SKइति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये खाण्डवदाहो नाम विं शोऽध्यायः च्च्ल्विइइ.(पाण्डववनप्रवेशः ) अथ एकविं शोऽध्यायः Oं | जनार्दनाज्ञया मयः समस्तकौतुकोत्तराम् | सभां विधाय भूभृते ददौ गदां वृकोदरे
SKस वायुधारितां गदां हि यौवनाण्स्वभूभृत् आ | प्रसादतोऽस्य लम्भितामवाप्य मोदमाप ह
SKपुनश्च वत्सरद्वयं समुष्य केशवो ययौ | समर्चितश्च पाण्डवैर्वियोजनेऽस्य चाक्षमैः
SKततो वसन् स्वपुर्यजः क्वचिद् रविग्रहे हरिः | सदारपुत्रबान्धवः समन्तपञ्चकं ययौ
SKपृथासुताण्स्च सर्वशः सदारपुत्रमातृकाः | क्षितीश्वराण्स्च सर्वशः प्रियाप्रिया हरेश्च ये
SKतथैव नन्दगोपकः सदारगोपगोपिकः | मुनीश्वराण्स्च सर्वतः समीयुरत्र च प्रजाः
SKप्रियाण्स्च ये रमेशितुर्हरिं त्रिरूपमेत्य ते | वसिष्ठवृष्णिनन्दनं भृगूत्तमं तथाऽर्चयन्
SKकृत् आर्थतां च ते ययू रमेशपाददर्शनात् | रविग्रहे समाप्लुता भृगूद्वहोत्थतीर्थके
SKअनुग्रहं विधाय स स्वकेषु केशवस्त्रिवृत् | अयाजयच्च शूरजं मखैः समाप्तदक्षिणैः
SKसमस्तलोकसं स्थितात्मभक्तिमज्जनस्य सः | सुकालदर्शनात् परं व्यधादनुग्रहं हरिः
SKततो ययौ स्वकां पुरीं पृथासुतैः सहाच्युतः | चकार तत्र चाऽह्निकं क्रतुं महाण्स्वमेधकम्
SKच्च्लिx.हयं सभीमफल्गुना हरे रथं समास्थिताः | व्यचारयन् हरेः सुता दिनस्य पादमात्रतः
SKजिताः समस्तभूभृतो जरासुतादयः क्षणात् | वृकोदरादिभिस्तु तैर्हयश्च दिव्य आययौ
SKहयः स कृष्णनिर्मितो दिनेन लक्षयोजनम् | क्षमो हि गन्तुमञ्जसा दिनाण्स्वमेधसिद्धये
SKपराण्सरात्मजो हरिर्हरिं यदा त्वदीक्षयत् | तदाऽससाद ह द्विजस्तृणावहो रुराव च
SKब्रजन्ति जन्मनोऽनु मे सदा सुता अदृश्यताम् | इतीरितेऽर्जुनोऽब्रवीदहं हि पामि ते सुतान्
SKन कृष्णरामकार्ष्णिभिः सुता नु मेऽत्र पालिताः | क्व तेऽत्र शक्तिरित्यमुं जगाद सोऽर्जुनं द्विजः
SKतदा जगाद फल्गुनोऽसुरैर्विदूषित् आत्मना | न विप्र तादृशोऽस्म्यहं यथैव केशवादयः
SKमया जिता हिखाण्डवे सुरास्तथाऽसुरानहम् | निवातवर्मनामकान् विजेष्य उत्तरत्र हि
SKउदीर्य चेति केशवं स ऊचिवान् व्रजाम्यहम् | इतीरितोऽवदद्धरिस्तवात्र शक्यते नु किम्
SKविलज्जमानमीक्ष्य तं जगाद केशवोऽरिहा | व्रजेति स प्रतिश्रवं चकार हाप्यरक्षणे
SKवह्निं प्रवेक्ष्येऽशक्तश्चेदित्युक्त्वा सर्वयादवैः | ययौ न रामप्रद्युम्नावनिरुद्धं च केशवः | न्ययोजयत् तत्सहाये यशस्तेष्वभिरक्षितुम्
SKच्च्ल्x.प्रियो हि नितरां रामः कृष्णस्यानु च तं सुतः | अनिरुद्धः कार्ष्णिमनु प्रद्युम्नाद् योऽजनिष्ट हि| रुग्मिपुत्र्यां रुग्मवत्यामाहृत् आयां स्वयम्बरे
SKरतिरेव हि या तस्यां ज् आतोऽसौ कामनन्दनः | पूर्वमप्यनिरुद्धाख्यो विष्णोस्तन्नाम्न एव च | आवेशयुक्तो बलवान् रूपवान् सर्वशास्त्रवित्
SKतस्मात् तां स्त्रीनृते कृष्णः पार्थसाहाय्यकारणात् | न्ययोजयत् सूतिकाले ब्राह्मण्याः स च फल्गुनः
SKअस्त्रैश्चकार दिग्बन्धं कुमारोऽथापितु क्षणात् | अदर्शनं ययौ पार्थो विषण्णः सह यादवैः | अधिक्षिप्तो ब्राह्मणेन ययौ यत्र श्रियः पतिः
SKवह्निं विविक्षन्तममुं निवार्य ययौ सविप्रः सहफल्गुनो हरिः | आण्सामुदीचीं बृहता रथेन क्षणेन तीर्त्वैव च सप्तवारिधीन्
SKददुश्च मार्गं गिरयोऽब्धयस्तथा विदार्य चक्रेण तमोऽन्धमीशः | घनोदकं चाप्यतितीर्य तत्र ददर्श धाम स्वमनन्तवीर्यः
SKसं स्थाप्य दूरे सरथं सविप्रं पार्थं स्वरूपे द्विचतुष्कबाहौ | समस्तरत्नोज्ज्वलदिव्यभूषणे विवेश नित्योरुगुणार्णवे प्रभुः
SKसहस्रमूर्धन्युरुशेषभोग आसीनरूपेऽमितसूर्यदीधितौ | रमासहाये तटिदुज्ज्वलाम्बरे मुक्तैर्विरिञ्चादिभिरर्चिते सदा
SKस्थित्वैकरूपेण मुहूर्तमीश्वरो विनिर्ययौ विप्रसुतान् प्रगृह्य | सुनन्दनन्दादय एव पार्षदास्ते वैष्णवा भूमितल् . ए प्रजाताः
SKदर्पं निहन्तुं हरिरर्जुनस्य समानयद् विप्रसुतान् परेशः | प्रीतिर्महत्येव यतोऽर्जुने हरेः सं शिक्षयामास ततः स एनम्
SKअप्राकृत् आत् सदनाद् वासुदेवो विस्सृत्य सूर्याधिकलक्षदीधितेः | रथं समारुह्य सपार्थविप्र आगात् सुतां श्चैव ददौ द्विजाय
SKच्च्ल्xइ.लोकशिक्षार्थमेवासौ प्रायश्चित्तं च चालने | चक्रे सार्द्धमुहूर्तेन समागम्य पुनर्मखम्
SKब्रह्मादीनागतां श्चैव सदा स्वपरिचारकान् | पूजयित्वाऽभ्यनुज्ञाय ब्राह्मणानप्यपूजयत्
SKसस्नाववभृथं कृष्णः सदारः ससुहृज्जनः | आयान्तं द्वारकां कृष्णं दन्तवक्रो रुरोध ह
SKजघान गदया कृष्णस्तं क्षणात् सविडूरथम् | विडूरथस्तमोऽगच्छद् दन्तवक्रे च योऽसुरः
SKहरेः पार्षदः क्षिप्रं हरिमेव समाण्स्रितः | कृष्णे प्राप्ते स्वलोकं च निस्सृत्यास्मात् स्वरूपतः | एकीभावं स्वरूपेण द्वारपेण गमिष्यति
SKततः कृष्णः पुरीमेत्य बोधयामास फल्गुनम् | किमेतद् दृष्टमित्येव तेन पृष्टो रमापतिः
SKअयं द्वीपः सागरश्च लक्षयोजनविस्तृतौ | तदन्ये तु क्रमेणैव द्विगुणेनोत्तरोत्तराः
SKअन्त्याध्यर्द्धस्थलं हैमं बाह्यतो वाज्रलेपिकम् | एतत् सर्वं लोकनाम ह्येतस्माद् द्विगुणं तमः | अन्धं यत्र पतन्त्युग्रा मिथ्याज्ञानपरायणाः
SKघनोदकं तद्द्विगुणं तदन्ते धाम मामकम् | यत्तद् दृष्टं त्वया पार्थ तत्र मुक्तैरजादिभिः | सेव्यमानः स्थितो नित्यं सर्वैः परमपूरुषः
SKलोकालोकप्रदेशस्तु पञ्चाण्सल्लक्षविस्तृतः | सपञ्चाण्सत्सहस्रश्च तस्यापि गणनं तथा
SKयोजनानां पञ्चविं शत्कोटयो मेरुपर्वतात् | च्च्ल्xइइ.चतसृष्वपि दिक्षूर्ध्वमधश्चाण्डं प्रकीर्तितम्
SKअबग्नीरनभोहऽ न्कृन्महत्तत्त्वगुणत्रयैः | क्रमाद् दशोत्तरैरेतदावृतं परतस्ततः
SKव्याप्तोऽहं सर्वगोऽनन्तोऽनन्तरूपो निरन्तरः | अनन्तशीर्षोऽनन्ताक्षोऽनन्तपादकरोरुकः | अनन्तगुणमाहात्म्यश्चिदानन्दशरीरकः
SKमद्वशा एव सर्वेऽपि त्वं चान्ये च धनञ्जय | मत्प्रसादाद् बलं चैव विजयश्चाखिला गुणाः | तस्मान्न विस्मयः कार्यो न दर्पश्च त्वयाऽनघ
SK᳚मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे᳚ ७२ | इत्युक्तः प्रणिपत्यैनं क्षमस्वेत्याह फल्गुनः
SKउषित्वा कतिचिन्मासान् ययुः सर्वेऽपि पाण्डवाः | अनुज्ञाताः केशवेन भक्तिनम्रधियोऽच्युते | सम्भाविताः केशवेन सौहार्देनाधिकेन च
SKततः कदाचित् प्रवरे सभातल् . ए धर्मात्मजो राजभिर्भ्रातृभिश्च | वृतो निशम्यैव सभाः सुराणां यथा स्थिता नारदमन्वपृच्छत्
SKअन्तरिक्षं त्वया प्रोक्तं लक्षयोजनमुच्छ्रितम् | अर्द्धकोट्युच्छ्रितः स्वर्गो विमानावलिसङ्कुलः
SKभुवः स्वर्गश्च कोट्यैव योजनानां प्रविस्तृतौ | महर्जनस्तपश्चैव क्रमादध्यर्द्धयोजनाः | पञ्चाण्सत्कोटिविस्तारा योजनानां समस्तशः
SKयावन्त एते मिल् . इत् आस्तत्प्रमाण उदीरितः | सत्याख्यो ब्रह्मलोकस्तु यत्र ब्रह्मा विराजते
SK७२ Bह. Gई. १८.६५ च्च्ल्xइइइ.ततश्च द्विगुणः प्रोक्तो विष्णुलोकः सनातनः | उत्तरोत्तरतः सर्वे सुखे शतगुणोत्तराः
SKअनन्तजनसम्पूर्णा अपि ते हीच्छया हरेः | अवकाण्सवन्तो दिव्यत्वात् पूर्यन्ते न कदाचन | सर्वकामसुखैः पूर्णा दिव्यस्त्रीपुरुषोज्ज्वलाः
SKदिव्यरत्नसमाकीर्णं तथा पाताल् . असप्तकम् | अधस्ताच्छेषदेवेन बलिना समधिष्ठितम्
SKकामभोगसमायुक्ता बहुवर्षसहस्रिणः | सप्तद्वीपेषु पुरुषा नार्यश्चोक्ताः सुरूपिणः
SKएषां च सर्वलोकानां धाता नारायणः परः | विष्णुलोकस्थितो मुक्तैः सदा सर्वैरुपास्यते
SKसेवका ब्रह्मणण्स्चैव देवा वेदाण्स्च सर्वशः | शक्रश्च मुनयः सर्वे हरिश्चन्द्रश्च भूमिपः
SKअखिला अपि राजानः पाण्डुण्स्चास्मत्पिता मुने | यमस्यैवानुगाः प्रोक्ता राजभिस्तैर्यमेन च
SKउपास्यमानो भगवान् रामो यमसभातल् . ए | उक्त इन्द्रेण चोपास्यो वामनात्मा जनार्दनः
SKप्रादुर्भावाण्स्च निखिला ब्रह्मणोपासिताः सदा | वरुणस्यानुगा नागास्तत्र मत्स्याकृतिर्हरिः | गन्धर्वा धनदस्यापि तत्र कल्की हरिः प्रभुः
SKरुद्रस्योग्राणि भूतानि नृसिं हात्मा ण्सिवेन च | उपास्यते सदा विष्णुरित्याद्युक्तं त्वयाऽनघ | सर्वरत्नस्थलान् दिव्यान् देवलोकान् प्रभाषता
SKतत्र मे सं शयो भूयान् हरिश्चन्द्रः कथं नृपः | च्च्ल्xइव्.ऐन्द्रं सभातल् . अं प्राप्तः पाण्डुर्नास्मत्पिता मुने
SKइत्युक्तो नारदः प्राह राजसूयकृतोन्नतिम् | हरिश्चन्द्रस्य तां दृष्ट्वा पिता यमसभातल् . ए | स्थितस्त्वामवदत् पाण्डू रामद्वयसुदैवते
SKकरोतु राजसूयं मे पुत्रोऽजेयानुजार्चितः | पालितो वासुदेवेन किं तस्यासाध्यमत्र हि
SKएतच्छ्रुत्वा धर्मसुतो भ्रातृभिः सहितो वशी | अवाप्तिं राजसूयस्य मन्त्रयामास धर्मवित्
SKसुकार्यमेतदित्यलं निशम्य सोदरोदितम् | अयातयत् स्वसारथिं स केशवाय भूपतिः
SKतदैव केशवस्य याः स्त्रियस्तदीयतातकैः | सहोदरैश्च यापितः सुदूत आप माधवम्
SKप्रणम्य केशवं वचः स आह मागधेन ते | विवाहबान्धवा रणे विजित्य रोधिता गिरौ
SKनृपायुतद्वयेन सोऽष्टविं शकैः शतैरपि | यियक्षुरुग्ररूपिणं त्रिलोचनं त्वयि स्थिते
SKविमोचयस्व तान् प्रभो निहत्य मागधेश्वरम् | अवैदिकं मुखं च तं विलुम्प धर्मगुप्तये
SKइतीरितोऽथ सारथिं निशाम्य धर्मजस्य च | निशम्य तद् वचस्तदा जगाम पाण्डवालयम्
SKस पाण्डवैः समर्चितो मखाय धर्मजेन च | प्रपृष्ट आह माधवो वचो जगत्सुखावहम्
SKक्रतुर्यथाविधानतः कृतो हि पारमेष्ठ्यकम् | पदं नयेत तत्पदे सुयोग्यमेष नान्यथा
SKच्च्ल्xव्.अयोग्यकान्महापदे विधातुरेष हि क्रतुः | समानयोग्यतागणात् करोति मुक्तिगं वरम्
SKपुरा तु मुक्तितोऽधिकं स्वजातितः करोति च | अतस्त्रिशङ्कुपुत्रको नृपानतीत्य वर्तते
SKसुरां शकोऽपि ते पिता विना हिराजसूयतः | न शक्ष्यति त्रिशङ्कुजाद् वरत्वमाप्तुमद्य तु
SKतपश्चरन् समागते शचीपतौ पिता तव | मरुद्गणोत्तमः पुरा नतूत्थितः शशाप सः
SKव्रजस्व मानुषीं तनुं ततो मृतः पुनर्दिवम् | गतोऽपि नः स्वकां तनुं प्रवेष्टुमत्र नेशसे
SKतदाऽधिकस्त्रिशङ्कुजो भविष्यतु त्वदित्यथ | क्षमापितश्च वासवो जगाद राजसूयतः | त्रिशङ्कुजाधिको भवानवाप्स्यति स्वकां तनुम्
SKअतः सुकार्य एव ते युधिष्ठिर क्रतूत्तमः | भवद्भिरप्यवाप्यते स्वयोग्यताऽमुनाऽखिला
SKउदीर्य चैवमीश्वरः क्रतोरमुष्य योग्यता | वृकोदरे यतोऽखिला चतुर्मुखत्वयोग्यता
SKततः सुपूर्णमस्य तत् फलं विधातुमञ्जसा | जगाद वायुवाहनो वचो युधिष्ठिरं त्विदम्
SKक्व राजसूयमद्य ते जरासुते तु जीवति | जयेत् क एव तं युधा मृतो न योऽपि सीरिणा
SKविरिञ्चशर्ववाक्यतः समस्तलोकजायिनि | स्थिते तु ते जरासुते न सेत्स्यति क्रतूत्तमः
SKच्च्ल्xवि.इतीरिते रथाङ्गिना जगाद धर्मनन्दनः | निवर्तितं मनः क्रतोरलं ममामुना प्रभो
SKबभूवुरेव भूभृतो नचाऽधिराज्यमापिरे | यदा च चक्रवर्तिनस्तदेदृशा नशत्रवः
SKइतीरितेऽमुनाऽवदत् प्रधानमारुतात्मजः | पदं चतुर्मुखस्य वा सुसाध्यमेव यत्नतः
SKनिजानुभाववर्जिता हरेरनुग्रहोज्झिताः | महाप्रयत्नवर्जिता जना न जग्मुरुन्नतिम्
SKस्थिरोऽनुभाव एव मे महाननुग्रहो हरेः | प्रयत्नमेकमग्रतो निधाय भूतिमाप्नुमः
SKइतीरितेऽमुना हरिः समुद्यमात् प्रधानतः | स्थिते हि यज्ञकारणे वृकोदरे जगाद ह
SKस एक एव पूरुषो जरासुतोऽद्य वर्तते | समस्तसद्विरोधिनां बलं कलेरनन्तरः
SKतथा सतां समाण्स्रयो यदुद्भवाः सतां गुणाः | स एक एव तादृशस्त्वया विचिन्त्य यात्यताम्
SKयदि स्म तेन मागधो निहन्यते सतां जयः | विपर्ययेण चासतामिति स्म विद्धि नान्यथा
SKस पारमेष्ठ्यसत्पदं प्रयात्यसं शयं युधि | य एव हन्ति मागधं स वेदधर्मपालकः
SKनिहन्ति मागधेश्वरं य एष वैष्णवं जगत् | करोति शर्वपालितो यतः स बार्हद्रथः
SKनिहन्ति शैवनायकं य एष वैष्णवाग्रणीः | इति स्म भावसं युते वदत्यजेऽबिभेन्नृपः
SKच्च्ल्xविइ.युधिष्ठिरे ब्रुवत्यजं मखेन मे त्वलं त्विति | तमाह मारुतात्मजो निहन्मि मागधं रणे
SKइतीरितेऽवदद्धरिर्व्रजामहे वयं त्रयः | अहं च भीमफल्गुनौ निहन्तुमेव मागधम्
SKवृकोदरेण हन्यते यदि स्म मागधाधिपः | मखश्च सेत्स्यते ध्रुवं जगच्च ते वशे भवेत्
SKइतीरिते तु शौरिणा जगाद धर्मनन्दनः | स शूरसेनमण्डलप्रहाणतो हरेस्त्रसन्
SKभयाद्धि यस्य माधुरं विहाय मण्डलं गताः | भवन्त एव सागरं ततो बिभेम्यहं रिपोः
SKइमौ हि भीमफल्गुनौ ममाक्षिणी सदा प्रभो | मनोनिभो भवान् सदा न वो विनाऽस्म्यतः पुमान्
SKअतो न जीवितात् प्रियानहं रिपोर्बलीयसः | सकाण्समात्महेतुतः प्रयातयामि वो विभो
SKइतीरितेऽवदत् पुनर्वृकोदरोऽरिकक्षभुक् | यदीयनेतृका रमाविरिञ्चशर्वपूर्वकाः
SKवशे च यस्य तद् बलं सुरासुरोरगादिनाम् | स एष केशवः प्रभुः क्व चास्य बार्हद्रथः
SKअधृष्यमस्ति मे बलं हरिः प्रणायकोऽस्य च | समस्तलोकनेतरि प्रभौ हि सर्वशक्तिता
SKअजेयता तथाऽर्जुने हरेर्वरोद्भवाऽस्ति हि | अतो वयं त्रयोऽद्य तं प्रयाम मागधं रिपुम्
SKहनिष्य एव मागधं हरेः पुरो न सं शयः | च्च्ल्xविइइ.इतीरितेऽमुना हरिर्जगाद धर्मनन्दनम्
SKवयं त्रयः समेत्य तं प्रयातयाम मृत्यवे | हनिष्यति स्फुटं रणे वृकोदरो जरासुतम्
SKभयं न कार्यमेव ते मया हतः स नेति ह | मया हिनीतिहेतुतः स्वयं न हन्यते रिपुः
SKस शर्वसं श्रयाग्रणीर्मदाण्स्रयोत्तमेन तु | निहन्यते यदा तदा प्रकाण्सितं हि मे बलम्
SKअतो न शङ्कितं मनः कुरुष्व भूपते क्वचित् | प्रदर्शयामि तेऽनुजौ निहत्य मागधेश्वरम्
SKइतीरितः स विष्णुना विचार्य तद्गुणान् परान् | तथेति चाऽह ते त्रयः प्रतस्थुराण्सु मागधान्
SKसमेत्य मागधां स्तु ते शिवोरुलिङ्गमित्यलम् | सुमाल्यवस्त्रभूषणैः समर्चितं गिरिं ययुः
SKस्वशीर्षतोऽपि चाऽदृतं जरासुतेन ते गिरिम् | न्यपातयन्त बाहुभिस्तमस्य चोत्तमाङ्गवत्
SKअद्वारतस्ते नगरं प्रविश्य माषस्य नाल् . एन कृत् आस्त्रिभेरीः | पुष्टिप्रदा बिभिदुस्तस्य कीर्तिशास्त्रोपमा न्यक्कृतमागधेशाः
SKतथाऽपणेभ्यो बहुमाल्यगन्धान् प्रसह्य सङ्गृह्य शुभां श्च दध्रुः | अद्वारतस्तस्य गृहं च सस्रुर्भोशब्दतस्तं च नृपः प्रसस्रुः
SKत् आन् विप्रवेषान् स निशाम्य राजा महाभुजान् स्नातकवेषयुक्तान् | द्वितीयवर्णान् प्रविचिन्त्य बाहून् ज्याकर्कशान् वीक्ष्य बभाष एतान्
SKके ष्ठाथ किं हेतुत आगताण्स्च कृतश्च मे पर्वतलिङ्गभेदनम् | कृतं भवद्भिः कुत एव दुर्नयाः कृत् आस्तथाऽन्ये द्विजवर्यवेषैः
SKच्च्ल्xइx.इति ब्रुवाणं भगवानुवाच कार्यं हि शत्रोरखिलं प्रतीपम् | इत्युक्त ऊचे नहि विप्रशत्रुरहं कुतो वो मम शत्रुता भवेत्
SKइत्युक्तवाक्यं नृपतिं जगाद जनार्दनो नैव हि तादृशा द्विजाः | वयं रिपुस्तेऽस्मि हि वासुदेव इमौ च भीमार्जुननामधेयौ
SKयद् बान्धवान् नः पिशिताण्सिधर्मतो रौद्रे मखे कल्पयितुं पशुत्वे | इच्छस्यरे वेदपथं विहाय तं त्वां बलाच्छास्तुमिहाऽगता वयम्
SKविमोक्षयामः स्वजनान् यदि त्वं न मोचयस्यद्य निगृह्य च त्वाम् | मुञ्चाथवा तानभियाहि वाऽस्मान् रणाय मर्तुं कृतनिश्चयोऽत्र
SKइतीरितोऽसौ मगधाधिपो रुषा जगाद नाहं शिव यागयुक्तान् | मोक्ष्ये पशून् युगपद् वा क्रमेण योत्स्ये च वोऽथापि चमूसहायान्
SKनिरायुधः सायुधो वा युष्मदिष्टायुधेन वा | एकोऽपि सकलैर्योत्स्ये ससेनो वा ससैनिकान्
SKइत्युक्तवन्तमवददजितोरुबलो हरिः | एह्येकमेको वाऽस्मासु ससैन्यो वा रणे नृप
SKयेन कामयसे योद्धुं तं न आसादय द्रुतम् | निरायुधः सायुधो वा त्वदभीष्टायुधेन वा | इत्याऽह भगवाञ्छत्रुं यशो भीमे विवर्द्धयन्
SKघातयित्वा स्वशत्रुं च भीमसेनानुग्रहं परम् | भीमस्य कर्तुमिच्छं श्च भक्तिज्ञानादिवर्द्धनम्
SKतृणीकर्तुं रिपुं चैव निरायुधतयाऽगमन् | कृष्णभीमार्जुनास्तेन विप्रवेषाण्स्च तेऽभवन्
SKनिरायुधः क्षत्रवेषो नैव योग्यः कथञ्चन | ततो जग्मुर्विप्रवेषास्तृणीकर्तुं हि मागधम्
SKमागधस्य ससैन्यस्य स्वगृहे सं स्थितस्य च | च्च्ल्xx.निरायुधेन भीमेन समाह्वाने कृतेऽमितम् | धर्मं यशश्च भीमस्य वर्द्धयामास केशवः
SKतृतीयमर्जुनं चैव समादाय ययौ रिपुम् | हरिस्तस्माच्च भीमस्य महाधिक्यं प्रकाण्सयन् | मुखेन मागधस्यैव वृण्वेकं न इति ब्रुवन्
SKवृण्वेकमस्मास्विति स प्रोक्त आह जरासुतः | कुर्यां नैवार्जुनेनाहमबलेनैव सङ्गरम्
SKपञ्चपञ्चाण्सदब्दोऽद्य ह्ययमेवं च बालवत् | अबलत्वाद् युवाऽप्येष बाल एव मतो मम
SKइत्युक्तोऽप्यर्जुनो नाऽह कुरु तर्हि परीक्षणम् | बाहुभ्यां धनुषा वेति शङ्कमानः पराजयम्
SKअतो भीमे बलाधिक्यं सुप्रसिद्धमभून्महत् | एतदर्थं हि कृष्णेन सहाऽनीतः स फल्गुनः
SKज् आनन् कृष्णे बलं घोरमविषह्यं स मागधः | कुत्सयन् गोप इति तं भयान्नैवाऽह्वयत् प्रभुम्
SKआह्वयामास भीमं तु स्याद् वा मे जीवनं त्विति | हनिष्यत्येव मां कृष्ण इत्यासीन्नृपतेर्भयम् | तस्मात् तं नाह्वयामास वासुदेवं स मागधः
SKअर्जुने तु जिते कृष्णभीमौ मां निहनिष्यतः | त्रयाणां दुर्बलाह्वानान्नश्येत् कीर्तिश्च मे ध्रुवा
SKइति मत्वाऽह्वयामास भीमसेनं स मागधः | कथञ्चिज्जीवितं वा स्यान्नतु नश्यति मे यशः
SKइति स्म भीमं प्रतियोधनाय सङ्गृह्य राजा स जरासुतो बली | राज्ये निजं चाऽत्मजमभ्यषि ञ्चत् पुरा ख्यातं पत्रतापाख्यरुद्रम्
SKच्च्ल्xxइ.बलं भीमे मन्यमानोऽधिकं तु गदाण्सिक्षामात्मनि चाधिकां नृपः | भीतो नियुद्धेऽस्य ददौ गदां स भीमाय चान्यां स्वयमग्रहीद् बली
SKतदर्थमेवाऽशु गदां प्रगृह्य भीमो ययौ मागधसं युतो बहिः | पुरात् सकृष्णार्जुन एव तत्र त्वयुद्ध्यतां केशवपार्थयोः पुरः
SKवाचाऽजयत् तं प्रथमं वृकोदरः शिवाण्स्रयं विष्णुगुणप्रकाण्सया | ततो गदाभ्यामभिपेततुस्तौ विचित्रमार्गानपि दर्शयन्तौ
SKतयोर्गदे तेऽशनिसन्निकाण्से चूर्णिकृते देहमहादृढिम्ना | अन्योन्ययोर्वक्षसि पातिते रुषा यथाऽश्मनोः पां सुपिण्डौ सुमुक्तौ
SKसञ्चूर्णितगदौ वीरौ जघ्नुतुर्मुष्टिभिर्मिथः | ब्रह्मण्डस्फोटसङ्काण्सैर्यथा केशवकैटभौ
SKचचाल पृथ्वी गिरयश्च चूर्णित् आः कुलाचलाण्स्चेलुरलं विचक्षुभुः | समस्तवाराम्पतयः सुरासुरा विरिञ्चशर्वादय आसदन्नभः
SKसुरास्तु भीमस्य जयाभिकाङ्क्षिणस्तथाऽसुराद्या मगधाधिपस्य | पश्यन्ति सर्वे क्रमशो बलं स्वं समाददे मारुतनन्दनोऽपि
SKमानयित्वा वरं धातुर्दिवसान् दश पञ्च च | वासुदेवाज्ञया भीमः शत्रुं हन्तुं नओ दधे
SKस प्रणम्य हृषीकेशं हर्षादाण्स्लिष्य फल्गुनम् | रिपुं जग्राह मकुटे वारणं मृगराडिव
SKपृष्ठेऽस्य जानुमाधाय कूर्मदेशं बभञ्ज ह | मृतिकाले पुनर्देहं विददार यथा पुरा
SKमर्मण्येव न हन्तव्यो मयाऽयमिति मारुतिः | स्वपुरुषप्रकाण्साय बभञ्जैनममर्मणि
SKभज्यमाने शरीरेऽस्य ब्रह्माण्डस्फोटसन्निभः | बभूव रावो येनैव त्रस्तमेतज्जगत्त्रयम्
SKच्च्ल्xxइइ.निहत्य कृष्णस्य रिपुं स भीमः समर्पयामास तदर्चनं हरेः | कृत् आं हि भीमेन समर्चनां त् आं समक्षमादातुमिहाऽगतो ह्यजः
SKस्वीकृत्य पूजां च वृकोदरस्य दृढं समाण्स्लिष्य च तं जनार्दनः | प्रीतो नितान्तं पुनरेव कृष्णं ननाम भीमः प्रणतोऽर्जुनेन
SKजग्मुः सुराण्स्चातितरां प्रहृष्टा ब्रह्मादयो दीनतराण्स्च दैत्याः | बलादुमेशस्य वरे प्रभग्ने वृकोदरेणाच्युतसं श्रयेण
SKसुतो ययौ शरणं त् आन् रमेशभीमार्जुनान् सहदेवोऽस्य धीमान् | रथं स्वसारं च ददौ स मारुतेर्ननाम कृष्णं परया च भक्त्या
SKरथो ह्यसौ वसुना वासुदेवाच्छक्रान्तराऽप्तो वसुवं शजत्वात् | जरासुतस्याऽस वृकोदरस्तं हरे रथं प्रार्पयामास तस्मै
SKकृष्णोऽस्मरद् गरुडं स ध्वजेऽभूद् रथं कृष्णोऽथाऽरुहत् पाण्डवाभ्याम् | भीमः कन्यां सहदेवस्य हेतोः समग्रहीदनुजस्याऽत्मनः सः
SKनकुलस्याऽदान्मद्रराजो हि पूर्वं स्वीयां कन्यां सा तथैषाऽप्युषा हि| एका पूर्वं ते अश्विनोश्चैव भार्या यमौ रेमाते यदुषा अश्विभार्या | ततः कृष्णायामग्रजभ्रातृभार्यावृत्तिं हि तौ चक्रतुर्माद्रिपुत्रौ
SKजरासुतस्याऽत्मजः केशवादीन् रत्नैः समभ्यर्च्य ययावनुज्ञया | तदाज्ञया पितृकार्याणि कृत्वा तदाज्ञयैवामुचत् तान् नृपां श्च | तैः सं स्तुतः केशवो भीमपार्थयुक्तो ययौ भक्तिनम्रैर्यथावत्
SKसम्भावितास्ते सहदेवेन सम्यक् प्रशस्य कृष्णं भीमसेनं च सर्वे | ययुर्गृहान् स्वानपतत् केशवद्विड्जरासुतोऽन्धे तमसि क्रमेण
SKकृष्णण्स्च पार्थौ च तथैकयानं समास्थिता धर्मजमभ्यगच्छन् | तेषां शङ्खध्वनिसम्बोधितात्मा राजा प्रीतश्चातितरां बभूव
SKद्वैपायनोऽथ भगवानभिगम्य पार्थानाज्ञापयत् सकलसम्भृतिसाधनाय | तं राजसूयसहितं परमाण्स्वमेधयज्ञं समादिशदनन्यकृतं विरिञ्चात्
SKच्च्ल्xxइइइ.कर्ता हि तस्य् अपरमेष्ठिपदं प्रयाति यद्यन्यसद्गुणवरैः परमेष्ठितुल्यः | भीमे मखस्य फलमत्यधिकं निधातुं व्यासः क्रतुं तमदिशद् गुरुरब्जजस्य
SKअसाधारणहेतुर्यः कर्मणो यस्य चेतनः | स एव तत्फलं पूर्णं भुङ्क्तेऽन्योऽल्पमिति स्थितिः | विना विष्णुं निर्णयोऽयं स हि कर्मफलोज्झितः
SKहेतवोऽपि हि पापस्य न प्रायः फलभागिनः | देवाः पुण्यस्य दैत्याण्स्च मानुषास्तद्विभागिनः
SKअसाधारणहेतुश्च भीम एव प्रकीर्तितः | यज्ञस्यास्य जरासन्धवधात् कर्णजयादपि
SKजयाच्च कीचाकादीनामन्यैर्जेतुमशक्यतः | द्वितीयः फल्गुनश्चैव तृतीयस्तु युधिष्ठिरः
SKतस्माद् ब्रह्मपदावाप्त्यै व्यासो भीमस्य तं क्रतुम् | अनन्यकृतमादिश्य दिशां विजयमादिशत्
SKअथाब्रवीद् धनञ्जयो धनुर्ध्वजो रथो वरः | ममास्ति तद् दिशां जयो ममैव वाञ्छितः प्रभो
SKइतीरितोऽखिलप्रभुर्जगाद सत्यमस्ति ते | समस्तसाधनोन्नतिर्महच्च वीर्यमस्ति ते
SKतथाऽपि कीचकादयो वृकोदरादृते वशम् | न यान्ति नापि ते वशं प्रयाति कर्ण एव च
SKबलाधिकोऽसि कर्णतस्तथाऽपि नामृतः करम् | ददाति ते ह्यतिस्पृधा न वध्य एष तेऽद्य च
SKसवर्मकुण्डलत्वतो न वध्य एष यत् त्वया | ततो वृकोदरो दिशं प्रयातु ते पितुः प्रियाम्
SKच्च्ल्xxइव्.जीवग्राहभयात् कर्णो ददाति करमञ्जसा | भीमाय नात्र सन्देहो जितोऽनेन च सं युगे
SKअजेयौ शर्ववचनाद् रणे कीचकपौण्ड्रकौ | वशं प्रयातो भीमस्य तथाऽवध्योऽपि चेदिपः
SKजीवग्राहभयं ह्येषां भीमान्मागधपातनात् | तस्मात् करं प्रयच्छन्ति जिता वा पूर्वमेव वा
SKप्रयाहि च त्वं धनदप्रपालितां दिशं द्वीपान् सप्त चाण्सेषदिक्षु | नागां श्च दैत्यां श्च तथाऽधरस्थान् विजित्य शीघ्रं पुनरेहि चात्र
SKरथो हि दिव्योऽम्बरगस्तवास्ति दिव्यानि चास्त्राणि धनुश्च दिव्यम् | येऽन्ये च बाणप्रमुखा अजेयाः शर्वाण्स्रयास्तानपि भीम एतु
SKतथा सुराण्स्चापि समस्तशोऽस्य बलिं प्रयच्छन्ति मदज्ञयेतरे | दिशं प्रतीचीमथ दक्षिणां च यातां यमौ क्रमशो ह्यध्वरार्थे
SKयशश्च धर्मश्च तयोरपि स्यादिति स्यदिति स्म कृष्णेन सुतेन काल् . याः | उक्ते ययुस्ते तमभिप्रणम्य दिशो यथोक्ताः परमोरुसद्गुणाः
SKवृकोदरोऽजयन्नृपान् विराटमाससाद ह | जितेऽत्र कीचके रणे समाददे करं ततः
SKततः क्रमान्नृपान् जित्वा चेदीनां विषयं गतः | मातृवाक्याद् भयाच्चैव शिशुपालेन पूजितः
SKमातृष्वसुर्गृहे चोष्य दिवसान् कतिचित् सुखम् | करं सुमहदादाय ततः पूर्वां दिशं ययौ
SKक्रमेण सर्वान् निर्जित्य पौण्ड्रकं च महाबलम् | विरथीकृत्य कर्णं च करमादाय सर्वतः
SKहिमवच्छिखरे देवान् जित्वा ण्सक्रपुरोगमान् | क्रीडार्थं युद्ध्यतस्तेभ्यस्तुष्टेभ्यो रत्नसञ्चयम्
SKच्च्ल्xxव्.बाहुयुद्धेन शेषं च गरुडं च महाबलम् | क्रीडमानौ विनिर्जित्य भूषणान्याप तोषतः | त् आभ्यां च दृढमाण्स्लिष्टः स्नेहविक्लिन्नया धिया
SKपोप्लूयमानः स ततोऽम्बुधौ बली जगाम बाणस्य पुरं हरं च | रणेऽजयद् वारणरूपमास्थितं क्रीडन्तमेतेन च तोषितो हरः
SKपृष्टण्स्च गिरिशेनासौ विस्तरं दिग्जयस्य च | सिं हव्याघ्रादिरूपाण्स्च आत्मना विजिता यथा | गरुत्मच्छेषण्सक्राद्या देवाः सर्वे तदब्रवीत्
SKनिशम्य शङ्करोऽखिलं मखस्य च प्रसाधकम् | हरिं ततो बलेः सुताद् ददौ च रत्नसञ्चयम्
SKस बाणदैत्यतो महच्छिवेन दत्तमुत्तमम् | प्रगृह्य रत्नसञ्चयं स्वकं पुरं समाययौ
SKस विप्रयादवेश्वरं द्विधास्थितं जनार्दनम् | पुरो निधाय तद् वसु प्रभूतमानमत् तदा
SKसोऽभिवाद्याग्रजं चैव यथावृत्तं न्यवेदयत् | आत्मनः कृष्णयोः सर्वं धर्मराजाग्रतो मुदा
SKयथा जिताः कीचकाद्या एकलव्यसहायवान् | यथा जितः पौण्ड्रकश्च कर्णाद्याण्स्च तथाऽपरे
SKयथा सिं हादितनवः शेषवीन्द्रेन्द्रपूर्वकाः | यथा गजतनुः शर्वस्तच्च सर्वमवर्णयत्
SKसम्भावितश्च कृष्णाभ्यां राज्ञा च सुमहाबलः | आज्ञया व्यासदेवस्य यज्ञाङ्गानि समार्जयत्
SKऊचे तं भगवान् व्यासो जितं सर्वं त्वयाऽरिहन् | जये सर्वस्य यज्ञोऽयं पूर्णो भवति नान्यथा
SKच्च्ल्xxवि.विरिञ्चः सर्वजित् पूर्वं द्वितीयस्त्वमिहाभवः | इत्युक्त्वैनं समाण्स्लिष्य यज्ञाङ्गानि समादिशत्
SKतदैवान्ये दिशो जित्वा समीयुस्तस्य येऽनुजाः | सहदेवो दक्षिणाण्सां जित्वा रत्नान्युपाहरत्
SKतत्र रुग्मी न युयुधे सहदेवेन वीर्यवान् | जितः कृष्णेन पूर्वं यः शर्वादाप धनुर्वरम्
SKतपसा तोषित् आत् कृष्णादन्यानेवामुनाऽखिलान् | विजेष्यसि यदा कृष्णविरोधस्ते तदा धनुः | मामेष्यतीति तेनोक्तो न व्यरुद्ध्यत केशवे
SKस्वसुः स्नेहाच्च कृष्णस्य यज्ञकारयितृत्वतः | भीमार्जुनबलाच्चैव माद्रेयाय ददौ करम् | जिग्ये बलेनान्यनृपान् सहदेवः प्रतापवान्
SKतथा स्मृतं समागतं घटोत्कचं विभीषणे | समादिशद् ययौ च सोऽपि सोऽददान्महाकरम्
SKपुरा हिराघवोदितं तदस्य सोऽखिलं तदा | विचार्य केशवं च तं बलं च भीमपार्थयोः | दिवौकसश्च पाण्डवानवेत्य सोऽददात् करम्
SKमहौघरत्नसञ्चयं स आप्य भीमसेनजः | ययौ च माद्रिनन्दनं स चाऽययौ स्वकं पुरम्
SKनकुलः पश्चिमाण्सायां विजिग्येऽखिलभूभृतः | करमाप च वीरोऽसौ सौहार्दादेव मातुलात् | आययौ च महारत्नसञ्चयेन स्वकं पुरम्
SKअर्जुनः कपिवरोच्छ्रितध्वजं स्यन्दनं समधिरुह्य गाण्डिवी | यात एव दिशमुत्तरां यदा पार्वतीयकनृपाः समाययुः
SKच्च्ल्xxविइ.त्रैगर्ताः पार्वतेयाण्स्च सहिताः पाण्डुनन्दनम् | अभ्येत्य योधयामासुर्जानन्तस्तच्चिकीर्षितम्
SKत् आन् विजित्य युगपत् स पाण्डवः सञ्जयन् क्रमश एव तां दिशम् | प्राव्रजच्च भगदत्तमूर्जितं तेन चास्य समभून्महारणः
SKसोऽभियुद्ध्य सगजो दिनाष्टकं श्रान्त आह पुरुहूतनन्दनम् | ब्रूहि ते समरकारणं त्विति प्राह देहि करमित्यथार्जुनः
SKसोऽप्यदात् करममुष्य वासवो मद्गुरुस्तव पितेति सादरम् | नैव जेतुमिह शक्ष्यसि त्वमित्यावदद्धरिवरास्त्रतेजसा
SKस्नेहपूर्वं प्रदत्ते तु करे नैवाऽह चोत्तरम् | अर्जुनो व्यर्थकलहमनिच्छन् स्नेहयन्त्रितः
SKपार्थो जित्वाऽष्टवर्षाणि षड्द्वीपानपरानपि | अजयच्चतुर्दिशमपि सर्वशः शस्त्रतेजसा
SKपाताल् . असप्तकं गत्वा जित्वा दैतेयदानवान् | बलेश्च विष्णुवचनात् करं जग्राह सामतः
SKजित्वा चवासुकिं भूरि रत्नमादाय सत्वरः | आजगाम पुरं स्वीयं वीरो वत्सरमात्रतः
SKसुवर्णरत्नगिरयश्चतुर्भिस्तैः समार्जिताः | चत्वारो योजनानां हि दश त्रिं शच्छतं तथा
SKचतुः शतं च क्रमश उच्छ्रिता दिग्जयार्जिताः | प्रतीच्याद्यपसव्येन क्रमाद् दिग्भ्यः समार्जिताः
SKविश्वकर्मकृतत्वात्तु पुरस्याल्पेऽपि च स्थल् . ए | अन्तर्गतास्ते गिरयस्तदद्भुतमिवाभवत्
SKततो यज्ञः प्रववृते कृष्णद्वैपायनेरितः | ऋत्विजो मुनयोऽत्रासन् सर्वविद्यासु निष्ठिताः | च्च्ल्xxविइइ.द्वैपायनोक्तविधिना दीक्षयाञ्चक्रिरे नृपम्
SKज्येष्ठत्वाद् याजमानं तु प्रणिधाय युधिष्ठिरे | भीमार्जुनादयः सर्वे सह तेन समासिरे
SKब्रह्माणीपदयोग्यत्वात् कृष्णैका यज्ञपत्न्यभूत् | पदायोग्यतया नान्याः पत्न्यस्तेषां सहाऽसिरे
SKआज्ञयैव जगद्धातुर्व्यासस्यानन्ततेजसः | स्थलमप्यत्र सर्वं हि रत्नहेममयं त्वभूत् | किमु पात्रादिकं सर्वं शिबिराणि च सर्वशः
SKआहूतं दिग्जये पार्थैस्तदा लोकद्विसप्तकम् | सर्वमत्राऽगमद् ब्रह्मशर्वशक्रादिपूर्वकम्
SKभीष्मो द्रोणण्स्च विदुरो धृतराष्ट्रः सहात्मजः | सस्त्रीका आययुस्तत्र बाह्लीकश्च सहात्मजः
SKतथैव यादवाः सर्वे बलभद्रपुरोगमाः | रुग्मिणीसत्यभामाद्या महिष्यः केशवस्य च
SKतत्र सर्वजगदेकसङ्गमे तत्त्वनिर्णयकथा बभूविरे | प्राण्स्निकोऽत्र परिपूर्णचिद्धनो व्यास एव भगवान् बभूव ह
SKतत्त्वनिर्णयकथासु निर्णयो वासुदेवगुणविस्तरोऽभवत् | नास्ति तत्सदृश उत्तमः कुतः पार एष न ततोऽन्य इत्यपि
SKबादरायणभृगूत्थरामयोः शृण्वतोः परमनिर्णये कृते | मोदमानजनतासमागमेऽपृच्छदत्र नृपतिर्यतव्रतम्
SKज् आनमानोऽपि नृपतिः सर्वपूज्यतमं हरिम् | सं शयं भूभृत् आं भेत्तुं भीष्मं पप्रच्छ धर्मवित्
SKनास्ति नारायणसममिति वादेन निर्णये | कृते ब्रह्मादिभिरपि कृष्णं मर्त्यं हि मेनिरे
SKच्च्ल्xxइx.नृपास्तस्मादयं कृष्णो नारायण इति स्म ह | सम्यग् ज्ञापयितुं धर्मसूनुर्भीष्ममपृच्छत
SKब्रह्मादयः सुरा यस्माद् दृश्यन्ते मर्त्यवन्नृभिः | नचैवातितराभ्यासो नृणामस्ति मुनिष्वपि
SKसर्वशास्त्रविदं भीष्मं ज् आनन्त्येते नृपा अपि | तस्माद् भीष्ममपृच्छत् स कुलवृद्धत्वतस्तथा
SKपितामहाग्र्यपूजार्हः कोऽत्र लोकसमागमे | ब्रह्मशर्वादयश्चात्र सन्ति राजान एव च | इति पृष्टोऽब्रवीद् भीष्मः कृष्णं पूज्यतमं प्रभुम्
SKयद्यप्येकस्त्रिधा विष्णुर्वसिष्ठभृगुवृष्णिषु | प्रादुर्भूतस्तथाऽप्येते नृपा हिव्यासरामयोः
SKविप्रत्वान्न विरुद्ध्यन्ते तत एव च युक्तताम् | मन्यन्ते न विरोधश्च तेषां तत्र हि तादृशः
SKअविवादे प्रसिद्धिश्च नैवास्य भविता क्वचित् | तस्मात् कृष्णाय दातव्यमिति भीष्मेण चिन्तितम्
SKकृष्णाय दत्ते राजानो विवादं कुर्युरञ्जसा | विवादेन च कीर्तिः स्याद् वासुदेवस्य विस्तृत् आ | ततः कृष्णायाग्रपूजा दत्ता पार्थैर्जगत्पुरः
SKव्यासभार्गवयोः साक्षात् तदैक्यात् तदनन्तरम् | अग्र्यां पूजां दुदुश्चान्यान् यथायोग्यमपूजयन्
SKअग्र्योपहारमुपयापित एव कृष्णे कोपादनिन्ददमुमाण्सु च चेदिराजः | श्रुत्वैव तत् पवनजोऽभिययौ नृपं तं हन्तुं जगद्गुरुविनिन्दकमृद्धमन्युः
SKदूरेऽपि केशवविनिन्दनकारिजिह्वां मुच्छेत्स्य इत्युरुतराऽस्य सदा प्रतिज्ञा | भीमस्य तं तु जगृहे सरिदात्मजोऽथ सम्प्रोच्य केशववचो निजयोर्वधाय
SKच्च्ल्xxx.मयैव वध्याविति तावाह यत् केशवः पुरा | तच्छ्रुत्वा भीमसेनोऽपि स्थितो भीष्मकरग्रहात्
SKज् आनन्नपि हरेरिष्टं स्वकर्तव्यतयोत्थितः | भीम एतावदुचितमिति मत्वा स्थितः पुनः
SKदेवसङ्घभविनां महानभूदीक्ष्य तोष इह केशवेऽधिकाम् | अर्चनां य इह मानुषो जनो मध्य एव स तु सं स्थितोऽभवत्
SKआसुरा इह सुयोधनादयस्तत्र ते विमनसो बभूविरे | दुर्वचोभिरधिकं च चेदिपः कृष्णमार्च्छदुरुसद्गुणार्णवम्
SKसमाह्वयच्च केशवं युधे तमाण्सु केशवः | निवार्य तस्य सायकाञ्जघान चारिणा प्रभुः
SKनिकृत्यमानकन्धरः स भक्तिमानभूद्धरौ | तमाण्स्रितश्च योऽसुरो महातमः प्रपेदिवान्
SKजयः प्रविश्य केशवं पुनश्च पार्षदोऽभवत् | असौ च पाण्डवक्रतुः प्रवर्तितो यथोदितः
SKसुवर्णरत्नभारकान् बहून् नृपा उपानयन् | उपायनं सुयोधनं नृपोऽदिशद् ग्रहेऽस्य च
SKअभोजयं स्तथा द्विजान् यथेष्टभक्ष्यबोज्यकैः | सुवर्णरत्नभारकान् बहूं श्च दक्षिणा ददुः
SKयदिष्टमास यस्य च प्रदत्तमेव पाण्डवैः | समस्तमत्र सर्वशोऽथ सस्नुरुद्भृत् आ मुदा
SKनदत्सुरोरुदुन्दुभिप्रगीतदेवगायकाः | प्रनृत्तदिव्ययोषितः सुरापगां व्यगाहयन्
SKसमस्तराजसं युता विगाह्य जाह्नवीजले | च्च्ल्xxxइ.पुरं ययुः पुनश्च ते सुसद्म चागमन् सुराः
SKगतेषु सर्वराजसु स्वकां पुरं स्वकेषु च| सभीष्मकेषु सर्वशः सहाऽम्बिकेयकेषु च
SKविचित्ररत्ननिर्मिते रविप्रभे सभातल् . ए | सकेशवो वरासने विवेश धर्मनन्दनः
SKतथैव रुग्मिणीमुखाः परिग्रहा रमेशितुः | तथैव भीमफल्गुनावुपाविशन् हरेरुप
SKसहैव वायुसूनुना तथैव पार्षतात्मजा | उपैव रुग्मिणीं शुभा तथैव सत्यभामिनीम्
SKयमौ च पार्षतादयो धनञ्जयान्तिकेऽविशन् | तथैव रामसात्यकी समीप एव भूभृतः
SKसमासतां तु सा सभा व्यरोचताधिकं तदा | यथा सभा स्वयम्भुवः समास्थिता च विष्णुना
SKविचित्रहेममालिनः शुभाम्बराण्स्च तेऽधिकम् | स्फुरत्किरीटकुण्डला विरेजुरत्र ते नृपाः
SKविशेषतो जनार्दनः सभार्यको जगत्प्रभुः | यथा दिवौकसां सदस्यनन्तसद्गुणार्णवः
SKउपासिरे च तान् नृपाः समस्तशः सुहृद्गणाः | तदाऽजगाम खड्गभृत् सहानुजः सुयोधनः
SKद्वारं सभाया हरिनीलरश्मिव्यूढं न जानन् स विहाय भित्तिम् | अभ्यन्तराणां दृशि नो विघातिनीं सं स्फाटिकामाण्सु दृढं चुचुम्बे
SKप्रवेशयेतां च यमौ तमाण्सु सभां भुजौ गृह्य नृपोपदिष्टौ | तत्रोपविश्य क्षणमन्यतोऽगादमृष्यमाणः श्रियमेषु दिव्याम्
SKच्च्ल्xxxइइ.तत्रेन्द्रनीलभुवि रत्नमयानि दृष्ट्वा पद्मानि नीरमनसा जगृहे स्ववस्त्रम् | रत्नोरुदीधितिनिगूढजलं स्थलं च मत्वा पपात सहितोऽवरजैर्जलौघे
SKतं प्राहसद् भगवता क्षितिभारनाण्सहेतोः सुसूचित उरुस्वरतोऽत्र भीमः | पाञ्चालराजसुतया च समं तथाऽन्यैः स्वीयैस्तथाऽनु जहसुर्भगवन्महिष्यः
SKमन्दस्मितेन विलसद्वदनेन्दुबिम्बो नारायणस्तु मुखमीक्ष्य मरुत्सुतस्य | नोवाच किञ्चिदथ धर्मसुतो निवार्य प्रास्थापयद् वसनमाल्यविलेपनानि
SKकृष्णावृकोदरगतं बहल् . अं निधाय क्रोधं ययौ सशकुनिर्धृतराष्ट्रपुत्रः | सम्ब्रील् . इतो नृपतिं दत्तवराम्बरादीन् न्यक्कृत्य मार्गगत आह स मातुलं स्वम्
SKयौ मामहसतां कृष्णाभीमौ कृष्णस्य सन्निधौ | तयोरकृत्वा सन्तापं नाहं जीवितुमुत्सहे
SKयदि मे शक्तिरत्र स्याद् घातयेयं वृकोदरम् | अग्रपूजां च कृष्णस्य विलुम्पेयं न सं शयः
SKईदृशं पाण्डवैश्वर्यं दृष्ट्वा कोनाम जीवितम् | इच्छेत करदा येषां वैश्यवत् सर्वभूमिपाः
SKइत्युक्तः शकुनिर्वैरं दृढीकर्तुं वचोऽब्रवीत् | किं ते वैरेण राजेन्द्र बलिभिर्भ्रातृभिः पुनः
SKअनुजीवस्व तान् वीरान् गुणज्येष्ठान् बलाधिकान् | इतीरितोऽतिसं वृद्धकोप आह सुयोधनः
SKयदि तेषां तदैश्वर्यं न मां गच्छेदशेषतः | सर्वथा नैव जीवेयमिति सत्यं ब्रवीमि ते
SKनच बाहुबलाच्छक्ष्य आदातुं त् आं श्रियं क्वचित् | नेन्द्रोऽपि समरे शक्तस्तान् जेतुं किमु मानुषाः
SKइतीरितः पापतम आह गान्धारको नृपः | पापानामखिलानां च प्रधानं चक्रवर्तिनम्
SKच्च्ल्xxxइइइ.यान्तां श्रियं प्रदीप्तां त्वं पाण्डवेषु प्रपश्यसि | त् आमक्लेशत आदास्ये क्रीडन्नक्षैस्त्वदन्तिके
SKइतीरितः प्रसन्नधीः सुयोधनो बभूव ह | प्रजग्मतुश्च तावुभौ विचित्रवीर्यजं नृपम्
SKधृतराष्ट्रमथोवाच द्वापरां शोऽतिपापकृत् | नास्तिक्यरूपः शकुनिर्विवर्णं हरिणं कृशम्
SKदुर्योधनं तु तच्छ्रुत्वा कुत इत्याह दुर्मनाः | अब्रूतां तौ नृपायाऽशु द्वाभ्यां यन्मन्त्रितं पथि
SKश्रुत्वैव तन्नेत्यवदत् स भूपतिर्विरोधि धर्मस्य विनाण्सकारणम् | कुमन्त्रितं वो न ममैतदिष्टं स्वबाहुवीर्याप्तमहाण्स्रियो हि ते
SKत्वयाऽपि निर्जित्य दिशो मखाग्र्याः कार्याः स्पृधो मा गुणवत्तमैस्तैः | विशेषतो भ्रातृभिरग्र्यपौरुषैरित्युक्त आहाऽशु सुयोधनस्तम्
SKयदि श्रियं पाण्डवानां नाक्षैराच्छेत्तुमिच्छसि | मृतमेवाद्य मां विद्धि पाण्डवैस्त्वं सुखी भव
SKयदि मज्जीवितार्थी त्वमानयाऽश्विह पाण्डवान् | सभार्यान् देवनायैव नचाधर्मोऽत्र कश्चन
SKवेदानुजीविनो विप्राः क्षत्रियाः शस्त्रजीविनः | त्रुट्यते येन शत्रुश्च तच्छस्त्रं नैव चेतरत्
SKअतः स्वधर्म एवायं तवापि स्यात् फलं महत् | इत्युक्तो मा फलं मेऽस्तु तवैवास्त्विति सोऽब्रवीत्
SKएवं ब्रुवन्नपि नृप आविष्टः कलिना स्वयम् | पुत्रस्नेहाच्च विदुरमादिशत् पाण्डवान् प्रति
SKआविवेश कलिस्तं हि यदा पुत्रत्वसिद्धये | च्च्ल्xxxइव्.अं शेन तत आरभ्य नैवास्मादपजग्मिवान्
SKयावत् पुरं परित्यज्य वनमेव विवेश ह | तदन्तरा ततस्तस्य पापयुक्तं मनोऽभवत्
SKन्यवारयत् तं विदुरो महत् ते पापं कुलस्यापि विनाण्सकोऽयम् | समुद्यमो नात्र विचार्यमस्ति कृथा न तस्मादयशश्च ते स्यात्
SKइति ब्रुवाणं कलहोऽत्र न स्यान्निवारयामो वयमेव यस्मात् | द्रष्टुं सुतान् क्रीडत एकसं स्थानिच्छामि पार्थां श्च सुयोधनादीन्
SKअतः क्षिप्रमुपानेयाः पार्था इति बलोदितः | ययौ स विदुरः पार्थान् द्वारकां केशवे गते
SKगते हि पार्थसन्निधेः सुयोधने तु नारदः | शशं स धर्मसूनुना प्रचोदितोऽरिमागतम्
SKक उद्यमी नृपेष्विति प्रपृष्ट आह नारदः | स सौभराड्वरं शिवादवाप वृष्णिनिर्जयम्
SKपां सुमुष्टिं सकृद्ग्रासी बहूनब्दां स्तपश्चरन् | आजगाम हरादाप्य वरं कृष्णजये पुनः
SKस श्रुत्वा मागधवधं दिशां विजयमेव च | राजसूयं क्रतुं चैव शिशुपालवधं तथा
SKयदून् प्रत्युद्यमं त् ऊर्णं करोतीति निशम्य तत् | समैक्षद् धर्मजः कृष्णमुखशीत् आं शुमण्डलम्
SKअस्त्वित्युक्त्वा स गोविन्दः प्रेषयामास यादवान् | प्रद्युम्नादीन् दिनैः कैश्चित् स्वयं चागात् सहाग्रजः
SKविदुरस्तु ततो गत्वा धर्मराजमथाऽह्वयत् | भ्रातृभिर्वार्यमाणोऽपि कृष्णया च स धर्मराट्| सार्द्धं मात्रा भ्रातृभिश्च कृष्णया च ययौ द्रुतम्
SKच्च्ल्xxxव्.ज्येष्ठाज्ञयैव विदुर आह्वयन्नपि धर्मजम् | नाऽगन्तव्यमिति प्राह दोषानुक्त्वाऽक्षजान् बहून्
SKइतीह दोषसञ्चयस्तथाच ते पितुर्वचः | समीक्ष्य तद् द्वयं स्वयं कुरुष्व कार्यमात्मनः
SKइतीरितोऽपि पाण्डवो ययौ कलिप्रवेशितः | विचित्रवीर्यजं च तं समासदत् ससैनिकः
SKकल्यावेशान्नृपतिः प्रतिजज्ञे पूर्वमेव धर्मात्मा | आहूतो द्यूतरणान्निवर्तेयं नैव वारितोऽपीति
SKतेनाऽयात् स्वसुहृद्भिर्निवार्यमाणोऽपि नागपुरमाण्सु | नहि धर्मो द्यूतकृतो विशेषतः क्षत्रियस्य लोकगुरोः
SKवैचित्रवीर्यतनयेन तु पाण्डुपुत्राः सम्भावितास्तमुप च न्यविशन् निशां त् आम् | प्रातश्च भीष्ममुखराः सकलाण्स्च भूपा आसेदुराण्सु च सभां सह पाण्डुपुत्रैः
SKवैचित्रवीर्यनृपतिर्विदुरान्वितोऽस्य गान्धारराजसहितास्तनयाः सकर्णाः | प्राप्ताः सभातल् . अमथाऽह्वयदत्र धर्मराजं सुतः सुबलकस्य स देवनाय
SKसर्वां श्च तत्र कलिराविशदेव भीमपूर्वान् विनैव चतुरः सपृथां च कृष्णाम् | क्षत्तारमेव च ततो नहि भीष्ममुख्यैस्ते वारिताः कुलविनाण्सनकर्मवृत्त् आः
SKभीमादिभिः स विदुरेण चवार्यमाणो द्यूते निधाय पणमप्यखिलं स्ववित्तम् | गान्धारकेण विदिताक्षहृदा जितो द्राक् पाण्डोः सुतोऽथ नकुलं न्यदधात् पणाय
SKतस्मिन् जितेऽथ सहदेवमथार्जुनं च भीमं च सोमकसुतां स्वमपि क्रमेण | राजा निधाय विजितोऽथ सुयोधनः स्वं सूतं दिदेश पृषतात्मजपुत्रिकायाः
SKसूतो गत्वा तदन्तं समकथयदिमां द्यूतमध्ये जिताऽसि क्षिप्रं चाऽयाहि राज्ञां समितिमुरुतरामित्यथो साऽप्यवादीत् | नाहं यास्ये गुरूणां समितिमिति ययौ सोऽप्यमुं भीमभीतं ज् ञात्वा दुः शासनं सोऽप्यदिशदथ नृपो धार्तराष्ट्रोऽनुजं स्वम्
SKच्च्ल्xxxवि.स पापपूरुषोत्तमः प्रगृह्य केशपक्षके | पुरः स्वमातुरानयत् सभामयुग्मवाससीम्
SKसमाहृत् आ रजस्वला जगाद भीष्मपूर्वकान् | अधर्म एष वार्यते न धर्मिभिर्भवद्विधैः
SKकथं छलात्मके द्यूते जिते धर्मजयो भवेत् | नहि द्यूतं धर्म्यमाहुर्विशेषेण तुभूभुजाम्
SKये धर्मं न वदन्तीह न ते वृद्धा इतीरिताः | अवृद्धमण्डित् आं नैव सभेत्याहुर्मनीषिणः
SKकथं द्यूते जिता चाहमजिते स्वपतौ स्थिते | समानधर्मिणीमाहुर्भार्यां यस्माद् विपश्चितः
SKसहैव कर्म कर्तव्यं पतौ दासे हि भार्यया | दासीत्वं न पृथङ् मेस्याज्जितेऽपि हि पतौ ततः
SKइत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः | पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूविरे
SKदुर्योधनप्रतीपं हि न कश्चिदशकत् तदा | उवाच विदुरस्तत्र न धर्मोऽयमिति स्फुटम्
SKन तस्य वाचं जग्राह धृतराष्ट्रः सहात्मजः | ऊर्ध्वबाहुः स चुक्रोश देवानां ख्यापयं स्तदा
SKस्वाण्सक्तिं द्रौपदीं चाऽह जिता नैवासि धर्मतः | अधर्मो हि महानेतां सभामाक्रम्य तिष्ठति
SKएवं तु विदुरेणोक्ते विकर्णः पापकोऽपि सन् | आह डम्भार्थमेवात्र धर्मवित्त्वं प्रकाण्सयन् | अधर्म एवायमिति कर्णोऽथैनमभर्त्सयत्
SKच्च्ल्xxxविइ.दृष्ट्वा भीमः क्लिश्यमानां तु कृष्णां धर्मात्ययं धर्मराजे च दृष्ट्वा | राजा ण्सास्यो युवराजेन धर्माच्चलन् यस्माद् वाक्यमिदं बभाषे
SKइमां न्यस्तवतो द्यूते धक्षणीयौ हि ते भुजौ | नैवमित्यर्जुनोऽवादीत् तमाहाथ वृकोदरः
SKवक्तव्यं नतु कर्तव्यं तस्मान्नहि मया कृतम् | उत्तमे वचसा ण्सिक्षा मध्यमेऽर्थापहारणम् | अधमे देहदण्डण्स्च तस्माद् वाच्यो युधिष्ठिरः
SKअथ कर्णोऽब्रवीत् कृष्णामपतिर्ह्यसि शोभने | धार्तराष्ट्रगृहं याहीत्यथ दुर्योधनोऽवदत् | परस्परविरोधार्थं पाण्डवानामिदं वचः
SKयुधिष्ठिरो दुःखहेतुस्तवैको यद्येनमन्ये न गुरुर्न एषः | इति ब्रूयुरथवा भीमपार्थावेकोऽपिवा भीम इहोत्सृजे त्वाम्
SKइत्युक्त ऊचे पवमानसूनुः पूज्योऽस्माकं धर्मजोऽसं शयेन | गुरुश्चाहं वोऽखिलानां यतो हि बलज्येष्ठं क्षत्रमाहुर्महान्तः
SKबलज्यैष्ठ्ये यदि वः सं शयः स्यादुत्तिष्ठध्वं सर्व एवाद्य वीराः | मृद्गामि वः पादतल् . एन सर्वान् सहानुबन्धान् यश्च मां योद्धुकामः
SKइति ब्रुवन् समुत्थितो नदन् वृकोदरो यदा | विघूर्णित् आ सभाऽखिला भयान्नचाऽह किञ्चन
SKभीष्मो द्रोणो विदुराद्याः क्षमस्व सर्वं त्वयोक्तं सत्यमित्येव हस्तौ | गृहीत्वैनं स्थापयामासुरस्मिन् स्थिते शान्तिं चाऽपिरे धार्तराष्ट्राः
SKनिवारितो धर्मजेन गुरुभिश्चापरैस्तदा | माननार्थं गुरूणां तु न भीमस्तान् जघान ह
SKनचात्यवर्तत ज्येष्ठं धर्मात्मानं युधिष्ठिरम् | तेषां पापाभिवृद्ध्यर्थं ज्येष्ठवृत्तिं च दर्शयन्
SKच्च्ल्xxxविइइ.अथ दुर्योधनः पापो भीमसेनस्य पश्यतः | ऊरुं सन्दर्शयामास कृष्णायै भीम आह तम्
SKतवोरुमेनं गदयोरुवेगया बिभेत्स्य इत्येव पुनः सुयोधनः | ऊचे नान्यद् भवतामस्ति वित्तं द्यूते कृष्णं स्थापयध्वं पणाय
SKअथाब्रवीद् वृकोदरः कृतेऽवमानने हरेः | निपात्य भूतल् . ए हितेशिरो मृदिष्य इत्यलम्
SKस वध्य एव मे सदा परोक्षतोऽपि यो हरिम् | विनिन्दयेदिति ध्रुवं प्रतिश्रुतं हि मारुतेः
SKपुनश्च पापवृद्धये तदैव नो जघान तम् | विकर्तनात्मजः पुनर्जगाद सोमकात्मजाम्
SKप्रयाहि भूभृतो हि नो गृहं न सन्ति पाण्डवाः | इतीरिते समुत्थितौ वृकोदरोऽनु चार्जुनः
SKउभौ च तौ युधिष्ठिरो न्यवारयत् तथाऽपरे | ततो विषण्णयोस्तयोः सुयोधनो वचोऽब्रवीत्
SKदुः शासनैषां वासां सि दासानां नो व्यपाकुरु | इत्युक्तोऽभ्यगमत् पार्थान् स्ववासां स्यथ ते ददुः
SKते चर्मवसना भूत्वातानशिष्टान् प्रकाण्स्य च | निषेदुश्च क्षमायान्ते क्षमामालम्ब्य विस्तृत् आम्
SKपुनर्दुर्योधनेनोक्तः पार्थानामथ पश्यताम् | चकर्ष वासो द्रौपद्यास्तदाऽवादीद् वृकोदरः
SKपापेषु पूर्वस्य तथाऽधमस्य वं शे कुरूणामुरुधर्मशीलिनाम् | दुः शासनस्यास्य विदार्य वक्षः पिबामि रक्तं जगतः समक्षम्
SKविकृष्यमाणे वसने तु कृष्णा सस्मार कृष्णं सुविशेषतोऽपि | तदाऽन्यदासीद् वसनं च तस्या दिव्यं सुसूक्ष्मं कनकावदातम्
SKच्च्ल्xxxइx.पुनः पुनश्चैव विकर्षमाणे दुः शासनेऽन्यानि च तादृशानि | बभूवुरन्तं न जगाम पापः श्रान्तो न्यषीदत् स्विन्नगात्रः सभायाम्
SKवस्त्रोच्चये शैलनिभे प्रजाते दुर्योधनः प्राह सञ्जातकोपः | प्रवेशयेमां गृहमेव शीघ्रं किं नश्चिरेणेति सुमन्दबुद्धिः
SKतच्छ्रुत्वा वचनं कृष्णा प्रतिज्ञामकरोत् तदा | भीमो दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः | शकुनिं त्वक्षकितवं सहदेवो वधिष्यति
SKइत्युक्ते तत् तथेत्याह भीमसेनः सभातल् . ए | प्रतिज्ञामाददे पार्थस्तां माद्रीनन्दनस्तथा | नकुलः प्रतिजज्ञेऽथ शाकुनेयवधं प्रति
SKततः सुयोधनानुजश्चकर्ष पार्षतात्मजाम् | गृहाय तन्निशाम्य तु क्रुधाऽह मारुतात्मजः
SKअर्जुनार्जुन नैवात्र क्षमा मे तात रोचते | पतितस्यास्य देहस्य काष्ठविष्ठासमस्य च | फलानि त्रीणि शिष्यन्ते विद्या कर्म सुता इति
SKइति वेदोदितं वाक्यं न सुतो दारदूषणे | दुष्टदारो नचाऽप्नोति लोकानर्द्धो हि दूषितः | अरक्षणाद् दूषित् आया न त्यागाच्च शुभं भवेत्
SKअतोऽद्य सानुबन्धकान् निहन्मि धार्तराष्ट्रकान् | इति ब्रुवन् व्यलोकयद् रिपून् दहन्निवौजसा
SKददर्श च महाघोरमादातुं परिघं रुषा | कर्तुं व्यवसितो बुद्ध्या निश्शेषान् धृतराष्ट्रज् आन्
SKतदा ण्सिवा ववाण्सिरे सुयोधनाग्निगेहतः | तथैव तत्पितुर्गृहेऽप्यभूद् भयानकं बहु
SKच्च्xच्निमित्तान्यतिघोराणि कुपिते मारुतात्मजे | दृष्ट्वाऽम्बिकेयो विदुरं पप्रच्छैषां फलं द्रुतम्
SKआह तं विदुरो ज्येष्ठं क्षणेऽस्मिं स्तव पुत्रकाः | सानुबन्धा नशिष्यन्ति वृकोदरबलाहताः
SKक्रीडसेऽर्भकवत् त्वं हि किं जितं किं जितं त्विति | अधर्मेण जितानत्र जितान् पश्यसि पाण्डवान्
SKस्त्रीषु द्यूतेषु वा दत्तं मदान्धेन नरेण वा | न दत्तमाहुर्विद्वां सस्तस्य बन्धुभिरेव च
SKआहार्यं पुनराहुश्च तथाऽपि नतु पाण्डवैः | तत् कृतं तव पुत्राणां ख्यापयद्भिरशिष्टताम्
SKइत्युक्त आहाऽम्बिकेयो निमित्तानां फलं कथम् | न भवेदिति स प्राह द्रुतं कृष्णा विमुच्यताम्
SKतोषयस्व वरैश्चैनामन्यथा ते सुतान् मृत् आन् | विद्धि भीमेन निष्पिष्टान् माऽत्र ते सं शयो भवेत्
SKकृष्णा च पाण्डवाण्स्चैव तपोवृद्धिमभीप्सवः | तपसा नैव दक्ष्यन्ति तेन जीवन्ति ते सुताः
SKतथाऽपि यदि कृष्णां त्वं न मोचयसि ते सुतान् | हनिष्यति न सन्देहो बलेनैव वृकोदरः
SKइतीरितो विनिर्भर्त्स्य पुत्रं दुः शासनं नृपः | अमोचयद् वरैश्चैनां छन्दयामास पार्षतीम्
SKछन्दिता सा वरैस्तेन धर्मे भागवते स्थिता | नैवाऽत्मनो वरान् वव्रे वव्रे तेषां विमोक्षणम्
SKयुधिष्ठिरस्य सभ्रातुः सराष्ट्रस्य विमोक्षणम् | ददौ नृपोऽस्या न पुनश्छन्द्यमानाऽपि साऽवृणोत्
SKच्च्xचि.भर्तुर्विष्णोण्स्च नान्यस्माद् वरस्वीकार इष्यते | एवं हि भगवद्धर्मस्तस्मात् सा नावृणोत् परम्
SKअधर्मतो हृतत्वात्तु तद् दानं न वरो भवेत् | इति मत्वा पाण्डवानां वव्रे कृष्णा विमोक्षणम्
SKश्वशुरादैहिकवराः क्षत्रियायास्त्रयो यतः | उक्ताः शतं च विप्राया धर्मे भागवते ततः | हेतुनाऽनेन वव्रे सा नान्यत् किञ्चिदतः परम्
SKततो विमुक्ताः प्रययुश्च पार्था गुरून् प्रणम्य स्वपुरं सकृष्णाः | दुर्योधनानन्तरजो जगाद तातं निजं पापकृत् आं प्रधानः
SKसमस्तपाण्डवश्रियं समागतामहो पुनः | व्यमोचयो वृकोदराद् वधश्च नो ध्रुवो भवेत्
SKअतः पुनश्च पाण्डवान् समाह्वयस्व नः कृते | पुनश्च देवनं भवेज्जितो वनं प्रयातु च
SKतेनोक्तः स तदा राजा पाण्डवान् पुनराह्वयत् | पुनः पित्रा समाहूतो देवनाय युधिष्ठिरः | भ्रातृभिर्वार्यमाणोऽपि कृष्णया चाऽगमत् सभाम्
SKद्वादशाब्दं वने वासमज्ञातत्वेन वत्सरम् | वासं प्रसिद्धनृपतेः पुरे नैवातिदूरतः
SKकृष्णायाः पाण्डवानां वा दर्शनेऽज्ञातवासिनाम् | एकस्यापि समस्तानां द्वादशाब्दं पुनर्वनम्
SKवत्सराज्ञातवासं च त्यागेऽप्युक्तविधेस्तथा | दुर्योधनः पणं चक्रे बुद्ध्या दुः शासनोक्तया
SKगान्धारेण पुनश्चाक्षहृदयज्ञेन धर्मजः | पराजितो वनं यातुमैच्छत् सभ्रातृको यदा
SKच्च्xचिइ.तदा ननर्त पापकृत् सुयोधनानुजो हसन् | वदं श्च मारुतात्मजं पुनः पुनश्च गौरिति
SKउवाच च पुनः कृष्णां नृत्यन्नेव सभातल् . ए | अपतिर्ह्यसि कल्याणि गच्छ दुर्योधनालयम्
SKएतेऽखिलाः षण्ढतिलास्तमोऽन्धमाप्ता नचैषां पुनरुत्थितिः स्यात् | इति ब्रुवाणोऽनुचकार भीमं तदाऽहसन् धार्तराष्ट्राण्स्च सर्वे
SKतदाऽकरोद् भीमसेनः प्रतिज्ञां हन्ताऽस्मि वो निखिलान् सङ्गरेऽहम् | इतीरिते शरणं द्रोणमेव जग्मुः समस्ता धृतराष्ट्रपुत्राः
SKयत्र द्रोणस्तत्र पुत्रस्तत्र भीष्मः कृपस्तथा | नचात्येति गुरून् भीम इति तं शरणं ययुः
SKअब्रवीद् धार्तराष्ट्रां श्च द्रोणो विप्रोऽपि सन्नहम् | सपुत्रः सकृपः शस्त्रं ग्रहीष्ये भवतां कृते
SKरक्षणे भवतां चैव कुर्यां यत्नं स्वशक्तितः | नतु भीमाद् रक्षितुं वः शक्तः सत्यं ब्रवीम्यहम्
SKततो ययुः पाण्डवास्ते सभाया वनाय कृष्णासहिताः सुशूराः | गत्याऽनुचक्रे युवसिं हखेलगतिं भीमं धार्तराष्ट्रोऽपहस्य
SKदृष्ट्वा सभाया अर्द्धनिष्क्रान्तदेहो व्यावृत्य भीमः प्राह सं रक्तनेत्रः | ऊरुं तवान्यं च रणे विभेत्स्य इत्युक्त्वाऽसौ निर्गतोऽसत्सभायाः
SKप्रयाताननु तान् कुन्ती प्रययौ पुत्रगृद्धिनी | रोरुद्यमानां विदुरः स्थापयामास तां गृहे | प्रणम्य तां ययुः पार्थाः सकृष्णाः शीघ्रगामिनः
SKयुधिष्ठिरोऽवाग्वदनो ययौ न क्रोधचक्षुषा | दहेयं कौरवान् सर्वानिति कारुणिको नृपः
SKच्च्xचिइइ.उद्धृत्य बाहू प्रययौ बाहुषाल् . ई वृकोदरः | आभ्यामेवाखिलाञ्छत्रूञ्छक्तो हन्तुमहं त्विति
SKअबद्धकेशा प्रययौ द्रौपदी सा सभातल् . आत् | मुक्तकेशा भविष्यन्ति धार्तराष्ट्रस्त्रियस्त्विति
SKवर्षन् पां सून् ययौ पार्थ इत्थं शत्रुषु सायकान् | वर्षयानीत्यभिप्रायः परमास्त्रविदां वरः
SKयमाववाङ्मुखौ यातौ नावयोः शत्रवो मुखम् | पश्यन्त्वस्यामवस्थायामित्येव धृतचेतसौ
SKप्रेतसं स्कारसूक्तानि पठन् धौम्योऽग्रतो ययौ | हतेषु धार्तराष्ट्रेषु मया कार्याः क्रिया इति
SKत् आनथानुययुः सूता रथैः परिचतुर्दशैः | सूदाः पौरोगवाण्स्चैव भृत्या ये त्वाप्तकारिणः
SKततस्ते जाह्नवीतीरे वने वटमुपाण्स्रिताः | न्यषीदन्नागतान् दृष्ट्वा समस्तान् पुरवासिनः
SKततस्तु ते सर्वजगन्निवासं नारायणं नित्यसमस्तसद्गुणम् | स्वयम्भुशर्वादिभिरर्चितं सदा भक्त्याऽस्मरन् भक्तभवापहं प्रभुम्