Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 11

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये व्यासावतारानुवर्णनं न्Ḹअम दशमोऽध्यायः ६८ प्राचीनकोशेष्वेव ऽनिरस्यऽ, ऽनिपीयऽ इति द्विविधोऽपि पाठो लिखितः | यत्र सन्निकृष्टोऽपि जनः समधिग्न विप्रकृष्टस्तत्र कथं निर्णेयात्? - बन्नञ्जे गोविन्दाचार्यः चिx.(भगवदवतारप्रतिज् ञ्Ḹअ) अथ एकादशोऽध्यायः Oं | शशाङ्कपुत्रादभवत् पुरूरवास्तस्याऽयुरायोर्नहुषो ययातिः | तस्याऽस पत्नीयुगल् . अं सुताण्स्च पञ्चाभवन् विष्णुपदैकभक्ताः
SK
᳚यदुं च तुर्वशुं चैव देवयानी व्यजायत | द्रुह्यं चानुं तथा पूरुं शर्मिष्ठा वार्षपर्वणी᳚ ६९
SK
यदोर्वं शे चक्रवर्ती कार्तवीर्यार्जुनोऽभवत् | विष्णोर्दत्तात्रेयनाम्नः प्रसादाद् योगवीर्यवान् | तस्यान्ववाये यदवो बभूवुर्विष्णुसं श्रयाः
SK
पूरोर्वं शे तु भरतश्चक्रवर्ती हरिप्रियः | तद्वं शजः कुरुर्नाम प्रतीपोऽभूत् तदन्वये
SK
प्रतीपस्याभवन् पुत्रास्त्रयस्त्रेताग्निवर्चसः | देवापिरथ बाह्लीको गुणज्येष्ठश्च शन्तनुः
SK
त्वग्दोषयुक्तो देवापिर्जगाम तपसे वनम् | विष्णोः प्रसादात् स कृते युगे राजा भविष्यति
SK
पुत्रिकापुत्रतां यातो बाह्लीको राजसत्तमः | हिरण्यकशिपोः पुत्रः प्रह्लादो भगवत्परः
SK
वायुना च समाविष्टो महाबलसमन्वितः | येनैव जायमानेन तरसा भूर्विदारिता
SK
भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः | प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत् पतिः | रुद्रेषु पत्रतापाख्यः सोमदत्तोऽस्य चाऽत्मजः
SK
अजैकपादहिर्बुध्निर्विरूपाक्ष इति त्रयः | ६९ Vइ. Pउ. ४.१०.६ च्x.रुद्राणां सोमदत्तस्य बभूवुः प्रथिताः सुताः | विष्णोरेवाङ्गतामाप्तुं भूरिर्भूरिश्रवाः शलः
SK
शिवादिसर्वरुद्राणामावेशाद् वरतस्तथा | भूरिश्रवा अतिबलस्तत्राऽसीत् परमास्त्रवित्
SK
तदर्थं हि तपश्चीर्णं सोमदत्तेन शम्भवे | दत्तो वरश्च तेनास्य त्वत्प्रतीपाभिभूतिकृत् | बलवीर्यगुणोपेतो नाम्ना भूरिश्रवाः सुतः
SK
भविष्यति मयाऽविष्टो यज्ञशील इति स्म ह | तेन भूरिश्रवा जातः सोमदत्तसुतो बली
SK
पूर्वोदधेस्तीरगतेऽब्जसम्भवे गङ्गायुतः पर्वणि घूर्णितोऽब्धिः | अवाक्षिपत् तस्य तनौ निजोदबिन्दुं शशापैनमथाब्जयोनिः
SK
महाभिषङ् नाम नरेश्वरस्त्वं भूत्वा पुनः शन्तनुनामधेयः | जनिष्यसे विष्णुपदी तथैषा तत्रापि भार्या भवतो भविष्यति
SK
शान्तो भवत्येव मयोदितस्त्वं तनुत्वमाप्तोऽसि ततश्च शन्तनुः | इतीरितः सोऽथ नृपो बभूव महाभिषङ् नाम हरेः पदाण्स्रयः
SK
स तत्र भुक्त्वा चिरकालमुर्वीं तनुं विहायाऽप सदो विधातुः | तत्रापि तिष्ठन् सुरवृन्दसन्निधौ ददर्श गङ्गां श्लथिताम्बरां स्वकाम्
SK
अवाङ्मुखेषु द्युसदस्सु रागान्निरीक्षमाणं पुनरात्मसम्भवः | उवाच भूमौ नृपतिर्भवाऽशु शप्तो यथा त्वं हि पुरा मयैव
SK
इतीरितस्तत्क्षणतः प्रतीपाद् बभूव नाम्ना नृपतिः स शन्तनुः | अवाप्य गङ्गां दयितां स्वकीयां तया मुमोदाब्दगणान् बहूं श्च
SK
अथाष्टमो वसुरासीद् द्युनामा वराङ्गिनाम्न्यस्य बभूव भार्या | बभूव तस्याण्स्च सखी नृपस्य सुविन्दनाम्नो दयिता सनाम्नी
SK
तस्या जरामृतिविध्वं सहेतोर्वसिष्ठधेनुं स्वमृतं क्षरन्तीम् | च्xइ.जरापहां नन्दिनिनामधेयां बद्धुं पतिं चोदयामास देवी
SK
तया द्युनामा स वसुः प्रचोदितो भ्रातृस्नेहात् सप्तभिरन्वितोऽपरैः | बबन्ध तां गामथ ताञ्छशाप वसिष्ठसं स्थः कमलोद्भवः प्रभुः
SK
अधर्मवृत्त् आः प्रतियात मानुषीं योनिं द्रुतं यत्कृते सर्व एव | धर्माच्च्युताः स तथाऽष्टायुराप्यतामन्ये पुनः क्षिप्रमतो विमोक्ष्यथ
SK
प्रचोदयामास च या कुमार्गे पतिं हि साऽम्बेति नरेषु जाता | अभर्तृका पुं स्त्वसमाण्स्रयेण पत्युर्मृतौ कारणत्वं व्रजेत
SK
भवत्वसौ ब्रह्मचर्यैकनिष्ठो महान् विरोधश्च तयोर्भवेत | स गर्भवासाष्टकदुःखमेव समाप्नुतां शरतल्पे शयानः
SK
मृत्यष्टकोत्थामपि वेदनां सः प्राप्नोतु शस्त्रैर्बहुधा निकृत्तः | इतीरितास्ते कमलोद्भवं तं ज् ञात्वा समुत्सृज्य च गां प्रणेमुः
SK
न मानुषीं गर्भमवाप्नुमो वयं भवत्वयं सर्ववित् कीर्तिमां श्च | महास्त्रवेत्ता भवदं शयुक्तस्तथा बलं नोऽखिलानामुपैतु
SK
इतीरितेऽस्त्वित्युदिताः स्वयम्भुवा वसिष्ठसं स्थेन सुरापगां ययुः | ऊचुस्तथैनामुदरे वयं ते जायेमहि क्षिप्रमस्मान् हन त्वम्
SK
इतीरिता सा वरमाण्सु वव्रे तेभ्योऽप्यपापत्वमथ प्रियत्वम् | तेषां सदैवाऽत्मन एकमेषां दीर्घायुषं त् आन् सुषुवेऽथ शन्तनोः
SK
अविघ्नतस्तान् विनिहन्तुमेव पुरा प्रतीपस्य हि दक्षिणोरुम् | समाण्स्रिता कामिनीवत्त्वकामा तत्पुत्रभार्या भवितुं विडम्बात्
SK
तेनैव चोक्ता भव मे सुतस्य भार्या यतो दक्षिणोरुस्थिताऽसि | भागो हि दक्षो दुहितुः स्नुषाया भार्याभागो वाम इति प्रसिद्धः
SK
उवाच सा तं नतु मां सुतस्ते काऽसीति पृच्छेन्नतु मां निवारयेत् | अयोग्यकर्त्रीमपि कारणं च मत्कर्मणो नैव पृच्छेत् कदाचित्
SK
च्xइइ.यदा त्रयाणामपि चैकमेष करोति गच्छेयमहं विसृज्य | तदा त्वदीयं सुतमित्युदीरिते तथेति राजाऽप्यवदत् प्रतीपः
SK
तथैव पुत्राय च तेन तद् वचो वधूक्तमुक्तं वचनाद् द्युनद्याः | कनीयसे सा ह्यवदत् सुतस्ते नान्यः पतिः शन्तनुरेव मे वृतः
SK
ततस्तु सा ण्सन्तनुतोऽष्ट पुत्रानवाप्य सप्त न्यहनत् तथाऽष्टमम् | गन्तुं ततो मतिमाधाय हन्तुमिवोद्योगं सा हिमृषा चकार
SK
अवस्थितिर्नातिसुखाय मानुषे यतः सुराणामत एव गन्तुम् | ऐच्छन्न तस्या हि बभूव मानुषो देहो नरोत्थो हि तदाऽस शन्तनोः
SK
त् आं पुत्रनिधनोद्युक्तां न्यवारयत शन्तनुः | काऽसि त्वं हेतुना केन हं सि पुत्रान् नृशं सवत्
SK
रूपं सुरवरस्त्रीणां तव तेन न पापकम् | भवेत् कर्म त्वदीयं तन्महत् कारणमत्र हि
SK
तत् कारणं वद शुभे यदि मच्छ्रोत्रमर्हति | इतीरिताऽवदत् सर्वं प्रययौ च सुरापगा
SK
न धर्मो देवतानां हि ज्ञातवासश्चिरं नृषु | कारणादेव हि सुरा नृषु वासं प्रकुर्वते | कारणापगमे यान्ति धर्मोऽप्येषां तथाविधः
SK
अदृश्यत्वमसं स्पर्शो ह्यसम्भाषणमेव च | सुरैरपि नृज् आतैस्तु गुह्यधर्मो दिवौकसाम्
SK
अतः सा वरुणं देवं पूर्वभर्तारमप्यमुम् | नृज् आतं शन्तनुं त्यक्त्वा प्रययौ वरुणालयम्
SK
सुतमष्टममादाय भर्तुरेवाप्यनुज्ञया | वधोद्योगान्निवृत्त् आ सा ददौ पुत्रं बृहस्पतौ
SK
देवव्रतोऽसावनुशासनाय मात्रा दत्तो देवगुरौ शतार्द्धम् | च्xइइइ.सं वत्सराणामखिलां श्च वेदान् समभ्यसत् तद्वशगान्तरात्मा
SK
ततश्च मात्रा जगतां गरीयस्यनन्तपारेऽखिलसद्गुणार्णवे | रामे भृगूणामधिपे प्रदत्तः शुश्राव तत्त्वं च शतार्द्धवर्षम्
SK
स पञ्चविं शत् पुनरब्दकानामस्त्राणि चाभ्यस्य पतेर्भृगूणाम् | मात्रा समानीय तटे निजे तु सं स्थापितः प्रार्पयितुं स्वपित्रे
SK
स तत्र बद्ध्वा ण्सरपञ्जरेण गङ्गां विजह्रेऽस्य पिता तदैव | व्रजन् मृगार्थी तृषितो विलोकयन् गङ्गामतोयामभवत् सुविस्मितः
SK
स मार्गयामास ततोऽस्य हेतुज्ञप्त्यै तदा स्वं च ददर्श सूनुम् | क्रीडन्तमस्त्रेण बभूव सोऽपि क्षणाददृश्यः पितृदर्शनादनु
SK
मीमां समानं तमवाप गङ्गा सुतं समादाय पतिं जगाद च | अयं सुतस्ते परमास्त्रवेत्ता समर्पितो वीर्यबलोपपन्नः
SK
अस्याग्रजाः स्वां स्थितिमेव याता हरेः पदाम्भोजसुपाविते जले | तनूर्मदीये प्रणिधाय तत् त्वं त् आन् मा ण्सुचोऽनेन च मोदमानः
SK
इति प्रदायामुमदृश्यतामगाद् गङ्गा तमादाय ययौ स्वकं गृहम् | राजाऽभिषिच्याथ च यौवराज्ये मुमोद तत्सद्गुणतर्पितो भृशम्
SK
पुनः स पित्राऽनुमतो बृहस्पतेरवाप वेदान् पुरुषायुषोऽर्द्धतः | रामात् तथाऽस्त्राणि पुनस्त्ववाप तावद्भिरब्दैस्त्रिशतैश्च तत्त्वम्
SK
स सर्ववित्त्वं समवाप्य रामात् समस्तविद्याधिपतेर्गुणार्णवात् | पितुं समीपं समवाप्य तं च शुश्रूषमाणः प्रमुमोद वीरः
SK
यदैव गङ्गा सुषुवेऽष्टमं सुतं तदैव यातो मृगयां स शन्तनुः | शरद्वतो जातमपश्यदुत्तमं वने विसृष्टं मिथुनं त्वयोनिजम्
SK
शरद्वां स्तु तपः कुर्वन् ददर्श सहसोर्वशीम् | चस्कन्द रेतस्तस्याथ शरस्तम्बे ततोऽभवत्
SK
च्xइव्.विष्कम्भो नाम रुद्राणां भूभारहरणेऽङ्गताम् | हरेः प्राप्तुं तथा तारा भार्या या हिबृहस्पतेः
SK
त् आवुभौ शन्तनुर्दृष्ट्वा कृपाविष्टः स्वकं गृहम् | निनाय नाम चक्रे च कृपाया विषयौ यतः | कृपः कृपीति स कृपस्तपो विष्णोण्स्चकार ह
SK
तस्य प्रीतस्तदा विष्णुः सर्वलोकेश्वरेश्वरः | प्रादादेष्यत्सप्तर्षित्वमायुः कल्पान्तमेव च | स शन्तनुगृहे तिष्ठन् देवव्रतसखाऽभवत्
SK
पुत्रवच्छन्तनोश्चाऽसीत् स च पुत्रवदेव तत् | मिथुनं पालयामास स कृपोऽस्त्राण्यवाप च
SK
सर्ववेदानधिजगौ सर्वशास्त्राणि कौशिकात् | तत्त्वज्ञानं तथा व्यासादाप्य सर्वज्ञतां गतः
SK
यदा हिजातः स कृपस्तदैव बृहस्पतेः सूनुरगाच्च गङ्गाम् | स्नातुं घृत् आचीं स ददर्श तत्र श्लथद्दुकूलां सुरवर्यकामिनीम्
SK
तद्दर्शनात् स्कन्नमथेन्द्रियं स द्रोणे दधाराऽशु ततोऽभवत् स्वयम् | अम्भोजजावेशयुतो बृहस्पतिः कर्तुं हरेः कर्म भुवो भरोद्धृतौ
SK
द्रोणेतिनामास्य चकार तातो मुनिर्भरद्वाज उतास्य वेदान् | अध्यापयामास सशास्त्रसङ्घान् सर्वज्ञतामाप च सोऽचिरेण
SK
काले च तस्मिन् पृषतोऽनपत्यो वने तु पाञ्चालपतिश्चचार | तपो महत् तस्य तथा वराप्सरावलोकनात् स्कन्दितमाण्सु रेतः
SK
स तद् विलज्जावशतः पदेन समाक्रमत् तस्य बभूव सूनुः | हहू तुनाम्ना स विरिञ्चगायको नाम्नाऽवहो यो मरुतां तदं शयुक्
SK
स द्रोणतातात् समवाप वेदानस्त्राणि विद्याण्स्च तथा समस्ताः | द्रोणेन युक्तः स तदा गुरोः सुतं सहैव नौ राज्यमिति ह्यवादीत्
SK
च्xव्.पदे द्रुतत्वाद् द्रुपदाभिधेयः स राज्यमापाथ निजां कृपीं सः | द्रोणोऽपि भार्यां समवाप्य सर्वप्रतिग्रहोज्झश्च पुरेऽवसत् सुखी
SK
सिलोञ्छवृत्त्यैव हि वर्तयन् स धर्मं महान्तं विरजं जुषाणः | उवास नागाख्यपुरे सखा स देवव्रतस्याथ कृपस्य चैव
SK
तेषां समानो वयसा विराटस्त्वभूद्धहा नाम विधातृगायकः | मरुत्सु यो विवहो नाम तस्याप्यं शेन युक्तो निजधर्मवर्ती
SK
ततः कदाचिन्मृगयां गतः स ददर्श कन्याप्रवरां तु शन्तनुः | या पूर्वसर्गे पितृपुत्रिका सती चचार विष्णोस्तप उत्तमं चिरम्
SK
यस्यै वरं विष्णुरदात् पुराऽहं सुतस्तव स्यामिति या वसोः सुता | ज् आता पुनर्दाण्सगृहे विवर्द्धिता व्यासात्मना विष्णुरभूच्च यस्याम्
SK
तद्दर्शनान्नृपतिर्जातहृच्छ्रयो वव्रे प्रदानाय च दाण्सराजम् | ऋते स तस्यास्तनयस्य राज्यं नैच्छद् दातुं त् आमथाऽयाद् गृहं स्वम्
SK
तच्चिन्तया ग्लानमुखं जनित्रं दृष्ट्वैव देवव्रत आण्स्वपृच्छत् | तत्कारणं सारथिमस्य तस्माच्छ्रुत्वाऽखिलं दाण्सगृहं जगाम
SK
स तस्य विश्वासकृते प्रतिज्ञां चकार नाहं करवाणि राज्यम् | तथैव मे सन्ततितो भयं ते व्यैतूर्ध्वरेताः सततं भवानि
SK
भीमव्रतत्वाद्धि तदाऽस्य नाम कृत्वा देवा भीष्म इति ह्यचीक्लृपन् | प्रसूनवृष्टिं स च दाण्सदत्तां काल् . ईं समादाय पितुः समर्पयत्
SK
ज् ञात्वा तुतां राजपुत्रीं गुणाढ्यां सत्यस्य विष्णोर्मातरं नामतस्तत् | लोके प्रसिद्धां सत्यवतीत्युदारां विवाहयामास पितुः स भीष्मः
SK
प्रायः सतां न मनः पापमार्गे गच्छेदिति ह्यात्ममनश्च सक्तम् | ज् ञात्वाऽपि तां दाण्सगृहे विवर्द्धितां जग्राह सद्धर्मरतश्च शन्तनुः
SK
स्वच्छन्दमृत्युत्ववरं प्रदाय तथाऽप्यजेयत्वमधृष्यतां च | युद्धेषु भीष्मस्य नृपोत्तमः स रेमे तयैवाब्दगणान् बहूं श्च
SK
च्xवि.लेभे स चित्राङ्गदमत्र पुत्रं तथा द्वितीयं च विचित्रवीर्यम् | तयोश्च बाल्ये व्यधुनोच्छरीरं जीर्णेन देहेन हि किं ममेति
SK
स्वेच्छया वरुणत्वं स प्राप नानिच्छया तनुः | तस्मिन् काले त्यज्यते हि बलवद्भिर्वधं विना
SK
अतिसक्तास्तपोहीनाः कथञ्चिन्मृतिमाप्नुयुः | अनिच्छयाऽपि हि यथा मृतश्चित्राङ्गदानुजः
SK
अथौर्ध्वदैहिकं कृत्वा पितुर्भीष्मोऽभ्यषेचयत् | राज्ये चित्राङ्गदं वीरं यौवराज्येऽस्य चानुजम्
SK
चित्राङ्गदेन निहतो नाम स्वं त्वपरित्यजन् | चित्राङ्गदोऽकृतोद्वाहो गन्धर्वेण महारणे | विचित्रवीर्यं राजानं कृत्वा भीष्मोऽन्वपालयत्
SK
अथ काण्सिसुतास्तिस्रस्तदर्थं भीष्म आहरत् | अम्बामप्यम्बिकानाम्नीं तथैवाम्बालिकां पराम्
SK
पाणिग्रहणकाले तु ब्रह्मदत्तस्य वीर्यवान् | विजित्य तं साल्वराजं समेतान् क्षत्रियानपि
SK
अम्बिकाम्बालिके तत्र सं वादं चक्रतुः शुभे | अम्बा सा भीष्मभार्यैव पूर्वदेहे तु नैच्छत
SK
शापाद्धिरण्यगर्भस्य साल्वकामाऽहमित्यपि | उवाच तां स तत्याज साऽगमत् साल्वमेव च
SK
तेनापि सम्परित्यक्ता परामृष्टेति सा पुनः | भीष्ममाप स नागृह्णात् प्रययौ साऽपि भार्गवम्
SK
भ्रातुर्विवाहयामास सोऽम्बिकाम्बालिके ततः | भीष्माय तु यशो दातुं युयुधे तेन भार्गवः
SK
च्xविइ.अनन्तशक्तिरपि स न भीष्मं निजघान ह | नचाम्बां ग्राहयामास भीष्मकारुण्ययन्त्रितः
SK
अनन्तशक्तिः सकलान्तरात्मा यः सर्ववित् सर्ववशी च सर्वजित् | न यत्समोऽन्योऽस्ति कथञ्च कुत्रचित् कथं ह्यशक्तिः परमस्य तस्य
SK
भीष्मं स्वभक्तं यशसाऽभिपूरयन् विमोहयन्नासुरां श्चैव रामः | जित्वैव भीष्मं न जघान देवो वाचं च सत्यामकरोत् स तस्य
SK
᳚विद्धवन्मुग्धवच्चैव केशवो वेदनार्तवत् | दर्शयन्नपि मोहाय नैव विष्णुस्तथा भवेत्᳚ | एवमादिपुराणोत्थवाक्याद् रामः सदा जयी
SK
यशो भीष्मस्य दत्वा तु सोऽम्बां च शरणागताम् | उन्मुच्य भर्तृद्वेषोत्थात् पापात् तेनाऽश्वयोजयत्
SK
अनन्तरं शिखण्डित्वात् तदा सा ण्साङ्करं तपः | भीष्मस्य निधनार्थाय पुं स्त्वार्थं च चकार ह
SK
भीष्मो यथा त्वां गृह्णीयात् तथा कुर्यामितीरितम् | रामेण सत्यं तच्चक्रे भीष्मे देहान्तरं गते
SK
रुद्रस्तु तस्यास्तपसा तुष्टः प्रादाद् वरं तदा | भीष्मस्य मृतिहेतुत्वं कालात् पुन्देहसम्भवम्
SK
मालां च य इमां मालां गृह्णीयात् स हनिष्यति | भीष्ममित्येव तां मालां गृहीत्वा सा नृपान् ययौ
SK
त् आं न भीष्मभयात् केऽपि जगृहुस्तां हि सा ततः | द्रुपदस्य गृहद्वारि न्यस्य योगात् तनुं जहौ
SK
एतस्मिन्नेव काले तु सुतार्थं द्रुपदस्तपः | चकार शम्भवे चैनं सोऽब्रवीत् कन्यका तव
SK
भूत्वा भविष्यति पुमानिति साम्बा ततोऽजनि | च्xविइइ.नाम्ना ण्सिखण्डिनी तस्याः पुं वत् कर्माणि चाकरोत्
SK
तस्यै पाञ्चालराजः स दशार्णाधिपतेः सुताम् | उद्वाहयामास सा तां पुं वेषेणैव गूहिताम् | अन्यत्र मातापित्रोस्तु न विज्ञातां बुबोध ह
SK
धात्र्यै न्यवेदयत् साऽथ तत्पित्रे सा न्यवेदयत् | स क्रुद्धः प्रेषयामास निहन्मि त्वां सबान्धवम् | इति पाञ्चालराजाय निर्जगाम च सेनया
SK
विश्वस्य वाक्यं रुद्रस्य पुमानेवेति पार्षतः | प्रेषयामास धिग् बुद्धिर्भिन्ना तेबालवाक्यतः | अपरीक्षकस्य ते राष्ट्रं कथमित्येव नर्मकृत्
SK
अथ भार्यासमेतं तं पितरं चिन्तयाऽकुलम् | दृष्ट्वा ण्सिखण्डिनी दुःखान्मन्निमित्तान्न नश्यतु
SK
इति मत्वा वनायैव ययौ तत्र च तुम्बुरुः | स्थूणाकर्णाभिधेयस्तामपश्यद् दृढकर्णतः
SK
स तस्या अखिलं श्रुत्वा कृपां चक्रे महामनाः | स तस्यै स्वं वपुः प्रादात् तदीयं जगृहे तथा | अं शेन पुं स्वभावार्थं पूर्वदेहे समास्थितः
SK
पुं सां स्त्रीत्वं भवेत् क्वापि तथाऽप्यन्ते पुमान् भवेत् | स्त्रीणां नैव हि पुं स्त्वं स्याद् बलवत्कारणैरपि
SK
अतः शिववरेऽप्येषां जज्ञे योषैव नान्यथा | पश्चात् पुन्देहमपि सा प्रविवेशैव पुं युतम्
SK
नास्या देहः पुं स्त्वमाप नच पुं साऽनधिष्ठिते | पुं देहे न्यवसत् साऽथ गन्धर्वेण त्वधिष्ठितम् | गान्धर्वं देहमाविश्य स्वकीयं भवनं ययौ
SK
तस्यास्तद्देहसादृश्यं गन्धर्वस्य प्रसादतः | च्xइx.प्राप गन्धर्वदेहोऽपि तया पश्चादधिष्ठितः
SK
श्वो देहि मम देहं मे स्वं च देहं समाविश | इत्युक्त्वा स तु गन्धर्वः कन्यादेहं समास्थितः | उवासैव वने तस्मिन् धनदस्तत्र चाऽगमत्
SK
अप्रत्युत्थायिनं तन्तुलीयमानं विलज्जया | शशाप धनदो देवश्चिरमित्थं भवेति तम्
SK
यदा युद्धे मृतिं याति सा कन्या पुन्तनुस्थिता | तदा पुं स्त्वं पुनर्यासि चपलत्वादितीरितः
SK
तथाऽवसत् स गन्धर्वः कन्या पित्रोरशेषतः | कथयामासानुभूतं तौ भृशं मुदमापतुः
SK
परीक्ष्य तामुपायैश्च श्वशुरो लज्जितो ययौ | श्वोभूते सा तु गन्धर्वं प्राप्य तद्वचनात् पुनः
SK
ययौ तेनैव देहेन पुं स्त्वमेव समाण्स्रिता | स शिखण्डी नामतोऽभूदस्त्रशस्त्रप्रतापवान्
SK
विचित्रवीर्यः प्रमदाद्वयं तत् सम्प्राप्य रेमेऽब्दगणान् सुसक्तः | तत्याज देहं च स यक्ष्मणाऽर्दितस्ततोऽस्य माताऽस्मरदाण्सु कृष्णम्
SK
आविर्बभूवाऽशु जगज्जनित्रो जनार्दनो जन्मजराभयापहः | समस्तविज्ञानतनुः सुखार्णवः सम्पूजयामास च तं जनित्री
SK
तं भीष्मपूर्वैः परमादरार्चितं स्वभिष्टुतं चावददस्य माता | पुत्रौ मृतौ मे नतु राज्यमैच्छद् भीष्मो मया नितरामर्थितोऽपि
SK
क्षेत्रे ततो भ्रातुरपत्यमुत्तममुत्पादयास्मत्परमादरार्थितः | इतीरितः प्रणतश्चाप्यभिष्टुतो भीष्मादिभिश्चाऽह जगद्गुरुर्वचः
SK
ऋते रमां ज् आतु ममाङ्गयोगयोग्याऽङ्गना नैव सुरालयेऽपि | तथाऽपि ते वाक्यमहं करिष्ये सां वत्सरं सा चरतु व्रतं च
SK
च्xx.सा पूतदेहाऽथ च वैष्णवव्रतान्मत्तः समाप्नोतु सुतं वरिष्ठम् | इतीरिते राष्ट्रमुपैति नाण्समिति ब्रुवन्तीं पुनराह वाक्यम्
SK
सौम्यस्वरूपोऽप्यतिभीषणं मृषा तच्चक्षुषो रूपमहं प्रदर्शये | सहेत सा तद् यदि पुत्रकोऽस्या भवेद् गुणाढ्यो बलवीर्ययुक्तः
SK
इतीरितेऽस्त्वित्युदितस्तयाऽगमत् कृष्णोऽम्बिकां सा तु भिया न्यमीलयत् | अभूच्च तस्यां धृतराष्ट्रनामको गन्धर्वराट्पवनावेशयुक्तः
SK
स मारुतावेशबलाद् बलाधिको बभूव राजा धृतराष्ट्रनामा | अदाद् वरं चास्य बलाधिकत्वं कृष्णोऽन्ध आसीत् स तु मातृदोषतः
SK
ज् ञात्वा तमन्धं पुनरेव कृष्णं माताऽब्रवीज्जनयान्यं गुणाढ्यम् | अम्बालिकायामिति तत् तथाऽकरोद् भयात्तु सा पाण्डुरभून्मृषादृक्
SK
परावहो नाम मरुत् ततोऽभवद् वर्णेन पाण्डुः स हि नामतश्च | स चाऽस वीर्याधिक एव वायोरावेशतः सर्वशस्त्रास्त्रवेत्ता
SK
तस्मै तथा बलवीर्याधिकत्ववरं प्रादात् कृष्ण एवाथ पाण्डुम् | विज्ञाय तं प्राह पुनश्च माता निर्दोषमन्यं जनयोत्तमं सुतम्
SK
उक्त्वेति कृष्णं पुनरेव च स्नुषामाह त्वयाऽक्ष्णोर्हि निमीलनं पुरा | कृतं ततस्ते सुत आस चान्धस्ततः पुनः कृष्णमुपास्व भक्तितः
SK
इतीरिताऽप्यस्य हि मायया सा भीत् आ भुजिष्यां कुमतिर्न्ययोजयत् | सा तं परानन्दतनुं गुणार्णवं सम्प्राप्य भक्त्या परयैव रेमे
SK
तस्यां स देवोऽजनि धर्मराजो माण्डव्यशापाद् य उवाह शूद्रताम् | वसिष्ठसाम्यं समभीप्समानं प्राच्यावयन्निच्छया ण्सापमाप
SK
अयोग्यसम्प्राप्तिकृतप्रयत्नदोषात् समारोपितमेव शूले | चोरैर्हृतेऽर्थेऽपितु चोरबुद्ध्या मक्षीवधादित्यवदद् यमस्तम्
SK
नासत्यता तस्य च तत्र हेतुतः शापं गृहीतुं स तथैव चोक्त्वा | च्xxइ.अवाप शूद्रत्वमथास्य नाम चक्रे कृष्णः सर्ववित्त्वं तथाऽदात्
SK
विद्यारतेर्विदुरो नाम चायं भविष्यति ज्ञानबलोपपन्नः | महाधनुर्बाहुबलाधिकश्च सुनीतिमानित्यवदत् स कृष्णः
SK
ज् ञात्वाऽस्य शूद्रत्वमथास्य माता पुनश्च कृष्णं प्रणता ययाचे | अम्बालिकायां जनयान्यमित्यथो नैच्छत् स कृष्णोऽभवदप्यदृश्यः
SK
योग्यानि कर्माणि ततस्तु तेषां चकार भीष्मो मुनिभिर्यथावत् | विद्याः समस्ता अददाच्च कृष्णस्तेषां पाण्डोरस्त्रशस्त्राणि भीष्मः
SK
ते सर्वविद्याप्रवरा बभूवुर्विशेषतो विदुरः सर्ववेत्ता | पाण्डुः समस्तास्त्रविदेकवीरो जिगाय पृथ्वीमखिलां धनुर्धरः
SK
गवद्गणादास तथैव सूतात् समस्तगन्धर्वपतिः स तुम्बुरुः | य उद्वहो नाम मरुत् तदं शयुक्तो वशी सञ्जयनामधेयः
SK
विचित्रवीर्यस्य स सूतपुत्रः सखा च तेषामभवत् प्रियश्च | समस्तविन्मतिमान् व्यासशिष्यो विशेषतो धृतराष्ट्रानुवर्ती
SK
गान्धारराजस्य सुतामुवाह गान्धारिनाम्नीं सुबलस्य राजा | ज्येष्ठो ज्येष्ठां शकुनेर्द्वापरस्य नास्तिक्यरूपस्य कुकर्महेतोः
SK
शूरस्य पुत्री गुणण्सीलरूपयुक्ता दत्ता सख्युरेव स्वपित्रा | नाम्ना पृथा कुन्तिभोजस्य तेन कुन्ती भार्या पूर्वदेहेऽपि पाण्डोः
SK
कूर्मश्च नाम्ना मरुदेव कुन्तिभोजोऽथैनां वर्द्धयामास सम्यक् | तत्राऽगमच्छङ्करां शोऽतिकोपो दुर्वासास्तं प्राह मां वासयेति
SK
तमाह राजा यदि कन्यकायाः क्षमिष्यसे शक्तितः कर्म कर्त्र्याः | सुखं वसेत्योमिति तेन चोक्तः शुश्रूषणायाऽदिशदाण्सु कुन्तीम्
SK
चकार कर्म सा पृथा मुनेः सुकोपनस्य हि | यथा नशक्यते परैः शरीरवाङ्मनोनुगा
SK
च्xxइइ.स वत्सरत्रयोदशं तया यथावदर्चितः | उपादिशत् परं मनुं समस्तदेववश्यदम्
SK
ऋतौ तु सा समाप्लुता परीक्षणाय तन्मनोः | समाह्वयद् दिवाकरं स चाऽजगाम तत्क्षणात्
SK
ततो न सा विसर्जितुं शशाक तं विना रतिम् | सुवाक्यप्रयत्नतोऽपि तामथाऽससाद भास्करः
SK
स तत्र जज्ञिवान् स्वयं द्वितीयरूपको विभुः | सवर्मदिव्यकुण्डलो ज्वलन्निव स्वतेजसा
SK
पुरा सवालिमारणप्रभूतदोषकारणात् | सहस्रवर्मनामिनाऽसुरेण वेष्टितोऽजनि
SK
यथा ग्रहैर्विदूष्यते मतिर्नृणां तथैव हि | अभूच्च दैत्यदूषित् आ मतिर्दिवाकरात्मनः
SK
तथाऽपि रामसेवनाद्धरेश्च सन्निधानयुक् | सुदर्शनीयकर्णतः स कर्णनामकोऽभवत्
SK
स रत्नपूर्णमञ्जुषागतो विसर्जितो जले | जनापवादभीतितस्तया यमस्वसुर्द्रुतम्
SK
नदीप्रवाहतो गतं ददर्श सूतनन्दनः | तमग्रहीत् सरत्नकं चकार पुत्रकं निजम्
SK
सूतेनाधिरथेन लाल् . इततनुस्तद्भार्यया राधया | सं वृद्धो निखिलाः श्रुतीरधिजगौ शास्त्राणि सर्वाणि च| बाल्यादेव महाबलो निजगुणैः सम्भासमानोऽवस-न्न्Ḹ अम्नाऽसौ वसुषेणतामगमदस्याऽसीद्ध्यमा तद् वसु
SK
अथ कुन्ती दत्ता सा पाण्डोः सोऽप्येतया चिरं रेमे | शूराच्छूद्र्यां ज् आतां विदुरोऽवहदारुणीं गुणाढ्यां च
SK
च्xxइइइ.अथ चर्तायननामा मद्रेशः शक्रतुल्यपुत्रार्थी | कन्यारत्नं चेच्छं श्चक्रे ब्राह्मं तपो वरं चाऽप
SK
प्रह्लादावरजो यः सह्लादो नामतो हरेर्भक्तः | सोऽभूद् ब्रह्मवरान्ते वायोरावेशयुक् सुतो राज्ञः
SK
स मारुतावेशवशात् पृथिव्यां बलाधिकोऽभूद् वरतश्च धातुः | शल्यश्च नाम्नाऽखिलशत्रुशल्यो बभूव कन्याऽस्य च माद्रिनाम्नी
SK
सा पाण्डुभार्यैव च पूर्वजन्मन्यभूत् पुनश्च प्रतिपादिताऽस्मै | शल्यश्च राज्यं पितृदत्तमञ्जो जुगोप धर्मेण समस्तशास्त्रवित्
SK
अथाङ्गनारत्नमवाप्य तद् द्वयं पाण्डुस्तु भोगान् बुभुजे यथेष्टतः | अपीपलद् धर्मसमाण्स्रयो महीं ज्येष्ठापचायी विदुरोक्तमार्गतः
SK
भीष्मो हि राष्ट्रे धृतराष्ट्रमेव सं स्थाप्य पाण्डुं युवराजमेव | चक्रे तथाऽप्यन्ध इति स्म राज्यं चकार नासावकरोच्च पाण्डुः
SK
भीष्माम्बिकेयोक्तिपरः सदैव पाण्डुः शशासावनिमेकवीरः | अथाऽम्बिकेयो बहुभिश्च यज्ञैरीजे सपाण्डुण्स्च महाधनौघैः
SK
नैषा विरोधे कुरुपाण्डवानां तिष्ठेदिति व्यास उदीर्णसद्गुणः | स्वमातरं स्वाण्स्रममेव निन्ये स्नुषे च तस्या ययतुः स्म तामनु
SK
सुतोक्तमार्गेण विचिन्त्य तं हरिं सुतात्मना ब्रह्मतया चसा ययौ | परं पदं वैष्णवमेव कृष्णप्रसादतः स्वर्ययतुः स्नुषे च
SK
माता चसा विदुरस्याऽप लोकं वैरिञ्चमन्वेव गताऽम्बिकां सती | व्यासप्रसादात् सुतसद्गुणैश्च कालेन मुक्तिं च जगाम सन्मतिः
SK
अम्बालिकाऽपि क्रमयोगतोऽगात् परां गतिं नैव तथाऽम्बिका ययौ | यथायथा विष्णुपरश्चिदात्मा तथातथा ह्यस्य गतिः परत्र
SK
पाण्डुस्ततो राज्यभरं निधाय ज्येष्ठेऽनुजे चैव वनं जगाम | पत्नीद्वयेनानुगतो बदर्यामुवास नारायणपालितायाम्
SK
च्xxइव्.गृहाण्स्रमेणैव वने निवासं कुर्वन् स भोगान् बुभुजे तपश्च | चक्रे मुनीन्द्रैः सहितो जगत्पतिं रमापतिं भक्तियुतोऽभिपूजयन्
SK
स कामतो हरिणत्वं प्रपन्नं दैवादृषिं ग्राम्यकर्मानुषक्तम् | विद्ध्वा ण्सापं प्राप तस्मात् स्त्रिया युङ् मरिष्यसीत्येव बभूव चाऽर्तः
SK
न्यसिष्णुरुक्तः पृथया स नेति प्रणामपूर्वं न्यवसत् तथैव | त् आभ्यां समेतः शतशृङ्गपर्वते नारायणस्याऽश्रममध्यगे पुरः
SK
तपो नितान्तं स चचार ताभ्यां समन्वितः कृष्णपदाम्बुजाण्स्रयः | तत्सङ्गपूतद्युसरिद्वराम्भः सदावगाहातिपवित्रिताङ्गः
SK
एतस्मिन्नेव काले कमलभवशिवाग्रेसराः शक्रपूर्वा | भूम्या पापात्मदैत्यैर्भुवि कृतनिलयैराक्रमं चासहन्त्या | ईयुर्देवादिदेवं शरणमजमुरुं पूर्णषाड्गुण्यमूर्तिं क्षीराब्धौ नागभोगे शयितमनुपमानन्दसन्दोहदेहम्
SK
ऊचुः परं पुरुषमेनमनन्तशक्तिं सूक्तेन तेऽब्जजमुखा अपि पौरुषेण | स्तुत्वा धराऽसुरवराक्रमणात् परेश खिन्ना यतो हि विमुखास्तव तेऽतिपापाः
SK
दुस्सङ्गतिर्भवति भारवदेव देव नित्यं सतामपि हि नः शृणु वाक्यमीश | पूर्वं हता दितिसुता भवता रणेषु ह्यस्मत्प्रियार्थमधुना भुवि तेऽभिजाताः
SK
आसीत् पुरा दितिसुतैरमरोत्तमानां सङ्ग्राम उत्तमगजाण्स्वरथद्विपद्भिः | अक्षोहिणी शतमहौघमहौघमेव सैन्यं सुरात्मकमभूत् परमास्त्रयुक्तम् | तस्मान्महौघगुणमास महासुराणां सैन्यं शिलागिरिमहास्त्रधरं सुघोरम्
SK
तेषां रथाण्स्च बहुनल्वपरिप्रमाणा देवासुरप्रवरकार्मुकबाणपूर्णाः | नानाम्बराभरणवेषवरायुधाढ्या देवासुराः ससृपुराण्सु परस्परं ते
SK
जघ्नुर्गिरीन्द्रतल् . अमुष्टिमहास्त्रशस्त्रैश्चक्रुर्नदीश्च रुधिरौघवहा महौघम् | तत्र स्म देववृषभैरसुरेशचम्वा युद्धे निसूदित उतौघबलैः शतां शः
SK
अथाऽत्मसेनामवमृद्यमानां वीक्ष्यासुरः शम्बरनामधेयः | च्xxव्.ससार मायाविदसं ह्यमायो वरादुमेशस्य सुरान् विमोहयन्
SK
मायासहस्रेण सुराः समर्द्दिता रणे विषेदुः शशिसूर्यमुख्याः | त् आन् वीक्ष्य वज्री परमां तु विद्यां स्वयम्भुदत्तां प्रयुयोज वैष्णवीम्
SK
समस्तमायापहया तयैव वराद् रमेशस्य सदाऽप्यसं ह्यया | माया विनेशुर्दितिजेन्द्रसृष्टा वारीशवह्नीन्द्रमुखाण्स्च मोचिताः
SK
यमेन्दुसूर्यादिसुरास्ततोऽसुरान् निजघ्नुराप्यायितविक्रमास्तदा | सुरेश्वरेणोर्जितपौरुषा बहून् वज्रेण वज्री निजघान शम्बरम्
SK
तस्मिन् हते दानवलोकपाले दितेः सुता दुद्रुवुरिन्द्रभीषित् आः | त् आन् विप्रचित्तिर्विनिवार्य धन्वी ससार शक्रप्रमुखान् सुरोत्तमान्
SK
वरादजेयेन विधातुरेव सुरोत्तमां स्तेन शरैर्निपातितान् | निरीक्ष्य शक्रं च विमोहितं द्रुतं न्यवारयत् तं पवनः शरौघैः
SK
अस्त्राणि तस्यास्त्रवरैर्निवार्य चिक्षेप तस्योरसि काञ्चनीं गदाम् | विचूर्णितोऽसौ निपपात मेरौ महाबलो वायुबलाभिनुन्नः
SK
अथाऽससादाऽशु स कालनेमिस्त्वदाज्ञया यस्य वरं ददौ पुरा | सर्वैरजेयत्वमजोऽसुरः ससहस्रशीर्षो द्विसहस्रबाहुयुक्
SK
तमापतन्तं प्रसमीक्ष्य मारुतस्त्वदाज्ञया दत्तवरस्त्वयैव | हन्तव्य इत्यस्मरदाण्सु हि त्वां तदाऽविरासीस्त्वमनन्तपौरुषः
SK
तमस्त्रशस्त्राणि बहूनि बाहुभिः प्रवर्षमाणं भुवनाप्तदेहम् | चक्रेण बाहून् विनिकृत्य कानि च न्यवेदयश्चाऽशु यमाय पापम्
SK
ततोऽसुरास्ते निहता अशेषास्त्वया त्रिभागा निहताण्स्चतुर्थम् | जघान वायुः पुनरेव जातास्ते भूतल् . ए धर्मबलोपपन्नाः
SK
राज्ञां महावं शसुजन्मनां तु तेषामभूद् धर्ममतिर्विपापा | शिक्षामवाप्य द्विजपुङ्गवानां त्वद्भक्तिरप्येषु हिकाचन स्यात्
SK
च्xxवि.त्वद्भक्तिलेशाभियुतः सुकर्मा व्रजेन्न पापां तु गतिं कथञ्चित् | दैत्येश्वराणां च तमोऽन्धमेव त्वयैव क्लृप्तं ननु सत्यकाम
SK
धर्मस्य मिथ्यात्वभयाद् वयं त्वामथापिवा दैत्यशुभाप्तिभीषा | सम्प्रार्थयामो दितिजान् सुकर्मणस्त्वद्भक्तितश्च्यावयितुं च शीघ्रम्
SK
य उग्रसेनः सुरगायकः स जातो यदुष्वेष तथाऽभिधेयः | तवैव सेवार्थममुष्य पुत्रो जातोऽसुरः कालनेमिः स ईश
SK
यस्त्वत्प्रियार्थं न हतो हि वायुना भवत्प्रसादात् परमीशिताऽपि | स एष भोजेषु पुनश्च जातो वरादुमेशस्य परैरजेयः
SK
स औग्रसेने जनितोऽसुरेण क्षेत्रे हि तद्रूपधरेण मायया | गन्धर्विजेन द्रमिल् . एन नाम्ना कं सो जितो येन वराच्छचीपतिः
SK
जित्वा जलेशं च हृत् आनि येन रत्नानि यक्षाण्स्च जिताः शिवस्य | कन्यावनार्थं मगधाधिपेन प्रयोजितास्ते च हृते बलेन
SK
स विप्रचित्तिश्च जरासुतोऽभूद् वराद् विधातुर्गिरिशस्य चैव | सर्वैरजेयो बलमुत्तमं ततो ज्ञात्वैव कं सस्य मुदा सुते ददौ
SK
निवारयामास न कं समुद्धतं शक्तोऽपि यो यस्य बले न कश्चित् | तुल्यः पृथिव्यां विवरेषु वा क्वचिद् वशे बलाद् यो नृपतीश्च चक्रे
SK
हतौ पुरा यौ मधुकैटभाख्यौ त्वयैव हं सो डिभकश्च जातौ | वरादजेयौ गिरिशस्य वीरौ भक्तौ जरासन्धमनु स्म तौ शिवे
SK
अन्येऽपि भूमावसुराः प्रजातास्त्वया हता ये सुरदैत्यसङ्गरे | अन्ये तथैवान्धतमः प्रपेदिरे कार्या तथैषां च तमोगतिस्त्वया
SK
व्यासावतारे निहतस्त्वयायः कलिः सुशास्त्रोक्तिभिरेव चाद्य | श्रुत्वा त्वदुक्तीः पुरुषेषु तिष्ठन्नीषच्चकारेव मनस्त्वयीश
SK
रामात्मना ये निहताण्स्च राक्षसा दृष्ट्वा बलं तेऽपि तदा तवाद्य | समं तवान्यं नहि चिन्तयन्ति सुपापिनोऽपीश तथा हनूमतः
SK
च्xxविइ.ये केशव त्वद्बहुमानयुक्तास्तथैव वायौ नहि ते तमोऽन्धम् | योग्याः प्रवेष्टुं तदतो हि मार्गाच्चाल्यास्त्वया जनयित्वैव भूमौ
SK
नितान्तमुत्पाद्य भवद्विरोधं तथाच वायौ बहुभिः प्रकारैः | सर्वेषु देवेषु चपातनीयास्तमस्यथान्धे कलिपूर्वकासुराः
SK
हतौ च यौ रावणकुम्भकर्णौ त्वया त्वदीयौ प्रतिहारपालौ | महासुरावेशयुतौ हि शापात् त्वयैव तावद्य विमोचनीयौ
SK
यौ तौ तवारी ह तयोः प्रविष्टौ दैत्यौ तु तावन्धतमः प्रवेश्यौ | यौ तौ त्वदीयौ भवदीयवेश्म त्वया पुनः प्रापणीयौ परेश
SK
आविश्य यो बलिमञ्जश्चकार प्रतीपमस्मासु तथा त्वयीश | स चासुरो बलिनामैव भूमौ साल्वो नाम्ना ब्रह्मदत्तस्य जातः
SK
मायामयं तेन विमानमग्र्यमभेद्यमाप्तं सकलैर्गिरीशात् | विद्रावितो यो बहुशस्त्वयैव रामस्वरूपेण भृगूद्वहेन
SK
नासौ हतः शक्तिमताऽपि तत्र कृष्णावतारे स मयैव वध्यः | इत्यात्मसङ्कल्पमृतं विधातुं स चात्र वध्यो भवताऽतिपापी
SK
यदीयमारुह्य विमानमस्य पिताऽभवत् सौभपतिश्च नाम्ना | यदा सभीष्मेण जितः पिताऽस्य तदा स साल्वस्तपसि स्थितोऽभूत्
SK
स चाद्य तस्मात् तपसो निवृत्तो जरासुतस्यानुमते स्थितो हि | अनन्यवध्यो भवताऽद्य वध्यः स प्रापणीयश्च तमस्यथोग्रे
SK
यो बाणमाविश्य महासुरोऽभूत् स्थितः स नाम्ना प्रथितोऽपि बाणः | स कीचको नाम बभूव रुद्रवरादवध्यः स तमः प्रवेश्यः
SK
अतस्त्वया भुव्यवतीर्य देवकार्याणि कार्याण्यखिलानि देव | त्वमेव देवेश गतिः सुराणां ब्रह्मेशशक्रेन्दुयमादिकानाम्
SK
त्वमेव नित्योदितपूर्णण्सक्तिस्त्वमेव नित्योदितपूर्णचिद्धनः | च्xxविइइ.त्वमेव नित्योदितपूर्णसत्सुखस्त्वाद्दृङ् नकश्चित् कुत एव तेऽधिकः
SK
इतीरितो देववरैरुदारगुणार्णवोऽक्षोभ्यतमामृत् आकृतिः | उत्थाय तस्मात् प्रययावनन्तसोमार्ककान्तिद्युतिरन्वितोऽमरैः
SK
स मेरुमाप्याऽह चतुर्मुखं प्रभुर्यत्र त्वयोक्तोऽस्मि हि तत्र सर्वथा | प्रादुर्भविष्ये भवतो हि भक्त्या वशस्त्विवाहं स्ववशोऽपि चेच्छया
SK
ब्रह्मा प्रणम्याऽह तमात्मकारणं प्रादां पुराऽहं वरुणाय गाः शुभाः | जहार तास्तस्य पिताऽमृतस्रवाः स कश्यपो द्राक् सहसाऽतिगर्वितः
SK
मात्रा त्वदित्या च तथा सुरभ्या प्रचोदितेनैव हृत् आसु तासु | श्रुत्वा जलेशात् स मया तुशप्तः क्षत्रेषु गोजीवनको भवेति
SK
शूरात् स जातो बहुगोधनाढ्यो भूमौ यमाहुर्वसुदेव इत्यपि | तस्यैव भार्या त्वदितिश्च देवकी बभूव चान्या सुरभिश्च रोहिणी
SK
तत् त्वं भवस्वाऽशु च देवकीसुतस्तथैव यो द्रोणनामा वसुः सः | स्वभार्यया धरया त्वत्पितृत्वं प्राप्तुं तपस्तेप उदारमानसः
SK
तस्मै वरः स मया सन्निसृष्टः स चाऽस नन्दाख्य उतास्य भार्या | नम्ना यशोदा सच ण्सूरतातसुतस्य वैश्याप्रभवोऽथ गोपः
SK
तौ देवकीवसुदेवौ च तेपतुस्तपस्त्वदीयं सुतमिच्छमानौ | त्वामेव तस्मात् प्रथमं प्रदर्श्य तत्र स्वरूपं हि ततो व्रजं व्रज
SK
इतीरिते सोऽब्जभवेन केशवस्तथेति चोक्त्वा पुनराह देवताः | सर्वे भवन्तो भवताऽशु मानुषे कार्यानुसारेण यथानुरूपतः
SK
अथावतीर्णाः सकलाण्स्च देवता यथायथैवाऽह हरिस्तथातथा | वित्तेश्वरः पूर्वमभूद्धि भौमाद्धरेः सुतत्वेऽपि तदिच्छयाऽसुरात्
SK
पापेन तेनापहृतो हि हस्ती शिवप्रदत्तः सुप्रतीकाभिधानः | तदर्थमेवास्य सुतोऽभिजातो धनेश्वरो भगदत्ताभिधानः
SK
च्xxइx.महासुरस्यां शयुतः स एव रुद्रावेशाद् बलवानस्त्रवां श्च | शिष्यो महेन्द्रस्य हते बभूव ताते स्वधर्माभिरतश्च नित्यम्
SK
अभूच्छिनिर्नाम यदुप्रवीरस्तस्याऽत्मजः सत्यक आस तस्मात् | कृष्णः पक्षो युयुधानाभिधेयो गुरुत्मतोऽं शेन युतो बभूव
SK
यः सं वहो नाम मरुत् तदं शश्चक्रस्य विष्णोण्स्च बभूव तस्मिन् | यदुष्वभूद्धृदिको भोजवं शे सितः पक्षस्तस्य सुतो बभूव
SK
स पाञ्चजन्यां शयुतो मरुत्सु तथाऽं शयुक्तः प्रवहस्य वीरः | नामास्य चाभूत् कृतवर्मेत्यथान्ये ये यादवास्तेऽपि सुराः सगोपाः
SK
ये पाण्डवानामभवन् सहाया देवाण्स्च देवानुचराः समस्ताः | अन्ये तु सर्वेऽप्यसुरा हि मध्यमा येमानुषास्ते चलबुद्धिप्रवृत्तयः
SK
लि ङ्गं सुराणां हि परैव भक्तिर्विष्णौ तदन्येषु च तत्प्रतीपता | अतोऽत्र येये हरिभक्तितत्परास्तेते सुरास्तद्भरिता विशेषतः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source