Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 30

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये (समस्तधर्मसङ्ग्रहो नम) एकोनत्रिं शोऽध्यायः च्द्xxx.(यागसमाप्तिः ) अथ त्रिं शोऽध्यायः Oं | अथ कृष्णमनुस्मृत्य भीष्मे स्वां वसुतां गते | कृत्वा कार्याणि सर्वाणि गङ्गामाण्स्वास्य दुःखिताम्
SK
आण्स्वासितश्च कृष्णाभ्यां धर्मजो दुःखितः पुनः | पराण्सरसुतेनोक्तः कृष्णेनानन्तराधसा
SK
अपापे पापशङ्कित्वादश्वमेधैर्यजाच्युतम् | कुरु राज्यं च धर्मेण पालयापालकाः प्रजाः
SK
इत्युक्तः स तथा चक्रे त्यक्त्वा भोगां श्च कृत्स्नशः | गोव्रतादिव्रतैर्युक्तः प्Ḹअलयामास मेदिनीम्
SK
ददौ देयानि मुख्यानि यथाकाममखण्डितम् | नैवार्थी विमुखः कश्चिदभूद् योग्यः कदाचन
SK
प्रष्टा च दाताऽखिलराजनम्यो यष्टा च धर्मात्मज एव तत्र | बभूव पाण्डोर्गृहमावसं श्च राजाधिराजो वनितानिवृत्तः
SK
भीमस्तु दौर्योधनमेव सद्म प्रपेदिवानूर्जितवीर्यलब्धम् | कृष्णासहायः सुरराजयोग्यानभुङ्क्त भोगान् युवराज एव
SK
कृष्णा च पार्थां श्चतुरो विहाय सुव्यक्तसारस्वतशुद्धभावा | रराज राजावरजेन नित्यमनन्ययोगेन शिखेव वह्नेः
SK
प्रीत्यैव विज्ञ्Ḹअनयुजाऽन्यपार्थैः सं व्Ḹअदतः परिहृता गतभाविकाले | अपि स्वकीयं पतिमेव भीममवाप्य सा पर्यचरन्मुदैव
SK
रराज राजावरजस्तया स द्विरूपया सोमककाण्सिजातया | श्रिया भुवा चैव यथाऽब्जनाभो निहत्य सर्वान् दितिजान् महाब्धौ
SK
सर्वोत्तुङ्गो नामतः प्राणवायोरं शो निशायां गुरुपुत्रसूदितः | म्Ḹअताऽस्य देवीति च रौहिणेयी भीमप्रियाऽसीद् या पुराऽस्यैव राका
SK
च्द्xxxइ.अन्याण्स्चाऽसुर्वासुदेव्यो दिशो या Ḹअपश्च पूर्वं विं शतिरग्र्यरूपाः | ताभिर्युतो दैवतैरप्यलभ्यानभुङ्क्त भोगान् विबुधानुगार्चितः
SK
ररक्ष धर्मानखिलान् हरेः स निधाय विप्राननुशास्य युक्तान् | सद्वैष्णवान् विदुषः पञ्चपञ्च सवेतनान् ग्राममनु स्वकीयान्
SK
दधार दण्डं तदवर्तिषु स्वयं जग्राह चान्वेव मुदाऽथ तद्गतान् | तद्धृत्तमन्यैरपि विप्रवर्यैः सं शोधयन् सर्वमसौ यथा व्यधात्
SK
न्Ḹअवैष्णवः कश्चिदभूत् कुतश्चिन्नैवान्यनिष्ठो नच धर्महन्ता | न विध्यवर्ती नच दुःखितोऽभून्नापूर्णवित्तश्च तदीयराष्ट्रे
SK
व्Ḹअसिष्ठवृष्णिप्रवरौ प्रपश्यतां ताभ्यां च भीमेन मुनीश्वरैश्च | सं शिक्षितानां प्रथमाद् युगाच्च गुणाधिकः कलिरासीत् प्रजानाम्
SK
शुभं महत् स्वल्पफलं कृते हि विपर्ययेणाण्सुभमेष दोषः | तद्धीनमप्युच्चशुभं कृताद् युगाच्चक्रे कलिं म्Ḹअरुतिरच्युताण्स्रयात्
SK
धनञ्जयः प्रोद्यतदण्ड Ḹअसीत् सदाऽन्यचक्रेषु निजाग्रजेरितः | विभीषयित्वा नृपतीन् सरत्नान् पदोर्नृपस्याग्रभुवो न्यपातयत्
SK
सदैव कृष्णस्य मुखारविन्दाद् विनिस्सृतं तत्त्वविनिर्णयामृतम् | पिबन् सुताद्याधिमसौ क्रमेण त्यजं श्च रेमेऽविरतातिभोगः
SK
दुः शासनस्याऽवसथं सुभद्राचित्राङ्गदासहितोऽध्यावसं श्च | सचन्द्रिकाकान्तिरनूनबिम्बो नभस्थितश्चन्द्र इवात्यरोचत
SK
समस्तभृत्याण्स्रितवेतनानां म्Ḹअद्रेय आसीत् प्रथमः प्रदाता | स दुर्मुखस्याऽवसथेऽवसच्च स मद्रराजात्मजयाऽग्र्यवर्ती
SK
सन्धानभेदानुगतप्रवृत्तिस्तिष्ठं श्च दुर्मर्षण्सुभ्रसद्मनि | नृप्-अङ्गरक्षः प्रगृहीतखड्गस्तस्यानुजो मागधकन्ययाऽसीत्
SK
सेनापतिः कृप आसीद् युयुत्सुः ससञ्जयो विदुरश्चाऽम्बिकेयम् | च्द्xxxइइ.प्Ḹअर्थेरिताः पर्यचरन् स्वयं च सर्वे यथा दैवतमादरेण
SK
द्विरूपकृष्णप्रहितेषु पाण्डुषु क्षितिं प्रशासत्सु न कश्चनाऽतुरः | नचाक्रमान्मृत्युरभून्न नार्यो विभर्तृक्Ḹअ नो विधुरा नराण्स्च
SK
शब्दादयश्चाऽसुरतीव हृद्या निकामवर्षी च सुरेश्वरोऽभूत् | प्रजा अनास्पृष्टसमस्ततापा अनन्यभक्त्याऽच्युतमर्चयन्ति
SK
पृथ्वी च गावः ससरस्वतीका निकामदोहा अभवन् सदैव | अब्दाब्धिनद्यो गिरिवृक्षजङ्गमाः सर्वेऽपि रत्नप्रसवा बभूवुः
SK
कृष्णाण्स्रयात् सर्वमिदं वशे ते विधाय सम्यक् परिपालयन्तः | दिवीव देवा मुमुदुः सदैव मुनीन्द्रगन्धर्वनृप्Ḹअदिभिर्वृताः
SK
समुज्ज्वला पाण्डवकीर्तिनारी पदं विधायासुरपक्षमूर्धसु | वराभये चैव सतां कराभ्यां कृष्णप्रसूता जगदण्डमावृणोत्
SK
प्Ḹअताल् . अपादां पृथिवीनितम्बामाकाण्समध्यां करसन्तताण्साम् | ग्रहर्क्षताराभरणद्युवक्षसं विरि ञ्चलोकस्थलसन्मुखाम्बुजम्
SK
विकुण्ठनाथाभयहस्तमादरान्मूर्ध्ना वहन्तीं वरभारताख्याम् | निशम्य तामीक्ष्य समस्तलोकाः पवित्रिता वेदिभवामिवान्याम्
SK
प्रपालयत्स्वेव धरां सकृष्णेष्वद्धैव पार्थेषु कलिर्बलिश्च | सुपापदैत्यौ क्वच राष्ट्रविप्लवं सञ्चक्रतुस्तच्छ्रुतमाण्सु पार्थैः
SK
नृपेण कृष्णेन च साधु चोदितो भीमस्तदा तौ सगणौ विजित्य | बलिं प्रविद्राव्य कलिं निबद्ध्य समानयत् कृष्णनृपेन्द्रयोः पुरः
SK
पप्रच्छ तं कृष्णपुरो युधिष्ठिर उदारधीः | कले किमिति मे राष्ट्रं विप्लावयसि दुर्मते
SK
इत्युक्त आह कालोऽयं दुर्योधननिपातनम् | आरभ्य मम तत्र त्वं बलादाक्रम्य तिष्ठसि | ततो मया कृतो राष्ट्रविप्लवस्ते नराधिप
SK
च्द्xxxइइइ.तमाह राजा राज्ञ्Ḹअं हि बलाद् राज्यं प्रवर्तते | अपि कालभवं राष्ट्रं त्वदीयं म्Ḹअदृशैर्नृपैः | ह्रियते बलवद्भिर्हि राज्याण्सा ते कुतस्तदा
SK
᳚कालो वा कारणं राज्ञो राजा वा कालकारणम् | इति ते सं शयो मा भूद् राजा कालस्य कारणम्᳚ ८३
SK
तमुवाच कलिः क्Ḹअले मदीये त्वादृशः कुतः | राजानं पूर्वमाविश्य विप्रां श्च स्यामहं नृप
SK
व्Ḹअसुदेवसहायेषु तेजो युष्म्Ḹअसु मे नहि | क्व राजाऽसावृते युष्म्Ḹअन् यो मया नाभिभूयते
SK
मदीयकाले भूपाल विप्रवेदविरोधिनि | मद्दृष्टिपाते क्व गुणाः क्व वेदाः क्व सुयुक्तयः
SK
जगाद नृपतिः सत्यं कले वक्ष्यनृतोऽपि सन् | मोचये त्वर्तवचनाद् यदाऽस्मत्सन्ततेः परम् | विलुम्पस्यखिलान् धर्मान् करं तत्रापि नोऽर्पय
SK
सीमाधिर्बहुवाक्यं च तुलामाने च मे करः | नैवातिक्रममेतेषां कुरु सर्वात्मना क्वचित्
SK
तमाह भगवान् कृष्णो यावत् पाण्डवसन्ततिः | तावन्न ते भवेच्छक्तिः प्रवृत्तस्यापि भूतल् . ए
SK
प्Ḹअण्डवेभ्यः परं य्Ḹअवत् क्षेमकः क्रमवर्द्धिता | क्षेमकात् परतः पूर्तिं शक्तिस्ते यास्यति ध्रुवम्
SK
न द्रष्टव्यं भूतल् . अं ते कुत एव स्पृशेर्भुवम् | य्Ḹअवत् पार्था अहं च्Ḹअत्र ततो भुवि पदं कुरु
SK
८३ Mअहा. १२.७०.६ च्द्xxxइव्.इत्युक्तो वासुदेवेन मोचितो धर्मजेन च | तान् प्रणम्य ययौ पारे समुद्रस्याऽश्रयद् गुहाम् | प्Ḹअर्थाण्स्च कृष्णसहिता रक्षन्तः क्ष्म्Ḹअं मुदं ययुः
SK
एवं प्Ḹअर्थान् प्रतिष्ठ्Ḹअप्य शक्रप्रस्थे तु सार्जुनः | क्रीडन् दिव्याः कथाः प्राह पुत्रशोकापनुत्तये | गीतोक्तं विस्मृतं च्Ḹअस्मै पुनर्विस्तरतोऽवदत्
SK
व्Ḹअणी प्राणो वासुदेव इत्येतैरखिलं ततम् | सर्वोत्तमत्वमेतेषां सर्वमेतद्वशे जगत् | उत्तरोत्तरमेतेऽपि गुणोच्चास्तद्वशेऽपरे
SK
इत्थं हरेर्वशे सर्वगुणपूर्णण्स्च स प्रभुः | एक एव नचान्योऽस्ति प्राणोच्चा तदधो रमा
SK
स हुताण्स इति प्रोक्तो हुतमत्त्यखिलं यतः | व्Ḹअक्प्राणमध्यगो नित्यं धारयत्यखिलं जगत् | स ईशो ब्रह्मरुद्राद्या जीवा एव प्रकीर्तिताः
SK
ये तस्यानादिसद्भक्ता मुक्तियोग्या हि ते स्मृताः | अनादिद्वेषिणो येऽस्मिन्स्तमोयोग्याः सुपापिनः
SK
मिश्रा मध्या इति ज् ञेयाः सं सारपरिवर्तिनः | एवं जीवास्त्रिधा प्रोक्ता भवन्त्येते नचान्यथा
SK
तारतम्यं च विज्ञेयं लि ङ्गैर्दैहिकमानसैः | विष्णोर्लि ङ्गानुसारित्वतारतम्यात् तदीक्षणम्
SK
विष्णोस्तदनुगानां च प्रीतिकृद् धर्म ईरितः | अधर्मोऽन्य इयं निष्ठ्Ḹअ प्रलापः किं करिष्यति
SK
एवमाद्यनुशास्याजः प्Ḹअर्थं प्Ḹअर्थैः सुसत्कृतः | कथञ्चित् तानवस्थाप्य सुदूरानुगतान् प्रभुः | सुभद्रासहितः प्रायाद् यानेन द्वारकापुरीम्
SK
च्द्xxxव्.समाधिविरतोदङ्कपरिपृष्टः पथि प्रभुः | हतं दुर्योधनं प्राह सभ्रातृसुतसैनिकम्
SK
तं शिष्यवधकोपेन शप्तुमात्मानमुद्यतम् | केशवोऽशमयद् वाक्यैर्विश्वरूपं प्रदर्श्य च
SK
मद्भक्तो नितरामेष मदाराधनतत्परः | म्Ḹअमवज् ञ्Ḹअय निरयं म्Ḹअऽनुत्थानं व्रजेदिति
SK
कृपया वासुदेवेन बोधितः शान्तमानसः | पश्चात्तापाभितप्तात्मा तमेव शरणं ययौ
SK
तस्मै देवोऽभयं दत्त्वा प्रेषयिष्येऽमृतं तव | द्Ḹअतुं शक्रमिति प्रोक्त्वा ययौ द्वारवतीं प्रभुः
SK
अथाऽदिदेश देवेशं व्Ḹअसुदेवोऽमृतं मुनेः | देहीति वञ्चयिष्य्Ḹअमीत्याह सोऽपि क्षमापयन्
SK
Oं इत्युक्तो भगवता तत्स्नेहात् स शचीपतिः | सुजुगुप्सितमातङ्गवेषो भूत्वा मुनिं ययौ
SK
म्Ḹउत्रस्रोतसि सोऽधश्च निधाय कलशं वशी | म्Ḹउत्रयन्निव तं प्राह वासुदेवः सुधामिमाम् | महर्षे प्रेषयामास तवार्थे तत् पिबेति च
SK
स मूत्रमिति मत्वा तं य्Ḹअहीत्येवाऽह भत्सयन् | वञ्चयित्वैव तं शक्रो ययौ प्रीतः स्वमालयम्
SK
असाधारणमन्नं हि देवानाममृतं सदा | अन्यपीतिस्ततस्तस्य देवानां परमाप्रिया
SK
आत्मदत्तप्रसादाच्च स्वापराधात् प्रचालिते | उदङ्के वासुदेवस्तु युक्तमित्येव मन्यते
SK
स्वपुरीं प्राप्य यदुभिः पूजितः शूरसूनवे | च्द्xxxवि.वृत्तान्तं कथयामास केशवो यदुसं सदि
SK
वधमन्तरितं सूनोः सात्वतेशेन सात्वती | प्रणम्य कथयेत्यूचे तत आह जनार्दनः
SK
ततः सुदुःखिताः शूरपुत्राद्या अभिमन्यवे | श्राद्धदानानि बहुशश्चक्रुः केशवसं युताः
SK
निवसत्यत्र विश्वेशे धर्मपुत्रः क्रतूत्तमम् | अण्स्वमेधमनुष्ठ्Ḹअतुं न्Ḹअविन्दद् वित्तमञ्जसा
SK
हतशेषात् क्षत्रसङ्घात् करं नैच्छद् दयापरः | नच मध्यमकल्पेन यष्टुं तस्य मनो गतम्
SK
विज्ञ्Ḹअय नित्यविज्ञ्Ḹअतनिखिलो बादरायणः | आविर्भूतो हिमवतः शृङ्गं यत्राभिसङ्गतम्
SK
मेरुशृङ्गेण यत्रैव विष्णुः स्वात्मानमव्ययम् | लोकस्य सङ्ग्रहायेजे कर्मबन्धोज्झितोऽपि सन्
SK
शङ्कराद्याः सुरा यत्र मरुत्तश्चेजिरे हरिम् | द्Ḹअनवो वृषपर्वा च तत्रास्ति धनमक्षयम्
SK
तच्छङ्करशरीरस्थं जामदग्न्यं हरिं परम् | इष्ट्वैवानुज्ञया तस्य स्वीकृत्य यज तेन च | इत्याह व्यासवाक्यानु भीमोऽप्याह नृपोत्तमम्
SK
धनस्य देवता विष्णुर्जामदग्न्योऽखिलेश्वरः | स शङ्करशरीरस्थो यज्ञोच्छिष्टधनाधिपः
SK
तेनैव विष्णुना दत्तमर्जुनायास्त्रमुत्तमम् | क्Ḹअर्याण्यन्यानि चास्माकं कृतान्येतेन विष्णुना
SK
स ब्रह्मरुद्रशक्रादिपददाताऽखिलप्रदः | स्वतन्त्रः परतन्त्रां स्तानावर्तयति चेच्छया
SK
च्द्xxxविइ.प्रियोऽस्माकं प्रियास्तस्य सर्वदैव वयं नृप | अतस्तदभ्यनुज्ञ्Ḹअतधनेनैव यजामहे
SK
सोऽयं पितामहोऽस्माकं व्यासस्तन्नः प्रदास्यति | इत्युक्त्वा तं पुरस्कृत्य कृष्णद्वैपायनं ययुः
SK
धनं कृष्णः समादाय समन्ताच्छतयोजनम् | ददौ तेषां तेऽपि चोहुर्हस्त्युष्ट्राण्स्वनरादिभिः
SK
युधिष्ठिरमृते सर्वे भीमसेनपुरोगमाः | यज्ञ्Ḹअर्थमूहिरे भूरि स्वर्णमुद्यद्रविप्रभम्
SK
तदैव वासुदेवोऽपि सभार्यः सह भद्रया | आगच्छन् हस्तिनपुरं पथ्युदङ्केन पूजितः
SK
तत्कामवर्षिणो मेघां स्तस्य दत्वोदकार्थिनः | सफलं स्ववरं कृत्वा जगाम गजसाह्वयम्
SK
आसन्नेष्वेव पार्थेषु व्यासे च पुरुषोत्तमे | प्रविवेश पुरं कृष्णस्तदाऽसूतोत्तरा मृतम्
SK
द्रौण्यस्त्रसूदितं ब्Ḹअलं दृष्ट्व्Ḹअ कुन्त्यादिकाः स्त्रियः | शरण्यं शरणं जग्मुर्वासुदेवं जगत्पतिम्
SK
प्रत्यक्षमात्मना गर्भे रक्षितं प्रसवे हतम् | पुनरुज्जीवयामास केशवः प्Ḹअर्थतन्तवे
SK
तदैव विविशुः प्Ḹअर्था सकृष्णाः सधनोच्चयाः | सर्वे मुमुदिरे दृष्ट्व्Ḹअ पौत्रं केशवरक्षितम्
SK
ददौ दानानि बहुशो धर्मपुत्रो युधिष्ठिरः | पौत्रजन्मनि हृष्टात्मा वासुदेवं ननाम च
SK
कुन्तीकृष्णासुभद्राभिर्वैराट्य्Ḹअऽन्याभिरेव च | च्द्xxxविइइ.प्Ḹअण्डवैः पुरुषैश्चान्यैः सं स्तुतः प्रणतो हरिः
SK
ततः कृष्णाभ्यनुज्ञ्Ḹअताः प्Ḹअराण्सर्यसदस्यकाः | आरेभिरेऽश्वमेधं ते मुनिभिर्ब्रह्मवादिभिः
SK
सर्वयज्ञ्Ḹअत्मकं तेषामश्वमेधं जगत्पतिः | क्Ḹअरयामास भगवान् कृष्णद्वैपायनः स्वयम्
SK
साधनानि तु सर्वाणि शालां चैव हिरण्मयीम् | पवमानसुतश्चक्रे कृष्णद्वैपायनेरितः
SK
अथानुमन्त्रितोत्सृष्टं पुरोहितपुरस्कृतम् | तुरगं कृष्णसारङ्गमनुवव्राज वासविः
SK
स जित्वा रुन्धतः सर्वान् नृपतीञ्छस्त्रतेजसा | च्Ḹअरयामास सर्वेषु राष्ट्रेष्वविजितोऽरिभिः
SK
युधिष्ठिराज्ञया तेन न कश्चिन्निहतस्तदा | आहूताण्स्च नृप्Ḹअस्तेन यज्ञ्Ḹअर्थं प्रीयताऽखिलाः
SK
मणलूरं क्रमात् प्राप्तस्तत्रैनं बभ्रुवाहनः | अभ्ययादर्घ्यपाद्याद्यैस्तमाह विजयः सुतम्
SK
योद्धुकामोऽर्घ्यमादाय त्वयाऽद्याभिगतो ह्यहम् | न प्रीये पौरुषं धिक् ते यन्मेध्याण्स्वो न वारितः
SK
तदाऽपि पितृभक्त्यैनमयुद्ध्यन्तमुल् ऊपिका | प्राह युद्ध्यस्व यत् प्रीत्यै गुरोः क्Ḹअर्यमसं शयम् | प्रीणनायैव युद्ध्यस्व पित्रे सन्दर्शयन् बलम्
SK
इत्युक्तो युयुधे पित्रा बलं सर्वं प्रदर्शयन् | अर्जुनस्तु सुतस्नेहान्मन्दं योधयति स्मयन्
SK
स तु सर्वायुधक्षेपेऽप्यविकारं धनञ्जयम् | दृष्ट्व्Ḹअ बाल्यात् परीक्षायै मन्त्रपूतं महाण्सरम् | च्द्xxxइx.चिक्षेप पित्रे दैवेन तेनैनं मोह आविशत्
SK
म्Ḹउर्च्छितं तं गुरुं दृष्ट्व्Ḹअ तद्भक्त्या भृशदुःखितः | प्रायोपविष्टस्तन्माता विललापातिदुःखिता
SK
विजगर्ह तदोलूपीं धिग् जगत्त्रयपूजितम् | अजीघनो मे भर्तारं पुत्रेणैवाविजानता
SK
लोकवीरं पतिं हित्वा न मेकार्यं सुतेन च | पतिलोकमहं य्Ḹअस्ये तृप्ता भव कलिप्रिये
SK
इत्युक्त्वा मरणायैव तां विनिश्चितमानसाम् | धरायां विलुठन्तीं च दृष्ट्व्Ḹअ भुजगनन्दिनी
SK
न्Ḹअगलोकात् समादाय विशल्यकरणीं क्षणात् | उत्थापयामास पतिं त्रिलोकातिरथं तया
SK
प्रहस्योवाच च तदा ण्स्रुतं व्Ḹअक्यं पुरा मया | सुरलोके सुरैः प्रोक्तं भीष्म्Ḹअद्या नातिधर्मतः
SK
यद्धतास्तेन दोषेण पार्थस्तेनातिवेदनाम् | रणे व्रजेदिति न तत् परतः स्यादिति ह्यहम् | वचनादेव देवानां युद्ध्येत्यात्मजमब्रुवम्
SK
देवानामेव सङ्कल्पान्मूर्च्छितश्चार्जुनोऽभवत् | भुक्तदोषफलश्चायं पुनर्भोक्ष्यति नान्यतः
SK
अन्येन पातितस्यास्य यशो नश्येत् त्रिलोकगम् | न्Ḹअर्जुनस्य यशो नश्येदिति दैवैरिदं कृतम्
SK
इत्युक्तः प्रीतिमापेदे पुत्रभार्यायुतोऽर्जुनः | यज्ञ्Ḹअर्थं तावथाऽहूय पूजितः प्रययौ ततः
SK
द्वारकायाः समीपस्थं प्रद्युम्नाद्याः सुता हरेः | प्रसह्याण्स्वमपाजह्रुराह्वयन्तोऽर्जुनं युधे
SK
च्द्xल्.सुभद्राहरणं म्Ḹअर्ष्टुं नीतेऽश्वे तैर्धनञ्जयः | गौरवाद् वासुदेवस्य मातुलस्य च केवलम्
SK
म्Ḹअतुलायाब्रवीदश्वं हृतं पौत्रैरबन्धुवत् | स निर्भत्स्य कुमारां स्तान् मेध्यमश्वममोचयत्
SK
म्Ḹअतुलं स प्रणम्याथ यज्ञ्Ḹअर्थं तान् निमन्त्र्य च | गच्छन् गजाह्वयं दूतमग्रतोऽयापयन्नृपे
SK
सकृष्णः सहसोदर्यः श्रुत्वाऽसौ प्राप्तमर्जुनम् | प्रीतो बाष्प्Ḹअभिपूर्णाक्षो भ्रातृस्नेहादभाषत
SK
व्Ḹअसुदेव न पश्यामि दुर्लक्षणमजार्जुने | केन दुर्लक्षणेनायं बहुदुःखी प्रवासगः
SK
पृष्टस्तं केशवः प्राह भ्राता ते दीर्घपिण्डिकः | तेनायं दुःखबहुल इत्युक्त्वा पुनरेव च | वदन्तमेव पाञ्चाली कटाक्षेण न्यवारयत्
SK
समस्तलक्षणाभिज्ञ्Ḹअः कृष्णः सत्या वृकोदरः | कृष्णा च पञ्चमो नास्ति विद्या ण्सुद्धेयमञ्जसा
SK
प्रसङ्गात् प्राप्तुमिच्छेत् तां विद्याण्सीलो युधिष्ठिरः | इति लोभात् तु पाञ्चाली वासुदेवं न्यवारयत्
SK
तद्गौरवाद् वासुदेवो नोत्तरं प्रत्यभाषत | विस्मारयामास च तं प्रब्रुवाणः कथान्तरम्
SK
उदरस्य किञ्चिदाधिक्यं वृषणाधिक्यमेव च | सव्यबाहोस्तथाऽधिक्यं दुर्लक्षणमतोऽर्जुने
SK
नैवोक्तं व्Ḹअसुदेवेन दृश्यमानमपि स्फुटम् | ज्ञ्Ḹअनानन्दह्रासकरा ह्येते दोषाः सदातनाः
SK
च्द्xलि.समस्तजीवराण्सौ तद् दुष्टलक्षणवर्जितौ | पूर्णचित्सुखशक्त्यादेर्योग्यौ कृष्णा चमारुतिः
SK
अनादिदुःखहीनत्वे सुखाधिक्ये च लक्षणम् | रुग्मिणीसत्यभामादिरूपायाः श्रिय एव तु
SK
मुख्यं ततोऽपि मुख्यं तु स्वान्तन्त्र्यादेरशेषतः | गुणराण्सेः परं लि ङ्गं नित्यं व्यासादिरूपिणः | विष्णोरेव नचान्यस्य स ह्येकः पूर्णसद्गुणः
SK
साण्स्वेऽर्जुने यज्ञवाटं प्रविष्टेऽस्य सहोदराः | पूजिताः पूजयामासुर्मुदिताः सहकेशवाः
SK
ततः स यज्ञो यदुवीररक्षितो व्यासोपदिष्टो मुनिभिः प्रवर्तितः | अण्सोभतालं सकलैर्नृपैश्च समागतैर्विप्रवरैश्च जुष्टः
SK
स कृष्णयुग्मेन च भार्गवेण त्रिधा विभक्तेन परेण पुं सा | अधिष्ठितोऽशोभत विश्वमेतद् विश्वादिरूपेण यथैव तेन
SK
यथा विरि ञ्चस्य पुराऽस यज्ञो यथैव शक्रस्य शतक्रतुत्वे | तथैव सोऽभूद् विधिशर्वशक्रपूर्वैः सुरैराविरलङ्कृतोऽधिकम्
SK
न देवगन्धर्वमुनिस्वधर्ममर्त्यादिकेष्व्Ḹअस स योऽत्र नाऽस | स्वलङ्कृतैर्नाकिजनैः सकान्तैररूरुचन्नाकवदेतदोकः
SK
तत्रैव तत्त्वानि ससं शयानि निस्सं शयान्यासुरलं विवादे | परस्परोत्थे हरिणा त्रिर् ऊपिणा सं स्थापितान्यग्र्यवचोभिरुच्चैः
SK
प्रगीतगन्धर्ववरः प्रनृत्तसदप्सराः सन्ततवादिविप्रः | विवेचयद्देवनृपौघ एको रराज राजाऽखिलसत्क्रतूनाम्
SK
समस्तदेव्यः सहवासुदेव्यः स्वलङ्कृताः फुल्लमुखारविन्दाः | विचेरुरत्रैव सहाप्सरोभिर्निषेदुरप्यच्युतसत्कथारमाः
SK
न वै मुमुक्षुर्न बभूषुरत्र न वै प्रपित्सुश्च कुतो बुभुक्षुः | च्द्xलिइ.असत्यकामा अभवन् कुतश्चित् प्रदातरि प्राज्ञवरेऽनिलात्मजे
SK
दिनेदिने तत्र महान्नपर्वताः सभक्षसारा रसवन्त ऊर्जिताः | नद्यः पयः सर्पिरजस्रपूर्णाः समाक्षिकाद्या अपि पायसह्रदाः
SK
ह्रदा महान्तस्त्रिदशादियोग्याः सुयोगयुक्ता हरिचन्दनादेः | तथाऽञ्जनालक्तकमुख्यमण्डनद्रव्याग्र्यवाप्यो मणिकाञ्चनोद्भवाः
SK
यथेष्टपानाण्सनभोगशिष्टाः सहस्रशो मारुतिना तुकारिताः | गन्धा रसाद्याण्स्च समस्तभोगा दिवीव तत्राऽसुरतीव हृद्याः
SK
नैतादृशः कश्चन भूतपूर्वो मखो विना रामविरि ञ्चवज्रिणाम् | मखानिति प्रोचुरशेषलोका दृष्ट्व्Ḹअ मखं तं पुरुषोत्तमेरितम्
SK
स एवमद्धा हरिदैवतः क्रतुः पञ्चाण्स्वमेधात्मक उच्चकल्पः | दिनेदिने स्वृद्धगुणो बभूव मुदावहो वत्सरपञ्चकत्रयम्
SK
यज्ञ्Ḹअवसाने निखिलाण्स्च पाण्डवाः कृष्णा चपृथ्वीमखिलां सवित्ताम् | मङ्गल्यमात्रं दयिताण्सरीरे निधाय सर्वाभरणानि चैव | समर्पयामासुरजे वरेण्ये व्यासे विभागाय यथोक्तमृत्विजाम्
SK
प्रियो विभागो यदमुष्य विष्णोरतो विभागार्थमिवाऽर्पयं स्ते | हृद्Ḹअ समस्तं हरयेऽर्पितं तैः स हि द्विजस्थोऽपि समस्तकर्ता
SK
देहेन्द्रियप्राणमनां सि चेतनैः सहैव तस्मा अतिसृज्य नेमुः | त्वदीयमेतन्निखिलं वयं च नास्त्यस्मदीयं क्वच किञ्चनेश | स्वतन्त्र एकोऽसि न कश्चिदन्यः सर्वत्र पूर्णोऽसि सदेति हृष्टाः
SK
ततो विभक्ते मुनयोऽवदं स्ते प्रत्यर्पयामो वयमेषु राज्यम् | पूर्णा हिरण्येन वयं धरायाः प्रपालने योग्यतमा इमे हि
SK
प्Ḹअर्थाः सभार्या द्विजवाक्यमेतन्निशम्य कृष्णाय पुनः प्रणम्य | ऊचुस्तपो नोऽस्तु वनेऽर्पयित्वा राज्यं मखान्ते त्वयि धर्मलब्धम्
SK
इतीरितः प्राह स बादरायणो मुनीश्वरैरप्यनुयाचितः प्रभुः | च्द्xलिइइ.हिरण्यमेव स्वमिदं मुनीनां मदाज्ञया भुङ्ग्ध्वमशेषराज्यम्
SK
समर्पितं मे फलवच्च तत् स्यात् पुनर्ग्रहो नैव च दोषकारी | पितामहोऽहं भवत् आं विशेषतो गुरुः पतिश्चैव ततो मदर्हथ
SK
इतीरितास्ते प्रतिपद्य राज्यं ददुर्हिरण्यं निखिलं च तस्मै | विभज्य विप्रान् स निजं तु भागमदात् पृथायै निखिलं प्रसन्नः
SK
सभार्यकाणां वररत्नभूषणान्यशेषतः पुत्रभुवां प्रदाय | पृथक्पृथग् योग्यवरानथैभ्यः प्रादात् प्रभुस्ते मुदिताः प्रणेमुः
SK
तद् यज्ञपञ्चकमजस्त्रिगुणां स एभ्यः सद्दक्षिणां क्रतुपतिर्निखिलामवाप्य | चक्रेऽश्वमेधत्रयमेकमेकं तेषां हरिर्बहुसुवर्णकनामधेयम्
SK
सकृष्णेष्वथ पार्थेषु सुस्नातावभृथेष्वलम् | पञ्चेन्द्रवद् विराजत्सु स्त् ऊयमानेष्वृषीश्वरैः
SK
स्त् ऊयमाने च तद्यज्ञे क्रोधो नकुलतां गतः | कृत्वोग्रगर्जनं यज्ञं तां श्च यज्ञकृतोऽखिलान्
SK
गर्हयन्नूचिवानित्थं भार्यापुत्रस्नुषायुतः | सक्तुप्रस्थमदाद् विप्र उञ्छवृत्तिः सुभक्तितः
SK
धर्मायातिथये तस्य कलां न्Ḹअर्हति षोडण्सीम् | यज्ञोऽयमिति हेतुं च विप्रैः पृष्टोऽभ्यभाषत
SK
अतिथेस्तस्य पादोदक्लिन्नः प्Ḹअर्श्वो हिरण्मयः | एको ममाभूदपरः सर्वतीर्थादिकेष्वपि
SK
मज्जतोऽवभृथेष्वद्धा यज्ञ्Ḹअनामत्र चाऽदरात् | न्Ḹअभूदित्यथ तत्तत्त्ववेदिभिर्मुनिपुङ्गवैः
SK
कृष्णेन च तमोऽन्धं तं प्रापयद्भिः स्मिते कृते | अदर्शनं जगामाऽशु तमः प्राप च कालतः | तदर्थमेव हैरण्यः प्Ḹअर्श्वस्तस्याभवत् पुरा
SK
च्द्xलिव्.कृष्णस्य पाण्डवानां च मखादेश्च गुणान् बहून् | वदन्तो भत्सयाञ्चक्रुस्तन्मतज्ञ्Ḹअ मधुद्विषः
SK
श्राद्धार्थं हि पयः पूर्वं जमदग्नेरदूषयत् | न्Ḹअकुलेनैव र् ऊपेण क्रोधस्तं पितरोऽशपन्
SK
भव त्वं नकुलस्तावद् यावद् धर्मादिकान् सुरान् | क्षेप्स्यसीति तमो घोरं भूयः प्Ḹअपेन यात्वयम् | इत्यभिप्रेत्यः तैः शप्तस्तथा कृत्वा तमोऽभ्ययात्
SK
यद्यप्यल्पधनत्यक्तं वित्तं बहुफलं भवेत् | तथाऽप्यनन्तफलदाः कर्तुरेव महागुणाः
SK
सतां प्रीतिश्च तत्रापि सद्वरो हरिरेव हि | प्Ḹअर्थेभ्योऽभ्यधिकः कर्ता समो वा को गुणैर्भवेत्
SK
सतां च प्रवरो विष्णुः सद्भिर्मुनिवरैर्युतः | प्रत्यक्षतः क्Ḹअरयति पार्थैः प्रियतमैश्च तैः | यं मखप्रवरं तस्य समं किं शुभसाधनम्
SK
पठन्ति पैङ्गिनश्चैतान् मन्त्रानन्वर्थकानिह | ᳚अवैष्णवकृतं कर्म सर्वमन्तवदुच्यते | अनन्तं वैष्णवकृतं तत्र वर्णक्रमात् परम्
SK
वैष्णवेष्वपि मर्त्यैर्यत् कृतं शतगुणं ततः | ग्Ḹअन्धर्वं कर्म तस्माच्च मुनिभिः पितृभिस्ततः
SK
देवशक्रशिवब्रह्मकृतं तस्मात् क्रमेण च| शतोत्तरमिति ज् ञेयं न्Ḹअन्यद् ब्रह्मकृतोपमम्
SK
वैष्णवत्वं क्रमोद्वृद्धं ब्रह्मान्तं जीवराण्सिषु | फलाधिक्यं कर्मणां हि विष्णोः प्रीत्यैव नान्यथा᳚
SK
च्द्xल्व्.इति तेन न पार्थानां कर्मणाऽन्यत् समं क्वचित् | गुणैर्ज् ञ्Ḹअनादिभिर्वाऽपि तस्मात् क्रोधः स तामसः | विनिन्द्य तान् सुसत्त्वस्थां स्तमोऽन्धमुपजग्मिवान्
SK
अथ पृष्टो वासुदेवः सुरविप्रादिसं सदि | युधिष्ठिरेण सं हृष्टो जगादाण्सेषतः प्रभुः
SK
ते च श्रुत्वाऽखिलान् धर्मान् भक्त्या परमया युताः | पूजयन्तो जगन्नाथमापुश्च परमां मुदम्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source