Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 6

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये रामचरिते हनूमद्दर्शनं न्Ḹअम पञ्चमोऽध्यायः लि.(समुद्रतरणनिश्चयः ) अथ षष्ठोऽध्यायः Oं | उत्थाप्य चैनमरविन्ददलायताक्षण्स्चक्राङ्कितेन वरदेन कराम्बुजेन | कृत्वा च सं विदमनेन नुतोऽस्य चां सं प्रीत्याऽरुरोह स हसन् सह लक्ष्मणेन
SK
आरोप्य चां सयुगल् . अं भगवन्तमेनं तस्यानुजं च हनुमान् प्रययौ कपीन्द्रम् | सख्यं चकार हुतभुक्प्रमुखे च तस्य रामेण ण्साण्स्वतनिजार्तिहरेण ण्सीघ्रम्
SK
श्रुत्वाऽस्य दुःखमथ देववरः प्रतिज्ञां चक्रे स वालिनिधनाय हरीश्वरोऽपि | सीत् आनुमार्गणकृतेऽथ स वालिनैव क्षिप्तां हि दुन्दुभितनुं समदर्शयच्च
SK
वीक्ष्यैव तां निपतितामथ रामदेवः सोऽङ्गुष्ठमात्रचलनादतिलीलयैव | सम्प्रास्य योजनशतेऽथ तयैव चोर्वीं सर्वां विदार्य दितिजानहनद् रसास्थान्
SK
शर्वप्रसादजबलाद् दितिजानवध्यान् सर्वान् निहत्य कुणपेन पुनश्च सख्या | भीतेन वालिबलतः कथितः स्म सप्त सालान् प्रदर्श्य दितिजान् सुदृढां श्च वज्रात्
SK
एकैकमेषु स विकम्पयितुं समर्थः पत्राणि लोप्तुमपि तूत्सहते न शक्तः | विष्वक् स्थितान् यदि भवान् प्रतिभेत्स्यतीमानेकेषुणा तर्हि वालिवधे समर्थः
SK
जेतुं चतुर्गुणबलो हि पुमान् प्रभुः स्याद्धन्तुं शताधिकबलोऽतिबलं सुशक्तः | तस्मादिमान् हरिहयात्मजबाह्वलोप्यपत्रान् विभिद्य मम सं शयमाण्सु भिन्धि
SK
श्रुत्वाऽस्य वाक्यमवमृश्य दितेः सुतां स्तान् धातुर्वरादखिलपुम्भिरभेद्यरूपान् | ब्रह्मत्वमाप्तुमचलं तपसि प्रवृत्त् आनेकेषुणा सपदि तान् प्रविभेद रामः
SK
सन्धाय कार्मुकवरे निशिते तु बाणेऽथाऽकृष्य दक्षिणभुजेन तदा प्रमुक्ते | रामेण सत्वरमनन्तबलेन सर्वे चूर्णीकृत् आः सपदि ते तरवो रवेण
SK
भित्त्वा चतान् सगिरिकुं भगवत्प्रमुक्तः पाताल् . असप्तकमथात्र च ये त्ववध्याः | नाम्नाऽसुराः कुमुदिनोऽब्जजवाक्यरक्षाः सर्वां श्च तानदहदाण्सु शरः स एकः
SK
नैतद् विचित्रममितोरुबलस्य विष्णोर्यत्प्रेरणात् सपवनस्य भवेत् प्रवृत्तिः | लोकस्य सप्रकृतिकस्य सरुद्रकाल कर्मादिकस्य तदपीदमनन्यसाध्यम्
SK
लिइ.दृष्ट्वा बलं भगवतोऽथ हरीश्वरोऽसावग्रे निधाय तमयात् पुरमग्रजस्य | आण्स्रुत्य रावमनुजस्य बिलात् स चाऽगादभ्येनमाण्सु दयिताप्रतिवारितोऽपि
SK
तन्मुष्टिभिः प्रतिहतः प्रययावशक्तः सुग्रीव आण्सु रघुपोऽपि हि धर्ममीक्षन् | नैनं जघान विदिताखिललोकचेष्टोऽप्येनं स आह युधि वां न मया विविक्तौ
SK
सौभ्रात्रमेष यदि वाञ्छति वालिनैव नाहं निरागसमथाग्रजनिं हनिष्ये | दीर्घः सहोदरगतो न भवेद्धि कोपो दीर्घोऽपि कारणमृते विनिवर्तते च
SK
कोपः सहोदरजने पुनरन्तकाले प्रायो निवृत्तिमुपगच्छति तापकश्च | एकस्य भङ्ग इति नैव झटित्यपास्तदोषो निहन्तुमिह योग्य इति स्म मेने
SK
तस्मान्न बन्धुजनगे जनिते विरोधे कार्यो वधस्तदनुबन्धिभिराण्स्वितीह | धर्मं प्रदर्शयितुमेव रवेः सुतस्य भावी न ताप इति विच्च न तं जघान
SK
यः प्रेरकः सकलषेमुषिसन्ततेश्च तस्याज्ञता कुत इहेशवरस्य विष्णोः | तेनोदितोऽथ सुदृढं पुनरागतेन वज्रोपमं शरममूमुचदिन्द्रसूनोः
SK
रामाज्ञयैव लतया रविजे विभक्ते वायोः सुतेन रघुपेण ण्सरे च मुक्ते | श्रुत्वाऽस्य शब्दमतुलं हृदि तेन विद्ध इन्द्रात्मजो गिरिरिवापतदाण्सु सन्नः
SK
भक्तो ममैष यदि मामभिपश्यतीह पादौ ध्रुवं मम समेष्यति निर्विचारः | योग्यो वधो नहि जनस्य पदानतस्य राज्यार्थिना रविसुतेन वधोऽर्थितश्च
SK
कार्यं ह्यभीष्टमपि तत् प्रणतस्य पूर्वं शस्तो वधो न पदयोः प्रणतस्य चैव | तस्माददृश्यतनुरेव निहन्मि शक्रपुत्रं त्वितीह तमदृष्टतया जघान
SK
यः प्रेरकः सकललोकबलस्य नित्यं पूर्णाव्ययोच्चबलवीर्यतनुः स्वतन्त्रः | किं तस्य दृष्टिपथगस्य च वानरोऽयं कर्तैशचापमपि येन पुरा विभग्नम्
SK
सन्नेऽथ वालिनि जगाम च तस्य पार्श्वं प्राहैनमार्द्रवचसा यदि वाञ्छसि त्वम् | उज्जीवयिष्य इति नैच्छदसौ त्वदग्रे को नाम नेच्छति मृतिं पुरुषोत्तमेति
SK
कार्याणि तस्य चरमाणि विधाय पुत्रं त्वग्रे निधाय रविजः कपिराज्य आसीत् | लिइइ.रामोऽपि तद्गिरिवरे चतुरोऽथ मासान् दृष्ट्वा घनागममुवास सलक्ष्मणोऽसौ
SK
अथातिसक्ते क्षितिपे कपीनां प्रविस्मृते रामकृतोपकारे | प्रसह्य तं बुद्धिमतां वरिष्ठो रामाङ्घ्रिभक्तो हनुमानुवाच
SK
न विस्मृतिस्ते रघुवर्यकार्ये कार्या कथञ्चित् स हि नोऽभिपूज्यः | न चेत् स्वयं कर्तुमभीष्टमद्य ते ध्रुवं बलेनापि हि कारयामि
SK
स एवमुक्त्वा हरिराजसन्निधौ द्वीपेषु सप्तस्वपि वानरान् प्रति | सम्मेल् . अनायाऽशुगतीन् स्म वानरान् प्रस्थापयामास समस्तशः प्रभुः
SK
हरीश्वराज्ञाप्रणिधानपूर्वकं हनूमता ते प्रहिता हिवानराः | समस्तशैलद्रुमषण्डसं स्थितान् हरीन् समादाय तदाऽभिजग्मुः
SK
तदैव रामोऽपि हि भोगसक्तं प्रमत्तमालक्ष्य कपीश्वरं प्रभुः | जगाद सौमित्रिमिदं वचो मे प्लवङ्गमेशाय वदाऽशु याहि
SK
यदि प्रमत्तोऽसि मदीयकार्ये नयाम्यहं त्वेन्द्रसुतस्य मार्गम् | प्रायः स्वकार्ये प्रतिपादिते हि मदोद्धता न प्रतिकर्तुमीशते
SK
इतीड्यरामेण समीरिते तदा ययौ सबाणः सधनुः स लक्ष्मणः | दृष्ट्वैव तं तेन सहैव तापनिर्भयाद् ययौ रामपदान्तिकं त्वरन्
SK
हनूमतः साधुवचोभिराण्सु प्रसन्नचेतस्यधिपे कपीनाम् | समागते सर्वहरिप्रवीरैः सहैव तं वीक्ष्य ननन्द राघवः
SK
ससम्भ्रमं तं पतितं पदाब्जयोस्त्वरन् समुत्थाप्य समाण्स्लिषत् प्रभुः | स चोपविष्टो जगदीशसन्निधौ तदाज्ञयैवाऽदिशदाण्सु वानरान्
SK
समस्तदिक्षु प्रहितेषु तेन प्रभुर्हनूमन्तमिदं बभाषे | न कश्चिदीशस्त्वदृतेऽस्ति साधने समस्तकार्यप्रवरस्य मेऽस्य
SK
अतस्त्वमेव प्रतियाहि दक्षिणां दिशं समादाय मदङ्गुलीयकम् | इतीरितोऽसौ पुरुषोत्तमेन ययौ दिशं त् आं युवराजयुक्तः
SK
लिव्.समस्तदिक्षु प्रतियापिता हि ते हरीश्वराज्ञामुपधार्य मासतः | समाययुस्तेऽङ्गदजाम्बवन्मुखाः सुतेन वायोः सहिता नचाऽययुः
SK
समस्तदुर्गप्रवरं दुरासदं विमार्गतां विन्ध्यगिरिं महात्मनाम् | गतः स कालो हरिराडुदीरितः समासदं श्चाथ बिलं महाद्भुतम्
SK
कृतं मयेनातिविचित्रमुत्तमं समीक्ष्य तत् तार उवाच चाङ्गदम् | वयं न यामो हरिराजसन्निधिं विलङ्घितो नः समयो यतोऽस्य
SK
दुरासदोऽसावतिचण्डण्सासनो हनिष्यति त्वामपि किं मदादिकान् | अगम्यमेतद् बिलमाप्य तत् सुखं वसाम सर्वे किमसाविहाऽचरेत्
SK
न चैव रामेण सलक्ष्मणेन प्रयोजनं नो वनचारिणां सदा | न चेह नः पीडयितुं स च क्षमस्ततो ममेयं सुविनिश्चिता मतिः
SK
इतीरितं मातुलवाक्यमाण्सु स आददे वालिसुतोऽपि सादरम् | उवाच वाक्यं च न नो हरीश्वरः क्षमी भवेल्लङ्घितशासनानाम्
SK
राज्यार्थिना येन हि घातितोऽग्रजो हृत् आण्स्च दाराः सुनृशं सकेन | स नः कथं रक्षति शासनातिगान् निराण्स्रयान् दुर्बलकान् बले स्थितः
SK
इतीरिते शक्रसुतात्मजेन तथेति होचुः सह जाम्बवन्मुखाः | सर्वेऽपि तेषामथ चैकमत्यं दृष्ट्वा हनूमानिदमाबभाषे
SK
विज्ञातमेतद्धि मयाऽङ्गदस्य राज्याय ताराभिहितं हि वाक्यम् | साध्यं न चैतन्नहि वायुसूनू रामप्रतीपं वचनं सहेत
SK
न चाहमाक्रष्टुमुपायतोऽपि शक्यः कथञ्चित् सकलैः समेतैः | सन्मार्गतो नैव च राघवस्य दुरन्तशक्तेर्बिलमप्रधृष्यम्
SK
वचो ममैतद् यदि चाऽदरेण ग्राह्यं भवेद् वस्तदतिप्रियं मे | न चेद् बलादप्यनये प्रवृत्त् आन् प्रशास्य सन्मार्गगतान् करोमि
SK
इतीरितं तत् पवनात्मजस्य श्रुत्वाऽतिभीत् आ धृतमूकभावाः | सर्वेऽनुजग्मुस्तमथाद्रिमुख्यं महेन्द्रमासेदुरगाधबोधाः
SK
ल्व्निरीक्ष्य ते सागरमप्रधृष्यमपारमेयं सहसा विषण्णाः | दृढं निराण्साण्स्च मतिं हि दध्रुः प्रायोपवेशाय तथा च चक्रुः
SK
प्रायोपविष्टाण्स्च कथा वदन्तो रामस्य सं सारविमुक्तिदातुः | जटायुषः पातनमूचुरेतत् सम्पातिनाम्नः श्रवणं जगाम
SK
तस्याग्रजोऽसावरुणस्य सूनुः सूर्यस्य बिम्बं सह तेन यातः | जवं परीक्षन्नथ तं सुतप्तं गुप्त्वा पतत्रक्षयमाप्य चापतत्
SK
स दग्धपक्षः सवितृप्रतापाच्छ्रुत्वैव रामस्य कथां सपक्षः | भूत्वा पुनश्चापि मृतिं जटायुषः शुश्राव पृष्ट्वा पुनरेव सम्यक्
SK
स रावणस्याथ गतिं सुतोक्तां निवेद्य दृष्ट्वा जनकात्मजाकृतिम् | स्वयं तथाऽशोकवने निषण्णामवोचदेभ्यो हरिपुङ्गवेभ्यः
SK
ततस्तु ते ब्रह्मसुतेन पृष्टा न्यवेदयन्नात्मबलं पृथक् पृथक् | दशैव चाऽरभ्य दशोत्तरस्य क्रमात् पथो योजनतोऽतियाने
SK
सनीलमैन्दद्विविदाः सताराः सर्वेऽप्यशीत्याः परतो न शक्ताः | गन्तुं यदाऽथाऽत्मबलं स जाम्बवान् जगाद तस्मात् पुनरष्टमां शम्
SK
बलेर्यदा विष्णुरवाप लोकां स्त्रिभिः क्रमैर्नन्दिरवं प्रकुर्वता | तदा मया भ्रान्तमिदं जगत्त्रयं सवेदनं ज् आनु ममाऽस मेरुतः
SK
अतो जवो मे नहि पूर्वसम्मितः पुरा त्वहं षण्णवतिप्लवोऽस्मि | ततः कुमारोऽङ्गद आह चास्माच्छतं प्लवेयं न ततोऽभिजाने
SK
अपूरिते तैः सकलैः शतस्य गमागमे शत्रुबलं च वीक्ष्य | सुदुर्गमत्वं च निशाचरेशपुर्याः स धातुः सुत आबभाषे
SK
अयं हि गृध्रः शतयोजनं गिरिं त्रिकूटमाहेत उतात्र विघ्नाः | भवेयुरन्येऽपि ततो हनूमानेकः समर्थो न परोऽस्ति कश्चित्
SK
उक्त्वा स इत्थं पुनराह सूनुं प्राणस्य निः सीमबलं प्रशं सयन् | ल्वि.त्वमेक एवात्र परं समर्थः कुरुष्व चैतत् परिपाहि वानरान्
SK
इतीरितोऽसौ हनुमान् निजेप्सितं तेषामशक्तिं प्रकटां विधाय | अवर्धताऽशु प्रविचिन्त्य रामं सुपूर्णण्सक्तिं चरितोस्तदाज्ञाम्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source