Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 25

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये युद्धोद्योगो नाम चतुर्विं शोऽध्यायः च्च्च्xल्विइइ.(भीष्मपातः ) अथ पञ्चविं शोऽध्यायः Oं | ते सेने समरारम्भे समेते सागरोपमे | भीमभीष्ममुखे वीक्ष्य प्राह वासविरच्युतम्
SK
᳚सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत᳚ ७७ | इत्युक्तः स तथा चक्रे पार्थः पश्यं श्च बान्धवान् | विससर्ज धनुः पापाण्सङ्की तत्राऽह माधवः
SK
स्वधर्मो दुष्टदमनं धर्मज्ञानानुपालनम् | क्षत्रियस्य तमुत्सृज्य निन्दितो यात्यधो ध्रुवम्
SK
᳚यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् | स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ᳚ ७८
SK
नच शोकस्त्वया कार्यो बन्धूनां निधनेक्षया | देहस्य सर्वथा नाण्सादनाण्साच्चेतनस्य च
SK
सृष्टिस्थित्यप्ययाज्ञानबन्धमोक्षप्रवृत्तयः | प्रकाण्सनियमौ चैव ब्रह्मेशादिक्षरस्य च | अक्षरप्रकृतेः सन्तो मत्त एव नचान्यतः
SK
न मे कुतश्चित् सर्गाद्याः स्वातन्त्र्याद् गुणपूर्तितः | अतः समाधिकाभावान्मम मद्वशमेव च
SK
ज् ञात्वैषां निधनाद्यं च जीवादेरस्वतन्त्रताम् | अस्वातन्त्र्यान्निवृत्तौ च मामनुस्मर युद्ध्य च
SK
᳚ये तु सर्वाणि कर्माणि मयि सं न्यस्य मत्पराः | अनन्येनैव योगेन मां ध्यायन्त उपासते
SK
तेषामहं समुद्धर्ता मृत्युसं सारसागरात् | ७७ Bह. Gई. १.२१ ७८ Bह. Gई. १८.४६ च्च्च्xलिx.भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्᳚ ७९
SK
᳚मया ततमिदं सर्वं जगदव्यक्तमूर्तिना | मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः ᳚ ८०
SK
सुपूर्णसत्सर्वगुणदेहोऽहं सर्वदा प्रभुः | अस्पृष्टाखिलदोषैकनित्यसत्तनुरव्ययः | इत्युक्तो वासविः प्राह व्याप्तं ते दर्शयेश मे
SK
अथ दिव्यदृशं तस्य दत्वा व्याप्तं निजं वपुः | देशतः कालतश्चैव पूर्णं सर्वगुणैः सदा | दर्शयामास भगवान् यावत्यर्जुनयोग्यता
SK
तत्प्रार्थितः पुनः कृष्णस्तद् रूपं लोकमानतः | पूर्ववद् दर्शयामास पुनश्चैनमशिक्षयत्
SK
ज् ञानज्ञेयप्रकृत्यादि ज्ञापयन् पुरुषोत्तमः | तेनानुशिष्टः पार्थस्तु सशरं धनुराददे
SK
अथ व्यूढेष्वनीकेषु नदन् वायुसुतोऽभ्ययात् | समितिं धार्तराष्ट्राणां ते तं सर्वेऽभ्यवारयन् | ससृजुः शरवृष्टिं च भीमसेनस्य मूर्द्धनि
SK
क्षिप्रं नैव प्रहर्तव्यं ज् ञातिषु प्रहरत्स्वपि | इत्येवाप्रहरत्यस्मिन् शत्रुभिः शरविक्षते
SK
अमुचन् धार्तराष्ट्रेषु ण्सस्त्रवृष्टिं दुरासदाम् | सौभद्रप्रमुखा वीराः सर्वे पाण्डुसुतात्मजाः
SK
अपीडयं स्ताञ्छस्त्रौघैर्धार्तराष्ट्राः समन्ततः | ररक्ष तान् वायुसुतो विसृजञ्छरसञ्चयान्
SK
तत्र भीमशरैर्नुन्ना धार्तराष्ट्राः समन्ततः | ७९ Bह. Gई. १२.६-७ ८० Bह. Gई. ९.४ च्च्च्ल्.भग्नास्तानथ गाङ्गेयो दिव्यास्त्रविदधारयत्
SK
अथ द्वन्द्वानि युद्धानि बभूवुर्विजिगीषताम् | द्रोणपार्षतयोश्चैव शैनेयकृतवर्मणोः
SK
दुः शासनेन वीरस्य माद्रेयस्य यवीयसः | नकुलस्य विकर्णस्य कार्ष्णेयैर्दुर्मुखादिनाम्
SK
वृत्ते द्वन्द्वमहायुद्धे तत्र धर्मजपक्षगाः | जिता विनैव शैनेयं सोऽजयद्धृदिकात्मजम्
SK
अथ भीष्मद्रोणमुखैर्भगदत्तादिभिस्तथा | विद्राप्यमाणं स्वबलं स्थापयामास मारुतिः
SK
द्रोणं च भगदत्तं च कृपं दुर्योधनं तथा | केवलं बाहुवीर्येण व्यजयद् भीमविक्रमः | हत्वोत्तरं मद्रराजो व्यद्रावयदनीकिनीम्
SK
अथ भीष्ममुदीर्णास्त्रं द्रावयन्तं वरूथिनीम् | ससौमदत्तिं सौभद्रसहायोऽर्जुन आसदत्
SK
सौभद्रं तत्र विक्रान्तमतीत्य द्युसरित्सुतः | द्रावयामास पाञ्चालान् पश्यतः सव्यसाचिनः
SK
तस्य विक्रममालक्ष्य पार्थं तद्गौरवानुगम् | दृष्ट्वा युधिष्ठिरो राजा क्रुद्धः सेनामपाहरत्
SK
रात्रौ युधिष्ठिरश्चिन्तामाप्य पार्थं व्यगर्हयत् | स कृष्णाद्यैः सान्त्वितश्च पुनर्युद्धाय निर्ययौ
SK
एवं भीष्मो दशाहानि सेनापत्यं चकार ह | कृत्वाऽपि पाण्डवैर्युद्धं तत् कर्तुमकृतोपमम्
SK
कर्णोऽर्द्धरथ इत्युक्त्वा तावद् युद्धात् प्रयापितः | यावत् त्वं योत्स्यसे तावन्न योत्स्यामीति निर्गते
SK
च्च्च्लि.कर्णेऽयुतरथानां स नित्यशो वधमाहवे | प्रतिजज्ञेऽकरोत् तच्च पुनश्चास्त्रविदां वरः
SK
सुसमर्थावपि वधे तस्य भीमधनञ्जयौ | स्नेहेन यन्त्रितौ तस्य गौरवाच्चान्ववर्तताम्
SK
बभूवुस्तत्र युद्धानि चित्राणि सुबहूनि च | त् आन्यम्बरे विमानस्था ब्रह्मरुद्रपुरस्सराः | अपश्यन् देवताः सर्वा गन्धर्वाप्सरसोऽसुराः
SK
धृष्टद्युम्नो महेष्वासः प्रतिव्यूह्याऽपगासुतम् | चक्रे युद्धानि सुबहून्यजेयः शत्रुभी रणे
SK
तत्रोद्दधार कृष्णोऽपि फल्गुनं मृदुयोधिनम् | दृष्ट्वा चक्रं तथोद्यम्य बाहुं भीष्माय जग्मिवान्
SK
तेन स्तुतो गृहीतश्च फल्गुनेन प्रणम्य च | प्रार्थितो रथमारूढः पुनः शङ्खमपूरयत्
SK
ततो भीष्मोऽर्जुनश्चैव शस्त्रास्त्रैरभ्यवर्षताम् | अयत्नेन जितश्चैव फल्गुनेनाऽपगासुतः
SK
अयुतानि बहून्याजौ रथानां निजघान च | जिताः सेनापहारं च चक्रुर्भीष्ममुखास्ततः
SK
कदाचिदग्रगो भीमो भीष्मद्रोणौ विसारथी | कृत्वा विद्राप्य तानश्वान् भित्वा व्यूहं विवेश ह
SK
पुनः सं स्थापितरथौ विजित्यायत्नतो बली | यतमानौ महेष्वासौ धार्तराष्ट्रान् जघान ह | पञ्चविं शद्धतास्तत्र धार्तराष्ट्रा महाबलाः
SK
भगदत्तद्रौणिकृपशल्यदुर्योधनादयः | सर्वे जिता द्राविताण्स्च सेना च बहुला हता
SK
च्च्च्लिइ.विरथो व्यायुधश्चैव दृढवेधविमूर्च्छितः | कृतो दुर्योधनः सर्वराज्ञां भीमेन पश्यताम्
SK
ततोऽपहारं सैन्यस्य जिताण्स्चक्रुश्च कौरवाः | दुर्योधनो निशायां च ययौ यत्र नदीसुतः | पीडितो भीमबाणैश्च क्षरद्गात्रो ननाम तम्
SK
उवाच हेतुना केन वयं क्षीयाम सर्वदा | पाण्डवाण्स्च जयं नित्यं लब्ध्वा हर्षमवाप्नुवन्
SK
तमाह भीष्मस्तेऽजेया देवास्ते धरणीं गताः | विशेषतः केशवेन पालितास्तत्प्रियाः सदा
SK
मानसोत्तरशैले हि पुरा ब्रह्मपुरस्सराः | स्थिता देवास्तदाऽपश्यद् ब्रह्मैको हरिमम्बरे
SK
स्तुत्वा सम्पूज्य भूमेः स भारावतरणाय तम् | प्रार्थयामास तेनोक्तं देवानामवदद् विभुः
SK
अयं नारायणो देवः पुर्णानन्तगुणार्णवः | आज्ञापयति वः सर्वान् प्रादुर्भावाय भूतल् . ए | स्वयं च देवकीपुत्रो भविष्यति जगत्पतिः
SK
एवं तेन समादिष्टा धर्मवाय्वादयोऽखिलाः | अभवन् पाण्डवाद्यास्ते सेन्द्राः सहमरुद्गणाः
SK
स च नारायणो देवो देवकीनन्दनोऽभवत् | तेनैते पालिताः पार्था अजेया देवसर्गिणः | तस्मात् तैः सन्धिमन्विच्छ यदीच्छस्यपराभवम्
SK
इत्युक्तो डम्भबुद्ध्यैव नत्वा विष्णुं ततो ययौ | प्रातर्निर्यातयामास सेनां युद्धाय दुर्मतिः
SK
दिव्यौषधेन भीष्मस्य भूत्वा च निरुजस्ततः | च्च्च्लिइइ.भीष्ममग्रे निधायैव ययौ युद्धाय दं सितः
SK
तत्राऽसीद् युद्धमतुलं भीमभीष्मानुयायिनाम् | पाण्डवानां कुरूणां च शूराणामनिवर्तिनाम्
SK
धृष्टद्युम्नस्तत्र भीमानुयायी दुर्योधनस्यावरजैः प्रयुद्ध्यन् | सम्मोहनास्त्रेण विमोहयित्वा विकर्णपूर्वानहनच्च सेनाम्
SK
ततो द्रोणस्तान् समुत्थाप्य सर्वान् विज्ञानास्त्रेणाऽसदत् पार्षतं च | तं भीमसेनः सूतहीनं विधाय व्यद्रावयच्छत्रुगणाञ्छरौघैः
SK
अथाऽसदत् कृतवर्मा रथेन धृष्टद्युम्नं सोऽभ्ययात् तावुभौ च | ववर्षतुः शरवर्षैरथोग्रैस्तत्राकरोद् विरथं द्रौपदिस्तम्
SK
तस्मिन् जिते रथवीरे स्वयं तं दुर्योधनः पार्षतमाससाद | तं भीमसेनो विरथायुधं च कृत्वा बाणेनाहनज्जत्रुदेशे
SK
विमूर्च्छितं तं रुधिरौघमुच्चैर्वमन्तमाण्सु स्वरथे निधाय | कृपो ययौ मारुतिर्धार्तराष्ट्रीं व्यद्रावयत् पृतनां बाणपूगैः
SK
अथेन्द्रसूनुः केशवप्रेरितेन रथेन शत्रून् विधमञ्छरौघैः | रथान् रणे पञ्चविं शत्सहस्रान् निनाय वैवस्वतसादनाय
SK
तमन्वयाद् युयुधानः सुधन्वा विद्रावयन् धार्तराष्ट्रस्य सेनाम् | तमभ्ययात् सौमदत्तिस्तयोश्च सुयुद्धमासीदतिभैरवास्त्रम्
SK
पुत्रान् दशास्याऽशु निहत्य वीरः स सात्यकेः सौमदत्तिः सकाण्से | समर्पयामास शरीरदारणैः शरैरुभौ तौ विरथौ च चक्रतुः
SK
अथासिपाणिं युयुधानमाण्सु महासिहस्तेन च सौमदत्तिना | आसादितं वीक्ष्य रथं स्वकीयमारोपयामास सुतोऽनिलस्य
SK
सुयोधनः सौमदत्तिं स्वकीयरथे व्यवस्थाप्य च भीमसेनात् | अपाद्रवद् वासविर्भीष्ममाजौ समाससादाऽशु महेन्द्रकल्पः
SK
च्च्च्लिव्.उभौ च तावस्त्रविदां प्रबर्हौ शरैर्महाण्सीविषसन्निकाण्सैः | ततक्षतुर्नाकसदां समक्षं महाबलौ सं यति जातदर्पौ
SK
स्वबाहुवीर्येण जितः स भीष्मः किरीटिना लोकमहारथेन | सेनामपाहृत्य ययौ निशायामासादितायामथ पाण्डवाण्स्च
SK
ततः परेद्युः पुनरेव भीमभीष्मौ पुरस्कृत्य समीयतुस्ते | सेने तदा सारथिहीनमाण्सु भीष्मं कृत्वा मारुतिरभ्यगात् परान् | निपातितास्तेन रथेभवाजिनः प्रदुद्रुवुश्चावशिष्टाः समस्ताः
SK
दुर्योधनाद्येषु पराजितेषु भीष्मद्रोणद्रौणिपुरस्सरेषु | महागजस्थो भगदत्त आगादायन् बाणं भीमसेनेऽमुचच्च
SK
तेनातिविद्धे भीमसेनेऽस्य पुत्र उद्यच्छमानं पितरं निवार्य | घटोत्कचोऽभ्यद्रवदाण्सु वीरः स्वमायया हस्तिचतुष्टयस्थः
SK
स वैष्णवास्त्रं भगदत्तसं स्थं विज्ञाय विष्णोर्वरतो विशेषतः | अमोघमन्यत्र हरेर्मरुत्सुतः पुत्रे याते न स्वयमभ्यधावत्
SK
अनुग्रहादभ्यधिकादवध्यं ज् आनन्नपि स्वं वासुदेवस्य नित्यम् | तद्भक्तिवैशेष्यत एव तस्य सत्यं वाक्यं कर्तुमरिं नचायात् | यदा स्वपुत्रेण जितो भवेत् स किम्वात्मनेत्येव तदा प्रवेत्तुम्
SK
स विस्मृत् आस्त्रस्तु यदा भवेत् तदा भीमो भगदत्तं प्रयाति | ऋते भीमं वाऽर्जुनं नास्त्रमेष प्रमुञ्चतीत्येव हि वेद भीमः
SK
चतुर्गजात्मोपरिगात्मकश्च घटोत्कचः सुप्रतीकं च तं च | नानाप्रहारैर्वितुदं श्चकार सन्दिग्धजीवौ जगतां समक्षम्
SK
गजार्तनादं तु निशम्य भीष्ममुखाः समापेतुरमुं च दृष्ट्वा | महाकायं भीमममुष्य पृष्ठगोपं च वाय्वात्मजमत्रसन् भृशम् | ते भीतभीत् आः पृतनापहारं कृत्वाऽपजग्मुः शिबिराय शीघ्रम्
SK
दिने परे चैव पुनः समेताः परस्परं पाण्डवकौरवास्ते | तत्राऽसदन्नागसुतासमुद्भवः पार्थात्मजः शाकुनेयान् षल् . एकः
SK
च्च्च्ल्व्.तैः प्रासहस्तैः क्षतकायोऽतिरूढकोपः स खड्गेन चकर्त तेषाम् | शिरां सि वीरो बलवानिरावान् भयं दधद् धार्तराष्ट्रेषु चोग्रम्
SK
दृष्ट्वा तमुग्रं धृतराष्ट्रपुत्रो दिदेश रक्षोऽलम्बुसनामधेयम् | जह्यार्जुनिं क्षिप्रमिति स्म तच्च समासदन्नागसुतातनूजम्
SK
तयोरभूद् युद्धमतीव दारुणं मायायुजोर्वीर्यवतोर्महाद्भुतम् | ससादिनोऽश्वान् स तु राक्षसोऽसृजत् ते पार्थपुत्रस्य च सादिनोऽहनन् | ततस्त्वनन्ताकृतिमाप्तमार्जुनिं सुपर्णरूपोऽहनदाण्सु राक्षसः
SK
हतं निशम्याऽर्जुनिमुग्रपौरुषो ननाद कोपेन वृकोदरात्मजः | चचाल भूर्नानदतोऽस्य रावतः ससागरागेन्द्रनगा भृशं तदा
SK
अलम्बुसस्तं प्रसमीक्ष्य मारुतेः सुतं बलाढ्यं भयतः पराद्रवत् | पराद्रवन् धार्तराष्ट्रस्य सेनाः सर्वास्तमाराथ सुयोधनो नृपः
SK
स भीमपुत्रस्य जघान मन्त्रिणो महाबलां श्चतुरोऽन्यां स्तथैव | हतावशेषेषु च विद्रवत्सु घटोत्कचोऽभ्याहनदाण्सु तं नृपम्
SK
स पीड्यमानो युधि तेन रक्षसा प्रवेशयामास शरं घटोत्कचे | दृढाहतस्तेन तदा वलीयसा घटोत्कचः प्रव्यथितेन्द्रियो भृशम् | तस्थौ कथञ्चिद् भुवि पात्यमानः पुनः शरानप्यसृजत् सुयोधने
SK
चिरप्रयुद्धौ नृपराक्षसाधिपौ परस्पराजेयतमौ रणाजिरे | द्रोणादयो वीक्ष्य रिरक्षिषन्तः सुयोधनं प्रापुरमित्रसाहाः
SK
स द्रोणण्सल्यौ गुरुपुत्रगौतमौ भूरिश्रवः कृतवर्मादिकां श्च | ववर्ष बाणैर्गगनं समाण्स्रितो घटोत्कचः स्थूलतमै सुवेगैः
SK
तमेकग्र्यै रथिभिः परिष्कृतं निरीक्ष्य भीमोऽभ्यगमत् समस्तान् | द्रोणोऽत्र भीमप्रहितैः शरोत्तमैः सुपीडितः प्राप्तमूर्च्छः पपात
SK
द्रौणिं कृपाद्यान् ससुयोधनां श्च चकार भीमो विरथान् क्षणेन | निवार्यमाणां स्तु वृकोदरेण घटोत्कचस्तान् प्रववर्ष सायकैः
SK
च्च्च्ल्वि.तेनाम्बरस्थेन तरुप्रमाणैरभ्यर्दिताः कुरवः सायकौघैः | भूमौ च भीमेन शरौघपीडित् आः पेतुर्नेदुः प्राद्रवं श्चातिभीत् आः
SK
सर्वां श्च ताञ्छिबिरं प्रापयित्वा विना भीष्मं कौरवान् भीमसेनः | घटोत्कचश्चानदतां महास्वनौ नादेन लोकानभिपूरयन्तौ
SK
दुर्योधनोऽथ स्वजनैः समेतः पुनः प्रायाद् रणभूमिं स भीष्मम् | जयोपायं भैमसेनेरपृच्छत् स्वस्यैव स प्राह न तं व्रजेति
SK
प्राग्ज्योतिषं चैव घटोत्कचाय सम्प्रेषयामास सुरापगासुतः | स प्राप्य हैडिम्बमयोधयद् बली सचार्दयामास सकुञ्जरं तम्
SK
तेनार्दितः प्राहिणोच्छूलमस्मै वियत्यभिप्लुत्य तदा घटोत्कचः | प्रगृह्य शूलं प्रबभञ्ज जानुमारोप्य देवा जहृषुस्तदीक्ष्य
SK
तदा स तस्यैव पदानुगान् नृपो जघान तं मारुतिरभ्ययाद् रणे | स प्राहिणोद् भीमसेनाय वीरो गजं तमस्तम्भयदाण्सु सायकैः
SK
सं स्तम्भिते बाणवरैस्तु नागे भीमस्याण्स्वान् सायकैरार्दयत् सः | सोऽभ्यर्दिताण्स्वोऽथ गदां प्रगृह्य हन्तुं नृपं तं सगजं समासदत्
SK
स हन्तुकामेन रुषाऽभिपन्नो भीमेन राजा पुरतः पृष्ठतश्च | कृष्णेनास्त्रं वैष्णवं तद् गृहीतुं सहार्जुनेनापययौ सुभीतः
SK
तस्मिन् गते भीमसेनार्जुनाभ्यां विद्राविते राजसङ्घे समस्ते | भीष्मः सेनामपहृत्यापयातो दुर्योधनस्तं निशि चोपजग्मिवान्
SK
सं श्रावितः क्रूरवचः स तेन चक्रे सत्यं मृत्युभयं विहाय | शक्त्या हनिष्यामि परानिति स्म चक्रे च तत् कर्म तथा परेद्युः
SK
तं शक्तितो जुगुपुर्धार्तराष्ट्रास्तेनार्दिताण्स्चेदिपाञ्चालमत्स्याः | पराद्रवन् भीष्मबाणोरुभीत् आः सिं हार्दिताः क्षुद्रमृगा इवाऽर्ताः
SK
सं स्थाप्य तान् भीष्ममभिप्रयान्तमलम्बुसोऽवारयत् पार्थसूनुम् | च्च्च्ल्विइ.विजित्य तं केशवभागिनेयो ययौ भीष्मं धार्तराष्ट्रोऽमुमार
SK
तद् युद्धमासीन्नृपपार्थपुत्रयोर्विचित्रमत्यद्भुतमुग्ररूपम् | समं चिरं तत्र धनुश्चकर्त ध्वजं च राजा सहसाऽभिमन्योः
SK
अथैनमुग्रैश्च शरैर्ववर्ष सूतं च तस्याऽशु जघान वीरः | तदाऽसदद् भीमसेनो नृपं तं जघान चाण्स्वान् धृतराष्ट्रजस्य
SK
द्रोणो द्रौणिर्भगदत्तः कृपश्च सचित्रसेना अभ्ययुर्भीमसेनम् | सर्वां श्च तान् विमुखीकृत्य भीमः स चित्रसेनाय गदां समाददे
SK
त् आमुद्यतां वीक्ष्य पराद्रवं स्ते स चित्रसेनश्च रथादवप्लुतः | सञ्चूर्णितो गदया तद्रथश्च तज्जीवनेनोद्धृषित् आण्स्च कौरवाः
SK
भीष्मस्तु पाञ्चालकरूण्सचेदिष्वहन् सहस्राणि चतुर्दशोग्रः | रथप्रबर्हानतितिग्मतेजा विद्रावयामास परानवीनिव
SK
विद्राप्य सर्वामपि पाण्डुसेनां विश्राव्य लोकेषु च कीर्तिमात्मनः | सेनां समाहृत्य ययौ निशागमे सम्पूज्यमानो धृतराष्ट्रपुत्रैः
SK
द्रोणो विराटस्य पुरो निहत्य शङ्खं सुतं तस्य विजित्य तं च | विद्राप्य सेनामपि पाण्डवानां ययौ नदीजेन सहैव हृष्टः
SK
भीमार्जुनावपि शत्रून् निहत्य विद्राप्य सर्वां श्च युधि प्रवीरान् | युधिष्ठिरेणापहृते स्वसैन्ये भीतेन भीष्माच्छिबिरं प्रजग्मतुः
SK
युधिष्ठिरो भीष्मपराक्रमेण भीतो भीष्मं स्ववधोपायमेव | प्रष्टुं ययौ निशि कृष्णोऽनुजाण्स्च तस्यान्वयुस्तं स पितामहो यत्
SK
भीमार्जुनौ शक्नुवन्तावपि स्म नर्तेऽनुज्ञां हन्तुमिमं तदैच्छताम् | पूज्यो यतो भीष्म उदारकर्मा कृष्णोऽप्ययात् तेन हि पाण्डवार्थे
SK
प्राप्यानुज्ञां भीष्मतस्ते वधाय शिखण्डिनं तद्वचसाऽग्रयायिनम् | कृत्वा परेद्युर्युधये विनिर्गता भिष्मं पुरस्कृत्य तथा परेऽपि
SK
च्च्च्ल्विइइ.शिखण्डिनो रक्षकः फल्गुनोऽभूद् भीष्मस्य दुः शासन आस चाग्रे | अन्ये च सर्वे जुगुपुर्भीष्ममेव न्यवारयन् भीमसेनादयस्तान्
SK
भीष्माय यान्तं युयुधानमाजौ न्यवारयद् राक्षसोऽलम्बुसोऽथ | तं वज्रकल्पैरतुदद् वृष्णिवीरः शरैः स मायामसृजत् तदोग्राम्
SK
अस्त्रेण मायामपनुद्य वीरो व्यद्रावयद् राक्षसं सात्यकिस्तम् | तस्मिन् गते युयुधानो रथेन ययौ भीष्मं पार्थमन्वेव धन्वी
SK
द्रोणो द्रौणिर्धार्तराष्ट्रश्च राजा भूरिश्रवा भगदत्तः कृपश्च | शल्यो बाह्लीकः कृतवर्मा सुशर्मा सर्वाण्स्च सेना वारिता वायुजेन
SK
स तान् मुहुर्विरथीकृत्य वीरः प्राग्ज्योतिषं सगजं द्रावयित्वा | न्यवारयत् फल्गुनं रोद्धुकामं पार्थश्च देवव्रतमाससाद
SK
युधिष्ठिरं भीष्ममभिप्रयान्तं माद्रीसुताभ्यां सहितं नृवीरम् | न्यवारयच्छकुनिः सादिनां च युतोऽयुतेनैव वराण्स्वगेन
SK
त् आन् सादिनोऽश्वां श्च निहत्य सर्वान् विजित्य तं शकुनिं पाण्डवास्ते | प्रापुर्भीष्मं द्रौपदेयाण्स्च सर्वे तथा विराटद्रुपदौ कुन्तिभोजः
SK
धृष्टद्युम्नं भीष्ममभिप्रयान्तं न्यवारयत् सैन्धवस्तं स बाणैः | हताण्स्वसूतं सगणं द्रावयित्वा समासदद् भीष्ममेवाऽशु वीरः
SK
गुप्तोऽथ पार्थेन रणे ण्सिखण्डी भीष्मं समासाद्य शरैरताडयत् | भीष्मः स्त्रीत्वं तस्य जानन् न तस्मै मुमोच बाणान् स तु तं तुतोद
SK
शिखण्डिनं वारयामास बाणैर्दुर्मर्षणोऽमर्षणविह्वलेक्षणः | नात्येतुमेनमशकच्छिखण्डी दुः शासनः पार्थमवारयत् तदा
SK
स लोकवीरोऽपि दुरात्मनाऽमुना रुद्धोऽशकन्नैनमतीत्य यातुम् | भीष्मं पार्थः सायकाण्स्चास्य तस्मिन् ससज्जिरे पर्वतेष्वप्यसक्ताः
SK
अमर्षयुक्तौ चिरमेव वीरावयुद्ध्यतामर्जुनधार्तराष्ट्रौ | समं तदासीन्महदद्भुतं च दिवौकसां पश्यतां भूभृत् आं च
SK
च्च्च्लिx.तदा विराटद्रुपदौ कुन्तिभोजं कृष्णासुतान् केकयां श्चेकितानम् | भूरिः शलः सोमदत्तो विकर्णः सकेकया वारयामासुरुच्चैः
SK
जित्वैव तां स्तेऽभिययुश्च भीष्मं ततोऽर्जुनोऽतीत्य दुः शासनं च | भीष्मं शरैरार्च्छदरिप्रमाथिभिः शिखण्डिनं धार्तराष्ट्राद् विमुच्य
SK
स तैः समस्तैर्बहुशस्त्रपूगैर्भृशं मर्मस्वर्दितश्चापमुक्तैः | शरैः समस्तान् विरथां श्चकार शैनैयपाञ्चाल्ययुधिष्ठिराद्यान्
SK
स चेदिपाञ्चालकरूण्समुख्यान् रथोत्तमान् पञ्चविं शत्सहस्रान् | सम्प्रेषयामास यमाय बाणैर्युगान्तकालेऽग्निरिव प्रवृद्धः
SK
निरीक्ष्य तं सूर्यमिवाऽतपन्तं सञ्चोदितो वासुदेवेन पार्थः | चिच्छेद तत्कार्मुकं लोकवीरो रणेऽर्द्धचन्द्रेण सचान्यदाददे
SK
चिच्छेद तच्चैवमष्टौ धनूं षि शक्तिं च चर्मासिवरं पराणि च| धनूं षि दत्तानि नृभिर्नृपस्य सर्वाणि चिच्छेद स पाकशासनिः
SK
ततः शरैः सूर्यकरप्रकाण्सैर्विव्याध सर्वे च युधिष्ठिराद्याः | तैरर्दितो न्यपतद् भूतेल् . ए सप्राणान् दधारापि तथोत्तरायणात्
SK
निपातितेऽस्मिन् मारुतिद्रोणमुख्यान् विद्राप्य तत्राऽगमदाण्सु तेऽपि | तदायुधानि प्रणिधाय वीराः पार्थाः परे चैनमुपासदन् स्म
SK
प्रणम्यतं तद्वचनात् समीयुस्तस्मिन् दिने शिबिराण्येव सर्वे | परे दिने सर्व एवोपतस्थुर्भीष्मं यदूनाम्पतिना सहैव
SK
स पूर्वदिवसे पार्थदत्तबाणोपबर्हणः | तदाऽपि तृट्परीत् आत्मा योग्यं पेयमयाचत
SK
धार्तराष्ट्रैरविज्ञातं तदभिज्ञाय वासविः | वारुणास्त्रेण भित्त्वा सभूमिं वारि सुगन्धि च | ऊर्ध्वधारमदादास्ये तर्पितोऽनेन सोऽवदत्
SK
च्च्च्ल्x.यादृश्यस्त्रज्ञता पार्थे दृष्टाऽत्र कुरुनन्दनाः | यादृग् बाह्वोर्बलं भीमे सं युगेषु पुनः पुनः
SK
यादृशं चैव माहात्म्यमनन्तमजरं हरेः | विज्ञातं सर्वलोकस्य सभायां दृष्टमेव च
SK
उपारमत तद् युद्धं सुखिनः सन्तु भूमिपाः | यथोचितविभक्तां च भुङ्ग्ध्वं भूपाः सदा भुवम् | इत्युक्तः प्रययौ तूष्णीं धार्तराष्ट्रः स्वकं गृहम्
SK
व्यासदत्तोरुविज्ञानात् सञ्जयादखिलं पिता | श्रुत्वा तदा पर्यतप्यत् पाण्डवाः कृष्णदेवताः | मुमुदुः शिबिरं प्राप्य सर्वे कृष्णानुमोदिताः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source