SKइति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये हं सडिभकवधो नाम सप्तदशोऽध्यायः च्चि.(भीमार्जुनदिग्विजयः ) अथ अष्टादशोऽध्यायः Oं | यदा रामादवाप्तानि दिव्यास्त्राणि प्रपेदिरे | द्रोणात् कुमारास्तेष्वासीत् सर्वेष्वप्यधिकोऽर्जुनः
SKनिजप्रतिभया जानन् सर्वास्त्राणि ततोऽधिकम् | नास्त्रयुद्धं क्वचिद् भीमो मन्यते धर्ममञ्जसा
SKनहि भागवतो धर्मो देवताभ्युपयाचनम् | ज् ञानभक्ती हरेस्तृप्तिं विना विष्णोरपि क्वचित्
SKनाऽकाङ्क्ष्यं किमुतान्येभ्यो ह्यस्त्रं काम्यफलप्रदम् | शुद्धे भागवते धर्मे निरतो यद् वृकोदरः
SKन काम्यकर्मकृत् तस्मान्नायाचद् देवमानुषान् | न हरिश्चार्थितस्तेन कदाचित् कामलिप्सया
SKभिक्षामटं श्च हुङ्कारात् करवद् वैश्यतोऽग्रहीत् | नान्यदेवा नतास्तेन वासुदेवान्न पूजिताः
SKन प्रतीपं हरेः क्वापि स करोति कथञ्चन | अनुपस्करिणो युद्धे नाभियाति ह्युपस्करी | नापयाति युधः क्वापि न क्वचिच्छद्म चाऽचरेत्
SKनैवोर्ध्वदैहिकानुज्ञामवैष्णवकृतेऽकरोत् | न करोति स्वयं नैषां प्रियमप्याचरेत् क्वचित्
SKसख्यं नावैष्णवैश्चक्रे प्रतीपं वैष्णवे नच | परोक्षेऽपि हरेर्निन्दाकृतो जिह्वां छिनत्ति च
SKप्रतीपकारिणो हन्ति विष्णोर्वैनानजीघनत् | न सं शयं कदाऽप्येष धर्मे ज्ञानेऽपि वाऽकरोत्
SKविद्योपजीवनं नैष चकाराऽपद्यपि क्वचित् | च्चिइ.अतो न धर्मनहुषौ प्रत्युवाच कथञ्चन
SKआज्ञयैव हरेर्द्रौणेरस्त्राण्यस्त्रैरशातयत् | अदृश्योऽलम्बुसो भग्नो नान्यत्र तु कथञ्चन
SKनह्यस्त्रयुद्धे सदृशो द्रौणेरस्त्यर्जुनादृते | सर्ववित्त्वं ततो भीमे प्रदर्शयितुमीश्वरः | अदादाज्ञामस्त्रयुद्धे तथैवालम्बुसं प्रति
SKप्रत्यक्षीभूतदेवेषु बन्धुज्येष्ठेषु वा नतिम् | मर्यादास्थितयेऽशासद् भगवान् पुरुषोत्तमः
SKतत्रापि विष्णुमेवासौ नमेन्नान्यं कथञ्चन | आज्ञयैवास्त्रदेवां श्च प्रेरयामास नार्थनात्
SKअन्वेनमेव तद्धर्मे कृष्णैका सं स्थिता सदा | धृतराष्ट्रादपि वरं ततो नाऽत्मार्थमग्रहीत्
SKनाण्सपद् धार्तराष्ट्रां श्च महापद्यपि सा ततः | न वाचा मनसा वाऽपि प्रतीपं केशवेऽचरत्
SKअन्ये भागवतत्वेऽपि खिन्नधर्माः क्वचित्क्वचित् | स्यमन्तकार्थे रामोऽपि कृष्णस्य विमनाऽभवत्
SKअवमेनेऽर्जुनः कृष्णं विप्रस्य शिशुरक्षणे | प्रद्युम्न उद्धवः साम्बोऽनिरुद्धाद्याण्स्च सर्वशः
SKहरेरिष्टं सुभद्रायाः फल्गुने दानमञ्जसा | ज् ञात्वाऽपि रुरुधुः सम्यक् सात्यकिः कृष्णसम्मितम्
SKकदाचिन्मन्यते पार्थं धर्मजोऽपि नरं हरिम् | मत्वाऽबिभेज्जरासन्धवधे कृष्णमुदीरितुम्
SKबन्धनं शङ्कमानो हि कृष्णस्य विदुरोऽपितु | कौरवेयसभामध्ये नावतारमरोचयत्
SKच्चिइइ.नकुलः करदानाय प्रेषयामास केशवे | अवमेने हरेर्बुद्धिं सहदेवः कुलक्षयात्
SKदेवकीवसुदेवाद्या मेनिरे मानुषं हरिम् | भीष्मस्तु भार्गवं राममवमेने युयोध च
SKद्रोणकर्णद्रौणिकृपाः कृष्णाभावे मनो दधुः | देवाः शिवाद्या अपितु विरोधं चक्रिरे क्वचित्
SKऋषिमानुषगन्धर्वा वक्तव्याः किमतः परम् | जन्मजन्मान्तरेऽज्ञानादवजानन्ति यत् सदा
SKतस्मादेको वायुरेव धर्मे भागवते स्थिरः | लक्ष्मीः सरस्वती चेति परशुक्लत्रयं श्रुतम्
SKसर्वमेतच्च कथितं तत्रतत्रामितात्मना | व्यासेनैव पुराणेषु भारते च स्वसं विदा
SKयदा ते सर्वशस्त्रास्त्रवेदिनो राजपुत्रकाः | बभूवू रङ्गमध्ये तान् भारद्वाजोऽप्यदर्शयत्
SKरक्तचन्दनसत्पुष्पवस्त्रशस्त्रगुल् . ओदनैः | सम्पूज्य भार्गवं राममनुजज्ञे कुमारकान्
SKते भीष्मद्रोणविदुरगान्धारीधृतराष्ट्रकान् | सराजमण्डलान् नत्वा कुन्तीं चादर्शयञ्छ्रमम्
SKसर्वैः प्रदर्शितेऽस्त्रे तु द्रोणादात्तमहास्त्रवित् | द्रौणिरस्त्राण्यमेयानि दर्शयामास चाधिकम्
SKततोऽप्यतितरां पार्थो दिव्यास्त्राणि व्यदर्शयत् | अविध्यन्माण्सके पादे पक्षिणः पक्ष्म एव च | एवमादीनि चित्राणि बहून्येष व्यदर्शयत्
SKच्चिव्.तदैव कर्ण आगत्य रामोपात्तास्त्रसम्पदम् | दर्शयन्नधिकः पार्थादभूद् राजन्यसं सदि
SKकुन्ती निजं सुतं ज् ञात्वा लज्जया नावदच्च तम् | पार्थोऽसहं स्तं युद्धायैवाऽह्वयामास सं सदि
SKरणायाक्षत्रियाह्वानं ज् आनन् धर्मप्रतीपकम् | भीमो निवार्य बीभत्सुं कर्णायादात् प्रतोदकम्
SKअक्षत्रसं स्कारयुतो जातोऽपि क्षत्रिये कुले | न क्षत्रियो हि भवति यथा व्रात्यो द्विजोत्तमः
SKनिरुत्तरे कृते कर्णे भीमेनैव सुयोधनः | अभ्यषेचयदङ्गेषु राजानं पित्रनुज्ञया | धृतराष्ट्रः पक्षपातात् पुत्रस्यानुवशोऽभवत्
SKअभिषिक्ते तदा कर्णे प्रायादधिरथः पिता | सर्वराजसदोमध्ये ववन्दे तं वृषा तदा | तुतुषुः कर्मणा तस्य सन्तः सर्वे समागताः
SKभीमदुर्योधनौ तत्र शिक्षासन्दर्शनच्छलात् | समादाय गदे गुर्वी सं रम्भादभ्युदीयतुः
SKदेवासुरमनुष्यादि जगदेतच्चराचरम् | सर्वं तदा द्विधा भूतं भीमदुर्योधनाण्स्रयात्
SKदेवा देवानुकूलाण्स्च भीममेव समाण्स्रिताः | असुरा आसुराण्स्चैव दुर्योधनसमाण्स्रयाः | द्विधाभूता मानुषाण्स्च देवासुरविभेदतः
SKजय भीम महाबाहो जय दुर्योधनेति च | हुङ्कारां श्चैव भिट्कारां श्चक्रुर्देवासुरा अपि
SKदृष्ट्वा जगत् सुसं रब्धं द्रोणोऽथ द्विजसत्तमः | नेदं जगद् विनश्येत भीमदुर्योधनाण्स्रयात् | च्च्व्.इति पुत्रेण तौ वीरौ न्यवारयदरिन्दमौ
SKस्वकीयायां स्वकीयायां योग्यतायां नतु क्वचित् | युवयोः सम इत्युक्त्वा द्रौणिरेतौ न्यवारयत् | द्रोणाज्ञया वारितौ तौ ययतुः स्वं स्वमालयम्
SKसुरासुरान् सुसं रब्धान् कालेन द्रक्ष्यथेति च | ब्रह्मा निवार्य ससुरो ययौ सेशः स्वमालयम्
SKकर्णं हस्ते प्रगृह्यैव धार्तराष्ट्रो गृहं ययौ | पार्थं हस्ते प्रगृह्यैव भीमः प्रायात् स्वमालयम्
SKपार्थेन कर्णो हन्तव्य इत्यासीद् भीमनिश्चयः | वैपरीत्येन तस्याऽसीद् दुर्योधनविनिश्चयः | तदर्थं नीतिमतुलां चक्रतुस्तावुभावपि
SKतथोत्कर्षे फल्गुनस्य यशसो विजयस्य च | उद्योग आसीद् भीमस्य धार्तराष्ट्रस्य चान्यथा
SKभीमार्थं केशवोऽन्ये च देवाः फल्गुनपक्षिणः | आसन् यथैव रामाद्याः सङ्ग्रहेण हनूमतः | सुराः सुग्रीवपक्षस्थाः पूर्वमासं स्तथैव हि
SKतदर्थमेव भीमस्य ह्यनुजत्वं सुरेश्वरः | आप पूर्वानुतापेन तेन भीमस्तथाऽकरोत्
SKदुर्योधनार्थं कर्णस्य पक्षिणो दैत्यदानवाः | आसुः सर्वे ग्लहावेतावासतुः कर्णफल्गुनौ
SKअथ पृष्टो दक्षिणार्थं द्रोण आह कुमारकान् | बद्ध्वा पाञ्चालराजानं दत्तेत्यूचुस्तथेति ते
SKते धार्तराष्ट्राः कर्णेन सहिताः पाण्डवा अपि | ययुर्द्रोणेन सहिताः पाञ्चालनगरं प्रति
SKच्च्वि.अथाऽह भीमः सामर्थ्यविवेकाभीप्सया गुरुम् | गर्व एष कुमाराणामनिवार्यो द्विजोत्तम | गच्छन्त्वेतेऽग्रतो नैषां वशगो द्रुपदो भवेत्
SKनिवृत्तेष्वकृत् आर्थेषु वयं बद्ध्वा रिपुं तव | आनयाम न सन्देह इति तस्थौ ससोदरः
SKसद्रोणकेषु पार्थेषु स्थितेष्वन्ये ससूतजाः | ययुरात्तप्रहरणाः पाञ्चालान्तः पुरं द्रुतम्
SKकुमारान् ग्रहणेप्सूं स्तानुपयातानुदीक्ष्य सः | अक्षोहिणीत्रितययुऽ न् निस्सृतो द्रुपदो गृहात्
SKते शरैरभिवर्षन्तः परिवार्य कुमारकान् | अर्दयामासुरुद्द्वृत्त् आन् स्त्रियो बालाण्स्च सर्वशः
SKहर्म्यसं स्थाः स्त्रियो बाला ग्रावभिर्मुसलैरपि | अत्यर्थमर्दयामासुः कुमारान् सुसुखेधितान्
SKद्रुपदस्य वरो ह्यस्ति सूर्यदत्तस्तपोबलात् | आ योजनात् पुरमुप न त्वा जेष्यति कश्चन
SKइति तेन वरेणैव सुखसं वर्द्धिताण्स्च ते | भग्नाः कुमारा आवृत्य दुद्रुवुर्यत्र पाण्डवाः
SKस्त्रीबालवृद्धसहितैः पाञ्चालैरप्यनुद्रुताः | भीमार्जुनेति वाण्सन्तो ययुर्यत्र स्म पाण्डवाः
SKत् आन् प्रभग्नान् समालोक्य भीमः प्रहरतां वरः | आरुरोह रथं वीरः पुर आत्तशरासनः
SKतमन्वयादिन्द्रसुतो यमौ तस्यैव चक्रयोः | युधिष्ठिरस्तु द्रोणेन सह तस्थौ निरीक्षकः
SKआयान्तमग्रतो दृष्ट्वा भीममात्तशरासनम् | च्च्विइ.दुद्रुवुः सर्वपाञ्चालाः विविशुः पुरमेव च
SKद्रुपदस्त्वभ्ययाद् भीमं सपुत्रः सारसेनया | चक्ररक्षौ तु तस्याऽस्तां युधामन्यूत्तमौजसौ
SKधात्रर्यमावेशयुतौ विश्वावसुपरावसू | सुतौ तस्य महावीर्यौ सत्यजित् पृष्ठतोऽभवत् | स मित्रां शयुतो वीरश्चित्रसेनो महारथः
SKअग्रतस्तु शिखण्ड्यागाद् रथोदारः शरान् क्षिपन् | जनमेजयस्तमन्वेव पूर्वं चित्ररथो हि यः | त्वष्टुरावेशसं युक्तः स शरानभ्यवर्षत
SKत् आवुभौ विरथौ कृत्वा विचापौ च विवर्मकौ | भीमो जघान तां सेनां सवाजिरथकुञ्जराम्
SKअथैनं शरवर्षेण युधामन्यूत्तमौजसौ | अभीयतुस्तौ विरथौ चक्रे भीमो निरायुधौ
SKहस्तप्राप्तं च पाञ्चालं नाग्रहीत् स वृकोदरः | गुर्वर्थामर्जुनस्योर्वी प्रतिज्ञां कर्तुमप्यृत् आम् | मानभङ्गाय कर्णस्य पार्थमेव न्ययोजयत्
SKस शरान् क्षिपतस्तस्य पाञ्चालस्यार्जुनो द्रुतम् | पुप्लुवे स्यन्दने चापं छित्वा तं चाग्रहीत् क्षणात् | सिं हो मृगमिवाऽदाय स्वरथे चाभिपेतिवान्
SKअथ प्रकुपितं सैन्यं फल्गुनं पर्यवारयत् | जघान भीमस्तरसा तत् सैन्यं शरवृष्टिभिः
SKअथ सत्यजिदभ्यागात् पार्थं मुञ्चञ्छरान् बहून् | तमर्जुनः क्षणेनैव चक्रे विरथकार्मुकम्
SKघ्नन्तं भीमं पुनः सैन्यमर्जुनः प्राह मा भवान् | सेनामर्हति राज्ञोऽस्य वीर हन्तुमशेषतः
SKच्च्विइइ.सम्बन्धयोग्यस्तातस्य सखाऽयं न सुधार्मिकः | नेष्याम एनमेवातो गुरोर्वचनगौरवात्
SKस्नेहपाण्सं ततश्चक्रे बीभत्सौ द्रुपदोऽधिकम् | ततः सेनां विहायैव भीमो बीभत्सुमन्वयात्
SKमुक्ता कथञ्चिद् भीमास्यात् सा सेना दुद्रुवे भयात् | द्रुपदं स्थापयामासाथार्जुनो द्रोणसन्निधौ
SKपप्रच्छैनं तदा द्रोणसख्यमस्त्युत नेति ह | अस्तीदानीमिति प्राह द्रुपदोऽङ्गिरसां वरम्
SKअथाऽह द्रुपदं द्रोणः सख्यमिच्छेऽक्षयं तव | नह्यराज्ञा भवेत् सख्यं तवेतीदं कृतं मया
SKन विप्रधर्मो यद् युद्धमतस्त्वं न मया धृतः | शिष्यैरेतत् कारितं मे तव सख्यमभीप्सता
SKअतः सख्यार्थमेवाद्य त्वद्राज्यार्द्धो हृतो मया | गङ्गाया दक्षिणे कूले त्वं राजैवोत्तरे त्वहम् | नह्यराजत्व एकस्य सख्यं स्यादावयोः सखे
SKइत्युक्त्वोन्मुच्य तं द्रोणो राज्यार्द्धं गृह्य चामुतः | ययौ शिष्यैर्नागपुरं न्यवसत् सुखमत्र च | ब्राह्मण्यत्यागभीरुः स न गृह्णन् धनुरप्यसौ
SKधार्तराष्ट्रैस्तु भीमस्य भयात् पादौ प्रणम्य च | शरणार्थं याचितत्वात् सपुत्रो युयुधे परैः | एवं हरीच्छयैवासौ क्षात्रं धर्ममुपेयिवान्
SKद्रुपदस्तु दिवारात्रं तप्यमानः पराभवात् | भीमार्जुनबलं दृष्ट्वा चेच्छन् पाण्डवसं श्रयम्
SKसम्बन्धीत्यर्जुनवचश्चिकीर्षुः सत्यमेव च | च्चिx.मार्दवं चार्जुने दृष्ट्वा सुतामैच्छत् तदर्थतः | पुत्रं च द्रोणहन्तारमिच्छन् विप्रवरौ ययौ
SKयाजोपयाजावानीयाथार्बुदेन गवां नृपः | चकारेष्टिं तु तद्भार्या द्विजाभ्यामत्र चाऽहुता | द्रुपदात् सुतलब्ध्यर्थं साऽहङ्काराद् व्यल् . अम्बयत्
SKकिमेतयेत्यवज्ञाय तावुभौ विप्रसत्तमौ | अजुह्वतां तत् पुत्रार्थं पत्न्याः प्राण्स्यं हविस्तदा
SKहुते हविषि मन्त्राभ्यां वैष्णवाभ्यां तदैव हि | दीप्ताङ्गारनिभो वह्निः कुण्डमद्ध्यात् समुत्थितः
SKकिरीटी कुण्डली दीप्तौ हेममाली वरासिमान् | रथेनाऽदित्यवर्णेन नदन् द्रुपदमाद्रवत्
SKधृष्टत्वाद् द्योतनत्वाच्च धृष्टद्युम्न इतीरितः | मुनिभिर्द्रुपदेनापि सर्ववेदार्थतत्त्ववित्
SKअन्वेनं भारती साक्षाद् वेदिमद्ध्यात् समुत्थिता | प्राणो हि भरतो नाम सर्वस्य भरणाच्छ्रुतः
SKतद्भार्या भारती नाम वेदरूपा सरस्वती | शं रूपमाण्स्रिता वायुं श्रीरित्येव च कीर्तिता
SKआवेशयुक्ता ण्सच्याण्स्च श्यामल् . आयास्तथोषसः | त् आण्स्चेन्द्रधर्मनासत्यसं श्रयाच्छ्रिय ईरिताः
SKसा कृष्णा नामतश्चाऽसीदुत्कृष्टत्वाद्धि योषित् आम् | कृष्णा सा वर्णतश्चाऽसीदुत्कृष्टानन्दिनी चसा
SKउत्पत्तितश्च सर्वज्ञा सर्वाभरणभूषित् आ | सम्प्राप्तयौवनैवाऽसीदजरा लोकसुन्दरी | उमां शयुक्ताऽतितरां सर्वलक्षणसं युता
SKच्च्x.पूर्वं ह्युमा च देव्यस्ताः कदाचिद् भर्तृभिर्युताः | विलासं दर्शयामासुर्ब्रह्मणः पश्यतोऽधिकम्
SKशशाप तास्तदा ब्रह्मा मानुषीं योनिमाप्स्यथ | तत्रान्यगाण्स्च भवतेत्येवं शप्ताः सुराङ्गनाः
SKविचार्य भारतीमेत्य सर्वमस्यै निवेद्य च | सहस्रवत्सरं चैनां शुश्रूषित्वा बभाषिरे
SKदेवि नो मानुषं प्राप्यमन्यगात्वं च सर्वथा | तथाऽपि मारुतादन्यं न स्पृशेम कथञ्चन
SKब्रह्मणैव च शप्ताः स्म पूर्वं चान्यत्र लीलया | एकदेहत्वमाप्यैनं यदा वञ्चयितुं गताः
SKएकदेहा मानुषत्वमाप्स्यथ त्रिश उद्धताः | त्रिशो मद्वञ्चनायेता इति तेनोदिता वयम्
SKअतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु | चतुर्ष्वपि यतोऽस्माकं शापद्वयनिमित्ततः | चतुर्जन्म भवेद् भूमौ त्वां नान्यो मारुताद् व्रजेत्
SKनियमोऽयं हरेर्यस्मादनादिर्नित्य एव च | अतस्त्वयैकदेहान्नो नान्य आप्नोतिः मारुतात्
SKइतीरिते तथेत्युक्त्वा पार्वत्यादियुतैव सा | विप्रकन्याऽभवत् तत्र चतस्रः पार्वतीयुताः | एकदेहस्थिताण्स्चक्रुर्गिरीशाय तपो महत्
SKतद्देहस्था भारती तु रुद्रदेहस्थितं हरिम् | तोषयामास तपसा कर्मैक्यार्थं धृतव्रता
SKतस्यै स रुद्रदेहस्थो हरिः प्रादाद् वरं प्रभुः | अनन्ततोषणं विष्णोः स्वभर्त्रा सह जन्मसु
SKच्च्xइ.सर्वेष्वपीति चान्यासां ददौ शङ्कर एव च | वरं स्वभर्तृसं योगं मानुषेष्वपि जन्मसु
SKततस्तदैव देहं त् आ विसृज्य नल् . अनन्दिनी | बभूवुरिन्द्रसेनेति देहैक्येन सुसङ्गताः
SKतदाऽसीन्मुद्गलो नाम मुनिस्तपसि सं स्थितः | चकमे पुत्रिकां ब्रह्मेत्यशृणोत् स कथान्तरे
SKअपाहसत् सोऽब्जयोनिं शशापैनं चतुर्मुखः | भारत्याद्याः पञ्च देवीर्गच्छ मानिन्नभूतये
SKइतीरितस्तं तपसा तोषयामास मुद्गलः | शापानुग्रहमस्याथ चक्रे कञ्जसमुद्भवः
SKन त्वं यास्यसि ता देवी मारुतस्त्वच्छरीरगः | यास्यति त्वं सदा मूर्छां गतो नैव विबुद्ध्यसे
SKनच पापं ततस्ते स्यादित्युक्ते चैनमाविशत् | मारुतोऽथेन्द्रसेनां च गृहीत्वाऽथाभवद् गृही
SKरेमे चे स तया सार्द्धं दीर्घकालं जगत्प्रभुः | ततो मुद्गलमुद्बोध्य ययौ च स्वं निकेतनम्
SKततो देशान्तरं गत्वा तपश्चक्रे स मुद्गलः | सेन्द्रसेना वियुक्ताथ भर्त्रा चक्रे महत् तपः
SKतद्देहगा भारती तुकेशवं शङ्करे स्थितम् | तोषयामास तपसा कर्मैक्यार्थं हि पूर्ववत् | उमाद्या रौद्रमेवात्र तपश्चक्रुर्यथा पुरा
SKप्रत्यक्षे चशिवे जाते तद्देहस्थे च केशवे | पृथक्पृथक् स्वभर्त्राप्त्यै ताः पञ्चाप्येकदेहगाः | प्रार्थयामासुरभवत् पञ्चकृत्वो वचो हि तत्
SKच्च्xइइ.शिवदेहस्थितो विष्णुर्भारत्यै तु ददौ पतिम् | अन्यासां शिव एवाथ प्रददौ चतुरः पतीन्
SKदेव्यश्चतस्रस्तु तदा दत्तमात्रे वरेऽमुना | देवानामवतारार्थं पञ्च देव्यः स्म इत्यथ | नाजानन्नेकदेहत्वाच्चिद्योगात् क्षीरनीरवत्
SKत् आः श्रुत्वा स्वपतिं देवि नचिरात् प्रप्स्यसीति च | विष्णूक्तं शङ्करोक्तं च चत्वारः पतयः पृथक्
SKभविष्यन्तीत्यथैकस्या मेनिरे पञ्चभर्तृत् आम् | रुरुदुश्चैकदेहस्था एकैवाहमिति स्थिताः
SKअथाभ्यागान्महेन्द्रोऽत्र सोऽब्रवीत् तां वरस्त्रियम् | किमर्थं रोदिषीत्येव साऽब्रवीद् वटुरूपिणम्
SKशङ्करं दर्शयित्वैव पञ्चभर्तृत्वमेष मे| वरार्थमर्थितः प्रादादिति तं शिव इत्यथ
SKअजानन् शक्र आहोच्चैः किमेतद् भुवनत्रये | मत्पालिते योषितं त्वं वृथा ण्सपसि दुर्मते
SKइतीरिते शिवः प्राह पत मानुष्यमाप्नुहि | अस्याण्स्च भर्ता भवसि त्वामेवैषा वरिष्यति
SKपश्यात्र मदवज्ञानात् पतितां स्त्वादृशान् सुरान् | गिरेरधस्तादस्यैवेत्युक्तोऽसौ पाकशासनः
SKउद्बबर्ह गिरिं तं तु ददर्शात्र च तान् सुरान् | पूर्वेन्द्रान् मारुतवृषनासत्यां श्चतुरः स्थितान् | मानुषेष्ववताराय मन्त्रं रहसि कुर्वतः
SKततो वरेण्यं वरदं विष्णुं प्राप्य स वासवः | तत्प्रसादान्नरां शेन युक्तो भूमावजायत
SKच्च्xइइइ.मदवज्ञानिमित्तेन पतिता इति तान् सुरान् | मारुतादीन् मृषाऽवादीरिति ब्रह्मा ण्सिवं तदा
SKशशाप मानुषेषु त्वं क्षिप्रं ज् आतः पराभवम् | शक्रान्नरतनोर्यासि यस्मै त्वं तु मृषाऽवदः
SKमच्छप्तानां च देवीनामविचार्य मया यतः | पतियोगवरं प्रादा नावाप्स्यसि ततः प्रियाम्
SKमानुषेषु ततः पश्चाद् भारतीदेहनिर्गताम् | स्वलोके प्राप्स्यसि स्वार्थे वरोऽयं ते मृषा भवेत्
SKएषा सा द्रौपदी नाम पञ्चदेवीतनुर्भवेत् | मृषा वाग् येषु ते प्रोक्ता मारुताद्यास्तु तेऽखिलाः
SKत् आसां पतित्वमाप्स्यन्ति भारत्यैव तु पार्वती | सं युक्ता व्यवहारेषु प्रवर्तेत नचान्यथा
SKएते हि मारुताद्यास्ते देवकार्यार्थगौरवात् | ज् आता इति श्रुतिस्तत्र नावज्ञा तेऽत्र कारणम् | दीर्घकालं मनुष्येषु ततस्त्वं स्थितिमाप्स्यसि
SKइत्युक्त्वा प्रययौ ब्रह्मा सोऽश्वत्थामा ण्सिवोऽभवत् | पञ्चदेवीतनुस्त्वेषा द्रौपदी नाम चाभवत्
SKवेदेषु सपुराणेषु भारते चावगम्यते | उक्तोऽर्थः सर्व एवायं तथा पूर्वोदिताण्स्च ये
SKमुमुदुः सर्वपाञ्चाला जातयोः सुतयोस्तयोः | मानुषान्नोपभोगेन सं सर्गान्मानुषेषु च
SKमनुष्यपुत्रतायाण्स्च भावो मानुष एतयोः | अभून्नातितरामासीत् तदयोनित्वहेतुतः
SKयाजोपयाजौ तावेव दयिता द्रुपदस्य सा | च्च्xइव्मातृस्नेहार्थमनयोर्ययाचे ददतुश्च तौ
SKज् आतमात्मनिहन्तारं भारद्वाजो निशम्य तम् | यशोर्थमस्त्राणि ददावग्रहीत् सोऽपि लोभतः | रामास्त्राणां दुर्लभत्वात् त्रिदशेष्वपि वीर्यवान्
SKभीमार्जुनाभ्यां बद्धं तं श्रुत्वा पाञ्चालभूपतिम् | प्राहिणोत् कृतवर्माणं पाण्डवानां जनार्दनः | पाण्डवेष्वतुलां प्रीतिं लोके ख्यापयितुं प्रभुः
SKस मान्य पाण्डवान् सोऽपि शूरानुजसुतासुतः | तैर्मानितः कृष्णभक्त्या भ्रातृत्वाच्च हरिं ययौ
SKततः प्रभृति सन्त्यज्य देवपक्षा जरासुतम् | पाण्डवानाण्स्रिता भूपा ज्ञात्वा भैमार्जुनं बलम्
SKविशेषतश्च कृष्णस्य विज्ञाय स्नेहमेषु हि| पराजिताण्स्च बहुशः कृष्णेनाचिन्त्यकर्मणा
SKप्रतापाद्ध्येव ते पूर्वं जरासन्धवशं गताः | न स्नेहात् तद् बलं ज् ञात्वा पार्थानां केशवस्य च
SKजन्मान्तराभ्यासवशात् स्निग्धाः कृष्णे चपाण्डुषु | जरासन्धभयं त्यक्त्वा तानेव च समाण्स्रिताः
SKअपि तं बहुशः कृष्णविजितं नैव तत्यजुः | आसुराः पूर्वसं स्कारात् सं स्कारो बलवान् यतः
SKदेवा हि कारणादन्यानाण्स्रयन्तोऽपि नाऽन्तरम् | स्नेहं त्यजन्ति दैवेषु तथाऽन्येऽन्येष्वपि स्फुटम्
SKधृतराष्ट्रो बलं ज् ञात्वा बहुशो भीमपार्थयोः | दैवत्वाच्च स्वभावेन ज्येष्ठत्वाद् धर्मजस्य च | सुप्रीत एव तं चक्रे यौवराज्याभिषेकिणम्
SKच्च्xव्.भीमार्जुनावथो जित्वा सर्वदिक्षु चभूपतीन् | चक्रतुः करदान् सर्वान् धृतराष्ट्रस्य दुर्जयौ
SKतयोः प्रीतोऽभवत् सोऽपि पौरजानपदास्तथा | भीष्मद्रोणमुखाः सर्वेऽप्यतिमानुषकर्मणा