SKइति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये सर्गानुसर्गलयप्रादुर्भावनिर्णयो नाम तृतीयोऽध्यायः xल्.(रामावतारे अयोध्याप्रवेशः ) अथ चतुर्थोऽध्यायः Oं | अथाभ्यवर्धं श्चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः | नित्यप्रवृद्धस्य च तस्य वृद्धिरपेक्ष्य लोकस्य हि मन्ददृष्टिम्
SKनिरीक्ष्य नित्यं चतुरः कुमारान् पिता मुदं सन्ततमाप चोच्चम् | विशेषतो राममुखेन्दुबिम्बमवेक्ष्य राजा कृतकृत्य आसीत्
SKतन्मातरः पौरजना अमात्या अन्तः पुरा वैषयिकाण्स्च सर्वे | अवेक्षमाणाः परमं पुमां सं स्वानन्दतृप्ता इव सम्बभूवुः
SKततः सुवं शे शशिनः प्रसूतो गाधीति शक्रस्तनुजोऽस्य चाऽसीत् | वरेण विप्रत्वमवाप योऽसौ विश्वस्य मित्रं स इहाऽजगाम
SKतेनार्थितो यज्ञरिरक्षयैव कृच्छ्रेण पित्राऽस्य भयाद् विसृष्टः | जगाम रामः सह लक्ष्मणेन सिद्धाण्स्रमं सिद्धजनाभिवन्द्यः
SKअनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम् | ववन्दिरे ब्रह्ममुखाः सुरेशास्तमस्त्ररूपाः प्रकटाः समेत्य
SKअथो जघानाऽशु शरेण ताटकां वराद् विधातुस्तदनन्यवध्याम् | ररक्ष यज्ञं च मुनेर्निहत्य सुबाहुमीशानगिरा विमृत्युम्
SKशरेण मारीचमथार्णवेऽक्षिपद् वचो विरिञ्चस्य तु मानयानः | अवध्यता तेन हि तस्य दत्ता जघान चान्यान् रजनीचरानथ
SKतदा विदेहेन सुतास्वयं वरो विघोषितो दिक्षु विदिक्षु सर्वशः | निधार्य तद् गाधिसुतानुयायी ययौ विदेहाननुजानुयातः
SKअथो अहल्यां पतिनाऽभिशप्तां प्रधर्षणादिन्द्रकृत् आच्छिलीकृत् आम् | स्वदर्शनान्मानुषतामुपेतां सुयोजयामास स गौतमेन
SKबलं स्वभक्तेरधिकं प्रकाण्सयन्ननुग्रहं च त्रिदशेष्वतुल्यम् | अनन्यभक्तां च सुरेशकाङ्क्षया विधाय नारीं प्रययौ तयाऽर्चितः
SKxलि.श्यामावदाते जगदेकसारे स्वनन्तचन्द्राधिककान्तिकान्ते | सहानुजे कार्मुकबाणपाणौ पुरीं प्रविष्टे तुतुषुर्विदेहजाः
SKपपुर्नितान्तं सरसाक्षिभृङ्गैर्वराननाब्जं पुरुषोत्तमस्य | विदेहनारीनरवर्यसऽ न्घा यथा महापूरुषिकास्तदङ्घ्रिम्
SKतथा विदेहः प्रतिलभ्य रामं सहस्रनेत्रावरजं गविष्ठम् | समर्चयामास सहानुजं तमृषिं च साक्षाज्ज्वलनप्रकाण्सम्
SKमेने च जामातरमात्मकन्यागुणोचितं रूपनवावतारम् | उवाच चास्मै ऋषिरुग्रतेजाः कुरुष्व जामातरमेनमाण्स्विति
SKस आह चैनं परमं वचस्ते करोमि नात्रास्ति विचारणा मे| शृणुष्व मेऽथापि यथा प्रतिज्ञा सुताप्रदानाय कृत् आ पुरस्तात्
SKतपो मया चीर्णमुमापतेः पुरा वरायुधावाप्तिधृतेन चेतसा | स मे ददौ दिव्यमिदं धनुस्तदा कथञ्चनाचाल्यमृते पिनाकिनम्
SKन देवदैत्योरगदेवगायका अलं धनुश्चालयितुं सवासवाः | कुतो नरास्तद्वरतो हि किङ्करा सहानसैवात्र कृषन्ति कृच्छ्रतः
SKअधार्यमेतद् धनुराप्य शङ्करादहं नृणां वीर्यपरीक्षणे धृतः | सुतार्थमेतां चकर प्रतिज्ञां ददामि कन्यां य इदं हि पूरयेत्
SKइतीरितां मे गिरमभ्यवेत्य दितेः सुता दानवयक्षराक्षसाः | समेत्य भूपाण्स्च समीपमाण्सु प्रगृह्य तच्चालयितुं न शेकुः
SKसं स्विन्नगात्राः परिवृत्तनेत्रा दशाननाद्याः पतिता विमूर्छिताः | तथाऽपि मां धर्षयितुं न शेकुः सुताकृते ते वचनां स्वयम्भुवः
SKपुरा हि मेऽदात् प्रभुरब्जजो वरं प्रसादितो मे तपसा कथञ्चन | बलान्न ते कश्चिदुपैति कन्यकां तदिच्छुभिस्ते न च धर्षणेति
SKततस्तु ते नष्टमदा इतो गताः समस्तशो ह्यस्तन एव पार्थिवाः | xलिइ.ततो ममायं प्रतिपूर्य मानसं वृणोतु कन्यामयमेव मेऽर्थितः
SKतथेति चोक्ते मुनिना स किङ्करैरनन्तभोगोपममाण्स्वथाऽनयत् | समीक्ष्य तद् वामकरेण राघवः सलीलमुद्धृत्य हसन्नपूरयत्
SKविकृष्यमाणं तदनन्तराधसा परेण निः सीमबलेन लीलया | अभज्यतासह्यममुष्य तद् बलं प्रसोढुमीशं कुत एव तद् भवेत्
SKस मध्यतस्तत् प्रविभज्य लीलया यथेक्षुदण्डं शतमन्युकुञ्जरः | विलोकयन् वक्त्रमृषेरवस्थितः सलक्ष्मणः पूर्णतनुर्यथा ण्सशी
SKतमब्जनेत्रं पृथुतुङ्गवक्षसं श्यामावदातं चलकुण्डलोज्ज्वलम् | शशक्षतोत्थोपमचन्दनोक्षितं ददर्श विद्युद्वसनं नृपात्मजा
SKअथो कराभ्यां प्रतिगृह्य मालामम्लानपद्मां जलजायताक्षी | उपेत्य मन्दं लल् . इतैः पदैस्तां तदं स आसज्य च पार्श्वतोऽभवत्
SKततः प्रमोदो नितरां जनानां विदेहपुर्यामभवत् समन्तात् | रामं समालोक्य नरेन्द्रपुत्र्या समेतमानन्दनिधिं परेशम्
SKलक्ष्म्या समेते प्रकटं रमेशे सम्प्रेषयामास तदाऽशु पित्रे | विदेहराजो दशदिग्रथाय स तन्निशम्याऽशु तुतोष भूमिपः
SKअथाऽत्मजाभ्यां सहितः सभार्यो ययौ गजस्यन्दनपत्तियुक्तया | स्वसेनयाऽग्रे प्रणिधाय धातृजं वसिष्ठमाण्स्वेव स यत्र मैथिलः
SKस मैथिलेनातितरां समर्चितो विवाहयामास सुतं मुदम्भरः | पुरोहितो गाधिसुतानुमोदितो जुहाव वह्निं विधिना वसिष्ठः
SKतदा विमानावलिभिर्नभस्तल् . अं दिदृक्षतां सङ्कुलमास नाकिनाम् | सुरानका दुन्दभयोऽ विनेदिरे जगुश्च गन्धर्ववराः सहस्रशः
SKविजानमाना जगतां हि मातरं पुराऽर्थितुं नाऽययुरत्र देवताः | तदा तुरामं रमया युतं प्रभुं दिदृक्षवश्चक्रुरलं नभस्तल् . अम्
SKxलिइइ.यथा पुरा सागरजास्वयं वरे सुमानसानामभवत् समागमः | तथा ह्यभूत् सर्वदिवौकसां तदा तथा मुनीनां सहभूभृत् आं भुवि
SKप्रगृह्य पाणिं च नृपात्मजाया रराज राजीवसमाननेत्रः | यथा पुरा सागरजासमेतः सुरासुराणाममृत् आब्धिमन्थने
SKस्वलङ्कृत् आस्तत्र विचेरुरङ्गना विदेहराजस्य च या हि योषितः | मुदा समेतं रमया रमापतिं विलोक्य रामाय ददौ धनं नृपः
SKप्रियाणि वस्त्राणि रथान् सकुञ्जरान् परार्द्ध्यरत्नान्यखिलस्य चेशितुः | ददौ च कन्यात्रयमुत्तमं मुदा तदा स रामावरजेभ्य एव
SKमहोत्सवं तं त्वनुभूय देवता नराण्स्च सर्वे प्रययुर्यथागतम् | पिता च रामस्य सुतैः समन्वितो ययावयोध्यां स्वपुरीं मुदा ततः
SKतदन्तरे सोऽथ ददर्श भार्गवं सहस्रलक्षामितभानुदीधितिम् | विभासमानं निजरश्मिमण्डले धनुर्धरं दीप्तपरश्वधायुधम्
SKअजानतां राघवमादिपूरुषं समागतं ज् ञापयितुं निदर्शनैः | समाह्वयन्तं रघुपं स्पृधेव नृपो ययाचे प्रणिपत्य भीतः
SKन मे सुतं हन्तुमिहार्हसि प्रभो वयोगतस्येत्युदितः स भार्गवः | सुतत्रयं ते प्रददामि राघवं रणे स्थितं द्रष्टुमिहाऽगतोऽस्म्यहम्
SKस इत्थमुक्त्वा नृपतिं रघूत्तमं भृगूत्तमः प्राह निजां तनुं हरिः | अभेदमज्ञेष्वभिदर्शयन् परं पुरातनोऽहं हरिरेष इत्यपि
SKशृणुष्व राम त्वमिहोदितं मया धनुर्द्वयं पूर्वमभून्महाद्भुतम् | उमापतिस्त्वेकमधारयत् ततो रमापतिश्चापरमुत्तमोत्तमम्
SKतदा तु लोकस्य निदर्शनार्थिभिः समर्थितौ तौ हरिशङ्करौ सुरैः | रणस्थितौ वां प्रसमीक्षितुं वयं समर्थयामोऽत्र निदर्शनार्थिनः
SKततो हि युद्धाय रमेशशङ्करौ व्यवस्थितौ तौ धनुषी प्रगृह्य | यतोऽन्तरस्यैष नियामको हरिस्ततो हरोऽग्रेऽस्य शिलोपमोऽभवत्
SKxलिव्.शशाक नैवाथ यदाऽभिवीक्षितुं प्रस्पन्दितुं वा कुत एव योद्धुम् | शिवस्तदा देवगणः समस्ताः शशं सुरुच्चैर्जगतो हरेर्बलम्
SKयदीरणेनैव विनैष ण्सङ्करः शशाक न प्रश्वसितुं च केवलम् | किमत्र वक्तव्यमतो हरेर्बलं हरात् परं सर्वत एव चेति
SKततः प्रणम्याऽशु जनार्दनं हरः प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितः | जगाम कैलासममुष्य तद् धनुस्त्वया प्रभग्नं किल लोकसन्निधौ
SKधनुर्यदन्यद्धरिहस्तयोग्यं तत्कार्मुकात् कोटिगुणं पुनश्च | वरं हि हस्ते तदिदं गृहीतं मया गृहाणैतदतो हि वैष्णवम्
SKयदीदमागृह्य विकर्षसि त्वं तदा हरिर्नात्र विचार्यमस्ति | इति ब्रुवाणः प्रददौ धनुर्वरं प्रदर्शयत् विष्णुबलं हराद् वरम्
SKप्रगृह्य तच्चापवरं स राघवश्चकार सज्यं निमिषेण लीलया | चकर्ष सन्धाय शरं च पश्यतः समस्तलोकस्य च सं शयं नुदन्
SKप्रदर्शिते विष्णुबले समस्ततो हराच्च निः सङ्ख्यतया महाधिके | जगाद मेघौघगभीरया गिरा सराघवं भार्गव आदिपूरुषः
SKअलं बलं ते जगतोऽखिलाद् वरं परोऽसि नारायण एव नान्यथा | विसर्जयस्वेह शरं तपोमये महासुरे लोकमये वराद् विभोः
SKपुराऽतुलो नाम महासुरोऽभवद् वरात् स तु ब्रह्मण आप लोकताम् | पुनश्च तं प्राह जगद्गुरुर्यदा हरिर्जितः स्याद्धि तदैव वध्यसे
SKअतो वधार्थं जगदन्तकस्य सर्वाजितोऽहं जितवद् व्यवस्थितः | इतीरिते लोकमये स राघवो मुमोच बाणं जगदन्तकेऽसुरे
SKपुरा वरोऽनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम् | स तेन रामोदरगो बहिर्गतस्तदाज्ञयैवाऽशु बभूव भस्मसात्
SKइतीव रामाय स राघवः शरं विकर्षमाणो विनिहत्य चासुरम् | xल्व्.तपस्तदीयं प्रवदन् मुमोद तदीयमेव ह्यभवत् समस्तम्
SKनिरन्तरानन्तविबोधसारः स जानमानोऽखिलमादिपूरुषः | वदञ्छृणोतीव विनोदतो हरिः स एक एव द्वितनुर्मुमोद
SKस चेष्टितं चैव निजाण्स्रयस्य जनस्य सत्तत्त्वविबोधकारणम् | विमोहकं चान्यतमस्य कुर्वन् चिक्रीड एकोऽपि नरान्तरे यथा
SKततः स कारुण्यनिधिर्निजे जने नितान्तमैक्यं स्वगतं प्रकाण्सयन् | द्विधेव भूत्वा भृगुवर्य आत्मना रघूत्तमेनैक्यमगात् समक्षम्
SKसमेत्य चैक्यं जगतोऽभिपश्यतः प्रणुद्य शङ्कामखिलां जनस्य | प्रदाय रामाय धनुर्वरं तदा जगाम रामानुमतो रमापतिः
SKततो नृपोऽत्यर्थमुदाऽभिपूरितः सुतैः समस्तैः स्वपुरीमवाप ह | रेमेऽथ रामोऽपि रमास्वरूपया तयैव राजात्मजया हिसीतया
SKयथा पुरा ण्स्रीरमणः श्रिया तया रतो नितान्तं हि पयोब्धिमध्ये | तथा त्वयोध्यापुरिगो रघूत्तमोऽप्युवास कालं सुचिरं रतस्तया
SKइमानि कर्माणि रघूत्तमस्य हरेर्विचित्राण्यपि नाद्भुतानि | दुरन्तशक्तेरथ चास्य वैभवं स्वकीयकर्तव्यतयाऽनुवर्ण्यते