतोऽखिलानि
SKगन्धर्वविद्याधरचारणाण्स्च सेवन्त एतान्त्सततं समस्ताः | यथा सुरेन्द्रं मुनयश्च सर्व आयान्ति देवा अपि कृष्णमर्चितुम्
SKतेषां राष्ट्रे कार्तयुगा हि धर्माः प्रवर्तिता एव ततोऽधिकाण्स्च | ऋद्धिश्च तस्मादधिका सुवर्णरत्नाम्बरादेरपि सस्यसम्पदाम्
SKअथोपयेमे शिशुपालपुत्रीं युधिष्ठिरो देवकीं नाम पूर्वम् | स्वीयां भार्यां यत्सहजो धृष्टकेतुरनुह्लादः सवितुश्चां शयुक्तः
SKच्च्xxxविइ.तस्यां सुहोत्रो नामतः पुत्र आसीद् यश्चित्रगुप्तो नाम पूर्वं सुलेखः | कृष्णा सैवाऽप्यन्यरूपेण जाता काण्सीशपुत्री यां प्रवदन्ति काल् . ईम्
SKसा केवला भारती नान्यदेव्यस्तत्राऽविष्टास्तत्कृते काण्सिराजः | स्वयम्बरार्थं नृपतीनाजुहाव सर्वां स्तेऽपि ह्यत्र हर्षात् समेताः
SKतेषां मध्ये भीमसेनां स एषा मालामाधात् तत्र जरासुताद्याः | क्रुद्धा विष्णोराण्स्रितानाक्षिपन्त आसेदुरुच्चैः शिवमास्तुवन्तः
SKपूर्वं वाक्यैर्वैदिकैस्तान्स भीमो जिग्ये तर्कैः साधुभिः सम्प्रयुक्तैः | वेदा ह्यदोषा इति पूर्वमेव सं साधयित्वैव सदागमैश्च
SKवेदाधिक्यं शैवशास्त्राणि चाऽहुर्वेदोज्झितानां बहुलां च निन्दाम् | तथा ण्साक्तेयस्कान्दसौरादिकानां तत्रैवोक्तं छन्दसां वैष्णवत्वम्
SKविष्णोराधिक्यं त् आनि शास्त्राणि चाऽहुः शिवादिभ्यः कुत्रचिन्नैव वेदे | विष्णूत्कृष्टः कथितो बौद्धपूर्वाण्स्चाऽहुर्विष्णुं परमं सर्वतोऽपि
SKलोकायताण्स्च क्वचिदाहुरग्र्यं विष्णुं गुरुं सर्ववरं बृहस्पतेः | सर्वागमेषु प्रथितोऽत एव विष्णुः समस्ताधिक एव मुक्तिदः
SKतेष्वागमेष्वेव परस्परं च विरुद्धता ह्यन्यपक्षेषु भूपाः | प्रत्यक्षतश्चात्र पश्यध्वमाण्सु बलं बाह्वोर्मे विष्णुपदाण्स्रयस्य
SKपुर्वं हि गङ्गा मम विष्णुपूजाविघ्नार्थमायाद् वामकरेण सा मे| नुन्ना परस्ताद् बहुयोजनं गता पुरे कुरूणां शिव आगतस्तदा
SKस व्याघ्ररूपी कपिलात्मकामुमां परीक्षयन् मां हन्तुमिवाऽद्रवद् द्रुतम् | स मे युद्धे विजितो मूर्च्छितश्च गदाप्रहारादास लिङ्गान्तरस्थः
SKव्याघ्रेश्वरं नाम लिङ्गं पृथिव्यां ख्यातं तदास्ते तद्वदन्यत्र युद्धे | तीरे गोमत्या हैमवते गिरौ हि जितस्तत्राप्यास शार्दूललिङ्गम्
SKएवं प्रत्यक्षे विष्णुपदाण्स्रयस्य बलाधिक्ये किमु वक्तव्यमत्र | च्च्xxxविइइ.विष्णोराधिक्ये क्षत्रियाणां प्रमाणं बलं विप्रे ज्ञानमेवेति चाऽहुः
SKमया केदारे विप्ररूपी जितश्च रुद्रोऽविशल्लिङ्गमेवाऽशु भीतः | ततः परं वेदविदामगम्यताण्सापं प्रादाच्छङ्करो ब्रील् . इतोऽत्र
SKएवं प्रत्यक्षे विष्णुबले प्रतीपं मनो यस्य ह्युत्तरं स ब्रवीतु | क्रोधोऽधिकश्चेत् क्षिप्रमायातु योद्धुमित्युक्तास्तेऽभ्याययुरात्तशस्त्राः
SKविद्राप्य तान् बाणसङ्घैः समस्तान् जरासुतं गदया योधयित्वा | बाहुभ्यां चैनं परिगृह्याऽशु विष्णोः पादोत्थायां प्राक्षिपद् देवनद्याम्
SKस ब्रील् . इतः प्रययौ मागधां श्च भूपैः समेतो भीमसेनो रथं स्वम् | आरुह्य काण्सीश्वरपूजितश्च ययौ काल् . या ण्सक्रसनामकं पुरम्
SKतस्यां त्रिलोकाधिकरूपसद्गुणैरासम्मतायां रममाणः सुतं च | शर्वत्रातं नामाजनयत् पुरा यः समानवायुर्बलवीर्ययुक्तः
SKकृष्णोऽपि गत्वा द्वारवतीं सरामः सत्यापितुर्वधकर्तारमेव | शतधन्वानं हन्तुमैच्छत् स चैव ययाचेऽक्रूरं कृतवर्मानुयुक्तम्
SKत् आवब्रूतां सर्वलोकैककर्तुर्नाऽवां विरोधं मनसाऽपि कुर्वः | कृष्णस्य सर्वेशितुरित्यनूक्त आरुह्य चाण्स्वीं भयतः पराद्रवत्
SKअन्वेव तं कृष्णरामौ रथेन यातौ शतं योजनानां दिनेन | गत्वा मृत् आयां बडबायां पदैव स प्राद्रवत् कृष्ण एनं पदाऽगात्
SKछित्वा ण्सिरस्तस्य चक्रेण कृष्णो जानन्नक्रूरे मणिमेनेन दत्तम् | अप्यज्ञवल्लोकविडम्बनाय परीक्ष्य वासोऽत्र नेत्याह रामम्
SKअविश्वासात् सतु सक्रोध एव ययौ विदेहानवसत् पञ्च चाब्दान् | ज् आनन् पार्थेभ्योऽहार्यतां केशवस्य वशीकर्तुं धार्तराष्ट्रो बलं गात्
SKबभूव शिष्योऽस्य तथा गदायामसन्निधानं केशवस्य प्रतीक्षन् | तदा ययाचे भगिनीं च तस्य स च प्रतिज्ञामकरोत् प्रदाने
SKच्च्xxxइx.ज्येष्ठं ह्येनं केशवो नातिवर्तेदित्येव मेने धार्तराष्ट्रः स तस्मात् | जग्राह हस्तं दक्षिणं सत्यहेतोर्ददौ च रामः करमस्मै हलाङ्कम्
SKरूपेण तस्या मोहितो धार्तराष्ट्रो विशेषतः कृष्णरामौ भगिन्याः | स्नेहाद् वशं यास्यत इत्यगृह्णाद्धस्तं हलाङ्कं हलिनो रिपुघ्नम्
SKज् आता देवक्यां सा सुभद्रेति नाम्ना भद्रा रूपेणाऽनकदुन्दुभेस्ताम् | कृत्वा पुत्रीं रोहिणी स्वामरक्षत् पूर्वं तु याऽसीत् त्रिजटैव नाम्ना
SKसीत् आयाः प्राङ् नित्यशुश्रूषणात् सा बभूव विष्णोर्भगिनी प्रिया च| उमावेशाद् रूपगुणोपपन्ना पद्मेक्षणा चम्पकदामगौरी
SKएतत् कृत्वा धृतराष्ट्रात्मजः स ययौ कुरून् निवसत्यत्र रामे | कृष्णोऽक्रूरं विवसन्तं भयेन सहार्दिक्यं चाऽनयित्वा जगाद
SKआनीय रामं च समस्तसात्त्वतां यदाऽवादीत् केशवः सन्निधाने | मणिस्त्वय्यास्ते दर्शयेत्येव भीतस्तदाऽक्रूरोऽदर्शयद् रत्नमस्मै
SKअव्याजतामात्मनो दर्शयित्वा हलायुधे केशवस्तस्य जानन् | रत्नाकाङ्क्षामुग्रसेनस्य चैव मातुश्च साम्बस्य पुनर्बभाषे
SKआस्तामक्रूरे मणिरन्यैरधार्यः सदा यज्ञाद् दानपतेः स धार्यः | न सत्या कृष्णावाञ्छितं किञ्चिदिच्छेत् तथाऽपि तस्या योग्य इत्याह कृष्णः
SKलब्ध्वा रत्नं दानपतिः सदैव सन्दीक्षितोऽभूद् यज्ञकर्मण्यतन्द्रः | प्रदर्श्य कृष्णो हलिने रत्नमेतच्छक्रप्रस्थं पाण्डवस्नेहतोऽगात्
SKवसन्नजस्तत्र बहूं श्च मासान् सफल्गुनोऽयान्मृगयां कदाचित् | हत्वा मृगान् यमुनातीरसं स्थः सोऽन्यां काल् . इन्दीं ददृशे तत्स्वसारम्
SKसा सूर्यपुत्री यमुनानुजाता तपश्चरन्ती कृष्णपत्नीत्वकामा | पृष्टाऽर्जुनेनाऽह समस्तमेतत् पत्नीं च तां जगृहे वासुदेवः
SKततो गत्वा नग्नजितो गृहं च स्वयम्बरे सप्त वृषानगृह्णात् | सर्वैरग्राह्यानसुरान् वरेण ण्सिवस्य यैर्निर्जिता भूमिपालाः
SKच्च्xल्.ततो नील् आं तस्य सुतां च लेभे पूर्वं नील् आ गोपकन्याऽपि याऽसीत् | सा देहेऽस्याः प्राविशत् पूर्वमेषा यस्मादेका द्विविधा सम्प्रजाता
SKपितृष्वसुर्मित्रविन्दा सुता चकृष्णे मालामासजद् राजमध्ये | विन्दानुविन्दौ भ्रातरावेव तस्या न्यषेधतां धार्तराष्ट्रार्थमुग्रौ
SKजित्वाऽवन्त्यौ तौ नृपतीं श्चैव सर्वानादाय तां प्रययौ वासुदेवः | पितृष्वसुस्तनयां च द्वितीयां भद्रां दत्तामग्रहीद् भ्रातृभिः सः
SKविश्वेषां देवानामवतारा हिपञ्च ते कैकेया भ्रातरोऽस्या हरेश्च | भक्ता नित्यं पाण्डवानां च तातोऽप्येषां वशे शैव्यनामर्भुरग्रे
SKस्वयम्बरो लक्षणायास्तथाऽसीद् यथा द्रौपद्या लक्षवेधात्मकः सः | मद्रेषु तस्याण्स्च पिता पिनाकं स्वयम्बरार्थं जगृहे गिरीशात्
SKलक्षं च तत् सर्वतश्छन्नमेव द्वारं शरस्याप्युपरि स्म लक्षात् | छिन्नेषुणा पातनीयं ह तद्धि द्रौपद्यर्थात् तदशक्यं ततोऽलम्
SKतत्राऽजग्मुर्मागधाद्याण्स्च सर्वे पार्था अपि द्रष्टुमिहाभ्युपाययुः | दुर्योधनाद्याण्स्च ससूतपुत्रा सज्यीकर्तुं धनुरप्युत्सहन्ते
SKकेचिन्निपेतुर्धनुषैव ताडित् आ न वै केचिच्चालयितुं च शेकुः | दुर्योधनो मागधः सूतपुत्रः सज्यं कृत्वा लक्षवीक्षां न शेकुः
SKधनञ्जयः स्वात्मबलं प्रकाण्सयन् सज्यं कृत्वा धनुरैक्षच्च लक्षम् | नैवाऽददे बाणमनिच्छयैव तत् प्राप्यां ज् आनन् केशवेनैव तां च
SKभीमश्चापं लक्षमप्येतदत्र द्रष्टुं च नैवैच्छदरीन्द्रधारिणः | योग्ये कर्मण्यायतं श्चापराधी स्यादित्यजः पश्यमानो महात्मा
SKकृष्णस्ततश्चापमधिज्यमाण्सु कृत्वाऽचिन्त्यश्छिन्नबाणेन लक्षम् | अपातयद् दुन्दुभयश्च दिव्या नेदुः प्रसूनं ववृषुः सुराण्स्च
SKकृष्णे ब्रह्माद्यैः स्तूयमाने नरेन्द्रकन्या मालां केशवां से निधाय | च्च्xलि.तस्थावुपास्याथ सर्वे नरेन्द्रा युद्धायागुः केशवं स्वात्तशस्त्राः
SKविद्राप्य तन् मागधादीन् स कृष्णो भीमार्जुनाभ्यां सहितः पुरीं स्वाम् | ययावेता अष्ट महामहिष्यः कृष्णस्य दिव्या लोकसुन्दर्य इष्टाः
SKभैष्मी सत्या चैकतनुर्द्विधैव जाता भूमौ प्रकृतिर्मूलभूता | तयैवान्याः सर्वदाऽनुप्रविष्टास्तासां मध्ये जाम्बवती प्रधाना
SKरामेण तुल्या जाम्बवती प्रियत्वे कृष्णस्यान्याः किञ्चिदूनाण्स्च तस्याः | यदाऽवेशो बहुलः स्याद् रमायास्तदा तासु प्रीयते केशवोऽलम्
SKयदाऽवेशो ह्रासमुपैति तत्र प्रद्युम्नतो विं शगुणाधिकाः स्युः | अनादितस्ताः केशवान्नान्यसं स्था रेमे ताभिः केशवो द्वारवत्याम्
SKएवं कृष्णे द्वारकामध्यसं स्थे गिरिं भूपा रैवतकं समाययुः | दुर्योधनाद्याः पाण्डवाण्स्चैव सर्वे नानादेश्या येचभूपालसङ्घाः
SKआत्मानं त् आन् द्रष्टुमभ्यागतान् स कृष्णो गिरौ रैवतके ददर्श | नमस्कृते सर्वनरेन्द्रमुख्यैः कृष्णे वैदर्भ्या सह दिव्यासनस्थे
SKएत्याऽकाण्सान्नारदः कृष्णमाह सर्वोत्तमस्त्वं त्वादृशो नास्ति कश्चित् | इत्याण्स्चर्यो धन्य इत्येव शब्दद्वये तूक्ते वासुदेवस्तमाह
SKदक्षिणाभिः साकमित्येव कृष्णं पप्रच्छुरेतत् किमिति स्म भूपाः | नारायणो मुनिमूचे वदेति शृणुध्वमित्याह स नारदोऽपि
SKकूर्मो दृष्टो विष्णुपद्यां मयोक्तस्त्वमुत्तमो नास्ति समस्तवेति | ऊचे गङ्गामुत्तमां सा जलेशमुमामूचे पृथिवीनामिकां सः
SKया मादृशा देवताः सर्वशस्ता धृत् आस्तया प्रथितत्वात् पृथिव्या | शिवं शेषं गरुडं चाऽह साऽपि परवानात् पर्वतनामधेयान्
SKतैरेवाहं मत्समाण्स्चैव देव्यो ध्रियन्त इत्येव त ऊचिरेऽथ | ब्रह्माणमेवोत्तममाह सोऽपि वेदात्मिकां प्रकृतिं विष्णुपत्नीम्
SKच्च्xलिइ.सैका देवी बहुरूपा बभाषे युक्ता यदाऽहं ज् ञेन नारायणेन | यज्ञक्रियामानिनी यज्ञनाम्नी तदोत्तमा तत्प्रवेशात् तदाख्या
SKविष्ण्वाविष्टा यज्ञनाम्नी तदङ्कस्थिता सोचे केशवो ह्युत्तमोऽलम् | न तत्समश्चाधिकोऽतः कुतः स्यादृषे सत्यं नान्यथेति स्म भूयः
SKतयोक्तोऽहं नावतारेषु कश्चिद् विशेष इत्येव यदुप्रवीरम् | सर्वोत्तमोऽसीत्यवदं स चाऽह न केवलं मेऽङ्कगायाः श्रियोऽहम्
SKसदोत्तमः किन्तु यदा तु सा मे वामार्द्धरूपा दक्षिणानामधेया | यस्मात् तस्या दक्षिणतः स्थितोऽहं तस्मान्नाम्ना दक्षिणेत्येव सा स्यात्
SKसा दक्षिणामानिनी देवता चसा च स्थिता बहुरूपा मदर्द्धा | वामार्द्धो मे तत्प्रविष्टो यतो हि ततोऽहं स्यामर्द्धनारायणाख्यः
SKतदाऽप्यस्या उत्तमोऽहं सुपूर्णो नमादृशः कश्चिदस्त्युत्तमो वा | इत्येवावादीद् दक्षिणाभिः सहेति सर्वोत्तमत्वं दक्षिणानां स्मरन्त्सः
SKत् आभिश्चैताभिर्दक्षिणाभिः समेताद् वरिष्ठोऽहं जगतः सर्वदैव | मत्सामर्थ्यान्नैव चानन्तभागो दक्षिणानां विद्यते नारदेति
SKउक्तं कृष्णेनाप्रतिमेन भूपा अन्योत्तमत्वं दक्षिणानां च शश्वत् | सेयं भैष्मी दक्षिणा केशवोऽयं तस्याः श्रेष्ठः पश्यत राजसङ्घाः
SKप्रत्यक्षं वो वीर्यमस्यापि कुन्त्या युधेऽर्थितः केशवो वीर्यमस्यै | अदर्शयत् पाण्डवान् धार्तराष्ट्रान् भीष्मद्रोणद्रौणिकृपान् सकर्णान् | निरायुधां श्चक्र एकः क्षणेन लोकश्रेष्ठान् दैवतैरप्यजेयान्
SKव्रतं भीमस्यास्ति नैवाभि कृष्णमियामिति स्माऽज्ञया तस्य विष्णोः | चक्रं रथस्याग्रहीत् स प्रणम्य कृष्णं स तं केशवोऽपाहरच्च
SKएवं क्रीडन्तोऽप्यात्मशक्त्या प्रयत्नं कुर्वन्तस्ते विजिताः केशवेन | ततः सर्वे नेमुरस्मै पृथा च सविस्मया वासुदेवं ननाम
SKएवं विधान्यद्भुतानीह कृष्णे दृष्टानि वः शतसाहस्रशश्च | च्च्xलिइइ.तस्मादेष ह्यद्भुतोऽत्युत्तमश्चेत्युक्ता नेमुस्तेऽखिला वासुदेवम्
SKवाय्वाज्ञया वायुशिष्यः स सत्यमित्याद्युक्त्वा नारदो रुग्मिणीं च | स्तुत्वा पुष्पं पारिजातस्य दत्वा ययौ लोकं क्षिप्रमब्जोद्भवस्य
SKसाक्षात् सत्या रुग्मिणीत्येकसं विद् द्विधाभूता नात्र भेदोऽस्ति कश्चित् | तथाऽपि सा प्रमदानां स्वभावप्रकाण्सनार्थं कुपितेवाऽस सत्या
SKसाकं रुग्मिण्या राजमध्ये प्रवेशात् स्तवादृषेः पुष्पदानाच्च देवीम् | कोपाननं दर्शयन्तीमुवाच विडम्बार्थं कामिजनस्य कृष्णः
SKदातास्म्यहं पारिजातं तरुं त इत्येव तत्राथाऽगमद् वासवोऽपि | सर्वैर्देवैर्भौमजितोऽप्यदित्यास्तेनैवाथो कुण्डलाभ्यां हृत् आभ्याम्
SKतदैवाऽगुर्मुनयस्तेन तुन्ना बदर्यास्ते सर्व एवाऽशु कृष्णम् | ययाचिरे भौमवधाय नत्वा स्तुत्वा स्तोत्रैर्वैदिकैस्तान्त्रिकैश्च
SKइन्द्रेण देवैः सहितेन याचितो विप्रैश्च सस्मार विहङ्गराजम् | आगम्य नत्वा पुरतः स्थितं तमारुह्य सत्यासहितो ययौ हरिः
SKनित्यैव या प्रकृतिः स्वेच्छयैव जगच्छिक्षार्थं द्वादशीं भीमसञ्ज्ञाम् | उपोष्य बभ्रे कोटिधाराजलस्य विष्णोः प्रीत्यर्थं सैव हि सत्यभामा
SKतया युक्तो गरुडस्कन्धसं स्थो दूरानुयातो वज्रभृत् आऽप्यनुज्ञाम् | दत्वाऽमुष्मै प्रययौ वायुजुष्टामाण्सां कृष्णो भौमवधे धृत् आत्मा
SKभौमो ह्यासीद् ब्रह्मवरादवध्यो न शस्त्रभृज्जीयस इत्यमुष्मै | दत्तो वरो ब्रह्मणा तद्वदेव तस्यामात्यानां तद्वदवध्यता च
SKभौमेन जय्यत्वमपि ह्यमीषां दत्तं भौमाय ब्रह्मणा क्रोडरूपात् | विष्णोर्जातायास्य दुर्गं च दत्तं प्राग्ज्योतिषं नाम पुरं समस्तैः
SKआसीद् बाह्ये गिरिदुर्गं तदन्तः पानीयदुर्गं मौरवं पाण्सदुर्गम् | तस्याप्यन्तः क्षुरधारोपमं तत् पाण्साण्स्च ते षट्सहस्राण्स्च घोराः | अभेद्यत्वमरिभिरतार्यता च दत्ता दुर्गाणां ब्रह्मणाऽराधितेन
SKच्च्xलिव्.तस्यामात्याः पीठमुरौ निसुम्भहयग्रीवौ पञ्चजनश्च शूराः | सङ्कल्प्य तान् लोकपालानहं च ब्रह्मेत्यद्धा भाषमाणः स आस्ते
SKहन्तुं कृष्णो नरकं तत्र गत्वा गिरिदुर्गं गदया निर्बिभेद | वायव्यास्त्रेणोदकं शोषयित्वा चकर्त खड्गेन मुरस्य पाण्सान्
SKअथाभिपेतुर्मुरपीठौ निसुम्भहयग्रीवौ पञ्चजनश्च दैत्याः | त् आञ्छैलशस्त्रास्त्रशिलाभिवर्षिणण्स्चक्रे व्यसूं श्चक्रनिकृत्तकन्धरान्
SKतेषां सुताः सप्तसप्तोरुवीर्या वरादवध्या गिरिशस्याभिपेतुः | त् आनस्त्रशस्त्राभिमुचः शरोत्तमैः समर्पयामास स मृत्यवेऽच्युतः
SKहत्वा पञ्चत्रिं शतो मन्त्रिपुत्रान् जगाम भौमस्य सकाण्समाण्सु | श्रुत्वा भौमः कृष्णमायातमारादक्षोहिणीत्रिं शकेनाभ्ययात् तम्
SKजघ्ने सेनां गरुडः पक्षपातैः पादं शेषां केशवः सायकौघैः | अथाऽससादाऽशु भौमोऽच्युतं तं मुञ्चञ्छरानस्त्रसम्मन्त्रितान् द्राक् | विव्याध तं केशवः सायकौघैर्भौमः शतघ्नीं ब्रह्मदत्ताममुञ्चत्
SKअच्छेद्योऽभेद्यो नित्यसं वित्सुखात्मा नित्याव्ययः पूर्णण्सक्तिः स कृष्णः | निगीर्य तां देववरः शतघ्नीं नित्याण्स्रान्तोऽदर्शयच्छ्रान्तवच्च
SKबहून् वरान् ब्रह्मणोऽन्येष्वमोघान् मोघीकृत् आन् वीक्ष्य परात्परेशः | भवेत् कथञ्चिद् बहुमानेन युक्त इत्येव कृष्णोऽदर्शयच्छ्रान्तवत् स्वम्
SKतदा दृप्तं नरकं वीक्ष्य देवी सत्याऽददे कार्मुकं शार्ङ्गसञ्ज्ञम् | चकार तं यतमानं च भौमं निरायुधं विरथं च क्षणेन
SKआलिङ्ग्य कृष्णः सत्यभामां पुनश्च रथान्तरे सं स्थितं भौममुग्रम् | सृजन्तमस्त्राण्यरिणा निकृत्तकन्धं मृत्योरर्पयामास शीघ्रम्
SKस मन्त्रिभिर्मन्त्रिपुत्रैः समेतो जगाम कृष्णावज्ञयाऽन्धं तमश्च | तदाविष्टो वायुरगाच्च कृष्णमन्तः पुरं प्राविशत् सत्ययेशः
SKच्च्xल्व्.तदा भूमिः पञ्चभूतावरा या यस्यां जज्ञे नरकः श्रीवराहात् | मूलप्रकृत्यैव भूम्या नितान्तमाविष्टा या साऽगमत् कृष्णपादौ
SKसाऽदित्यास्ते कुण्डले पादयोश्च निधाय पौत्रं भगदत्तसञ्ज्ञम् | समर्पयामास तस्याभिषेकं प्राग्ज्योतिषे कारयामास कृष्णः
SKसं स्थाप्य तं सर्वकिरातराज्ये भौमाहृतं वैश्रवणाद् बलेन | शिवेन दत्तं धनदायातिसत्त्वं भगदत्ते न्यदधात् सुप्रतीकम्
SKकरीन्द्रमेकं तं निधायैव तस्मिन् कृत्वा प्रसादं च वसुन्धरायाः | चतुर्दन्तान् षट्सहस्रान् करीन्द्रान् पयोब्धिजान् प्राहिणोद् द्वारवत्यै
SKनराधिपान् देवगन्धर्वनागान् जित्वाऽनीतं हेमरत्नोच्चराण्सिम् | शतद्वयं योजनानां समृद्धं समन्ततः प्राहिणोत् स्वां पुरीं सः
SKमहावीर्यैर्नैरृतै राक्षसेन्द्रैर्भौमानीतैर्निरृतिं योधयित्वा | स प्राहिणोत् सर्वरत्नोच्चराण्सिं गजां श्च नारायण आदिदेवः
SKतत्रापश्यत् कन्यका भूमिपानां भौमानीत् आः समरे तान् विजित्य | द्व्यष्टौ सहस्राणि शतं च रूपशीलोदारा अक्षताः सद्व्रतस्थाः
SKकाण्स्चित् तत्राऽसन् देवगन्धर्वकन्यास्तासां प्रधाना त्वष्टृपुत्री कशेरुः | पुत्रा अग्नेः पूर्वमासं श्च तेऽथ स्त्रीत्वप्राप्त्यै चक्रुरुग्रं तपश्च
SKभार्यात्वार्थे वासुदेवस्य योषित्तनुं त् आसामिच्छतीनां समीरः | अदाद् वरं तपसाऽराधितः सन् स्त्रीभूतास्ते बदरीं स प्रजग्मुः
SKनारायणं तत्र शुश्रूषमाणाः प्राप्याप्सरस्त्वं राजकुलेषु जाताः | काण्स्चित् स्वर्गे ता निशाम्यैव कृष्णं वव्रुः पतिं सर्वगुणाभिरामम्
SKआजानदेवैः सर्वगुणैः समास्ताः स्वभावतोऽथेन्दिरावेशतोऽतः | गुणाधिकास्ताः शिबिकासु कृष्ण आरोपयित्वा प्राहिणोद् द्वारवत्यै
SKसमन्ततो योजनानां शते द्वे प्रवृद्धमिन्द्रस्य स रत्नपर्वतम् | नित्यामृतस्रावि जलेश्वरस्य च्छत्रं च दोर्भ्यां गरुडे न्यधाद्धरिः
SKच्च्xल्वि.स्वयं च सत्यासहितः समारुहत् स चाण्स्रमेणैव ययौ त्रिविष्टपम् | अभिप्रयातोऽखिललोकपालैर्जनार्दनः शक्रगृहं विवेश
SKसम्पूजितः सत्यभामासहायः शक्रेण ण्सच्या सहितेन सादरम् | ददावदित्या अपि कुण्डले शुभे समस्तदेवैर्मुनिभिश्च वन्दितः
SKतमासुरावेशवशादजानती सत्यां च सर्वप्रभवौ जगत्प्रभू | निर्दोषसौख्यैकतनू ण्सुभाण्सिषस्ताभ्यां ददौ साऽदितिरात्मपुत्रवत्
SKअथो सदानन्दचिदात्मदेहः न नन्दनोद्यानमजोऽनुरूपया | अनन्तशक्तिः सह सत्यभामया विवेश रन्तुं प्रिययाऽखिलेश्वरः
SKतयाऽच्युतोऽसौ कनकावदातया सुकुङ्कुमादिग्धपिशङ्गवाससा | पूर्णेन्दुकोट्योघजयन्मुखाब्जया रेमेऽमितात्मा जगदेकसुन्दरः
SKसर्वर्तुनित्योदितसर्ववैभवे सुरत्नचामीकरवृक्षसद्वने | सदैव पूर्णेन्दुविराजिते हरिश्चचार देव्या पवनानुसेविते
SKविदोषसं वित्तनुरत्र सत्तरुं ददर्श सत्याऽमृतमन्थनोद्भवम् | सा पारिजातं मणिकाञ्चनात्मकं समस्तकामप्रदमार्तिहारिणम्
SKदृष्ट्वैव तं सुस्मितचन्द्रिकास्फुरन्मुखारविन्दाऽसितलोललोचना | कपोलनिर्भातचलत्सुकुण्डला जगाद देवाधिपतिं पतिं सती
SKतरुर्जगज्जीवद मे गृहाङ्गणे सं स्थापनीयोऽयमचिन्त्यपौरुष | इतीरितस्तां कलशोपमस्तनीमालिङ्ग्य देवस्तरुमुद्बबर्ह
SKस तेन वृक्षेण सहैव केशवस्तया चदेव्याऽरुहदग्र्यपौरुषम् | खगेश्वरं तच्च निशम्य शच्या प्रचोदितो वासव आगमत् सुरैः
SKत् आनासुरावेशयुतान् हरेश्च बलप्रकाण्साय समुद्यतान् सुरान् | न्यवारयच्छार्ङ्गशरासनच्युतैर्हरिप्रिया बाणवरैः समस्तशः
SKनिरायुधं वैश्रवणं चकार चिक्षेप चाब्धौ गरुडो जलेश्वरम् | च्च्xल्विइ.प्रधानवायोस्तनयं तु वायुं कोणाधिपं वह्नियमादिकानपि
SKविबोध्य शार्ङ्गोत्थरवैः स्वकां तनुमावेशितानामसुरैरगाद्धरिः | ते बोधितास्तेन रणं विसृज्य ययुर्विदित्वा तमनादिपूरुषम्
SKशिवं च शक्रार्थमुपागतं हरिर्व्यद्रावयच्छार्ङ्गविनिः सृतैः शरैः | सवाहनो दूरतरे निपातितो गुरुत्मता ण्सम्भुरगाच्छराहतः
SKविद्राविते बाणगणैश्च शौरिणा हरे हरौ वज्रमवासृजद् द्रुतम् | शक्रोऽग्रहीत् तं प्रहसन् जनार्दनः करेण वामेन च चापजग्मिवान्
SKअपाहसत् तं जगदेकसुन्दरी हरिप्रियाऽथो जगदेकमातरम् | उवाच शक्रो जगतां जनित्रे प्रदर्शयामो वयमात्मशैशवम्
SKजगाम चाथो शरणं जनार्दनं सुरैर्वृतो देवपतिः क्षमापयन् | शृङ्गं च दत्वा मणिपर्वतस्य प्रणम्य देव्या सहितं जगद्गुरुम्
SKययाच एनं परिरक्षणाय शचीपतिः केशवमर्जुनस्य | जगाद कृष्णोऽपि धरातल् . अस्थिते न मय्यमुं कश्चन जेष्यतीति
SKतमर्जुनार्थं वरमाप्य वासवः पुनः पुनश्चक्रधरं प्रणम्य | प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितो ययौ महाभागवतः स्वमालयम्
SKकृष्णोऽप्यनुज्ञाप्य पुरन्दरं पुरीं निजां व्रजन्नभ्यधिकं व्यरोचत | किरीटधारी वरकुण्डलोल्लसन्मुखाम्बुजः पीतपटः सुकौस्तुभः
SKविरोचमानस्य सदा जगत्प्रभोर्नवै विशेषः क्वचिदच्युतस्य | तथाऽपि तत् स्मारयितुं वचो भवेदपेक्ष्य चाल्पज्ञमतिं पुराणगम्
SKप्रविश्य चेशः स्वपुरीं स यादवैः सुपूजितोऽन्तः पुरमेत्य चाङ्गणे | तरुं प्रियाया न्यदधाद् गृहस्य सहैव शृङ्गेण च रत्नसद्गिरेः
SKप्रदाय रत्नानि च सर्वसात्त्वतां यथेष्टतस्ता अपि कन्यकाः प्रभुः | उद्वाह्य रेमे पृथगेव रत्नप्रासादसं स्थाभिरनन्तरूपः
SKच्च्xल्विइइ.पृथक्पृथक् तासु दशैव पुत्रकानधत्त कन्यामपि सर्वशः प्रभुः | प्रद्युम्नसाम्बावपि भानुचारुदेष्णौ च तेषां नितरां गुणाधिकाः
SKविवस्वतो योऽवरजोऽदितेः सुतः ख्यातश्च नाम्ना सवितेति कृष्णात् | ज् आतः स सत्याजठरेऽत्र नाम्ना भानुस्तु भैष्म्या अपि चारुदेष्णः
SKस चारुदेष्णोऽपि हि विघ्नराजो येऽन्ये च कृष्णस्य सुताः समस्ताः | ते चैव गीर्वाणगणास्तथाऽन्ये ये द्वारकायां निवसन्ति सर्वे
SKतस्यां समस्तैरभिपूज्यमाने देवे स्वपुर्यां निवसत्यनन्ते | ययौ कदाचित् स तु रौग्मिणेयः साम्बेन सार्धं भुजगेन्द्रलोकम्
SKअज्ञानतस्तैरभियोधितः स जिगाय सर्वानपि वासुकिं च | विद्राप्य बाणैरथ रत्नसञ्चयान् समाददे नेमुरमुं ततस्ते
SKतैः पूजितः साम्बसहाय आण्सु मयं च मायाविनमस्त्रवर्षैः | विजित्य रुन्धानमनेन पूजितो ययौ रथेनाम्बरगेन नाकम्
SKतत्रैव कृष्णेन तु पारिजाते हृते जयन्तं प्रजिगाय चाऽजौ | सं स्पर्धयाऽयातममुष्य चानुजं साम्बोऽजयद् वृषभं नाम शस्त्रैः
SKअस्त्राणि तावस्त्रवरैर्निहत्य तयोश्च ताभ्यां प्रतिदग्धयानौ | विद्राप्य तौ बाणवरैः सुरेन्द्रसम्पूजितौ ययतुर्विद्यया खे
SKस विद्यया साम्बमुदूह्य रत्या प्रदत्तया रुग्मिणिनन्दनः पुरीम् | ययौ ततो नारद आगमद् द्रुतं ज् ञातुं हरेर्बहुभार्यासु वृत्तिम्
SKतं द्व्यष्टसाहस्रगृहेषु दृष्ट्वा तावत्स्वरूपैर्विहरन्तमेकम् | सुविस्मितः प्रययौ तं प्रणम्य शक्रप्रस्थं पूजितश्चात्र पार्थैः
SKस आज्ञया ब्रह्मण आह कृष्णां क्रमात् कर्तुं भीम एवैकसं स्थाम् | अन्या देवीः स्वापयित्वा ण्सरीरे तस्या भारत्याः पूर्णभोगार्थमेव
SKसुन्दोपसुन्दौ भ्रातरौ ब्रह्मवाक्यात् परस्परादन्यतो नैव वध्यौ | तिलोत्तमार्थे निहतौ परस्परं तयोर्वधार्थे सृष्टया तेन दैत्यौ
SKच्च्xलिx.अतः पृथग् वत्सरतो भवत्सु क्रमात् कृष्णा तिष्ठतां योऽन्ययुक्ताम् | पश्येद् वोऽसौ वत्सरं तीर्थयात्रां कुर्यादिति स्माथ चक्रुस्तथा ते
SKततः कदाचिद् धर्मराजेन युक्तां शस्त्रागारे विप्रगोरक्षणार्थम् | शस्त्रादित्सुः फल्गुनोऽद्राक् स शस्त्रैर्दस्यून् हत्वा तीर्थयात्रोन्मुखोऽभूत्
SKयुधिष्ठिराद्यैः सौहृदाद् वारितोऽपि ययौ सत्यार्थं स कदाचिद् द्युनद्याम् | कुर्वन् स्नानं मायया नागवध्वा हृतो लोकं भुजगानां क्षणेन
SKतस्याः पिता गरुडेनाऽत्तपत्युः पुत्राकाङ्क्षी चोदयामास पार्थम् | सं वत्सरब्रह्मचर्ये तु पार्थैः कृष्णाहेतोः समये साधु बद्धम्
SKपुनः पुनर्याच्यमानः स पार्थः पुत्रार्थमस्या भुजगेन तस्याम् | उत्पादयामास सुतं कुजां शं नाम्नैरावन्तं वरुणावेशयुक्तम्
SKगुणाः पितुर्मातृज् आतिः सुतानां यस्मात् सतां प्रायशस्तेन नागः | बली च पार्थप्रथमोद्भवत्वान्मायाविदस्त्री च सुधार्मिकश्च
SKततो ययावर्जुनस्तीर्थयात्राक्रमेण पाण्ड्यां स्तनयोऽस्य मात्रा | सह त्यक्तो भुजगैर्देवलोके सम्पूजितो न्यवसद् दैवतैश्च
SKसत्यात्ययान्नैव दोषोऽर्जुनस्य तेजीयसश्चिन्तनीयः कथञ्चित् | श्रेष्ठापराधान्नान्यदोषस्य लेपस्तेजीयसां निर्णयोऽयं हि शास्त्रे
SKअतिस्नेहाच्चाग्रजाभ्यां तदस्य क्षान्तं सुता पाण्ड्यराजेन दत्ता | सं वत्सरान्ते फल्गुनस्याभिरूपा चित्राङ्गदा वीरसेनेन तोषात्
SKस वीरसेनस्त्वष्टुरं शो यमस्याप्यावेशयुक् सा च कन्या ण्सची हि| त् आरादेहे सूर्यजस्याङ्गसङ्गात् स्वर्गं नागादन्तरिक्षादिहाऽसीत्
SKतेनैव हेतोर्नातिसामीप्यमासीत् तस्याः पार्थे पुत्रिकापुत्रधर्मा | तस्यां ज् आतो बभ्रुवाहोऽर्जुनेन पूर्वं जयन्तः कामदेवां शयुक्तः
SKपुत्रं वीरं जनयित्वाऽर्जुनोऽतो गच्छन् प्रभासं शापतो ग्राहदेहाः | च्च्ल्.अमूमुचच्चाप्सरसः स पञ्च ताभिर्गृहीतः प्रविकृष्य तीरम्
SKएवं हि तासां शापमोक्षः प्रदत्तो यदाऽखिला वो युगपत् सम्प्रकर्षेत् | एकस्तदा निजरूपाप्तिरेवेत्यलं तुष्टेन ब्राह्मणेनाऽनतानाम्
SKविप्रापहासात् कुत्सितयोनितस्ताः कन्यातीर्थे पाण्डवः सम्प्रमुच्य | प्राप्तः प्रभासं वासुदेवानुजातां शुश्राव रामेण सुयोधनोद्यताम्
SKविचिन्त्य कार्यं यतिरूपं गृहीत्वा कुशस्थलीं प्रययौ तं समीपे | प्राप्तं कृष्णः प्राहसत् सं विजानन् सत्यासहायः शयनीयाधिरूढः
SKसर्वज्ञा सा लीलया हासहेतुमपृच्छत् तं सोऽपि तस्यै बभाषे | लील् आभाजौ दर्शनार्थं पुनस्तावगच्छतां रैवतं शैलराजम्
SKआक्रीडोऽसौ वृष्णिभोजान्धकानां तत्रापश्यत् केशवः फल्गुनं तम् | स्वसुर्दाने स प्रतिज्ञां रहोऽस्मै चक्रे कृष्णोऽथाऽसदत् सर्ववृष्णीन्
SKदृष्ट्वा गिरौ रौहिणेयो यतीन्द्रवेषं पार्थं ज् ञातियुक्तः प्रणम्य | चक्रे पूजां फल्गुनोऽपि प्रणामं गुणज्येष्ठोऽसीति चक्रे बलाय
SKसर्वज्ञं तं वाग्मिनं वीक्ष्य रामः कन्यागारे वर्षकाले निवासम् | सत्कारपूर्वं कारयेत्याह कृष्णं नैवेत्यूचे केशवो दोषवादी
SKयुवा बली दर्शनीयोऽतिवाग्मी नायं योग्यः कन्यकागारवासम् | इत्युक्तवन्तं राम आहाऽप्तविद्ये नास्मिञ्छङ्केत्येव लोकाधिनाथम्
SKनास्मन्मते रोचते त्वन्मतं तु सर्वेषां नः पूज्यमेवास्तु तेन | इत्युक्त्वा तं केशवः सोदरायै शुश्रूषस्वेत्याह सन्तं यतीन्द्रम्
SKनित्याप्रमत्ता साधु सन्तोषयेति प्रोक्ता तथा साऽकरोत् सोऽपि तत्र | चक्रे मासान् वार्षिकान् सत्कथाभिर्वासं वाक्यं श्रद्दधानो हरेस्तत्
SKसं याचितः फल्गुनेनाऽह वाक्यं यद् वासुदेवस्तन्न जानाति कश्चित् | ऋते पित्रोर्विपृथोः सात्यकेर्वा सुभद्रां ते प्रददानीति सत्यम्
SKच्च्लि.अस्त्रे शस्त्रे तत्त्वविद्यासु चैव शिष्यः शैनेयो वासुदेवेन्द्रसून्वोः | तस्मादस्मै कथयामास कृष्णः स्वशिष्यत्वाद् विपृथोश्चापि सर्वम्
SKअन्ये सर्वे वासुदेवस्य पार्थान् प्रियान् नित्यं ज् आनमाना अपि स्म | रामेणाऽदिष्टा उद्धवोऽथाऽहुकाद्या हार्दिक्याद्या नैव दित्सन्ति जिष्णोः
SKदुर्योधने दातुमिच्छन्ति सर्वे रामप्रियार्थं ज् आनमाना हरेस्तत् | अप्यप्रियं राक्षसावेशयुक्तास्तस्मात् सर्वान् वञ्चयामास कृष्णः
SKप्रद्युम्नसाम्बप्रमुखाण्स्च वञ्चिता ययुस्तीर्थार्थं रामयुक्ताः समग्राः | पिण्डोद्धारं तत्र महोत्सवेष्वावर्तत्सु क्वचिदूचे सुभद्रा
SKयते तीर्थानाचरन् बान्धवां स्त्वमद्राक्षीर्नः कच्चिदिष्टान् स्म पार्थान् | कुन्तीं कृष्णां चेत्याह पृष्टः स पार्थ Oं इत्येतेषामाह चानामयं सः
SKभूयः साऽवादीद् भगवन्निन्द्रसूनुर्गतस्तीर्थार्थं ब्राह्मणेभ्यः श्रुतो मे | कच्चिद् दृष्टो भवतेत्योमिति स्म पार्थोऽप्यूचे क्वेति साऽपृच्छदेनम्
SKअत्रैवेति स्मयमानं च पार्थं पुनः पुनः पर्यपृच्छच्छुभाङ्गी | सोऽप्याहोन्मत्ते सोऽस्मि हीति स्मयं स्तां फुल्लाक्षी तं सा ददर्शातिहृष्टा
SKततो हर्षाल्लज्जया चोत्पलाक्षी किञ्चिन्नोचे पार्थ एनामुवाच | कामाविष्टो मुख्यकालो ह्ययं नावुद्वाहार्थोक्तस्त्विति सा चैनमाह
SKनातिक्रमो वासुदेवस्य युक्तस्तस्मात् तेन स्वपितृभ्यां च दत्ताम् | युक्तो निजैर्बन्धुभिश्चोत्सवे मां समुद्वहेत्यथ कृष्णं स दध्यौ
SKमातापितृभ्यां सहितोऽथ कृष्णस्तत्रैवाऽयाद् वासवश्चाथ शच्या | समं मुनीन्द्रैः फल्गुनेन स्मृतः सं स्तत्रैवाऽगात् प्रीतियुक्तो निशायाम्
SKकृष्णस्ततः पुरुहूतेन साकं तयोर्विवाहं कारायामास सम्यक् | मातापितृभ्यां सत्यकिनाऽपि युक्तो महोत्सवेऽन्याविदितो मुनीन्द्रैः
SKततः कृष्णः स्यन्दनं फल्गुनार्थे निधाय स्वं प्रययौ तद्रजन्याम् | गते च शक्रे रथमारुरोह प्रातः पार्थः सहितो भार्ययैव
SKच्च्लिइ.सर्वायुधैर्युक्तरथं समास्थिते गृहीतचापे फल्गुने द्वारवत्याम् | आसीद् रावः किङ्किमेतत् त्रिदण्डी कन्यां हरत्येष कोदण्डपाणिः
SKततस्तु तं सतनुत्रं महेन्द्रदत्ते दिव्ये कुण्डले वाससी च| दिव्यानि रत्नानि च भूषणानि दृष्ट्वा बिभ्राणं रक्षिणोऽवारयन् स्म
SKततः स आबद्धतल् . आङ्गुलित्रः सतूणीरश्चापमायम्य बाणैः | चक्रेऽन्तरिक्षं प्रदिशो दिशश्च निरन्तरं शिक्षया विद्यया च
SKचक्रे सारथ्यं केशवेनैतदर्थे सुशिक्षित् आ तस्य सम्यक् सुभद्रा | तया पार्थो वारितो नैव कञ्चित् भिन्नत्वचं कृतवान् क्रीडमानः
SKस शिक्षया त्वद्भुतया ण्सरौघैर्विद्राप्य तान् भीषयित्वैव सर्वान् | निर्गत्य पुर्या विपृथुं ददर्श रामेण पुर्या रक्षणे सन्नियुक्तम्
SKप्रियं कुर्वन्निव रामस्य सोऽपि व्याजेन पार्थं सेनयैवाऽवृणोत् तम् | कृष्णादेशान्नैव पार्थस्य चक्रे सम्यग्रोधं युयुधे च च्छलेन
SKएको ह्यसौ मरुतां सौम्यनामा ण्सुश्रूषार्थं वासुदेवस्य जातः | तं यादवं शरवर्षैर्ववर्ष यथा क्षतं न भवेत् सव्यसाची
SKनिरायुधं विरथं चैव चक्रे पार्थः सेनां तस्य नैवाहनच्च | दृष्ट्वा ण्सरां स्तस्य तीक्ष्णां स्त्वचोऽपि नच्छेदकान् विपृथुः सन्तुतोष
SKशिक्षां पार्थस्याधिकं मानयान उपेत्य पार्थं च शशं स सर्वम् | आज्ञां विष्णोः सन्नियुद्ध्यन्निवास्मै कृत्त् आयुधः फल्गुनेनैव पूर्वम्
SKततः पराजितवच्छीघ्रमेत्य शशं स सर्वं हलिनेऽथ सोऽपि | प्रद्युम्नसाम्बादियुतोऽथ कोपादायात् पुरीं हन्तुकामोऽर्जुनं च
SKकृष्णोऽपि सर्वं विपृथोर्निशम्य प्राप्तः सुधर्मां विमना इवाऽसीत् | अवाङ्मुखस्तत्र यदुप्रवीराः प्रद्युम्नाद्या आहुरुच्चैर्नदन्तः
SKमायाव्रतं तं विनिहत्य शीघ्रं वयं सुभद्रामानयामः क्षणेन | च्च्लिइइ.इत्युक्तवाक्यानवदद् बलस्तान् कृष्णाज्ञया यान्तु न स्वेच्छयैव
SKज् ञातव्यमेतस्य मतं पुरस्ताद्धरेर्विरोधे न जयो भवेद् वः | इत्युक्तवाक्ये हलिनि स्म सर्वे पप्रच्छुरानम्य जनार्दनं तम्
SKअथाब्रवीद् वासुदेवोऽमितौजाः शृण्वन्तु सर्वे वचनं मदीयम् | पुरैवोक्तं तन्मया कन्यकाया मायाव्रतो नार्हति सन्निधिस्थितिम्
SKत् आं मे वाचं नाग्रहीदग्रजोऽयं बहून् दोषान् व्याहरतोऽप्यतो मया | अनुल्लङ्घ्यत्वादग्रजोऽनुप्रवृत्तः कन्यागृहे वासने कूटबुद्धेः
SKअतीतश्चायं कार्ययोगोऽसमक्षं हृत् आ कन्याऽतो नोऽत्र का मानहानिः | भूयस्तरां मानिनस्तस्य सा स्याज्ज्ञाता च वो विपृथोः पार्थताऽस्य
SKदेया च कन्या नास्ति पार्थेन तुल्यो वरोऽस्माकं कौरवेयश्च पार्थः | पौत्रश्च कृष्णस्य सुपूर्णण्सक्तेः पैतृष्वसेयो वीरतमो गुणाढ्यः
SKअर्थ्योऽस्माभिः स्वयमेवाहरत् स शक्रात्मजो नात्र नः कार्यहानिः | अनुद्रुत्यैनं यदि च स्यात् पराजयो हानिर्दृढं यशसो वो भवेत
SKजित्वा यद्येनं कन्यका चाऽहृत् आ चेत् परामृष्टां नैव कश्चिद्धि लिप्सेत् | अतो न मे रोचते वोऽनुयानमित्यूचिवानास तूष्णीं परेशः
SKश्रुत्वा हली कृष्णवाक्यं बभाषे मा यात चित्तं विदितं ममास्य | अस्यानुवृत्तिर्विजयाय नः स्याच्छुभाय शान्त्यै परतश्च मुक्त्यै
SKततोऽर्जुनो यत्र तिष्ठन् न कश्चित् पराजयं याति कृष्णाज्ञयैव | रथेन तेनैव ययौ सभार्यः शक्रप्रस्थं चाविशद् भ्रातृगुप्तम्
SKसम्भावितो भ्रातृभिश्चातितुष्टैरूचेऽथ सर्वं तेषु यच्चाऽत्मवृत्तम् | शान्तेषु वाक्यादात्मनो यादवेषु कृष्णो युक्तो हलिनाऽगाच्च पार्थान्
SKसार्द्धं ययौ शकटै रत्नपूर्णैः शक्रप्रस्थं पूजितस्तत्र पार्थैः | ददौ तेषां त् आनि रामेण युक्तस्तथा कृष्णायै भूषणानि स्वसुश्च
SKच्च्लिव्मासानुषित्वा कतिचिद् रौहिणेयो ययौ पुरीं स्वां केशवोऽत्रावसच्च | बहून् वर्षान् पाण्डवैः पूज्यमानः प्रीतिं तेषामादधानोऽधिकां च
SKआसन् कृष्णायाः पञ्च सुता गुणाढ्या विश्वेदेवाः पञ्चगन्धर्वमुख्यैः | आविष्टास्ते चित्ररथाभिताम्रकिशोरगोपालबलैः क्रमेण
SKप्रतिविन्ध्यः सुतसोमः श्रुताख्यकीर्तिः शतानीक उत श्रुतक्रियः | युधिष्ठिराद्यैः क्रमशः प्रजातास्तेषां द्वयोश्चावरजोऽभिमन्युः
SKचन्द्रां शयुक्तोऽतितरां बुधोऽसौ जातः सुभद्राजठरेऽर्जुनेन | धर्मेरशक्रां शयुतोऽश्विनोश्च तथैव कृष्णस्य स सन्निधानयुक्
SKसर्वेऽपि ते वीर्यवन्तः सुरूपा भक्ता विष्णोः सर्वशास्त्रेष्वभिज्ञाः | मोदं ययुः पाण्डवास्तैः सुतैश्च विशेषतः सात्त्वतीनन्दनेन
SKततः कदाचित् खाण्डवं कृष्णपार्थौ चिक्रीडिषू सत्यभामासुभद्रे | आदाय यातौ परिचारकैश्च रथेन गन्धर्वरानुगीतौ
SKस्वैरं तयोस्तत्र विक्रीडतोश्च स्त्रीरत्नाभ्यां मन्दवातानुजुष्टे | वने प्रसूनस्तबकोरुराजिते जले च तिग्मद्युतिकन्यकायाः
SKभूत्वा विप्रस्तौ ययाचेऽन्नमेत्य कुशानुरूचे च मते रमेशितुः | पार्थः कीदृक् तेऽन्नमिष्टं वदेति स चावादीद् वह्निरहं वनार्थी
SKप्रयाजान् देवाननुयाजां श्च शुल्कं हविर्दाने देवतानामयाचिषम् | बलह्रासस्तव भूयादिति स्म शप्त्वैव ते तां श्च ददुः पुरा मम
SKपुनः पूर्तिः केन मे स्याद् बलस्येत्यब्जोद्भवं पृष्टवानस्मि नत्वा | यदा वनं खाण्डवं हि त्वमत्सि तदा बलं ते भवतीति सोऽब्रवीत्
SKशक्रस्येदं खाण्डवं तेन विघ्नं करोत्यसौ तेन वां प्रार्थयामि | इत्युक्ते तं पार्थ ऊचे यदि स्याद् रथो धनुश्चाथ शक्रं निरोत्स्ये
SKनरावेशादन्नदानप्रतिश्रवात् स्वस्यापि शक्रस्य विरोधमैच्छत् | पार्थः कृष्णस्य प्रेरणाच्चैव वह्निः पार्थं ययाचे शक्रविरोधशान्त्यै
SKच्च्ल्व्नहि स्वदत्तस्य पुनः स वैरं शक्रः कुर्यात् स्वयमिन्द्रो हि पार्थः | नाप्रेरितो विष्णुना तस्य रोधं पार्थः कुर्यादिति कृष्णं ययाचे
SKनचायुक्तः केशवेनैष ण्सक्त इति कृष्णादाप भूयोऽप्यनुज्ञाम् | ययौ समीपं च हरेर्बदर्यामादाय चक्रं चामुतः केशवेऽदात्
SKचक्रं गोमन्ते कृष्णमापापि पूर्वं भक्त्या वह्निः केशवेऽदात् पुनस्तत् | चक्रं च विष्णोर्बहुधा व्यवस्थितं तदग्निदत्तं प्राक्तनं चैकधाऽसीत्
SKधनुश्च गाण्डीवमथाब्जजस्य करोति येनाखिलसं हृतिं सः | अं शेन दत्तं तदुमापतेश्च शक्रस्य सोमस्य जलेशितुश्च
SKतेनैव ते जिग्युरथो जगत्त्रयं प्रसादतस्ते क्रमशोऽब्जयोनेः | अनन्यधार्यं विजयावहं च भारेण लक्षस्य समं शुभावहम्
SKरथं च शुभ्राण्स्वयुतं जयावहं त् ऊणौ तथाचाक्षयसायकौ शुभौ | ध्वजं च रामस्य हनूमदङ्कमादाय सर्वं वरुणादर्जुनेऽदात्
SKविशेषतो ध्वजसं स्थे हनूमत्यजेयता स्याज्जयरूपो यतोऽसौ | सर्वं च तद् दिव्यमभेद्यमेव विद्युत्प्रभा ज्या चगाण्डीवसं स्था
SKगाण्डीवमप्यास कृष्णप्रसादाच्छक्यं धर्तुं पाण्डवस्याप्यधार्यम् | देवैश्च तैर्ब्रह्मवराद् धृतं तद् ब्रह्मैव साक्षात् प्रभुरस्य धारणे
SKइन्द्रस्य दत्तश्च वरः स्वयम्भुवा तेनापि पार्थस्य बभूव धार्यम् | इन्द्रो ह्यसौ फल्गुनत्वेन जातस्ततः सोऽस्त्रैः शरशालां चकार
SKस योजनद्वादशकाभिविस्तृतं पुरं चकाराऽशु पुरन्दरात्मजः | हुताण्सनोऽप्याण्सु वनं प्रगृह्य प्रभक्षयामास समुद्धतार्चिः
SKप्रभक्ष्यमाणं निजकक्षमीक्ष्य सन्धुक्षयामास तदाऽशुशुक्षणिम् | अक्षोपमाभिर्बहुलेक्षणोऽम्भसां धाराभिराक्षुब्धमनाः क्षयाय
SKअस्त्रैस्तु वृष्टिं विनिवार्य कृष्णः पार्थश्च शक्रं सुरपूगयुक्तम् | च्च्ल्वि.अयुद्ध्यतां सोऽपि पराजितोऽभूत् प्रीतश्च दृष्ट्वा बलमात्मनस्तत्
SKस्नेहं च कृष्णस्य तदर्जुने धृतं विलोक्य पार्थस्य बलं च तादृशम् | निवर्त्य मेघानतितुष्टचित्तः प्रणम्य कृष्णं तनयं समाण्स्लिषत्
SKविष्णुण्स्च शक्रेण सहेत्य केशवं समाण्स्लिषन्निर्विशेषोऽप्यनन्तम् | स केवलं क्रीडमानः सशक्रः स्थितो हि पूर्वं युयुधे न किञ्चित्
SKब्रह्मा चशर्वश्च समेत्य कृष्णं प्रणम्य पार्थस्य च कृष्णनाम | सञ्चक्रतुश्चापि शिक्षाप्रकर्षाच्चक्रुश्च सर्वे स्वास्त्रदाने प्रतिज्ञाम्
SKअनुज्ञातास्ते प्रययुः केशवेन क्रीडार्थमिन्द्रो युयुधे हि तत्र | प्रीत्या कीर्तिं दातुमप्यर्जुनस्य ततस्तुष्टः सह देवैस्तयोः सः
SKदैत्याण्स्च नागाण्स्च पिशाचयक्षा हताः सर्वे तद्वनस्था हिताभ्याम् | ऋते चतुष्पक्षिणण्स्चाण्स्वसेनं मयं च नान्यत् किञ्चिदासात्र मुक्तम्
SKअयमग्ने जरितेत्यादिमन्त्रैः स्तुत्वा वह्निं पक्षिणो नोपदग्धाः | अण्स्वसेनः पुत्रकस्तक्षकस्य मात्रा ग्रस्तः प्रातिलोम्येन कण्ठे
SKछिन्नेऽर्जुनेनान्तरिक्षे पतन्त्यास्तस्याः शक्रेणावितश्छिन्नपुच्छः | वधान्मातुः पुच्छभङ्गाच्च रोषाद्धन्तुं पार्थं कर्णतूणीरगोऽभूत्
SKमयः कृष्णेनाऽत्तचक्रेण दृष्टो ययौ पार्थं शरणं जीवनार्थी | पार्थार्थमेनं न जघान कृष्णः स्वभक्तश्चेत्यतिमायं परेशः
SKदेवारिरित्येव मयि प्रकोपः कृष्णस्य तेनाहमिमं पुरन्दरम् | पार्थात्मकं शरणं यामि तेन कृष्णप्रियः स्यामिति तस्य बुद्धिः
SKप्राणोपकृत् प्रत्युपकारमाण्सु किं ते करोमीति स पार्थमाह | कृष्णप्रसादाद्धि भवान् विमुक्तस्तस्मै करोत्वित्यवदत् स पार्थः
SKकृष्णोऽपि राज्ञोऽतिविचित्ररूपसभाकृत् आवदिशत् तां स चक्रे | अनिर्गमं प्राणिनामर्थितौ तौ हुताण्सनेनाथ विधाय जग्मतुः
SKच्च्ल्विइ.दृष्ट्वा च तौ पाण्डवाः सर्व एव महामुदं प्रापुरेतन्निशम्य | कृष्णोऽपि पार्थैर्मुमुदेऽनन्तशक्तिसुखज्ञानप्राभवौदार्यवीर्यः