SKइति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये कं सवधो नाम त्रयोदशोऽध्यायः च्ल्व्.(उद्धवप्रतियानम्) अथ चतुर्दशोऽध्यायः Oं | कृष्णो विमोच्य पितरावभिवन्द्य सर्ववन्द्योऽपि रामसहितः प्रतिपालनाय | धर्मस्य राज्यपदवीं प्रणिधाय चोग्रसेने द्विजत्वमुपगम्य मुमोच नन्दम्
SKनन्दोऽपि सान्त्ववचनैरनुनीय मुक्तः कृष्णेन तच्चरणपङ्कजमात्मसं स्थम् | कृत्वा जगाम सह गोपगणेन कृच्छ्राद् ध्यायन् जनार्दनमुवास वने सभार्यः
SKकृष्णोऽप्यवन्तिपुरवासिनमेत्य विप्रं सान्दीपनिं सह बलेन ततोऽध्यगीष्ट | वेदान् सकृन्निगदितान् निखिलाण्स्च विद्याः सम्पूर्णसं विदपि दैवतशिक्षणाय
SKधर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत् प्रवृत्तिः | ज् ञानादिगूहनमुताध्ययनादिरत्र तज्ज्ञापनार्थमवसद् भगवान् गुरौ च
SKगुर्वर्थमेष मृतपुत्रमदात् पुनश्च रामेण सार्द्धमगमन्मधुरां रमेशः | पौरैः सजानपदबन्धुजनैरजस्रमभ्यर्चितो न्यवसदिष्टकृदात्मपित्रोः
SKसर्वेऽपि ते पतिमवाप्य हरिं पुराऽभितप्ता हि भोजपतिना मुमुर्दुनितान्तम् | किं वाच्यमत्र सुतमाप्य हरिं स्वपित्रोर्यत्राखिलस्य सुजनस्य बभूव मोदः
SKकृष्णाण्स्रयो वसति यत्र जनोऽपि तत्र वृद्धिर्भवेत् किमु रमाधिपतेर्निवासे | वृन्दावनं यदधिवासत आस सध्र्यङ् माहेन्द्रसद्मसदृशं किमु तत्र पुर्याः
SKयेनाधिवासमृषभो जगतां विधत्ते विष्णुस्ततो हि वरता सदने विधातुः | तस्मात् प्रभोर्निवसनान्मधुरा पुरी सा ण्सश्वत् समृद्धजनसङ्कुलिता बभूव
SKरक्षत्यजे त्रिजगतां परिरक्षकेऽस्मिन् सर्वान् यदून् मगधराजसुते स्वभर्तुः | कृष्णान्मृतिं पितुरवाप्य समीपमस्तिप्रास्ती शशं सतुरतीव च दुःखितेऽस्मै
SKश्रुत्वैव तन्मगधराज उरुप्ररूढबाह्वोर्बलेन नजितो युधि सर्वलोकैः | ब्रह्मेशचण्डमुनिदत्तवरैरजेयो मृत्यूज्झितश्च विजयी जगतश्चुकोप
SKक्षुब्धोऽतिकोपवशतः स्वगदाममोघां दत्तां शिवेन जगृहे शिवभक्तवन्द्यः | शैवागमाखिलविदत्र च सुस्थिरोऽसौ चिक्षेप योजनशतं स तु तां परस्मै
SKच्ल्वि.अर्वाक् पपात च गदा मधुराप्रदेशात् सा योजनेन यदिमं प्रजगाद पृष्टः | एकोत्तरामपि शताच्छतयोजनेति देवर्षिरत्र मधुरां भगवत्प्रियार्थे
SKशक्तस्य चापि हि गदाप्रविघातने तु शुश्रूषणं मदुचितं त्विति चिन्तयानः | विष्णोर्मुनिः स निजगाद ह योजनोनं मार्गं पुरो भगवतो मगधेशपृष्टः
SKक्षिप्ता तु सा भगवतोऽथ गदा जराख्यां तत्सन्धिनीमसुभिराण्सु वियोज्य पापाम् | मर्त्याण्सिनीं भगवतः पुनराज्ञयैव याता गिरीशसदनं मगधं विसृज्य
SKराजा स्वमातृत उतो गदया चहीनः क्रोधात् समस्तनृपतीनभिसन्निपात्य | अक्षोहिणीत्र्यधिकविं शयुतोऽतिवेलदर्पोद्धतः सपदि कृष्णपुरीं जगाम
SKसर्वां पुरीं प्रतिनिरुद्ध्य दिदेश विन्दविन्दानुजौ भगवतः कुमतिः स दूतौ | त् आवूचतुर्भगवतेऽस्य वचोऽतिदर्पपूर्णं तथा भगवतोऽप्यपहासयुक्तम्
SKलोकेऽप्रतीतबलपौरुषसाररूपस्त्वं ह्येक एष्यभवतो बलवीर्यसारम् | ज् ञात्वा सुते नतु मया प्रतिपादिते हि कं सस्य वीर्यरहितेन हतस्त्वया सः
SKसोऽहं हि दुर्बलतमो बलिनां वरिष्ठं कृत्वैव दृष्टिविषयं विगतप्रतापः | यास्ये तपोवनमथो सहितः सुताभ्यां क्षिप्रं ममाद्य विषये भव चक्षुषोऽतः
SKसाक्षेपमीरितमिदं बलदर्पपूर्णमात्मापहाससहितं भगवान् निशम्य | सत्यं तदित्युरु वचोऽर्थवदभ्युदीर्य मन्दं प्रहस्य निरगात् सहितो बलेन
SKद्वारेषु सात्यकिपुरस्सरमात्मसैन्यं त्रिष्वभ्युदीर्य भगवान् स्वयमुत्तरेण | रामद्वितीय उदगान्मगधाधिराजं योद्धुं नृपेन्द्रकटकेन युतं परेशः
SKतस्येच्छयैव पृथिवीमवतेरुराण्सु तस्याऽयुधानि सबलस्य सुभास्वराणि | शार्ङ्गासिचक्रदरतूणगदाः स्वकीया जग्राह दारुकगृहीतरथे स्थितः सः
SKआरुह्य भूमयरथं प्रतियुक्तमश्वैर्वेदात्मकैर्धनुरधिज्यमथ प्रगृह्य | शार्ङ्गं शरां श्च निशितान् मगधाधिराजमुग्रं नृपेन्द्रसहितं प्रययौ जवेन
SKरामः प्रगृह्य मुसलं स हलं च यानमास्थाय सायकशरासनतूणयुक्तः | च्ल्विइ.सैन्यं जरासुतसुरक्षितमभ्यधावद्धर्षान्नदन्नुरुबलोऽरिबलैरधृष्यः
SKउद्वीक्ष्य कृष्णमभियान्तमनन्तशक्तिं राजेन्द्रवृन्दसहितो मगधाधिराजः | उद्वेलसागरवदाण्स्वभियाय कोपान्नानाविधायुधवरैरभिवर्षमाणः
SKतं वै चुकोपयिषुरग्रत उग्रसेनं कृष्णो निधाय समगात् स्वयमस्य पश्चात् | दृष्ट्वाऽग्रतो मगधराट्स्थितमुग्रसेनं कोपाच्चलत्तनुरिदं वचनं बभाषे
SKपापापयाहि पुरतो मम राज्यकाम निर्लज्ज पुत्रवधकारण ण्सत्रुपक्ष | त्वं जीर्णबस्तसदृशो न मयेह वध्यः सिं हो हि सिं हमभियाति न वै सृगालम्
SKआक्षिप्त इत्थममुनाऽथ स भोजराजस्तूणात् प्रगृह्य निशितं शरमाण्सु तेन | छित्वा जरासुतधनुर्बलवन्ननाद विव्याध सायकगणैश्च पुनस्तमुग्रैः
SKअन्यच्छरासनवरं प्रतिगृह्य कोपसं रक्तनेत्रमभियान्तमुदीक्ष्य कृष्णः | भोजाधिराजवधकाङ्क्षिणमुग्रवेगं बार्हद्रथं प्रतिययौ परमो रथेन
SKआयान्तमीक्ष्य भगवन्तमनन्तवीर्यं चेदीशपौण्ड्रमुखराजगणैः समेतः | नानाविधास्त्रवरशस्त्रगणैर्ववर्ष मेरुं यथा घन उदीर्णरवो जलौघैः
SKशस्त्रास्त्रवृष्टिमभितो भगवान् विवृश्च्य शार्ङ्गोत्थसायकगणैर्विरथाण्स्वसूतम् | चक्रे निरायुधमसौ मगधेन्द्रमाण्सु च्छिन्नातपत्रवरकेतुमचिन्त्यशक्तिः
SKनैनं जघान भगवान् सुशकं च भीमे भक्तिं निजां प्रथयितुं यश उच्चधर्मम् | चेदीशपौण्ड्रकसकीचकमद्रराजसाल्वैकलव्यकमुखान् विरथां श्चकार
SKये चापि हं सडिभकद्रुमरुग्मिमुख्या बाह्लीकभौमसुतमैन्दपुरस्सराण्स्च | सर्वे प्रदुद्रुवुरजस्य शरैर्विभिन्ना अन्ये च भूमिपतयो य इहाऽसुरुर्व्याम्
SKछिन्नायुधध्वजपताकरथाण्स्वसूतवर्माण उग्रशरताडितभिन्नगात्राः | स्रस्ताम्बराभरणमूर्धजमाल्यदीना रक्तं वमन्त उरु दुद्रुवुराण्सु भीत् आः
SKशोच्यां दशामुपगतेषु नृपेषु सर्वेष्वस्तायुधेषु हरिणा युधि विद्रवत्सु | नानायुधाढ्यमपरं रथमुग्रवीर्य आस्थाय मागधपतिः प्रससार रामम्
SKच्ल्विइइ.आधावतोऽस्य मुसलेन रथं बभञ्ज रामो गदामुरुतरोरसि सोऽपि तस्य | चिक्षेप तं च मुसलेन तताड रामस्तावुत्तमौ बलवतां युयुधात उग्रम्
SKतौ चक्रतुः पुरु नियुद्धमपि स्म तत्र सञ्चूर्ण्य सर्वगिरिवृक्षण्सिलासमूहान् | दीर्घं नियुद्धमभवत् सममेतयोस्तद् वज्राद् दृढाङ्गतमयोर्बलिनोर्नितान्तम्
SKश्रुत्वाऽथ शङ्खरवमम्बुजलोचनस्य विद्रावितानपि नृपानभिवीक्ष्य रामः | युद्ध्यन्तमीक्ष्य च रिपुं ववृधे बलेन त्यक्त्वा रिपुं मुसलमादद आण्स्वमोघम्
SKतेनाऽहतः शिरसि सम्मुमुहेऽतिवेलं बार्हद्रथो जगृह एनमथो हली सः | तत्रैकलव्य उत कृष्णण्सरैः पलायन्नस्त्राणि रामशिरसि प्रमुमोच शीघ्रम्
SKभीतेन तेन समरं भगवाननिच्छन् प्रद्युम्नमाण्स्वसृजदात्मसुतं मनोजम् | प्रद्युम्न एनमभियाय महास्त्रजालै रामस्तु मागधमथाऽत्मरथं निनाय
SKयुद्ध्वा चिरं रणमुखे भगवत्सुतोऽसौ चक्रे निरायुधममुं स्थिरमेकलव्यम् | अं शेन यो भुवमगान्मणिमानिति स्म स क्रोधतन्त्रकगणेष्वधिपो निषादः
SKप्रद्युम्नमात्मनि निधाय पुनः स कृष्णः सं हृत्य मागधबलं निखिलं शरौघैः | भूयश्चमूमभिविनेतुमुदारकर्मा बार्हद्रथं त्वमुचदक्षयपौरुषोऽजः
SKव्रील् . आनताच्छविमुखः सहितो नृपैस्तैर्बार्हद्रथः प्रतिययौ स्वपुरीं स पापः | आत्माभिषिक्तमपि भोजवराधिपत्ये दौहित्रमग्रत उत प्रणिधाय मन्दः
SKजित्वा तमूर्जितबलं भगवानजेशशक्रादिभिः कुसुमवर्षिभिरीड्यमानः | रामादिभिः सहित आण्सु पुरीं प्रविश्य रेमेऽभिवन्दितपदो महतां समूहैः
SKवर्द्धत्सु पाण्डुतनयेषु चतुर्दशं तु जन्मर्क्षमास तनयस्य सहस्रदृष्टेः | प्रत्याब्दिकं मुनिगणान् परिवेषयन्ती कुन्ती तदाऽस बहुकार्यपरा नयज्ञा
SKतत्काल एव नृपतिः सह माद्रवत्या पुं स्कोकिलाकुलितफुल्लवनं ददर्श | तस्मिन् वसन्तपवनस्पर्शेधितः स कन्दर्पमार्गणवशं सहसा जगाम
SKजग्राह तामथ तया रममाण एव यातो यमस्य सदनं हरिपादसङ्गी | पूर्वं शचीरमणमिच्छत एव विघ्नं शक्रस्य तद्दर्शनोपगतो हि चक्रे
SKच्लिx.तेनैव मानुषमवाप्य रतिस्थ एव पञ्चत्वमाप रतिविघ्नमपुत्रतां च | स्वात्मोत्तमेष्वथ सुरेषु विशेषतश्च स्वल्पोऽपि दोष उरुतामभियाति यस्मात्
SKमाद्री पतिं मृतमवेक्ष्य रुराव दूरात् तच्छुश्रुवुश्च पृथया सह पाण्डुपुत्राः | तेष्वागतेषु वचनादपि माद्रवत्याः पुत्रान् निवार्य तु पृथा स्वयमत्र चाऽगात्
SKपत्युः कल् . एवरमवेक्ष्य निशम्य माद्र्याः कुन्ती भृशं व्यथितहृत्कमल् . ऐव माद्रीम् | धिक्कृत्य चानुमरणाय मतिं चकार तस्याः स्वनो रुदितजः श्रुत आण्सु पार्थैः
SKतेष्वागतेष्वधिक आस विराव एतं सर्वेऽपि शुश्रुवुरृषिप्रवरा अथात्र | आजग्मुरुत्तमकृपा ऋषिलोकमध्ये पत्नी नृपानुगमनाय च पस्पृधाते
SKते सन्निवार्य तु पृथामथ माद्रवत्या भर्तुः सहानुगमनं बहु चार्थयन्त्याः | सं वादमेव निजदोषमवेक्ष्य तस्याण्स्चक्रुः सदाऽवगतभागवतोच्चधर्माः
SKभर्तुर्गुणैरनधिकौ तनयार्थमेव माद्र्या कृतौ सुरवरावधिकौ स्वतोऽपि | तेनैव भर्तृमृतिहेतुरभूत् समस्तलोकैश्च नातिमहिता सुगुणाऽपि माद्री
SKपाण्डोः सुता मुनिगणैः पितृमेधमत्र चक्रुर्यथावदथ तेन सहैव माद्री | हुत्वाऽत्मदेहमुरु पापमदः कृतं च सम्मार्ज्य लोकमगमन्निजभर्तुरेव
SKपाण्डुण्स्च पुत्रकगुणैः स्वगुणैश्च साक्षात् कृष्णात्मजः सततमस्य पदैकभक्तः | लोकानवाप विमलान् महितान् महद्भिः किं चित्रमत्र हरिपादविनम्रचित्ते
SKपाण्डोः सुताण्स्च पृथया सहिता मुनीन्द्रैर्नारायणाण्स्रमत आण्सु पुरं स्वकीयम् | जग्मुस्तथैव धृतराष्ट्रपुरो मुनीन्द्राः वृत्तं समस्तमवदन्ननुजं मृतं च
SKत् ऊष्णीं स्थिते तु नृपतौ तनुजे च नद्याः क्षत्तर्युताऽप्त उरुमोदमतीव पापाः | ऊचुः सुयोधनमुखाः सह सौबलेन पाण्डोर्मृतिः किल पुरा तनयाः क्व तस्य
SKन क्षेत्रजा अपि मृते पितरि स्वकीयैः सम्यङ् नियोगमनवाप्य भवाय योग्याः | तेषामितीरितवचोऽनु जगाद वायुराभाष्य कौरवगणान् गगनस्थ एव
SKएते हि धर्ममरुदिन्द्रभिषग्वरेभ्यो जाताः प्रजीवति पितर्युरुधामसाराः | च्ल्x.शक्याण्स्च नैव भवतां क्वचिदग्रहाय नारायणेन सततं परिरक्षित् आ यत्
SKवायोरदृश्यवचनं परिशङ्कमानेष्वाविर्बभूव भगवान् स्वयमब्जनाभः | व्यासस्वरूप उरुसर्वगुणैकदेह आदाय तानगमदाण्सु च पाण्डुगेहम्
SKतत्स्वीकृतेषु सकला अपि भीष्ममुख्या वैचित्रवीर्यसहिताः परिपूज्य सर्वान् | कुन्त्या सहैव जगृहुः सुभृशं तदाऽर्ता वैचित्रवीर्यतनयाः सह सौबलेन
SKवैचित्रवीर्यतनयाः कृपतो महास्त्राण्यापुश्च पाण्डुतनयैः सह सर्वराज्ञाम् | पुत्राण्स्च तत्र विविधा अपि बालचेष्टाः कुर्वत्सु वायुतनयेन जिताः समस्ताः
SKपक्वोरुभोज्यफलसन्नयनाय वृक्षेष्वारूढराजतनयानभिवीक्ष्य भीमः | पादप्रहारमुरुवृक्षतल् . ए प्रदाय साकं फलैर्विनिपतत्सु फलान्यभुङ्क्त
SKयुद्धे नियुद्ध उत धावन उत्प्लवे च वारिप्लवे च सहितान् निखिलान् कुमारान् | एको जिगाय तरसा परमार्यकर्मा विष्णोः सुपूर्णसदनुग्रहतः सुनित्यात्
SKसर्वान् प्रगृह्य विनिमज्जति वारिमध्ये श्रान्तान् विसृज्य हसति स्म स विष्णुपद्याम् | सर्वानुदूह्य च कदाचिदुरुप्रवाहां गङ्गां सुतारयति सारसुपूर्णपौं स्यः
SKद्वेषं ह्यृते नहि हरौ तमसि प्रवेशः प्राणे च तेन जगतीमनु तौ प्रपन्नौ | तत्कारणान्यकुरुतां परमौ करां सि देवद्विषां सततविस्तृतसाधुपौं स्यौ
SKदृष्ट्वाऽमितान्यथ करां सि मरुत्सुतेन नित्यं कृत् आनि तनया निखिलाण्स्च राज्ञाम् | तस्यामितं बलमुदीक्ष्य सदोरुवृद्धद्वेषा बभूवुरथ मन्त्रममन्त्रयं श्च
SKयेये हि तत्र नरदेवसुताः सुरां शाः प्रीतिं परां पवनजे निखिला अकुर्वन् | त् आं स्तान् विहाय दितिजा नरदेववं शजाता विचार्य वधनिश्चयमस्य चक्रुः
SKअस्मिन् हते विनिहता अखिलाण्स्च पार्थाः शक्यो बलाच्च न निहन्तुमयं बलाढ्यः | छद्मप्रयोगत इमं विनिहत्य वीर्यात् पार्थं निहत्य निगल् . ए च विदध्महेऽन्यान्
SKएवं कृते निहतकण्टकमस्य राज्यं दुर्योधनस्य हि भवेन्न ततोऽन्यथा स्यात् | अस्मिन् हते निपतिते च सुरेन्द्रसूनौ शेषा भवेयुरपि सौबलिपुत्रदासाः
SKच्ल्xइ.एवं विचार्य विषमुल्बणमन्तकाभं क्षीरोदधेर्मथनजं तपसा गिरीशात् | शुक्रेण लब्धममुतः सुबलात्मजेन प्राप्तं प्रतोष्य मरुतस्तनयाय चादुः
SKसम्मन्त्र्य राजतनयैर्धृतराष्ट्रजैस्तद् दत्तं स्वसूदमुखतोऽखिलभक्ष्यभोज्ये | ज् ञात्वा युयुत्सुगदितं बलवान् स भीमो विष्णोरनुग्रहबलाज्जरयाञ्चकार
SKजीर्णे विषे कुमतयः परमाभितप्ताः प्रासादमाण्सु विदधुर्हरिपादतोये | ज् ञात्वा युयुत्सुमुखतः स्वयमत्र चान्ते सुष्वाप मारुतिरमा धृतराष्ट्रपुत्रैः
SKदोषान् प्रकाण्सयितुमेव विचित्रवीर्यपुत्रात्मजेषु नृवरं प्रतिसुप्तमीक्ष्य | बद्ध्वाऽभिमन्त्रणदृढैरयसा कृतैस्तं पाण्सैर्विचिक्षिपुरुदे हरिपादजायाः
SKतत् कोटियोजनगभीरमुदं विगाह्य भीमो विजृम्भणत एव विवृश्च्य पाण्सान् | उत्तीर्य सज्जनगणस्य विधाय हर्षं तस्थावनन्तगुणविष्णुसदातिहार्दः
SKतं वीक्ष्य दुष्टमनसोऽतिविपन्नचित्ताः सम्मन्त्र्य भूय उरुनागगणानथाष्टौ | शुक्रोक्तमन्त्रबलतः पुर आह्वयित्वा पश्चात् सुपञ्जरगतान् प्रददुः स्वसूते
SKदुर्योधनेन पृथुमन्त्रबलोपहूतां स्तत्सारथिः फणिगणान् पवनात्मजस्य | सुप्तस्य विस्तृत उरस्यमुचद् विशीर्णदन्ता बभूवुरमुमाण्सु विदश्य नागाः
SKक्षिप्त्वा सुदूरमुरुनागवरानथाष्टौ तद्वं शजान् स विनिहत्य पिपीलिकावत् | जघ्ने च सूतमपहस्तत एव भीमः सुष्वाप पूर्ववदनुत्थित एव तल्पात्
SKतत् तस्य नैजबलमप्रमयं निरीक्ष्य सर्वे क्षितीशतनया अधिकं विषेदुः | निश्वासतो दर्शनादपि भस्म येषां भूयासुरेव भुवनानि च ते मृषाऽसन्
SKदद्भिर्विदश्य न विकारममुष्य कर्तुं शेकुर्भुजङ्गमवरा अपि सुप्रयत्नाः | कस्यापि नेदृशबलं श्रुतपूर्वमासीद् दृष्टं किमु स्म तनयेऽपि हिरण्यकस्य
SKस्वात्मावनार्थमधिकां स्तुतिमेव कृत्वा विष्णोः स दैत्यतनयो हरिणाऽवितोऽभूत् | नत्वौरसं बलममुष्य स कृष्यते हि भृत्यैर्बलात् स पितुरौरसमस्य वीर्यम्
SKनैसर्गिकप्रियमिमं प्रवदन्ति विप्रा विष्णोर्नितान्तमपि सत्यमिदं ध्रुवं हि | नैवान्यथौरसबलं भवतीदृशं तदुत्साद्य एष हरिणैव सहैष नोऽर्थः
SKच्ल्xइइ.कृष्णः किलैष च हरिर्यदुषु प्रजातः सोऽस्याऽश्रयः कुरुत तस्य बहु प्रतीपम् | सम्मन्त्र्य चैवमतिपापतमा नरेन्द्रपुत्रा हरेश्च बहु चक्रुरथ प्रतीपम्
SKतैः प्रेरिता नृपतयः पितरश्च तेषां साकं बृहद्रथसुतेन हरेः सकाण्सम् | युद्धाय जग्मुरमुनाऽष्टदशेषु युद्धेष्वत्यन्तभग्नबलदर्पमदा निवृत्त् आः
SKतेनाऽगृहीतगजवाजिरथा नितान्तं शस्त्रैः परिक्षततनूभिरलं वमन्तः | रक्तं विशस्त्रकवचध्वजवाजिसूताः स्रस्ताम्बराः श्लथितमूर्द्धजिनो निवृत्त् आः
SKएवं बृहद्रथसुतोऽपि सुशोच्यरूप आर्तो ययौ बहुश एव पुरं स्वकीयम् | कृष्णेन पूर्णबलवीर्यगुणेन मुक्तो जीवेत्यतीव विजितः श्वसितावशेषः
SKएवं गतेषु बहुशो नतकन्धरेषु राजस्वजोऽपि मधुरां स्वपुरीं प्रविश्य | रामेण सार्धमखिलैर्यदुभिः समेतो रेमे रमापतिरचिन्त्यबलो जयश्रीः
SKव्यर्थोद्यमाः पुनरपि स्म सधार्तराष्ट्रा भीमं निहन्तुमुरुयत्नमकुर्वताज्ञाः | राज्ञां सुतास्तमखिलं स मृषैव कृत्वा चक्रे जयाय च दिशां बलवान् प्रयत्नम्
SKप्राचीं दिशं प्रथममेव जिगाय पश्चाद् याम्यां जलेशपरिपालितया सहान्याम् | यौ तौ पुरातनदशाननकुम्भकर्णौ मातृष्वसातनयतां च गतौ जिगाय
SKपूर्वस्तयोर्हि दमघोषसुतः प्रजातः प्राहुश्च यं नृपतयः शिशुपालनाम्ना | अन्यं वदन्ति च करूण्सनृपं तथाऽन्यमातृष्वसातनयमेव च दन्तवक्रम्
SKजित्वैव तावपि जिगाय च पौण्ड्रकाख्यं शौरैः सुतं सुतमजैदथ भीष्मकस्य | यः पूर्वमास दितिजो नरहेल्वलाख्यो रुग्मीति नाम च बभूव स कुण्डिनेशः
SKभागेत एव तनयस्य स एव वह्नेर्नाम्ना ण्सुचेः स तु पिताऽस्य हि मित्रभागः | राह्वं शयुक् तदनुजौ क्रथकैशिकाख्यौ भागौ तथाऽग्निसुतयोः पवमानशुन्ध्योः
SKबन्धोर्निजस्य तु बलं सुपरीक्षमाणः शल्योऽपि तेन युयुधे विजितस्तथैव | भीमो जिगाय युधि वीरमथैकलव्यं सर्वे नृपाण्स्च विजिता अमुनैवमेव
SKतद्बाहुवीर्यपरिपालित इन्द्रसूनुः शेषान् नृपां श्च समजैद् बलवानयत्नात् | च्ल्xइइइ.साल्वं च हं सडिभकौ च विजित्य भीमो नागाह्वयं पुरमगात् सहितोऽर्जुनेन
SKतद्बाहुवीर्यमथ वीक्ष्य मुमोद धर्मसूनुः समातृयमजो विदुरः सभीष्मः | अन्ये च सज्जनगणाः सहपौरराष्ट्राः श्रुत्वैव सर्वयदवो जहृषुर्नितान्तम्
SKकृष्णः सुयोधनमुखाक्रममाम्बिकेयं ज् आनन् स्वपुत्रवशवर्तिनमेव गत्वा | श्वाफल्किनो गृहममुं धृतराष्ट्रशान्त्यै गन्तुं दिदेश गजनाम पुरं परेशः
SKसोऽयाद् गजाह्वयममुत्र विचित्रवीर्यपुत्रेण भीष्मसहितैः कुरुभिः समस्तैः | सम्पूजितः कतिपयानवसच्च मासान् ज्ञातुं हि पाण्डुषु मनः प्रसृतिं कुरूणाम्
SKज् ञात्वा स कुन्तिविदुरोक्तित आत्मना च मित्रारिमध्यमजनां स्तनयेषु पाण्डोः | विज्ञाय पुत्रवशगं धृतराष्ट्रमञ्जः साम्नैव भेदसहितेन जगाद विद्वान्
SKपुत्रेषु पाण्डुतनयेषु चसाम्यवृत्तिः कीर्तिं च धर्ममुरुमेषि तथाऽर्थकामौ | प्रीतिं परां त्वयि करिष्यति वासुदेवः साकं समस्तयदुभिः सहितः सुराद्यैः
SKधर्मार्थकामसहितां च विमुक्तिमेषि तत्प्रीतितः सुनियतं विपरीतवृत्तिः | यास्येव राजवर तत्फलवैपरीत्यमित्थं वचो निगदितं तव कार्ष्णमद्य
SKइत्थं समस्तकुरुमध्य उपात्तवाक्यो राजाऽपि पुत्रवशगो वचनं जगाद | सर्वं वशे भगवतो न वयं स्वतन्त्रा भूभारसं हृतिकृते स इहावतीर्णः
SKएतन्निशम्य वचनं स तु यादवोऽस्य ज्ञात्वा मनोऽस्य कलुषं तव नैव पुत्राः | इत्यूचिवान् सह मरुत्तनयार्जुनाभ्यां प्रायात् पुरीं च सहदेवयुतः स्वकीयाम्
SKज् ञानं तु भागवतमुत्तममात्मयोग्यं भीमार्जुनौ भगवतः समवाप्य कृष्णात् | तत्रोषतुर्भगवता सह युक्तचेष्टौ सम्पूजितौ यदुभिरुत्तमकर्मसारौ
SKप्रत्युद्यमो भगवताऽपि भवेद् गदायाः शिक्षा यदा भगवता क्रियते नचेमम् | कुर्यादिति स्म भगवत्समनुज्ञयैव रामादशिक्षदुरुगायपुरः स भीमः
SKरामोऽपि शिक्षितमरीन्द्रधरात् पुरोऽस्य भीमे ददावथ वराणि हरेरवाप | अस्त्राणि शक्रतनयः सहदेव आर नीतिं तथोद्धवमुखात् सकलामुदाराम्
SKच्ल्xइव्.कृष्णोऽथ चौपगविमुत्तमनीतियुक्तं सम्प्रेषयन्निदमुवाच ह गोकुलाय | दुःखं विनाण्सय वचोभिररे मदीयैर्नन्दादिनां विरहजं मम चाऽशु याहि
SKमत्तो वियोग इह कस्यचिदस्ति नैव यस्मादहं तनुभृत् आं निहतोऽन्तरेव | नाहं मनुष्य इति कुत्रच वोऽस्तु बुद्धिर्ब्रह्मैव निर्मलतमं प्रवदन्ति मां हि
SKपूर्वं यदा ह्यजगरो निजगार नन्दं सर्वे न शेकुरथ तत्प्रविमोक्षणाय | मत्पादसं स्पर्शतः स तदाऽतिदिव्यो विद्याधरस्तदुदितं निखिलं स्मरन्तु
SKपूर्वं स रूपमदतः प्रजहास विप्रान् नित्यं तपः कृशतराङ्गिरसो विरूपान् | तैः प्रापितः सपदि सोऽजगरत्वमेव मत्तो निजां तनुमवाप्य जगाद नन्दम्
SKनायं नरो हरिरयं परमः परेभ्यो विश्वेश्वरः सकलकारण आत्मतन्त्रः | विज्ञाय चैनमुरुसं सृतितो विमुक्ता यान्त्यस्य पादयुगल् . अं मुनयो विरागाः
SKनन्दं यदा च जगृहे वरुणस्य दूतस्तत्रापि मां जलपतेर्गृहमाण्सु यातम् | सम्पूज्य वारिपतिराह विमुच्य नन्दं नायं सुतस्तव पुमान् परमः स एषः
SKसन्दर्शितो ननु मयैव विकुण्ठलोको गोजीविनां स्थितिरपि प्रवरा मदीया | मानुष्यबुद्धिमपनेतुमजे मयि स्म तस्मान्मयि स्थितिमवाप्य शमं प्रयान्तु
SKश्रुत्वोद्धवो निगदितं परमस्य पुं सो वृन्दावनं प्रति ययौ वचनैश्च तस्य | दुःखं व्यपोह्य निखिलं पशुजीवनानामायात् पुनश्चरणसन्निधिमेव विष्णोः