Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 26

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये भीष्मपातो नाम पञ्चविं शोऽध्यायः च्च्च्ल्xइ.(नारायणास्त्रोपशमनम्) अथ षड्विं शोऽध्यायः Oं | अथाखिलानां पृथिवीपतीनामाचार्यमग्र्यं रथिनां सुविद्यम् | रामस्य विश्वाधिपतेः सुशिष्यं चक्रे चमूपं धृतराष्ट्रपुत्रः
SK
कर्णोऽपि भीष्मानुमतो धनुष्मान् युद्धोद्यतोऽभूत् तदसत्कृतः पुरा | तस्मिन् स्थितेऽनात्तधनुस्तदैव रथं समास्थाय गुरुं समन्वयात्
SK
द्रोणो वृतो धार्तराष्ट्रेण धर्मसुतग्रहे तेन कृते प्रतिश्रवे | ज् ञात्वा यत्ताः पाण्डवास्तं समीयुर्युद्धाय तत्राभवदुग्रयुद्धम्
SK
पतत्रिभिस्तत्र दुधाव शात्रवान् द्रोणो धनुर्मण्डलमन्त्रनिस्सृतैः | तमाससादाऽशु वृकोदरो नदं स्तमासदन् द्रौणिकृपौ च मद्रराट्
SK
स तान् विधूयाभ्यपतद् रणेऽग्रणीर्द्रोणं तमन्वार्जुनिरभ्ययात् परान् | ववार तं मद्रपतिस्तयोरभूद् रणो महां स्तत्र गदां समाददे | शल्योऽथ भीमोऽभिययौ गदाधरस्तमेतयोरत्र बभूव सङ्गरः
SK
उभावजेयौ गदिनामनुत्तमावतुल्यवीर्यौ प्रवरौ बलीयसाम् | विचेरतुश्चित्रतमं प्रपश्यतां मनोहरं त् आवभिनर्दमानौ | गदाप्रपाताङ्कितवज्रगात्रौ ददर्श लोकोऽखिल एव तौ रणे
SK
गदाभिघातेन वृकोदरस्य विचेतनः प्रापतदत्र मद्रराट्| भीमोऽपि कोपात् प्रचलत्पदः क्षितौ निधाय जानुं सहसोत्थितः क्षणात्
SK
विचेतनं पतितं मद्रराजं विलोक्य भीमं च तमाह्वयन्तम् | रथं समारोप्य जनस्य पश्यतः पुरश्च भीमस्य कृपोऽपजग्मिवान्
SK
विजित्य मद्राधिपमोजसाऽरिहा नदन् रथं प्राप्य निजं स मारुतिः | व्यद्रावयद् बाणगणैः परेषामनीकिनीं द्रोणसमक्षमेव
SK
विद्रावयत्याण्सु कुरून् वृकोदरे विधूय सौभद्रमुखान् ससात्यकीन् | द्रोणोऽभिपेदे नृपतिं गृहीतुं तमाससादाऽशु धनञ्जयो रथी
SK
च्च्च्ल्xइइ.स वासुदेवप्रयते रथे स्थितः शरैः शरीरान्तकरैः समन्ततः | निहत्य नागाण्स्वनरान् प्रवर्तयन्नदृश्यताऽश्वेव च शोणित् आपगाः
SK
निहन्यमानासु किरीटिना चमूष्वारक्षिते धर्मसुते तथाऽपदः | चमूं च भीमार्जुनबाणभग्नां द्रोणोऽपहृत्यापययौ निशागमे
SK
स धार्तराष्ट्रेण युधिष्ठिराग्रहात् सं श्रावितः क्रूरवचो निशायाम् | जगाद दूरं समराद् विनीयतां पार्थस्ततो धर्मसुतं ग्रहीष्ये
SK
ततः सुशर्मा सहितो महारथैः सं शप्तकैर्दूरतरं प्रणेतुम् | युद्धाय भीमानुजमाण्सु क्लृप्तो दुर्योधनेनोमिति सोऽप्यवादीत्
SK
समाह्वयामासुरथार्जुनं ते प्रातर्हुताण्सस्य दिशं रणाय | अयोधयत् तान् स च तत्र गत्वा भीमो गजानीकमथात्र चावधीत्
SK
निहन्यमानेषु गजेषु सर्वशो विद्राप्यमाणेष्वखिलेषु राजसु | प्राग्ज्योतिषो धार्तराष्ट्रार्थितस्तं समासदत् सुप्रतीकेन धन्वी
SK
विभीषित् आः सुप्रतीकेन भीमहया न तस्थुस्तदनु स्म सात्यकिः | सौभद्रमुख्याण्स्च गजं तमभ्ययुश्चिक्षेप तेषां स रथानथाम्बरे
SK
शैनेयपूर्वेषु रथोज्झितेषु भूमाववप्लुत्य कथञ्चिदेव | स्थितेषु भीमे च विभीषित् आण्स्वान् सं यम्य युद्ध्यत्यपि कृष्ण ऐक्षत्
SK
सङ्क्लेशितो वैष्णवास्त्रं प्रमुञ्चेत् प्राग्ज्योतिषो भीमसेने ततोऽहम् | याम्यार्जुनेनैव तदस्त्रमात्मनः स्वीकर्तुमन्येन वरादधार्यम्
SK
इति स्म सञ्चिन्त्य सहार्जुनेन तत्राऽययावथ पार्थं त्रिगर्ताः | न्यवारयं स्त्वाष्ट्रमस्त्रं स तेषु व्यवासृजन्मोहनायाऽशु वीरः
SK
तदस्त्रवीर्येण विमोहितास्ते परस्परं कृष्णपार्थाविति स्म | जघ्नुस्तदा वासविस्तान् विसृज्य प्राग्ज्योतिषं हन्तुमिहाभ्यगाद् द्रुतम्
SK
विसृज्य भीमं स च पार्थमेव ययौ गजस्कन्धगतो गजं तम् | प्रचोदयामास रथाय तस्य चक्रेऽपसव्यं हरिरेनमाण्सु
SK
च्च्च्ल्xइइइ.मनोजवेनैव रथे परेण सम्भ्राम्यमाणे नतु तं गजः सः | प्राप्तुं शशाकाथ शरैः सुतीक्ष्णैरभ्यर्द्दयामास नृपं स वासविः
SK
अस्त्रैश्च शस्त्रैः सुचिरं नृवीरावयुद्ध्यतां तौ बलिनां प्रबर्हौ | अथो चकर्तास्य धनुः स पार्थः स वैष्णवास्त्रं च तदाऽङ्कुशेऽकरोत्
SK
तस्मिन्नस्त्रे तेन तदा प्रमुक्ते दधार तद् वासुदेवोऽमितौजाः | तदं सदेशस्य तु वैजयन्ती बभूव मालाऽखिललोकभर्तुः
SK
दृष्ट्वैव तद् धारितमच्युतेन पार्थः किमर्थं विधृतं त्वयेति | ऊचे तमाहाऽशु जगन्निवासो मयाऽखिलं धार्यते सर्वदैव
SK
न मादृशोऽन्योऽस्ति कुतः परो मत् सोऽहं चतुर्धा जगतो हिताय | स्थितोऽस्मि मोक्षप्रल् . अयस्थितीनां सृष्टेण्स्च कर्ता क्रमशः स्वमूर्तिभिः | स वासुदेवादिचतुः स्वरूपः स्थितोऽनिरुद्धो हृदि चाखिलस्य
SK
स एव च क्रोडतनुः पराऽहं भूमिप्रियार्थं नरकाय चादाम् | अस्त्रं मदीयं वरमस्य चादामवध्यतां यावदस्त्रं ससूनोः
SK
अस्त्रस्य चान्यो नतु कश्चिदस्ति योऽवध्य एतस्य कुतश्च मत्तः | इति स्म तेनैव मया धृतं तदस्त्रं तदेनं जहि चास्त्रहीनम्
SK
इत्युक्तमाकर्ण्य स केशवेन सम्मन्त्र्य बाणं हृदये मुमोच | प्राग्ज्योतिषस्यापरमुत्तमं शरं गजेन्द्रकुम्भस्थल आण्स्वमज्जयत्
SK
उभौ च तौ पेततुरद्रिसन्निभौ महेन्द्रवज्राभिहताविवाऽशु | निहत्य तौ वासविरुग्रपौरुषो मुमोद साधु स्वजनाभिपूजितः
SK
अथाचलं वृषकं चैव हत्वा कनीयसौ शकुनेस्तं च बाणैः | विव्याध मायामसृजत् स तां च विज्ञानास्त्रेणाऽशु नाण्साय चक्रे
SK
स नष्टमायः प्राद्रवत् पापकर्मा ततः पार्थः शरपूगैश्चमूं त् आम् | विद्रावयामास तदा गुरोः सुतो माहिष्मतीपतिमाजौ जघान
SK
च्च्च्ल्xइव्.तदा भीमस्तस्य निहत्य वाहान् व्यद्रावयद् धार्तराष्ट्रीं चमूं च | भीमार्जुनाभ्यां हन्यमानां चमूं त् आं दृष्ट्वा द्रोणः क्षिप्रमपाजहार
SK
प्राग्ज्योतिषे निहतेऽथाग्रहाच्च युधिष्ठिरस्यातिविषण्णरूपः | दुर्योधनोऽश्रावयद् दीनवाक्यान्यत्र द्रोणं सोऽपि नृपं जगाद
SK
पार्थे गते श्वो नृपतिं ग्रहीष्ये निहन्मि वा तत्सदृशं तदीयम् | इति प्रतिज्ञां स विधाय भूयः प्रातर्ययौ युद्धमाकाङ्क्षमाणः
SK
पद्मव्यूहं व्यूह्य परैरभेद्यं वराद् विष्णोस्तस्य मन्त्रं ह्यजप्त्वा | पार्थाण्स्च तं प्रापुरृतेऽर्जुनेन सं शप्तकैर्युयुधे सोऽपि वीरः
SK
पार्था व्यूहं तु तं प्राप्य नाण्सकन् भेत्तुमुद्यताः | ज् आनं श्च प्रतिभायोगात् काम्यं नैवाजपन्मनुम्
SK
भीमो युधिष्ठिरस्तत्र तज्ज्ञं सौभद्रमब्रवीत् | भिन्धि व्यूहमिमं त् आत वयं त्वामनुयामहे
SK
स एवमुक्तो रथिनां प्रबर्हो विवेश भित्त्वा द्विषतां चमूं त् आम् | अन्वेव तं वायुसुतादयश्च विविक्षवः सैन्धवेनैव रुद्धाः
SK
वरेण रुद्रस्य निरुद्ध्यमानो जयद्रथेनात्र वृकोदरस्तु | विष्णोरभीष्टं वधमार्जुनेस्तदा विज्ञाय शक्तोऽपि नचात्यवर्तत
SK
जयद्रथस्थेन वृषध्वजेन प्रयुद्ध्यमानेषु वृकोदरादिषु | प्रविश्य वीरः स धनञ्जयात्मजो विलोल् . अयामास परोरुसेनाम्
SK
स द्रोणदुर्योधनकर्णण्सल्यैर्द्रोण्यग्रणीभिः कृतवर्मयुक्तैः | रुद्धश्चचारारिबलेष्वभीतः शिरां सि कृन्तं स्तदनुब्रतानाम्
SK
स लक्षणं राजसुतं प्रसह्य पितुः समीपेऽनयदाण्सु मृत्यवे | बृहद्बलं चोत्तमवीर्यकर्मा वरं रथानामयुतं च पत्रिभिः
SK
द्रोणादयस्तं हरिकोपभीत् आः प्रत्यक्षतो हन्तुमशक्नुवन्तः | सम्मन्त्र्य कर्णं पुरतो निधाय चक्रुर्विचापाण्स्वरथं क्षणेन
SK
च्च्च्ल्xव्.कर्णो धनुस्तस्य कृपश्च सारथी द्रोणो हयानाण्सु विधम्य सायकैः | सचर्मखड्गं रथचक्रमस्य प्रणुद्य हस्तस्थितमेव तस्थुः
SK
भीतेषु कृष्णादथ तद्वधाय तेष्वाससादाऽशु गदायुधं गदी | दौः शासनिस्तौ युगपच्च मम्रतुर्गदाभिघातेन मिथोऽतिपौरुषौ
SK
तस्मिन् हते शत्रुरवं निशम्य हर्षोद्भवं मारुतिरुग्रविक्रमः | विजित्य सर्वानपि सैन्धवादीन् युधिष्ठिरस्यानुमते न्यषीदत्
SK
व्यासस्तदा तानमितात्मवैभवो युधिष्ठिरादीन् ग्लपितानबोधयत् | विजित्य सं शप्तकपूगमुग्रो निशागमे वासविराप साच्युतः
SK
निशम्य पुत्रस्य वधं भृशार्तः प्रतिश्रवं सोऽथ चकार वीरः | जयद्रथस्यैव वधे निशायां स्वप्नेऽनयत् तं गिरिशान्तिकं हरिः
SK
स्वयमेवाखिलजगद्रक्षाद्यमितशक्तिमान् | अप्यच्युतो गुरुद्वारा प्रसादकृदहं त्विति
SK
ज् ञापयन् फल्गुनस्यास्त्रगुरुं गिरिशमञ्जसा | प्रापयित्वैनमेवैतत्प्रसादादस्त्रमुद्बणम् | चक्रे तदर्थमेवास्य रक्षां चक्रे तदात्मिकाम्
SK
सान्त्वयित्वा सुभद्रां च गत्वोपप्लाव्यमच्युतः | योजयित्वा रथं प्रातः सार्जुनो युद्धमभ्ययात्
SK
श्रुत्वा प्रतिज्ञां पुरुहूतसूनोर्दुर्योधनेनार्थितः सिन्धुराजम् | त्रातास्म्यहं सर्वथेति प्रतिज्ञां कृत्वा द्रोणो व्यूहमभेद्यमातनोत्
SK
स दिव्यमग्र्यं शकटाब्जचक्रं कृत्वा स्वयं व्यूहमुखे व्यवस्थितः | पृष्ठे कर्णद्रौणिकृपैः सशल्यैर्जयद्रथं गुप्तमधात् परैश्च
SK
अथार्जुनो दिव्यरथोपरिस्थितः सुरक्षितः केशवेनाव्ययेन | विजित्य दुर्मर्षणमग्रतोऽभ्ययाद् द्रोणं सुधन्वा गुरुमुग्रपौरुषः
SK
च्च्च्ल्xवि.प्रदक्षिणीकृत्य तमाण्स्वगात् ततः कालात्ययं त्वेव विशङ्कमानः | रथं मनोवेगमथानयद्धरिर्यथा ण्सराः पेतुरमुष्य पृष्ठतः
SK
विजित्य हार्दिक्यमथाप्रयत्नः स इन्द्रसूनुः प्रविवेश तद् बलम् | विलोल् . अयामास च सायकोत्तमैर्यथा गजेन्द्रो नल् . इनीं बलोद्धतः
SK
स उच्चकाण्सेऽतिरथो रथोत्तमे सवासुदेवो हरिणा यथेन्द्रः | चकर्त चोग्रो द्विषतां शिरां सि शरैः शरीरान्तकरैः समन्ततः
SK
दृढायुमच्युतायुं च हत्वा विन्दानुविन्दकौ | शराभ्यां प्रेषयामास यमाय विजयो युधि
SK
सुदक्षिणं च काम्बोजं निहत्याम्बष्ठमेव च | श्रुतायुधं नदीज् आतं वरुणादाससाद ह | यस्यादाद् वरुणो दिव्याममोघां महतीं गदाम्
SK
स तु तेन शरैस्तीक्ष्णैरर्पितो विरथं क्षणात् | चकार पार्थस्य रथमारुह्यारिधराय ताम्
SK
गदां चिक्षेप सा तस्य वारुणेः शिर एव तु | बिभेद शतधा ण्सीर्णमस्तिष्कः सोऽपतद् भुवि
SK
अयुद्ध्यन्तं स्वगदया यदि ताडयसि स्वयम् | तया विशीर्णमस्तिष्को मरिष्यसि न सं शयः | अमोघा चान्यथा सेयं गदा तव भविष्यति
SK
इत्यब्रवीत् तं वरुणः पुरा तेन स केशवे | अयुद्ध्यति गदाक्षेपात् तया ण्सीर्णण्सिरा अभूत्
SK
हतेषु वीरेषु निजेषु सङ्घशो विद्रावितेष्वालुल् . इते च सैन्ये | दुर्योधनो द्रोणमुपेत्य दीनमुवाच हा पार्थ उपेक्षितस्त्वया
SK
इतीरितेऽभेद्यममुष्य वर्म बद्ध्वा महामन्त्रबलात् स विप्रः | जगाद येनैव बलेन पार्थैर्विरुद्ध्यसे तेन हि याहि फल्गुनम्
SK
च्च्च्ल्xविइ.इतीरितो धार्तराष्ट्रः स चापमादाय सौवर्णरथोपरिस्थः | जगाम पार्थं तमवारयच्च शरैरनेकैरनलप्रकाण्सैः
SK
विव्याध पार्थोऽपि तमुग्रवेगैः शरैर्न ते तस्य च वर्मभेदम् | चक्रुस्ततो वासविर्दिव्यमस्त्रं तद्वर्मभेदाय समाददे रुषा
SK
सन्धीयमानं तु गुरोः सुतस्तच्चिच्छेद पार्थोऽथ सुयोधनाण्स्वान् | हत्वा तल् . एऽविद्ध्यदथैनमुग्रैर्द्रौणिः शरैः पार्थमवारयद् युधि
SK
स द्रौणिकर्णप्रमुखैर्धनञ्जयो युयोध ते चैनमवारयञ्छरैः | बभूव युद्धं तदतुल्यमद्भुतं जयद्रथार्थेऽद्भुतवीर्यकर्मणाम्
SK
पार्थे प्रविष्टे कुरुसैन्यमध्यं द्रोणोऽविशत् पाण्डवसैन्यमाण्सु | स तद्रथानीकमुदग्रवेगैः शरैर्विधूय न्यहनच्च वीरान्
SK
स वीरवर्यः स्थविरोऽपि यूनां युवेव मध्ये प्रचचार धन्विनाम् | प्रपातयन् वीरशिरां सि बाणैर्युधिष्ठिरं चाऽसददुग्रवीर्यः
SK
नृपग्रहेच्छुं तमवेत्य सत्यजिन्न्यवारयद् द्रौपदिराण्सु वीर्यवान् | निवारितस्तेन शिरः शरेण चकर्त पाञ्चालसुतस्य विप्रः
SK
निहत्य तं वीरतमं रणोत्कटं युधिष्ठिरं बाणगणैः समार्दयत् | स शक्तिस्तेन विधाय सङ्गरं निरायुधो व्यश्वरथः कृतः क्षणात्
SK
स ऊर्ध्वबाहुर्भुवि सं स्थितोऽपि गृहीतुमाजौ गुरुणाऽभिपन्नः | माद्रीसुतस्यावरजस्य यानमारुह्य वेगादपजग्मिवां स्ततः
SK
द्रोणं ततः शैशुपालिः सपुत्रो जारासन्धिः काण्सिराजः सशैव्यः | समासदन् केकयाण्स्चैव पञ्च समार्दयन् बाणगणैश्च सर्वशः
SK
स तान् क्रमेणैव निकृत्तकन्धराञ्छरोत्तमैरत्र विधाय विप्रः | निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः
SK
विधूयमाने गुरुणोरुसैन्ये पृथासुतानां पृतनाः परेषाम् | प्रायो रणे मारुतसूनुनैव हतप्रवीरा मृदिताः पराद्रवन्
SK
च्च्च्ल्xविइइ.अलम्बुसो नाम तदैव राक्षसः समासदन्मारुतिमुग्रपौरुषम् | स पीडितस्तेन शरैः सुतेजनैः क्षणाददृश्यत्वमवाप मायया
SK
सोऽदृश्यरूपोऽनुचरानपीडयद् भीमस्य तद् वीक्ष्य चुकोप मारुतिः | अस्त्रज्ञतामात्मनिकेशवाज्ञया सन्दर्शयन्नागतधर्मसङ्कटः
SK
त्वाष्ट्रास्त्रमादत्त स काम्यकर्महीनोऽपि भीमस्तत उत्थिताः शराः | ते बाणवर्यास्तददृश्यवेधिनो रक्षो विदार्याऽविविशुर्धरातल् . अम्
SK
तद्धन्यमानं प्रविहाय भीममपाद्रवद् दूरतरं सुभीतम् | ततस्तु भीमो द्विषतां वरूथिनीं विद्रावयामास शरैः सुमुक्तैः
SK
तदैव कृष्णातनयाः समेता जघ्नुः शलं सं यति सौमदत्तिम् | अलम्बुसं प्राप तदा घटोत्कचः परस्परं तौ रथिनावयुद्ध्यताम्
SK
घटोत्कचस्तं विरथं विधाय खस्थं ख एवाभियुयोध सं स्थितः | ततस्तु तं भीमसुतो निगृह्य निपात्य भूमौ प्रददौ प्रहारम्
SK
पदा ण्सिरस्येव स पिष्टमस्तको ममार मध्ये पृथिवीपतीनाम् | तस्मिन् हते भैमसेनिः कुरूणां व्यद्रावयद् रथवृन्दं समन्तात्
SK
तदाऽसदत् कृतवर्मा रथेन सेनां पाण्डूनां शरवर्षं प्रमुञ्चन् | ददौ वरं तस्य हि पूर्वमच्युतः प्रीतः स्तुत्या सर्वजयं मुहूर्ते
SK
स तेन पाञ्चालगणान् विजिग्ये यमौ च भीमस्य पुरोऽथ तं च | विव्याध बाणेन स वासुदेववरं विजानन् न तदा समभ्ययात्
SK
विनैव वृष्णीन् विजये वरो यदमुष्य तेनास्य हयान् स सात्यकिः | निहत्य बाणैरतुदत् स यानमन्यत् समास्थाय ततोऽपजग्मिवान्
SK
तदा हरिः पाञ्चजन्यं सुघोषमापूरयामास जयेऽभियुद्ध्यति | कर्णादिभिर्द्रौणिमुखै रिपूणां बलप्रहाणाय परः परेभ्यः
SK
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिस्सृतध्वनिः | च्च्च्ल्xइx.जगद् विरिञ्चेशसुरेन्द्रपूर्वकं प्रकम्पयामास युगात्यये यथा
SK
गाण्डीवघोषे च तदाऽभिभूते युधिष्ठिरो भीतभीतस्तदेत्य | शैनेयमूचे परसैन्यमग्ने पार्थे स्वयं युद्ध्यति केशवः स्म
SK
न श्रूयते गाण्डीवस्याद्य घोषः सं श्रूयते पाञ्चजन्यस्य घोषः | तद् याहि जानीहि तमद्य पार्थं यदि स्म जीवत्यसहाय एषः
SK
इतीरितः सात्यकिरत्र विप्रान् सम्पूज्य वित्तैः परमाण्सिषण्स्च | जयाय तेभ्यः प्रतिगृह्य सेनामुखं ययौ भीमसेनानुयातः
SK
भीमस्तु सेनामुखमाण्सु भित्त्वा प्रावेशयद् युयुधानं चमूं त् आम् | स युद्ध्यमानो गुरुणाऽभ्युपेक्षितः सूतं निहत्य द्रावयामास चाण्स्वान्
SK
बलं विवृद्धं च तदाऽस्य सात्यकेर्विप्राण्सीर्भिः कृष्णवरादपि स्म | बलस्य वृद्धिर्हि पुराऽस्य दत्ता कृष्णेन तुष्टेन दिने हि तस्मिन्
SK
ततो विवृद्धोरुबलात् स सात्यकिः सं स्थाप्य भीमं प्रययौ रथेन | तं बाणवर्षैः पृतनां समन्तान्निघ्नन्तमाजौ हृदिकात्मजोऽभ्ययात्
SK
तयोरभूद् युद्धमतीव दारुणं तत्राकरोत् तं विरथं स सात्यकिः | विजित्य तं सात्यकिरुग्रधन्वा ययावतीत्यैव शिरां सि यूनाम् | कृन्तन् शरैस्तं जलसन्ध आगमद् रणे गजस्कन्धगतोऽभियोद्धुम्
SK
निवारयन्तं तमसं ह्यविक्रमं निहत्य बाणैः समरे स सात्यकिः | विलोल् . अयामास बलं कुरूणां निघ्नन् गजस्यन्दनवाजिपत्तिनः
SK
स पार्वतीयां श्च शिलाप्रवर्षिणो निहत्य विद्राप्य च सर्वसैनिकान् | समासदत् केशवफल्गुनौ च बली तमाराऽशु च यूपकेतुः
SK
तयोरभूद् युद्धमतीव घोरं चिरं विचित्रं च महद् विभीषणम् | परस्परं तौ तुरगान् निहत्य निपात्य सूतौ धनुषी निकृत्य | समीयतुश्चर्ममहासिधारिणौ विचित्रमार्गान् युधि सञ्चरन्तौ
SK
स सौमदत्तिर्भुवि सात्यकिं रणे निपात्य केशेषु च सम्प्रगृह्य | च्च्च्ल्xx.पदाऽस्य वक्षस्यधिरुह्य खड्गमुदग्रहीदाण्सु शिरोऽपहर्तुम्
SK
तद् वासुदेवस्तु निरीक्ष्य विश्वतश्चक्षुर्जगादाऽशु धनञ्जयं रणे | त्रायस्व शैनेयमिति स्म सोऽपि भल्लेन चिच्छेद भुजं परस्य
SK
स तेन चोत्कृत्तसखड्गबाहुर्विनिन्द्य पार्थं निषसाद भूमौ | प्रायोपविष्टः शरसं स्तरे हरिं द्ध्यायन् विनिन्दन्नसुरप्रवेशात्
SK
गतेऽसुरावेश उतातिभक्त्या ध्यायत्यमुष्मिन् गरुडध्वजं तम् | शैनेय उत्थाय निवार्यमाणः कृष्णार्जुनाद्यैरहरच्छिरोऽस्य
SK
तदा स्वकीयं रथमेतदर्थं क्लृप्तं ददौ सात्यकये ससूतम् | कृष्णोऽथ पार्थस्य हयास्तृषाऽर्दितास्तदाऽसृजद् वारुणास्त्रं स पार्थः
SK
तेनैव तीर्थं परमं चकार तथाऽश्वशालामपि बाणरूपाम् | ततो विमुच्यात्र हयानपाययद्धरिस्तदा वासविरार्दयत् परान्
SK
युयोज कृष्णस्तुरगान् रथे पुनर्गतश्रमानुद्धृतसायकान् प्रभुः | प्रचोदिते तेन रथे स्थितः पुनस्तथैव बीभत्सुररीनयोधयत्
SK
शिनिप्रवीरे तु गते युधिष्ठिरः पुनश्च चिन्ताकुलितो बभूव ह | जगाद भीमं च न गाण्डिवध्वनिः सं श्रूयते पाञ्चजन्यस्य रावः
SK
मया नियुक्तश्च गतः स सात्यकिर्भारं च तस्याधिकमेव मन्ये | तत् पाहि पार्थं युयुधानमेव च त्वं भीम गत्वा यदि जीवतस्तौ
SK
इतीरितः प्राह वृकोदरस्तं न रक्षितं वासुदेवेन पार्थम् | ब्रह्मेशानावपि जेतुं समर्थौ किं द्रौणिकर्णादिधनुर्भृतोऽत्र
SK
अतो भयं नास्ति धनञ्जयस्य न सात्यकेश्चैव हरेः प्रसादात् | रक्ष्यस्त्वमेवात्र मतो ममाद्य द्रोणो ह्ययं यतते त्वां गृहीतुम्
SK
इतीरितः प्राह युधिष्ठिरस्तं न जीवमाने युधि मां घटोत्कचे | धृष्टद्युम्ने चास्त्रविदां वरिष्ठे द्रोणो वशं नेतुमिह प्रभुः क्वचित्
SK
च्च्च्ल्xxइ.यदि प्रियं कर्तुमिहेच्छसि त्वं मम प्रयाह्याण्सु च पार्थसात्यकी | रक्षस्व सञ्ज्ञामपि सिं हनादात् कुरुष्व मे पार्थशैनेयदृष्टौ
SK
तथा हते चैव जयद्रथे मे कुरुष्व सञ्ज्ञामिति तेन भीमः | उक्तस्तु हैडिम्बममुष्य रक्षणे व्यधाच्च सेनापतिमेव सम्यक्
SK
स चाऽह सेनापतिरत्र भीमं प्रयाहि तौ यत्र च केशवार्जुनौ | न जीवमाने मयि धर्षितुं क्षमो द्रोणो नृपं मृत्युरहं च तस्य
SK
इति ब्रुवाणे प्रणिधाय भीमः पुनः पुनस्तं नृपतिं गदाधरः | ययौ परानीकमधिज्यधन्वा निरन्तरं प्रवपन् बाणपूगान्
SK
न्यवारयत् तं शरवर्षधारो द्रोणो वचश्चेदमुवाच भीमम् | शिष्यस्नेहाद् वासविः सात्यकिश्च मया प्रमुक्तो भृशमानतौ मयि
SK
स्वीया प्रतिज्ञाऽपि हि सैन्धवस्य गुप्तौ मया पार्थकृते विसृष्टा | दास्ये न ते मार्गमहं कथञ्चित् पश्यास्त्रवीर्यं मम दिव्यमद्भुतम्
SK
इत्युक्तवाक्यः स गदां समाददे चिक्षेप तां द्रोणरथाय भीमः | उवाच चाहं पितृवन्मानये त्वां सदा मृदुस्त्वां प्रति नान्यथा क्वचित्
SK
अमार्दवे पश्य च यादृशं बलं ममेति तस्याऽशु विचूर्णितो रथः | गदाभिपातेन वृकोदरस्य ससूतवाजिध्वजयन्त्रकूबरः
SK
द्रोणो गदामापततीं निरीक्ष्य त्ववप्लुतो लाघवतो धरातल् . ए | तदैव दुर्योधनयापितं रथं परं समास्थाय शरान् ववर्ष ह
SK
शरैस्तदीयैः परमास्त्रमन्त्रितैः प्रवृष्यमाणो जगदीरणात्मजः | शिरो निधायाऽशु पुरो वृषो यथा तमभ्ययादेव रथादवप्लुतः
SK
मनोजवादेव तमाप्य भीमो रथं गृहीत्वाऽम्बर आक्षिपत् क्षणात् | शक्तोऽप्यहं त्वां न निहन्मि गौरवादित्येव सुज्ञापयितुं तदस्य
SK
सुवाजिसूतः स रथः क्षितौ पतन् विचूर्णितोऽस्माद् गुरुरप्यवप्लुतः | तदा विशोकोऽस्य रथं समानयत् तमारुहद् भीम उदारविक्रमः
SK
च्च्च्ल्xxइइ.द्रोणोऽपि दुर्योधनदत्तमन्यं रथं समास्थाय युधिष्ठिरं ययौ | गृहीतुकामं नृपतिं प्रयान्तं न्यवारयत् सं यति वाहिनीपतिः
SK
विदारितां द्रोणण्सरैः स्वसेनां सं स्थाप्य भूयो द्रुपदात्मजः शरैः | द्रोणं निवार्यैव चमूं परेषां विद्रावयामास च तस्य पश्यतः
SK
तयोरभूद् युद्धमतीव रौद्रं जयैषिणोः पाण्डवधार्तराष्ट्रयोः | अत्यद्भुतं सन्ततबाणवर्षमनारतं सुचिरं निर्विशेषम्
SK
ततः प्रायाद् भीमसेनोऽमितौजा मृद्गञ्छरैः कौरवराजसेनाम् | विन्दानुविन्दप्रमुखा धार्तराष्ट्रास्तमासेदुर्द्वादश वीरमुख्याः | विद्धः शरैस्तैर्बहुभिर्वृकोदरः शिरां सि तेषां युगपच्चकर्त
SK
हतेषु तेषु प्रवरेषु धन्विनां सत्यव्रतः पुरमित्रो जयश्च | वृन्दारकः पौरवश्चेत्यमात्याः समासेदुर्धार्तराष्ट्रस्य भीमम्
SK
स तैः पृषत्कैरवकीर्यमाणः शितान् विपाठान् युगपत् समाददे | जहार तैरेव शिरां सि तेषां हतेषु तेष्वेव परे प्रदुद्रुवुः
SK
स सिं हवत् क्षुद्रमृगान् समन्ततो विद्राप्य शत्रून् हृदिकात्मजं रणे | अभ्यागमत् तेन निवारितः शरैः क्षणेन चक्रे विरथाण्स्वसूतम् | स गाढविद्धस्तु वृकोदरेण रणं विसृज्यापययौ क्षणेन
SK
विजित्य हार्दिक्यमथाऽशु भीमो विद्रावयामास वरूथिनीं त् आम् | सम्प्रेषयन् सर्वनराण्स्वकुञ्जरान् यमाय यातो हरिपार्थपार्श्वम्
SK
दृष्ट्वैव कृष्णविजयौ परमप्रहृष्टस्ताभ्यां निरीक्षित उत प्रतिभाषितश्च | सञ्ज्ञां नृपस्य स ददावपि सिं हनादान् श्रुत्वा परां मुदमवाप स चाग्र्यबुद्धिः
SK
भीमस्य नानदत एव महास्वनेन विण्मूत्रशोणितमथो मृतिमापुरेके | भीतेषु सर्वनृपतिष्वमुमाप तूर्णं कर्णो विकर्णमुखरा अपि धार्तराष्ट्राः
SK
हत्वा विकर्णमुत तत्र च चित्रसेनं सञ्चूर्णितं च विदधे रथमर्कसूनोः | घोरैः शरैः पुनरपि स्म समर्द्यमानः कर्णोऽपयानमकरोद् द्रुतमेव भीमात्
SK
च्च्च्ल्xxइइइ.आण्स्वास्य चैव सुचिरं पुनरेव भीमं युद्धाय याति धृतराष्ट्रसुतैस्तथाऽन्यैः | त् आं श्चैव तत्र विनिहत्य तथैव कर्णो व्यश्वायुधः कृत उतापययौ क्षणेन
SK
विकर्णचित्रसेनाद्या एवं वीरतमाः सुताः | कर्णस्य पश्यतो भीमबाणकृत्तशिरोधराः
SK
निपेतुर्धृतराष्ट्रस्य रथेभ्यः पृथिवीतल् . ए | त्रयोविं शतिरेवात्र कर्णसाहाय्यकाङ्क्षिणः
SK
एकवीं शतिवारं च व्यश्वसूतरथध्वजः | गाढमभ्यर्द्दितस्तीक्ष्णैः शरैर्भीमेन सं युगे
SK
प्राणसं शयमापन्नः सर्वलोकस्य पश्यतः | रणं त्यक्त्वा प्रदुद्राव रुदन् दुःखात् पुनः पुनः
SK
द्वाविं शतिमयुद्धे तु रामदत्तं सुभास्वरम् | अभेद्यं रथमारुह्य विजयं धनुरेव च
SK
तद्दत्तमेव सङ्गृह्य तूणी चाक्षयसायकौ | आससाद रणे भीमं कर्णो वैकर्तनो वृषा
SK
सुघोर आसीत् स तयोर्विमर्दो भीमस्य कर्णस्य च दीर्घकालम् | आकाण्समाच्छादयतोः शरौघैः परस्परं चैव सुरक्तनेत्रयोः
SK
ततो भीमो महाबाहुः सहजाभ्यां च सं युतम् | त्वां तु कुण्डलवर्मभ्यां शक्नुयां हन्तुमञ्जसा
SK
इति ज्ञापयितुं तस्य कुण्डले कवचं तथा | शरैरुत्कृत्य समरे पातयामास भूतल् . ए
SK
एवं त् आन्यपकृष्याहं हन्यां त्वामिति वेदयन् | पुनश्च बहुभिस्तीक्ष्णैः शरैरेनं समार्दयत्
SK
ततस्तु भीमस्य बभूव बुद्धिरस्पर्धिनः सर्वजयो हि दत्तः | च्च्च्ल्xxइव्.अमुष्य रामेण नच स्पृधाऽयं कर्णो मया युद्ध्यति कृच्छ्रगो ह्ययम्
SK
तथाऽपि मे भगवानत्यनुग्रहाज्जयं ददात्यात्मवचोऽपहाय | मया तुमान्यं वचनं हरेः सदा तस्माद् दास्ये विवरं त्वद्य शत्रोः
SK
एवं स्मृत्वा तेन रन्ध्रे प्रदत्ते कर्णोऽस्त्रवीर्येण धनुर्न्यकृन्तत् | रश्मीन् हयानां च ततो रथं स तत्याज नैजं बलमेव वेदयन्
SK
न मे रथाद्यैर्धनुषाऽपि कार्यमित्येव स ख्यापयितुं वृकोदरः | खमुत्पपातोत्तमवीर्यतेजा रथं च कर्णस्य समास्थितः क्षणात्
SK
भीतस्तु कर्णो रथकूबरे तदा व्यलीयतातः स वृकोदरो रथात् | अवप्लुतो ज्ञापयितुं स्वशक्तिं निरायुधत्वेऽप्यरिनिग्रहादौ
SK
नैच्छद् गृहीतुं विनिहन्तुमेव वा रथं धनुर्वाऽस्य रणेऽपहर्तुम् | द्रोणस्य यद्वत् पूर्वमतीव शक्तोऽप्यमानयद् रामवचोऽस्य भक्त्या
SK
सत्यां कर्तुं वासवेश्च प्रतिज्ञां सम्मानयन् वैष्णवत्वाच्च कर्णम् | दातुं रन्ध्रं सूर्यजस्य प्रयातः शरक्षेपार्थं दुरमतिष्ठदत्र
SK
ततः कर्णो दूरगतं वृकोदरं सम्मानयन्तं रामवाक्यं विजानन् | शरैरविध्यत् स च तानवारयद् गजैर्मृतैस्तां श्च चकर्त कर्णः
SK
व्यसून् गजान् प्रक्षिपन्तं समेत्य सं स्पृश्य चापेन वचश्च दुष्टम् | सं श्रावयामास सुयोधनस्य प्रीत्यै प्रजानन्नपि तस्य वीर्यम्
SK
सं श्रावयन्तं वचनानि रूक्षाण्यपाहनद् बाणवरैस्तदाऽर्जुनः | स वर्महीनः पार्थबाणाभितप्तो व्यपागमद् भीम आपाऽत्मयानम्
SK
कर्णो भीमे वासवीं नैव शक्तिं विमोक्तुमैच्छन्नैव बीभत्सुतोऽन्यान् | हन्यामिति प्राह यतः स कुन्त्यै यद्यप्यवध्यः स तयाऽपि भीमः
SK
नारायणास्त्रं शिरसि प्रपातितं न यस्य लोमाप्यदहच्चिरस्थितम् | किं तस्य शक्तिः प्रकरोति वासवी तथाऽन्यदप्यस्त्रशस्त्रं महच्च
SK
च्च्च्ल्xxव्.भीमः कर्णरथं प्राप्तः शक्तिं नाऽदातुमैच्छत | अभिप्रायं केशवस्य जानन् हैडिम्बमृत्यवे | ततः कर्णोऽन्यमास्थाय रथमर्जुनमभ्ययात्
SK
दिव्यं रथं धनुश्चैव कृष्णबुद्ध्योऽर्जुनो हरेत् | इति भीतस्तु तां शक्तिमादायार्जुनमृत्यवे | युद्धायायाद् रथं चापं शक्तिं चैकत्र नाकरोत्
SK
एकं हृतं चेदन्यत् स्यादिति मत्वा भयाकुलः | बिभेति सर्वदा नीतेः कृष्णस्यामिततेजसः
SK
निश्चितो मरणायैव मृतिकाले तु तं रथम् | आरुह्यागाद्धि पूर्वं तु न कालं मन्यते मृतेः
SK
शक्तिं तु तद्रथगतां प्रसमीक्ष्य कृष्णः सं स्थाप्य पार्थमपि सात्यकिमेव योद्धुम् | दत्त्वा स्वकीयरथमेव विरोचनस्य पुत्रेण सोऽदिशदमुष्य बलं प्रदाय
SK
शिष्यं त्वशक्तमिह मे प्रतियोधनाय पार्थो ह्यदादिति स सात्यकिमीक्षमाणः | सं स्पर्धयैव युयुधे विरथं चकार तेनैव सात्यकिरमुं हरियानसं स्थः
SK
न केशवरथे कश्चित् स्थितो याति पराजयम् | अतश्च सात्यकिर्नाप कर्णेनात्र पराजयम्
SK
शस्त्रसङ्ग्रहकाले तु कुमाराणां व्रतं भवेत् | इत्युक्तं ज् आमदग्न्येन धनुर्विद्यापुराकृत् आ
SK
तच्छत्रुवधरूपं च पूर्वासिद्धं च गूहितम् | अविरुद्धं च धर्मस्य कार्यं रामस्य तुष्टिदम्
SK
अनुपद्रवं च लोकस्येत्यतो भीमो व्रतं त्विदम् | चकार तूबरेत्युक्ते हन्यामिति रहः प्रभुः
SK
अनुपद्रवाय लोकस्य सुव्यञ्जच्श्मश्रुमण्डलः | सुश्मश्रुं मां न कश्चिद्धि तथा ब्रूयादिति स्फुटम् | तदर्जुनो विजानाति स्नेहाद् भीमोदितं रहः
SK
च्च्च्ल्xxवि.अर्जुनस्यापि गाण्डीवं देहीत्युक्तो निहन्म्यहम् | इति तच्च विजानाति भीम एको नचापरः | गाण्डीवस्याऽगमं पूर्वं ज् आनात्येव हि नारदात्
SK
प्रतिज्ञां भीमसेनस्य ब्रुवतः फल्गुने रहः | दुर्योधनस्तु शुश्राव तां च कर्णाय सोऽब्रवीत्
SK
अतूबरोऽपि तेनासौ तस्मात् तूबर इत्यलम् | उक्तः प्रकोपनायैव तस्मादर्जुनमब्रवीत्
SK
ज् आनासि मत्प्रतिज्ञां त्वं त्वत्प्रतिज्ञामहं तथा | तत्र हन्तव्यतां प्राप्तो मम वैकर्तनोऽत्रहि
SK
प्रतिज्ञातो वधश्चास्य त्वयाऽपि मदनुज्ञया | अतस्त्वया मया वाऽयं हन्तव्यः सूतनन्दनः
SK
इत्युक्तो वासविः प्राह हन्तव्योऽयं मयैव हि | त्वदीयोऽहं यतस्तेन मत्कृतं त्वत्कृतं भवेत्
SK
न त्वत्कृतं मत्कृतं स्याद् गुरुर्मम यतो भवान् | अतो मयैव हन्तव्य इत्युक्त्वा कर्णमब्रवीत्
SK
रूक्षा वाचः श्रावितोऽयं भीमः कृष्णस्य शृण्वतः | यच्चाभिमन्युर्युष्माभिरेकः सम्भूय पातितः
SK
अतस्त्वां निहनिष्यामि त्वत्पुत्रं च तवाग्रतः | इत्युक्तोऽन्यरथं प्राप्य कर्ण आवीज्जयद्रथम्
SK
द्रौणिकर्णाभिगुप्तं तं नाण्सकद्धन्तुमर्जुनः | तत्र वेगं परं चक्रे द्रौणिः पार्थनिवारणे
SK
नचैनमशकत् तर्तुं यत्नवानपि फल्गुनः | तयोरासीच्चिरं युद्धं चित्रं लघु च सुष्ठु च
SK
च्च्च्ल्xxविइ.तद् दृष्ट्वा भगवान् कृष्णो लोहितायति भास्करे | अजिते द्रोणतनये त्वहते च जयद्रथे | अर्जुनस्य जयाकाङ्क्षी ससर्ज तम ऊर्जितम्
SK
तमोव्याप्ते गगने सूर्यमस्तं गतं मत्वा द्रौणिपूर्वाः समस्ताः | विशश्रमुः सैन्धवश्चार्जुनस्य हतप्रतिज्ञस्य मुखं समैक्षत
SK
तदा हरेराज्ञया ण्सक्रसूनुश्चकर्त बाणेन जयद्रथस्य | अग्निं विविक्षन्निव दर्शितः शिरस्तदा वचः प्राह जनार्दनस्तम्
SK
नैतच्छिरः पातय भूतल् . ए त्वमितीरितः पाण्सुपतास्त्रतेजसा | दधार बाणैरनुपुङ्खपुङ्खैः पुनस्तमूचे गरुडध्वजो वचः
SK
इदं पितुस्तस्य करे निपात्यतां वरोऽस्य दत्तो हि पुराऽमुनाऽयम् | शिरो निकृत्तं भुवि पातयेद् यस्तवास्य भूयाच्च शिरः सहस्रधा
SK
इति स्म वध्यः स पिताऽपि तेनेत्युदीरिते तस्य सन्ध्याक्रियस्य | अङ्के व्यधात् तच्छिर आण्सु वासविः स सम्भ्रमात् तद् भुवि च न्यपातयत्
SK
ततोऽभवत् तस्य शिरः सहस्रधा हरिश्च चक्रे तमसो लयं पुनः | तदैव सूर्ये सकलैश्च दृष्टे हाहेति वादः सुमहानथाऽसीत्
SK
भीमस्तदा ण्सल्यसुयोधनादीन् कृपं च जित्वा व्यनदत् सुभैरवम् | कुर्वन् साहाय्यं फल्गुनस्यैव तुष्टो बभूव शैनेय उतो हते रिपौ
SK
अपूरयत् पाञ्चजन्यं च कृष्णो मुदा तदा देवदत्तं च पार्थः | भीमस्य नादं सहपाञ्चजन्यघोषं श्रुत्वा निहतं सिन्धुराजम् | ज् ञात्वा राजा धर्मसुतो मुमोद दुर्योधनश्चाऽस सुदुःखितस्तदा
SK
ततो द्रौणिमुखां सेनां सर्वां भीमोऽभ्यवर्तत | पार्थः कर्णमुखाञ्छिष्टान् ततोऽभज्यत तद् बलम्
SK
शीर्णां सेनां प्रविविशुर्धृष्टद्युम्नपुरोगमाः | ततस्तं देशमापुस्ते यत्र भीमधनञ्जयौ
SK
च्च्च्ल्xxविइइ.तत एकीकृत् आः सर्वे पाण्डवाः सहसोमकाः | परान् विद्रावयामासुस्ते भीत् आः प्राद्रवन् दिशः
SK
विद्राप्यमाणं सैन्यं तं दृष्ट्वा दुर्योधनो नृपः | जयद्रथवधाच्चैव कुपितोऽभ्यद्रवत् परान्
SK
स भीमसेनं च धनञ्जयं च युधिष्ठिरं माद्रवतीसुतौ च | धृष्टद्युम्नं सात्यकिं द्रौपदेयान् सर्वानेकः शरवर्षैर्ववर्ष
SK
ते विव्यधुस्तं बहुभिः शिलीमुखैः स ताननादृत्य चकर्त बाणैः | धनूं षि चित्राणि महारथानां चकार सङ्खे विरथौ यमौ च
SK
आदाय चापानि पराणि तेऽपि दुर्योधनं ववृषुः सायकौघैः | अचिन्तयित्वैव शरान्स एको न्यवारयत् तानखिलां श्च बाणैः
SK
तं गाहमानं द्विषतां बहूनां मध्ये द्रोणद्रौणिकृपप्रधानाः | दृष्ट्वा सर्वे जुगुपुः स्वात्तचापा अनारतं बाणगणान् सृजन्तः
SK
सुयोधनः कर्णमाह जहि भीममिमं युधि | स आह नैष ण्सक्यो हि जेतुं देवैः सवासवैः
SK
दैवाज्जीवाम्यहं राजन् युद्ध्यनेनातिपीडितः | अतो घटामहे शक्त्या जयो दैवे समाहितः
SK
दुर्योधनो द्रोणमाह सैन्धवस्त्वदुपेक्षया | पार्थेन निहतो भीमसात्यकिभ्यां च मे बलम्
SK
प्रतिज्ञा च परित्यक्ता पाण्डवस्नेहतस्त्वया | इत्युक्तः कुपितो द्रोणः प्रतिज्ञामकरोत् ततः
SK
इतः परं नैव रणाद् रात्रावहनि वा क्वचित् | गच्छेयं नच मोक्ष्यामि वर्म बद्धं कथश्चन
SK
मत्पुत्रश्च त्वया वाच्यः पाञ्चालान् नैव शेषयेः | सदौहित्रानितीत्युक्त्वा विजगाहे निशागमे
SK
च्च्च्ल्xxइx.चमूं परेषामभ्यागाद् धृष्टद्युम्नस्तमाण्सु च | द्रौणिदुर्योधनौ तत्र विरथीकृत्य मारुतिः | द्रावयामास तत् सैन्यं पश्यतां सर्वभूभृत् आम्
SK
अक्षोहिण्यस्तु सप्तैव सेनयोरुभयोरपि | हतास्तासां च भीमेन तिस्रो द्वे फल्गुनेन च
SK
सौभद्रसात्यकिमुखैस्तन्मध्ये षोडण्सां शकः | हैडिम्बपार्षतमुखैस्त्रयाच्च दशमां शकः
SK
भीष्मद्रोणद्रौणिभिश्च द्वे समं निहते तदा | तदन्यैर्मिल् . इतैः सर्वैस्तच्चतुर्थां श एव च
SK
ततो रात्रौ पञ्चभिश्च पार्थाः षड्भिश्च कौरवाः | अक्षोहिणीभिः सं व्यूह्य युद्धं चक्रुः सुदारुणम् | भीमं सेनां द्रावयन्तं पुनः कर्णः समासदत्
SK
स कर्णपुरतो भीमो दुष्कर्णं कर्णमेव च | दुर्योधनस्यावरजौ निष्पिपेष पदा क्षणात् | रथाण्स्वध्वजसूतैश्च सह तौ न व्यदृश्यताम्
SK
निरायुधोऽहमिति मां त्वमात्थ पुरुषं वचः | निरायुधः पदैवाहं त्वां हन्तुमशकं तदा
SK
इति कर्णस्य तौ भीमः सञ्ज्ञया ज्ञापयन् भुवि | पदा पिपेष कालिङ्गं मुष्टिनैव जघान ह
SK
मुष्टिना त्वद्वधायाहं समर्थ इति किं वदे | तस्मान्मया रक्षितस्त्वमिति ज्ञापयितुं प्रभुः | साण्स्वसूतध्वजरथः कालिङ्गो मुष्टिचूर्णितः
SK
केतुमां श्च पिता तस्य शक्रदेवः श्रुतायुधः | अक्षोहिण्या सेनया च सह भीमेन पातिताः | खड्गयुद्धे पुरा भीष्मे सेनापत्यं प्रकुर्वति
SK
च्च्च्ल्xxx.कर्णानुजान् ध्रुवाद्यां श्च बहून् जघ्ने स वै निशि | सञ्ज्ञां भीमकृत् आं ज् ञात्वा ण्सक्तिं चिक्षेप चापराम् | कर्णः शक्तिर्मया दिव्या न मुक्ता तेन जीवसि
SK
इति ज्ञापयितुं त् आं तु ज्ञात्वा भीमः क्षणात् तदा | खमुत्पत्य गृहीत्वा च कर्णे चिक्षेप सत्वरः
SK
यदि त्वया तदा मुक्ता ण्सक्तिस्त्वां सा हनिष्यति | इति ज्ञापयितुं सा च कर्णरक्षणकाङ्क्षिणा
SK
मुक्ता दक्षभुजे साऽथ विदार्य धरणीं तथा | भित्त्वा विवेश कर्णस्य दर्शयन्ती निदर्शनम्
SK
ततो भीमः पुनः स्वं तु रथमास्थाय चापभृत् | कर्णस्य पुरतः शत्रून् द्रावयामास सर्वतः
SK
तं कर्णो वारयामास शरैः सन्नतपर्वभिः | भीमः कर्णरथायैव गदां चिक्षेप वेगतः
SK
स तद्गदाविघाताय स्थूणाकर्णास्त्रमासृजत् | तेनास्त्रेण प्रतिहता सा गदा भीममाब्रजत्
SK
भीमो गदां समादाय कर्णस्य रथमारुहत् | तया सञ्चूर्णयामास कर्णस्य रथकूबरम्
SK
एवं त्वच्चूर्णने शक्तो मत्कामात् त्वं हि जीवसि | एवं निदर्शयित्वैव पुनः स्वं रथमाब्रजत्
SK
पुनः कर्णपुरः सेनां जघान बहुशो रणे | कर्णस्तु तं परित्यज्य सहदेवमुपाद्रवत्
SK
स तु तं विरथीकृत्य धनुः कण्ठेऽवसज्य च | कुत्सयामास बहुशः स तु निर्वेदमागमत्
SK
च्च्च्ल्xxxइ.न हन्तुमैच्छत् तं कर्णः पृथायै स्वं वचः स्मरन् | तं विजित्य रणे कर्णो जघ्ने पार्थवरूथिनीम्
SK
ततो द्रौणिर्विविधैर्बाणसङ्घैर्जघान पार्थस्य चमूं समन्ततः | सा हन्यमाना रणकोविदेन न शं लेभे मृत्युनाऽर्ता प्रजेव
SK
दृष्ट्वा सेनां द्रौणिबलाभिभूतां तमाह्वयामास घटोत्कचो युधे | द्रौणिस्तमाहाऽलमलं न वत्स पुत्रस्तातं योधयस्वाद्य मां त्वम्
SK
इत्युक्त ऊचे न पिता मम त्वं सखा पितुर्यद्यपि शत्रुसं श्रयात् | अरिश्च मेऽसीति तमाह यद्यरिं मां मन्यसे तद्वदहं करोमि ते
SK
इत्यूचिवाञ्छक्रधनुः प्रकाण्सं विष्फार्य चापं प्रकिरञ्छरौघान् | अभ्यागमद् राक्षसमुग्रवेगः स्वसेनया सोऽपि तमभ्यवर्तत
SK
स रक्षसां लक्षसमावृतो बली नृभिश्च वीरैर्बहुभिः सुशिक्षितैः | अक्षोहिणीमात्रबलेन राक्षसः सङ्क्षोभयामास गुरोः सुतं शरैः
SK
स तेन बाणैर्बहुभिः प्रपीडितो विभिन्नगात्रः क्षतजाप्लुताङ्गः | व्यावृत्य नेत्रे कुपितो महद् धनुर्विष्फार्य बाणै रजनीं चकार
SK
सोऽक्षोहिणीं त् आं क्षणमात्रतः क्षरन् महाण्सरां स्तानपि राक्षसान् क्षयम् | निनाय पुत्रं च घटोत्कचस्य निष्ट्यं पुरा योऽञ्जनवर्मनामकः
SK
निरीक्ष्य सेनां स्वसुतं च पातितं घटोत्कचो द्रोणसुतं शरेण | विव्याध गाढं स तु विह्वलो ध्वजं समाण्स्रितश्चाऽशु ससञ्ज्ञकोऽभवत्
SK
उत्थाय बाणं यमदण्डकल्पं सन्धाय चापे प्रविकृष्य राक्षसे | मुमोच तेनाभिहतः पपात विनष्टसञ्ज्ञः स्वरथे घटोत्कचः
SK
विमूर्च्छितं सारथिरस्य दूरं निनाय युद्धाज्जगतो विपश्यतः | द्रौणिश्च सेनां निशि तैः शरोत्तमैर्व्यद्रावयत् पाण्डवसोमकानाम्
SK
सञ्ज्ञामवाप्याथ घटोत्कचोऽपि क्रुद्धोऽविशत् कौरवसैन्यमाण्सु | विद्रावयामास स बाणवर्षैः प्रकम्पयामास महारथां स्तथा
SK
च्च्च्ल्xxxइइ.तदैव पार्थं प्रति योद्धुमागतं वैकर्तनं वीक्ष्य जगत्पतिर्हरिः | घटोत्कचं प्राहिणोच्छक्तिमुग्रां तस्मिन् मोक्तुं पार्थरक्षार्थमेव
SK
स कर्णमाहूय युयोध तेन तस्यानु दुर्योधनपूर्वकाण्स्च ये | द्रोणेन चैतान् समरे स एको निवारयामास ममर्द चाधिकम्
SK
ते बाध्यमाना बहुशो बलीयसा कर्णं पुरोधाय तमभ्ययोधयन् | न विव्यथे तत्र रणे स कर्णः स्ववीर्यमास्थाय महास्त्रवेत्ता
SK
निवारयामास गुरोः सुतं तदा भीमस्त्रिगर्ताञ्छतमन्युनन्दनः | अलम्बलो नाम तदैव राक्षसः समागमद् भीमसुतं निहन्तुम्
SK
युद्ध्वा प्रगृह्यैनमथो निपात्य घटोत्कचो भूमितल् . एऽसिनाऽस्य | उत्कृत्य शीर्षं तु सुयोधनेऽक्षिपद् विषेदुरत्राखिलभूमिपालाः
SK
अलायुधोऽथाऽगमदुग्रवीर्यो नराण्सनस्तं स घटोत्कचोऽभ्ययात् | युद्ध्वा मुहूर्तं स तु तेन भूमौ निपात्य तं यज्ञपशुं चकार
SK
अथास्य शिर उद्धृत्य क्रोधाद् दुर्योधनोरसि | चिक्षेप तेन सम्भ्रान्ताः सर्वे दुर्योधनादयः
SK
घटोत्कचबलख्यात्यै समर्थेनापि यो रणे | न हतो भीमसेनेन हतोऽस्मिन् भैमसेनिना
SK
सर्वे सञ्चोदयामासुः कर्णं शक्तिविमोक्षणे | अस्मिन् हते हतं सर्वं किं नः पार्थः करिष्यति
SK
एवं सञ्चोद्यमानः स धार्तराष्ट्रैः पुनः पुनः | हैडिम्बेनार्द्यमानैस्तु स्वयं च भृशपीडितः | आदत्त शक्तिं विपुलां पाकशासनसम्मताम्
SK
त् आमम्बरस्थाय घटोत्कचाय शैलोपमायातुलविक्रमाय | चिक्षेप मृत्यो रसनोपमामलं प्रकाण्सयन्तीं प्रदिशो दिशश्च
SK
च्च्च्ल्xxxइइइ.निर्भिण्णवक्षाः स तया पपात विचूर्णयञ्छत्रुबलं हतोऽपि | तस्मिन् हते जहृषुर्धार्तराष्ट्रा उच्चुक्रुशुर्दुधुवुश्चाम्बराणि
SK
तदा ननर्त केशवः समाण्स्लिषच्च फल्गुनम् | ननाद शङ्खमाधमज्जहास चोरुनिस्वनः
SK
तमपृच्छद् गुडाकेशः किमेतदिति दुर्मनाः | हते सुतेऽग्रजेऽस्माकं वीरे किं नन्दसि प्रभो
SK
तमाह भगवान् कृष्णो दिष्ट्या जीवसि फल्गुन | त्वदर्थं निहिता ण्सक्तिर्विमुक्ताऽस्मिन् हि राक्षसे
SK
ततो युधिष्ठिरो दुःखादमर्षाच्चाभ्यवर्तत | कर्णं प्रति तमाहाथ कृष्णद्वैपायनः प्रभुः
SK
ययाऽर्जुनो निहन्तव्यस्तयाऽसौ राक्षसो हतः | तन्मा ण्सुचस्त्वं राजेन्द्र दिष्ट्या जीवति फल्गुनः | इत्युक्त्वा प्रययौ व्यासस्ततो युद्धमवर्तत
SK
भीमार्जुनाभ्यामिह हन्यमाने बले कुरूणामितरैश्च पाण्डवे | प्रदीपहस्ता अथ योधकाण्स्च सर्वेऽपि निद्रावशगा बभूवुः
SK
दृष्ट्वैव तानाह धनञ्जयस्तदा स्वप्स्यन्तु यावच्छशिनः प्रकाण्सः | इतीरिता आण्सिषः फल्गुनाय प्रयुज्य सर्वे सुषुपुर्यथास्थिताः
SK
पुनश्च चन्द्रेऽभ्युदिते युधे ते समाययुः शस्त्रमहास्त्रवर्षाः | तत्राऽयातः सात्यकिं सोमदत्तो भूरिश्च ताभ्यां युयुधे स एकः
SK
हतौ च तौ पेततुस्तेन भूमौ बाह्लीक एनं समरे त्वयोधयत् | स सात्यकिं विरथीकृत्य बाणं वधाय तस्याऽशु मुमोच वीरः
SK
चिच्छेद तं भीमसेनस्त्रिधैव तस्मै शतघ्नीं प्रजहार बाह्लिकः | तया हतो विह्वलितो वृकोदरो जघान तं गदया सोऽपतच्च
SK
बाह्लीकः प्रार्थयामास पूर्वं स्नेहपुरस्सरम् | च्च्च्ल्xxxइव्.भीमं त्वयैव हन्तव्यो रणेऽहं प्रीतिमिच्छता | तदा यशश्च धर्मं च लोकं च प्राप्नुयामहम्
SK
इत्युक्त आह तं भीमो नितरां व्यथितस्तदा | हन्यां नैवान्यथा युद्धे तत् ते शुश्रूषणं भवेत् | इति तेन हतस्तत्र भीमसेनेन बाह्लिकः
SK
हते बाह्लीके कौरवा भीमसेनमभ्याजग्मुः कर्णदुर्योधनाद्याः | द्रौणिं पुरस्कृत्य गुरुं च पार्षतः सभ्रातृकः सात्यकिना समभ्ययात्
SK
सं शप्तकैरेव पार्थो युयोध तद् युद्धमासीदति रौद्रमद्भुतम् | अक्षोहिणी तत्र भीमार्जुनाभ्यां निसूदिता रात्रियुद्धे समस्ता
SK
ततः सूर्यश्चाभ्युदितस्तदाऽतिघोरं द्रोणः कर्म युद्धे चकार | स पाञ्चालानां रथवृन्दं प्रविश्य जघान हस्त्यश्वरथान् नरां श्च
SK
विद्रावितास्तेन महारथाण्स्च नैवाविन्दञ्छर्म बाणान्धकारे | युवेव वृद्धोऽपि चचार युद्धे स उग्रधन्वा परमास्त्रवेत्ता
SK
रथार्बुदं तेन हतं च तत्र ततः सहस्रं गुणितं नराणाम् | ततो दशां शो निहतो हयानां गजार्बुदं चैव रणोत्कटेन
SK
तथा विराटद्रुपदौ शराभ्यां निनाय लोकं परमाजिमध्ये | ततो विजित्यैव गुरोः सुतादीन् धृष्टद्युम्नं भीमसेनो जुगोप
SK
धृष्टद्युम्नो भीमसेनाभिगुप्तो द्रोणं हन्तुं यत्नमुच्चैश्चकार | निवारयामास गुरुः शरौघैर्धृष्टद्युम्नं सोऽपि तं सायकेन | विव्याध तेनाभिहतः स मूर्च्छामवाप विप्रो निषसाद चाऽशु
SK
धृष्टद्युम्नः सत्वरं खड्गचर्मणी आदाय तस्याऽरुरुहे रथोत्तमम् | सञ्ज्ञामवाप्याथ गुरुः शरौघैः प्रादेशमात्रैर्व्यथयामास तं च
SK
स तैरतिव्यथितस्तद्रथाच्च परावृत्तः स्वं रथमारुरोह | सुसं रब्धौ तौ पुनरेव युद्धं सञ्चक्रतुर्वृष्टण्सराम्बुधारौ
SK
च्च्च्ल्xxxव्निवार्य शत्रुं स शरैर्ब्रह्मास्त्रमसृजद् द्विजः | तेन सन्दाहयामास पाञ्चालान् सुबहून् रणे | पुरुजित् कुन्तिभोजश्च तेनान्ये च हतास्तदा
SK
भीमोऽर्जुनः सात्यकिश्च पर्यायेण गुरोः सुतम् | दूरतो वारयामासुर्महत्या सेनया सह
SK
कर्णदुर्योधनादीं श्च शल्यं भोजं कृपं तथा | भीमार्जुनौ शरौघेण वारयामासतू रणे
SK
तत्र भीमो गजानीकं जयत्सेनं च मागधम् | जघान सुबहूं श्चैव मागधानां रथव्रजान्
SK
अथ माल् . अवराजस्य त्वश्वत्थामाभिधं गजम् | भीमसेनहतं दृष्ट्वा वासुदेवप्रचोदितः | अण्स्वत्थामा हत इति प्राह राजा युधिष्ठिरः
SK
अण्स्वत्थामवधं श्रुत्वा नाहं योत्स्य इति स्वयम् | पुरोक्तं धर्मजायैव तेन द्रोणो युधिष्ठिरम्
SK
ब्रूहि सत्यमिति प्राह सत्यमित्येव सोऽब्रवीत् | उपां शु कुञ्जरश्चेति द्रोणोऽतो व्यथितोऽभवत्
SK
तस्य भीमो रथेषां च गृहीत्वा न तवेदृशम् | योग्यं गुणवतो नित्यं परधर्मोपजीवनम्
SK
इत्याह खस्था मुनयश्चालमेहीति तं तदा | ऊचुस्तदखिलं ज् ञात्वा द्रोणः शस्त्रमवासृजत्
SK
स न्यस्य कर्माणि तदाऽखिलानि योगारूढः परमं वासुदेवम् | सर्वेश्वरं नित्यनिरस्तदोषं ध्यायन् मुक्त्वा देहमगात् स्वधाम | तं केशवः पाण्डवा गौतमश्च यान्तं स्वलोकं दद्दशुर्विहायसा
SK
धृष्टद्युम्नः पाण्डवैर्वार्यमाणोऽप्यगात् खड्गं चर्म चाऽदाय तत्र | छित्वाऽसिना तस्य शिरः पुनश्च रथं स्वकीयं त्वरया समास्थितः | च्च्च्ल्xxxवि.दृष्ट्वा कृपस्तं सुभृशं भयार्दितः सम्प्राद्रवद् वाजिनमेकमास्थितः
SK
सञ्छिन्ने द्रोणण्सिरसि गर्हयामास वासविः | युधिष्ठिरं च पाञ्चाल्यं सात्यकिश्चापि कोपितः
SK
धृष्टद्युम्नस्तु तावाह कथं भूरिश्रवा हतः | इति तं सात्यकिः क्रुद्धो गदापाणिः समभ्ययात् | आह्वयामास पाञ्चाल्यस्तं धृत् आसिरविस्मयः
SK
तदा जग्राह शैनेयं भीमः कृष्णप्रचोदितः | शमयामास पार्थं च पाञ्चाल्यस्नेहयन्त्रितः
SK
ते वासुदेवेन तदाऽनुशिक्षित् आः स्नेहं पुनः पूर्ववदापुरुत्तमम् | यत्ताण्स्च युद्धाय समुद्यताण्स्च तदाऽगमद् द्रौणिरप्यात्तधन्वा
SK
आण्स्रुत्य तातं निहतं प्रतिज्ञां चकार निः शेषरिपुप्रमाथने | नारायणास्त्रं विससर्ज कोपात् तदा भीत् आ भीममृते समस्ताः
SK
युधिष्ठिरः प्राह विषण्णचेतनः शैनेयपूर्वाः प्रतियान्तु सर्वे | सभ्रातृकोऽहं द्रौणिवरास्त्रमग्नो भवेयमित्यत्र जगाद केशवः
SK
नमध्वमस्त्रस्य ततो विमोक्ष्यथेत्यथ प्रणेमुश्च धनञ्जयादिकाः | सर्वे न भीमस्तदमुष्य मूर्ध्नि पपात सोऽग्नाविव सं स्थितोऽग्निः
SK
अदह्यमाने भीमेऽपि वह्नौ वह्निरिव स्थिते | अवेष्टयद् वारुणेन पार्थोऽत्राऽत्मप्रपत्तये
SK
न देहे पतितास्त्रस्य बहिर्वेष्टनतः फलम् | तथाऽपि स्नेहवशगो वेष्टयामास फल्गुनः
SK
अमोघत्वं निजास्त्रस्य भीमस्यावध्यतामपि | साधयन् सार्जुनः कृष्णो भीमस्य रथमारुहत्
SK
वेष्टितं वारुणास्त्रेण प्रविष्टं बाह्यतस्तदा | सहितत्वात् केशवेन नरत्वादथ फल्गुनम्
SK
च्च्च्ल्xxxविइ.तदस्त्रं नादहत् ताभ्यां स्वरथादवरोपिते | भीम आच्छिन्नहेतौ च तदस्त्रं शान्तिमागमत्
SK
शुद्धक्षत्रियधर्मेषु निरतत्वाद् वृकोदरः | वाहनादवतीर्यान्यैः प्रणतेऽपि निरायुधैः | सायुधः सरथोऽयुद्ध्यदविषह्यमपीश्वरैः
SK
स्वधर्महानौ मित्राणां कर्तव्यं यन्निषेधनम् | अतः सोऽन्यानपि प्राह मा गमध्वमिति स्वयम्
SK
नमस्कार्यमपि ह्यस्त्रं न नम्यं जीवनेच्छया | समरे शत्रुणा मुक्तं तस्मात् तन्न चकार सः
SK
अस्त्राभिमानी वायुर्हि देवताऽस्य हरिः स्वयम् | तस्माद् भीमं स्वरूपत्वान्नादहच्चाग्निमग्निवत्
SK
मनसैवाऽदरं चक्रे भीमोऽस्त्रे च हरौ तदा | क्षत्रधर्मानुसारेण न ननाम च बाह्यतः
SK
वासुदेवः स्वकीयास्त्रं भीमं चामोघमेव तु | साधयित्वाऽनन्तशक्तिः पुनरश्वानचोदयत्
SK
पुनः प्रयोक्तुमस्त्रं तं धार्तराष्ट्रोऽभ्यचोदयत् | द्रौणिर्न शक्यमित्युक्त्वा धृष्टद्युम्नं समभ्ययात्
SK
आयान्तमीक्ष्यैव गुरोः सुतं तं धृष्टद्युम्नं सात्यकिरन्वयाद् रणे | उभौ च तौ सायकाभ्यामविध्यन्निपेततुस्तौ च विमूर्च्छितौ रणे
SK
भीमस्याभ्यागतस्याण्स्वान् द्रौणिर्व्यद्रावयद् रणे | सं स्थापयति तान् भीमे ददर्श द्रौणिमर्जुनः
SK
ततोऽर्जुनस्तं प्रतियोद्धुमागमद् रुक्षा वाचः श्रावयन् क्रुद्धरूपः | तत्राऽग्नेयं द्रौणिरमुञ्चदस्त्रं तेन व्याप्ता पृतना पाण्डवानाम्
SK
च्च्च्ल्xxxविइइ.अक्षोहिणी निहता चात्र सेना पार्थं सयानं हरिरुज्जहार | जीवन्तमालोक्य सुरेन्द्रनन्दनं द्रौणिः कोपात् कार्मुकं चापहाय | ययौ तमागत्य जगाद कृष्णो वेदान्तकृत् पूर्णषाड्गुण्यदेहः
SK
मा याहि साक्षाद् गिरिशः सुराणां कार्याय भूमौ बलवानजायथाः | महच्च कार्यं पुनरस्ति दृष्टं तवाऽशु तच्च प्रतिपादयेति
SK
तथोदितः प्रातरिति ब्रुवाणो ययौ प्रणम्याखिलवेदयोनिम् | ययुस्तमन्वेव सुयोधनादयो दुःखानतास्ते शिबिराय भीत् आः
SK
पार्थाण्स्च सर्वे मुदिता जनार्दनं परं स्तुवन्तः शिबिराय जग्मुः | तत्रापि रात्रावमितान् हरेर्गुणाननुस्मरन्तो मुमुदुः समेताः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source