SKइति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये रामावतारे अयोध्याप्रवेशो नाम चतुर्थोऽध्यायः xल्वि.अथ पञ्चमोऽध्यायः रामचरिते हनूमद्दर्शनम् Oं | इत्थं विश्वेश्वरेऽस्मिन्नखिल जगदवस्थाप्य सीत् आसहाये भूमिष्ठे सर्वलोकास्तुतुषुरनुदिनं वृद्धभक्त्यानितान्तम् | राजा राज्याभिषेके प्रकृतिजनवचो मानयन्नात्मनोऽर्थ्यं दध्रे तन्मन्थरायाः श्रुतिपथमगमद् भूमिगाया अलक्ष्म्याः
SKपूर्वं क्षीराब्धिजाता कथमपि तपसैवाप्सरस्त्वं प्रयाता त् आं नेतुं तत् तमोऽन्धं कमलजनिरुवाचाऽशु रामाभिषेकम् | भूत्वा दासी विलुम्प स्वगतिमपि ततः कर्मणा प्राप्स्यसे त्वं सेत्युक्ता मन्थराऽसीत् तदनु कृतवत्येव चैतत् कुकर्म
SKतद्वाक्यात् कैकयी सा पतिगवरबलादाजहारैव राज्यं रामस्तद्गौरवेण त्रिदशमुनिकृतेऽरण्यमेवाऽविवेश | सीत् आयुक्तोऽनुजेन प्रतिदिनसुविवृद्धोरुभक्त्या समेतः सं स्थाप्याण्सेषजन्तून् स्वविरहजशुचा त्यक्तसर्वेषणार्थान्
SKवृक्षान् पश्वादिकीटान् पितरमथ सखीन् मातृपूर्वान् विसृज्य प्रोत्थां गङ्गां स्वपादाद्धर इव गुहेनार्चितः सोऽथ तीर्त्वा | देवार्च्यस्यापि पुत्रादृषिगणसहितात् प्राप्य पूजां प्रयातः शैलेशं चित्रकूटं कतिपयदिनान्यत्र मोदन्नुवास
SKएतस्मिन्नेव काले दशरथनृपतिः स्वर्गतोऽभूद् वियोगाद् रामस्यैवाथ पुत्रौ विधिसुतसहितैर्मन्त्रिभिः केकयेभ्यः | आनीतौ तस्य कृत्वा ण्स्रुतिगणविहितप्रेतकार्याणि सद्यः शोचन्तौ राममार्गं पुरजनसहितौ जग्मतुर्मातृभिश्च
SKधिक् कुर्वन्तौ नितान्तं सकलदुरितगां मन्थरां कैकयीं च प्राप्तौ रामस्य पादौ मुनिगणसहितौ तत्र चोवाच नत्वा | रामं राजीवनेत्रं भरत इह पुनः प्रीतयेऽस्माकमीश प्राप्याऽशु स्वामयोध्यामवरजसहितः पालयेमां धरित्रीम्
SKइत्युक्तः कर्तुमीशः सकलसुरगणाप्यायनं रामदेवः सत्यां कर्तुं च वाणीमवददतितरां नेति सद्भक्तिनम्रम् | xल्विइ.भूयोभूयोऽर्थयन्तं द्विगुणितशरदां सप्तके त्वभ्यतीते कर्तैतत् ते वचोऽहं सुदृढमृतमिदं मे वचो नात्र शङ्का
SKश्रुत्वैतद् रामवाक्यं हुतभुजि पतने स प्रतिज्ञां च कृत्वा रामोक्तस्यान्यथात्वे न तु पुरमभिवेक्ष्येऽहमित्येव तावत् | कृत्वाऽन्यां स प्रतिज्ञामवसदथ बहिर्ग्रामके नन्दिनाम्नि श्रीशस्यैवास्य कृत्वा ण्सिरसि परमकं पौरटं पादपीठम्
SKसमस्तपौरानुगतेऽनुजे गते स चित्रकूटे भगवानुवास ह अथाऽजगामेन्द्रसुतोऽपि वायसो महासुरेणाऽत्मगतेन चोदितः
SKस आसुरावेशवशाद् रमास्तने यदा व्यधात् तुण्डमथाभिवीक्षितः | जनार्दनेनाऽशु तृणे प्रयोजिते चचार तेन ज्वलताऽनुयातः
SKस्वयम्भुशर्वेन्द्रमुखान्सुरेश्वरान् जिजीविषुस्ताञ्छरणं गतोऽपि | बहिष्कृतस्तैर्हरिभक्तिभावतो ह्यलङ्घ्यशक्त्या परमस्य चाक्षमैः
SKपुनः प्रयातः शरणं रघूत्तमं विसर्जितस्तेन निहत्य चासुरम् | तदक्षिगं साक्षिकमप्यवध्यं प्रसादतश्चन्द्रविभूषणस्य
SKस वायसानामसुरोऽखिलानां वरादुमेशस्य बभूव चाक्षिगः | निपातितोऽसौ सह वायसाक्षिभिस्तृणेन रामस्य बभूव भस्मसात्
SKददुर्हि तस्मै विवरं बलार्थिनो यद् वायसास्तेन तदक्षिपातनम् | कृतं रमेशेन तदेकनेत्रा बभूवुरन्येऽपि तु वायसाः सदा
SKभविष्यतामप्यथ यावदेव द्विनेत्रता काककुलोद्भवानाम् | त् आवत् तदक्ष्यस्य कुरङ्गनाम्नः शिवेन दत्तं दितिजस्य चाक्षयम्
SKअतः पुनर्भावममुष्य हिन्वन् भविष्यतश्चैकदृशश्चकार | स वायसान् राघव आदिपूरुषस्ततो ययौ शक्रसुतस्तदाज्ञया
SKरामोऽथ दण्डकवनं मुनिवर्यनीतो लोकाननेकश उदारबलैर्निरस्तान् | श्रुत्वा खरप्रभृतिभिर्वरतो हरस्य सर्वैरवध्यतनुभिः प्रययौ सभार्यः
SKxल्विइइ.आसीच्च तत्र शरभङ्ग इति स्म जीर्णो लोकं हरेर्जिगमिषुर्मुनिरुग्रतेजाः | तेनाऽदरोपहृतसार्ध्यसपर्यया सप्रीतो ददौ निजपदं परमं रमेशः
SKधर्मो यतोऽस्य वनगस्य नितान्तशक्तिह्रासे स्वधर्मकरणस्य हुताण्सनादौ | देहात्ययः स तत एव तनुं निजाग्नौ सन्त्यज्य रामपुरतः प्रययौ परेशम्
SKरामोऽपि तत्र ददृशे धनदस्य शापाद् गन्धर्वमुर्वशिरतेरथ यातुधानीम् | प्राप्तं दशां सपदि तुम्बुरुनामधेयं नाम्ना विराधमपि शर्ववरादवध्यम्
SKभङ्क्त्वाऽस्य बाहुयुगल् . अं बिलगं चकार सम्मानयन् वचनमम्बुजजन्मनोऽसौ | प्रादाच्च तस्य सुगतिं निजगायकस्य भक्षार्थमं सकमितोऽपि सहानुजेन
SKप्रीतिं विधित्सुरगमद् भवनं निजस्य कुम्भोद्भवस्य परमादरतोऽमुना च| सम्पूजितो धनुरनेन गृहीतमिन्द्राच्छार्ङ्गं तदादिपुरुषो निजमाजहार
SKआत्मार्थमेव हि पुरा हरिणा प्रदत्तमिन्द्रे तदिन्द्र उत रामकरार्थमेव | प्रादादगस्त्यमुनये तदवाप्य रामो रक्षन् ऋषीनवसदेव स दण्डकेषु
SKकाले तदैव खरदूषणयोर्बलेन रक्षः स्वसा पतिनिमार्गणतत्पराऽसीत् | व्यापादिते निजपतौ हि दशाननेन प्रामादिकेन विधिनाऽभिससार रामम्
SKसाऽनुज्ञयैव रजनीचरभर्तुरुग्रा भ्रातृद्वयेन सहिता वनमावसन्ती | रामं समेत्य भव मे पतिरित्यवोचद् भानुं यथा तम उपेत्य सुयोगकामम्
SKत् आं तत्र हास्यकथया जनकासुताग्रे गच्छानुजं म इह मेति वचः स उक्त्वा | तेनैव दुष्टचरितां हि विकर्णनासां चक्रे समस्तरजनीचरनाण्सहेतोः
SKतत्प्रेरितान् सपदि भीमबलान् प्रयातां स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् | जघ्ने चतुर्दशसहस्रमवारणीयकोदण्डपाणिरखिलस्य सुखं विधातुम्
SKदत्तेऽभये रघुवरेण महामुनीनां दत्ते भये च रजनीचरमण्डलस्य | रक्षः पतिः स्वसृमुखादविकम्पनाच्च श्रुत्वा बलं रघुपतेः परमाप चिन्ताम्
SKस त्वाण्सु कार्यमवमृश्य जगाम तीरे क्षेत्रं नदीनदपतेः श्रवणं धरित्र्याः | मारीचमत्र तपसि प्रतिवर्तमानं भीतं शराद् रघुपतेर्नितरां ददर्श
SKxलिx.तेनार्थितः सपदि राघववञ्चनार्थे मारीच आह शरवेगममुष्य जानन् | शक्यो न ते रघुवरेण हि विग्रहोऽत्र जानामि सं स्पर्शमस्य शरस्य पूर्वम्
SKइत्युक्तवन्तमथ रावण आह खड्गं निष्कृष्य हन्मि यदि मे न करोषि वाक्यम् | तच्छुश्रुवान् भययुतोऽथ निसर्गतश्च पापो जगाम रघुवर्यसकाण्समाण्सु
SKस प्राप्य हैममृगतां बहुरत्नचित्रः सीत् आसमीप उरुधा विचचार शीघ्रम् | निर्दोषनित्यवरसं विदपि स्म देवी रक्षोवधाय जनमोहकृते तथाऽह
SKदेवेममाण्सु परिगृह्य च देहि मे त्वं क्रीडामृगं त्विति तयोदित एव रामः | अन्वक् ससार ह शरासनबाणपाणिर्मायामृगं निशिचरं निजघान जानन्
SKतेनाऽहतः शरवरेण भृशं ममार विक्रुश्य लक्ष्मणमुरुव्यथया सपापः | श्रुत्वैव लक्ष्मणमचूचुददुग्रवाक्यैः सोऽप्याप रामपथमेव सचापबाणः
SKयां यां परेश उरुधैव करोति लील् आं त् आं त् आं करोत्यनु तथैव रमापि देवी | नैतावताऽस्य परमस्य तथा रमाया दोषोऽणुरप्यनुविचिन्त्य उरुप्रभू यत्
SKक्वाज्ञानमापदपि मन्दकटाक्षमात्रसर्गस्थितिप्रल् . अयसं सृतिमोक्षहेतोः | देव्या हरेः किमु विडम्बनमात्रमेतद् विक्रीडतोः सुरनरादिवदेव तस्मात्
SKदेव्याः समीपमथ रावण आससाद साऽदृश्यतामगमदप्यविषह्यशक्तिः | सृष्ट्वाऽत्मनः प्रतिकृतिं प्रययौ च शीघ्रं कैलासमर्चितपदा न्यवसच्छिवाभ्याम्
SKतस्यास्तु तां प्रतिकृतिं प्रविवेश शक्रो देव्याण्स्च सन्निधियुतां व्यवहारसिद्ध्यै | आदाय तामथ ययौ रजनीचरेन्द्रो हत्वा जटायुषमुरुश्रमतो निरुद्धः
SKमार्गे व्रजन्तमभियाय ततो हनूमान् सं वारितो रविसुतेन च जानमानः | दैवं तु कार्यमथ कीर्तिमभीप्समानो रामस्य नैनमहनद् वचनाद्धरेश्च
SKप्राप्यैव राक्षस उताऽत्मपुरीं स तत्र सीत् आकृतिं प्रतिनिधाय ररक्ष चाथ | रामोऽपि तत्तु विनिहत्य सुदुष्टरक्षः प्राप्याऽश्रमं स्वदयितां नहि पश्यतीव
SKअन्वेषमाण इव तं च ददर्श गृध्रं सीत् आरिरक्षिषुमथो रिपुणा विशस्तम् | ल्मन्दात्मचेष्टममुनोक्तमरेश्च कर्म श्रुत्वा मृतं तमदहत् स्वगतिं तथाऽदात्
SKअन्यत्र चैव विचरन् सहितोऽनुजेन प्राप्तः करौ स सहसाऽथ कबन्धनाम्नः | धातुर्वरादखिलजायिन उज्झितस्य मृत्योश्च वज्रपतनादतिकुञ्चितस्य
SKछित्वाऽस्य बाहुयुगल् . अं सहितोऽनुजेन तं पूर्ववत् प्रतिविधाय सुरेन्द्रभृत्यम् | नाम्ना दनुं त्रिजटयैव पुराऽभिजातं गन्धर्वमाण्सु च ततोऽपि तदर्चितोऽगात्
SKदृष्ट्वा तमेव शबरी परमं हरिं च ज्ञात्वा विवेश दहनं पुरतोऽस्य तस्यै | प्रादात् स्वलोकमिममेव हि सा प्रतीक्ष्य पूर्वं मतङ्गवचनेन वनेऽत्र साऽभूत्
SKशापाद् वराप्सरसमेव हि तां विमुच्य शच्या कृत् आत् पतिपुरस्त्वतिदर्पहेतोः | गत्वा ददर्श पवनात्मजमृश्यमूके स ह्येक एनमवगच्छति सम्यगीशम्
SKदेहेऽपि यत्र पवनोऽत्र हरिर्यतोऽसौ तत्रैव वायुरिति वेदवचः प्रसिद्धम् | कस्मिन् न्वहं त्विति तथैव हि सोऽवतारे तस्मात् स मारुतिकृते रविजं ररक्ष
SKएवं स कृष्णतनुरर्जुनमप्यरक्षद् भीमार्थमेव तदरिं रविजं निहत्य | पूर्वं हि मारुतिमवाप रवेः सुतोऽयं तेनास्य वालिनमहन् रघुपः प्रतीपम्
SKएवं सुराण्स्च पवनस्य वशे यतोऽतः सुग्रीवमत्र तु परत्र च शक्रसूनुम् | सर्वे श्रिता हनुमतस्तदनुग्रहाय तत्रागमद् रघुपतिः सह लक्ष्मणेन
SKयत्पादपङ्कजरजः शिरसा विभर्ति श्रीरब्जजश्च गिरिशः सह लोकपालैः | सर्वेश्वरस्य परमस्य हि सर्वशक्तेः किं तस्य शत्रुहनने कपयः सहायाः
SKसमागते तु राघवे प्लवङ्गमाः ससूर्यजाः | विपुप्लुवुर्भयार्दिता न्यवारयच्च मारुतिः
SKसं स्थाप्याऽशु हरीन्द्रान् जानन् विष्णोर्गुणाननन्तान् सः | साक्षाद् ब्रह्मपिताऽसावित्येनेनास्य पादयोः पेते