Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 28

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये कर्णवधो नाम सप्तविं शोऽध्यायः च्द्वि.(पाण्डवराज्यलाभः ) अथ अष्टाविं शोऽध्यायः Oं | प्रभातायां तु शर्वर्यां गुरुपुत्रानुमोदितः | शल्यं सेनापतिं कृत्वा योद्धुं दुर्योधनोऽभ्ययात्
SK
तमभ्ययुः पाण्डवाण्स्च हृष्टा युद्धाय दं सिताः | तत्राऽसीत् सुमहद् युद्धं पाण्डवानां परैः सह
SK
अग्रे भीमः पाण्डवानां मध्ये राजा युधिष्ठिरः | पृष्ठे गाण्डीवधन्वाऽसीद् वासुदेवाभिरक्षितः
SK
चक्ररक्षौ यमौ राज्ञो धृष्टद्युम्नश्च सात्यकिः | नृपस्य पार्श्वयोरास्तामग्रेऽन्येषां गुरोः सुतः
SK
मध्ये शल्यः पृष्ठतोऽभूद् भ्रातृभिश्च सुयोधनः | चक्ररक्षौ तु शल्यस्य शकुनिस्तत्सुतस्तथा | कृपश्च कृतवर्मा चपार्श्वयोः समवस्थितौ
SK
तत्रभवन्महद् युद्धं भीमस्य द्रौणिना सह | राज्ञः शल्येन च तथा घोररूपं भयानकम्
SK
तत्र नातिप्रयत्नेन द्रौणिर्भीमेन सायकैः | विरथीकृतस्तथा धर्मसूनुः शल्येन तत्क्षणात्
SK
आससाद तदा ण्सल्यं कपिप्रवरकेतनः | तयोरासीन्महद् युद्धमद्भुतं रोमहर्षणम्
SK
रथमन्यं समास्थाय द्रौणिर्भीमं समभ्ययात् | दुर्योधनश्च भीमस्य शरैरावारयद् दिशः
SK
त् आवुभौ शरवर्षेण वारयामास मारुतिः | त् आभ्यां तस्याभवद् युद्धं सुघोरमतिमानुषम्
SK
दुर्योधनस्यावरजान् द्रौपदेया युयुत्सुना | च्द्विइ.शिखण्ड्याद्यैर्मातुलैश्च सह सर्वान् न्यवारयन्
SK
सहदेवस्तु शकुनिमुलूकं नकुलस्तदा | धृष्टद्युम्नश्च हार्दिक्यं सात्यकिः कृपमेव च | तेषां तदभवद् युद्धं चित्रं लघु च सुष्ठु य
SK
शल्यस्तु शरसङ्घातैः पार्थस्यावारयद् दिशः | सोऽपि विव्याध विशिखैः शल्यमाहवशोभिनम् | तयोः सुसममेवाऽसीच्चिरं देवासुरोपमम्
SK
ततः शरं वज्रनिभं मद्रराजः समाददे | तेन विव्याध बीभत्सुं हृदये स मुमोह च
SK
उपलभ्य पुनः सञ्ज्ञां वासविः शत्रुतापनः | चिच्छेद कार्मुकं सङ्खे मद्रराजस्य धीमतः
SK
सोऽन्यत् कार्मुकमादाय मुमोचास्त्राणि फल्गुने | सौरं याम्यं च पार्जन्यं त् आन्यैन्द्रेण जघान सः
SK
पुनर्न्यकृन्तत् तच्चापमिन्द्रसूनुरमर्षितः | शल्यो गदां समाविध्य चिक्षेपार्जुनवक्षसि | तदा मुमोह बीभत्सुस्तत उच्चुक्रुशुः परे
SK
प्राप्य सञ्ज्ञां पुनः पार्थः शल्यं विव्याध वक्षसि | स विह्वलितसर्वाङ्गः शिश्रये ध्वजमुत्तमम्
SK
समाण्स्वस्तः पुनर्बाणं यमदण्डनिभं रणे | मुमोच पार्थस्य स च निर्बिभेद स्तनान्तरम्
SK
तेन विह्वलितः पार्थो ध्वजयष्टिं समाण्स्रितः | समाण्स्वस्तः प्रचिच्छेद मद्रराजस्य कार्मुकम् | छत्रं ध्वजं च तरसा सारथिं च न्यपातयत्
SK
तदाऽन्यं रथमास्थाय धर्मराजः शरोत्तमैः | चतुर्भिश्चतुरो वाहाञ्छल्यस्य निजघान ह
SK
च्द्विइइ.शल्योऽन्यं रथमास्थाय सर्वां स्ताञ्छरवृष्टिभिः | छादयामास राजानं विरथं च चकार ह
SK
निहत्याण्स्वान् सात्यकेश्च धृष्टद्युम्नस्य चाभिभूः | चापे च्छित्त्वा च यमयोर्दध्मौ शङ्खं महास्वनम्
SK
ततस्तु शल्यं समुदीर्यमाणं दृष्ट्वा रणे भीमसेनस्तरस्वी | न्यवारयद् बाणवरैरनेकैश्चकार चैनं विरथं क्षणेन
SK
आस्थाय चान्यं रथमापतन्तं पुनश्च शल्यं भृशमेव मर्मसु | निर्भिद्य बाणौर्विरथं चकार पुनस्तृतीयं च रथं रुरोज
SK
आत्तान्यात्तान्यायुधान्यस्य भीमः सर्वाणि चिच्छेद बिभेद चास्य | मर्माणि बाणैर्नितरां पुनश्च स मुष्टिमुद्यम्य जगाम धर्मजम्
SK
तं भीमभिन्नमर्माणं विवर्माणं निरायुधम् | श्वासमात्रावशिष्टं च मरणायैव केवलम्
SK
आत्मानमभिगच्छन्तं दृष्ट्वाऽन्यं रथमास्थितः | हन्तुकामो रणे वीरममोघां शक्तिमाददे
SK
दिव्यास्त्रैरपि सं योज्य तां तदा धर्मनन्दनः | सत्यधर्मफलैश्चैव चिक्षेपास्य हृदि त्वरन्
SK
स भिन्नहृदयो भूमौ पपाताभिमुखो नृपम् | सत्यधर्मरतः शल्य इन्द्रस्यातिथितामगात्
SK
मद्रराजे हते वीरे सुशर्माऽर्जुनमभ्ययात् | सं शप्तकावशिष्टैस्तमनयन्मृत्यवेऽर्जुनः
SK
दुर्योधनस्यावरजानवशिष्टान् वृकोदरः | सर्वान् जघान सेनां च निश्शेषमकरोद् रणे
SK
उलूकं सहदेवोऽथ शकुनिं चातिपापिनम् | च्दिx.जघान द्रौणिहार्दिक्यकृपान् भीमार्जुनौ ततः
SK
बहुशो विरथीकृत्य पीडयित्वा पुनः पुनः | द्रावयामासतुस्ते तु भीषित् आ विविशुर्वनम्
SK
शैनेयेन गृहीतोऽथ सञ्जयोऽनन्तशक्तिना | व्यासेन मोचितोऽथैकः पार्थान् दुर्योधनोऽभ्ययात्
SK
तेषामभूत् तस्य च घोररूपं युद्धं स बाणैर्बहुशोऽर्जुनं च | चकार मूर्च्छाभिगतं युधिष्ठिरं यमावयत्नाद् विरथां श्चकार
SK
तं भीमसेनो विरथं चकार गजं समारुह्य पुनः समभ्ययात् | पुनश्च शैनेयशिखण्डिपार्षतान् यमौ नृपं च व्यदधान्निरायुधान्
SK
गजे च भीमेन शरैर्निपातिते समारुहद् वाजिवरं सुनिर्भयः | स तेन च प्रासकरो रणेऽरिहा चचार शैनैयमताडयच्च
SK
मुमोह तेनाभिहतः स सात्यकिर्यमावपि प्रासनिपीडितौ रथे | निषीदतुर्धर्मसुतं प्रयान्तं समीक्ष्य भीमोऽस्य जघान वाजिनम्
SK
प्रासे निकृत्ते च वृकोदरेण विवाहनः सोऽपययौ सुयोधनः | आदाय गुर्वीं च गदां प्रयातो द्वैपायनस्योरुसरो विवेश
SK
एवमक्षोहिणीषट्कं भीमेन निहतं रणे | पञ्च पार्थेन निहता अर्द्धं कालिङ्गकानृते | एकादशाक्षोहिणीभ्यः शिष्टमन्यैर्निसूदितम्
SK
अक्षोहिणीचतुष्कं च पार्थानां द्रौणिना हतम् | अन्यैरन्याः समस्तैश्च द्रोणकर्णमहाब्रताः | दुर्योधनो भौमसूनुः प्रायः सेनाहनः क्रमात्
SK
जयं लब्ध्वा तदत्सूच्चैः पाण्डवेषु महात्मसु | दुर्योधनो जलस्तम्भं कृत्वा मन्त्रान् जजाप ह
SK
मन्त्रा दुर्वाससा दत्ता मृतसञ्जीवनप्रदाः | च्द्x.जले स्थित्वा जपन् सप्तदिनैः सर्वान् मृत् आनपि | उद्धरेद् धार्तराष्ट्रोऽयं स्युरवध्याण्स्च ते पुनः
SK
इति विद्याबलं तस्य ज्ञात्वा पाण्डुसुतास्ततः | अन्वेषन्तः शुश्रुवुश्च व्याधेभ्यस्तं जले स्थितम् | अगच्छं श्च ततस्तत्र पुरस्कृत्य जनार्दनम्
SK
तदा जलात् समुन्मज्ज्य त्रिभिर्द्रौणिपुरस्सरैः | मन्त्रयन्तं स्म ददृशुस्तान् दृष्ट्वा ते प्रदुद्रुवुः
SK
दुर्योधनोऽविशत् तोयं दृष्ट्वा तं केशवाज्ञया | युधिष्ठिरः सुपुरुषैर्वाक्यैरेनमथाऽह्वयत्
SK
अमर्षितोऽसौ धृतराष्ट्रपुत्रः श्वसं स्तदा दण्डहतो यथाऽहिः | उवाच शाठ्यात् तपसे वनाय यायां भवाञ्छासतु सर्वपृथ्वीम्
SK
तमाह धर्मजो राजा यस्त्वं कृष्णे समागते | सूच्यग्रवेध्यां पृथिवीं दातुं नैच्छः कथं पुनः
SK
घातयित्वा सर्वपृथ्वीं भीष्मद्रोणमुखानपि | दातुमिच्छसि सर्वां च पृथ्वीं नाद्य वयं पुनः
SK
अहत्वा प्रतिगृह्णीं एहि युद्धे स्थिरो भव | न कुरूणां कुले जातस्त्वं यो भीतो ह्यपोऽविशः
SK
इत्यादि रूक्षवचनं श्रुत्वा दुर्योधनो रुषा | जलस्तम्भात् समुत्तस्थौ श्वसन्नाण्सीविषो यथा
SK
उवाच चैक एवाहमकिरीटो विवर्मकः | भवन्तो बहवो वर्मशिरस्त्राणयुता अपि
SK
यद्येवमपि मे युद्धं भवद्भिर्मन्यसे समम् | सर्वैरेकेन वायुद्धं करिष्ये नच भीर्मम
SK
इत्युक्त आह धर्मात्मा वर्माद्यं च ददामि ते | च्द्xइ.वृणीष्व प्रतिवीरं च पञ्चानां यं त्वमिच्छसि
SK
हत्वैकं त्वं भुङ्क्ष्व राज्यमन्ये याम वयं वनम् | हते वा त्वयि तेनैव भुञ्जीमश्चाखिलां भुवम् | आदत्स्व चाऽयुधं येन जेतुमिच्छसि शात्रवान्
SK
इत्युक्त ऊचे नहि दुर्बलैरहं योत्स्ये चतुर्भिर्भवदर्जुनादिभिः | भीमेन योत्स्ये गदया सदा हि मे प्रिया गदा नान्यदथाऽयुधं स्पृशे
SK
श्रुत्वाऽस्य वाक्यं रभसो वृकोदरो गदां तदाऽध्यर्द्धभराधिकां मुदा | राज्ञो गदायाः परिगृह्य वीरः समुत्थितो युद्धमनाः समुन्नदन्
SK
अथाऽह नारायण आदिदेवो युधिष्ठिरं कष्टमिदं कृतं त्वया | नह्येष राजा गदया रणे चरन् शक्यो विजेतुं निखिलैः सुरासुरैः
SK
स निश्चयाद् वश्चतुरो निहन्यात् सहार्जुनान् भीमसेनः कथञ्चित् | हन्तैनमाजौ नहि भीमतुल्यो बले क्वचिद् धार्तराष्ट्रः कृती च
SK
ऊरू भीमेन भेत्तव्यौ प्रतिज्ञां रक्षता रिपोः | नाभेरधस्ताद्धननं जना आहुर्गदामृधे
SK
अधर्म इति तत् कृष्णो लोकनिन्दानिवृत्तये | आपद्धर्मं दर्शयितुं किञ्चिद्व्याजेन सं युतः
SK
भीमो हन्याद् धार्तराष्ट्रमित्यूचे यद्यपि स्फुटम् | अव्याजेनापि शक्तोऽसौ बलं निस्सीममाह च
SK
आह शिक्षामप्यनूनां यत्नं दुर्योधनेऽधिकम् | नहि भीमोऽतिप्रयत्नं कुर्यादिति गुणो ह्ययम्
SK
प्रतिज्ञापालनं धर्मो दुष्टेषु तु विशेषतः | इति धर्मरहस्यं तु वित्तः कृष्णवृकोदरौ
SK
नान्यस्ततो लोकनिन्दां व्यपनेतुमुभावपि | अनापद्यापदिव च दर्शयेतां जनस्य तु
SK
च्द्xइइ.ततो भीमः सर्वलोकस्य धर्मं प्रकाण्सयन् वाक्यमिदं जगाद | ऊरू तवाहं हि यथाप्रतिज्ञं भेत्स्यामि नैवात्र विचारणीयम्
SK
इत्युक्तवन्तं प्रससार चाऽजौ दुर्योधनस्तत्र बभूव युद्धम् | भीमस्तदाऽग्र्यप्रकृतिं विधित्सुर्मन्दः स आजौ व्यचरज्जनार्थे
SK
दर्शयन्तौ गदामार्गं चित्रं तौ प्रविचेरतुः | बलभद्रोऽप्याजगाम तदा तौ प्रतिवारितुम्
SK
वारितावपि तेनोभौ नैव युद्धं प्रमुञ्चताम् | ततो ददर्श तद् युद्धं मानितः कृष्णपूर्वकैः | तौ शिक्षाबलसं युक्तौ मण्डलानि विचेरतुः
SK
ततो भीमं वञ्चयितुं धार्तराष्ट्रः शिरः क्षितौ | न्यधादुच्छ्रितसक्थीकस्तदा कृष्णाभ्यनुज्ञया | पृष्ठमूलेऽहनद् भीमो भिन्नसक्थिश्च सोऽपतत्
SK
प्रतिज्ञापालनार्थाय नोभेर्नोपर्यधस्तदा | गदायुद्धस्य मर्यादां यशश्चाप्यभिरक्षितुम्
SK
नाधस्तान्मध्य एवासौ निजघ्ने तं वृकोदरः | एवं प्रतिज्ञायुग्मार्थं भग्नं सक्थियुगं रणे
SK
कृष्णं द्यूते निधेहीति यदवादीत् सुयोधनः | तत्प्रतिज्ञानुसारेण भीमो मूर्द्धानमक्रमीत् | ᳚ऋषभाम् मा समानानां ᳚ ८२ ८२ ऋग्वेद १०.१६६.१) इति सूक्तं ददर्श च
SK
तेषां पुण्य्Ḹअनि विद्याण्स्च समादायैव सर्वशः | तां श्चकार तमोगन्त्Ḹऋन्स्तस्य मूर्ध्नि पदाऽक्रमन्
SK
स्मारयामास कर्माणि यानि तस्य कृतानि च | कृष्णबन्धे कृतो मन्त्र इति मूर्ध्नि पदाऽहनत्
SK
पुनः पुनश्च तद् वीक्ष्य चुक्रोध मुसलायुधः | च्द्xइइइ.इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते चुक्रोश नैव धर्मोऽयमित्यसावूर्ध्वबाहुकः
SK
पुनः क्रोधाभिताम्राक्ष Ḹअदाय मुसलं हलम् | अभिदुद्राव भीमं तं न चचाल वृकोदरः
SK
अभये सं स्थिते भीमे रामं जग्राह केशवः | आह धर्मेण निहतो भीमेनायं सुयोधनः
SK
न मण्डलेऽभिसारे वा नापसारे च नाभितः | अधो हन्याद् वञ्चयन्तमधो हत्वा न दुष्यति
SK
कृता प्रतिज्ञ्Ḹअ च वृकोदरेण भेत्स्ये तवोरू इति युक्तिपूर्वम् | सं श्रावयानेन तदेष धर्मतो जघान दुर्योधनमग्र्यकर्मा
SK
व्Ḹअसुदेववचः श्रुत्वा धर्मच्छलमिति ब्रुवन् | रौहिणेयो जगामाऽशु स्वपुरीमेव सानुगः
SK
तस्मिन् गते वासुदेवं समपृच्छद् युधिष्ठिरः | धर्मोऽयमथवाऽधर्म इति तं प्राह केशवः
SK
न साक्षाद् धर्मतो वध्या ये तुपापतमा नराः | देवैर्हि वञ्चयित्वैव हताः प्Ḹउर्वं सुरारयः | अतोऽयमप्यधर्मेण हतो नात्रास्ति दूषणम्
SK
भीष्मद्रोणौ च कर्णण्स्च यदैवोपधिना हताः | को नु दुर्योधने पापे हते दोषः कथञ्चन
SK
प्रतिज्ञ्Ḹअपालनायापि विभेदोरू वृकोदरः | धर्मतश्च प्रतिज्ञेयं कृता तेनानुरूपतः
SK
लोकतोऽपि न धर्मस्य हानिरत्र कथञ्चन | ये भीमस्याप्रभावज्ञ्Ḹअ Ḹअपद्धर्मं च मन्वते
SK
अवध्यत्वे शिववर् आद् गदाण्सिक्षाबलादपि | जरासन्धोपमो यस्माद् धार्तराष्ट्रः सुविश्रुतः
SK
तस्मात् सद्धर्म एवायं भीमचीर्ण इति ब्रुवन् | अपि सं शयिनं चक्रे धर्मराजं जगत्पतिः
SK
भूभारक्षतिजो धर्मो मच्छुश्रूषात्मकस्तु यः | भीमस्यैव भवेत् सम्यगिति बुद्ध्या परः प्रभुः
SK
च्द्xइव्.स्वेनैव बलभद्राय जनाय च पुनः पुनः | श्रुत्वाऽप्युक्तं न तत्याज सं शयं धर्मजो यतः | ततोऽप्यसं शयं कृष्णो न चकार युधिष्ठिरम्
SK
मुख्यं धर्मं हि भगवान् बलायाऽह जनाय च | धर्मेणैव हतो राजा धार्तराष्ट्रः सुयोधनः | इति यद् वक्ष्यति पुनर्निश्चयार्थेऽर्जुनाय च
SK
पुनः पुनर्धर्मत एव भीमो जघान राजानमिति ब्रुवन्तम् | जगाद कृष्णं स्फुरिताधरोष्ठः क्रोधात् सुपापो धृतराष्ट्रसूनुः | त्वयैव पापे निहिता हि पार्थाः प्Ḹअपाधिकस्त्वं हि सदैक एव
SK
इत्यूचिवां सं प्रजगाद कृष्णो न त्वत्समः प्Ḹअपतमः कदाचित् | भीष्म्Ḹअदिहत्याऽपि तवैव पापं यदन्वयुस्त्वामतिपापनिश्चयम् | प्Ḹअपं च पापानुगतं च हत्वा कथञ्चनाप्यस्ति नचैव पापम्
SK
न पाण्डवेष्वस्ति ततो हि किञ्चित् पापं प्रयत्नाच्च निसर्गतोऽपि | गुणाधिकास्ते मदपाण्स्रयाच्च को नाम तेष्वण्वपि पापमाह
SK
निसर्गतः प्Ḹअपतमस्त्वमन्यान् धर्मस्थितान् पापपथे निधाय | स्वयं च पापे निरतः सदैव पापात् सुपापां गतिमेव यासि
SK
इति ब्रुवन्तं पुनराह कृष्णं दुर्योधनः प्Ḹअपकृतां प्रधानः | स्वन्तोत्तमो नाम क एव मत्तः को नाम दोषोऽस्ति मया कृतोऽत्र
SK
इष्टं च यज्ञैश्चरितं च पूर्तैः पदं रिपूणां निहितं हि मूर्ध्नि | मृत्युश्च सङ्ग्रामशिरस्यवाप्तो रणोन्मुखेनैव मया किमन्यत्
SK
इष्टा भोगा मया भुक्ताः प्राप्ता च परमा गतिः | दुःखिनो दुःखमाप्स्यन्ति पार्थास्ते कूटयोधिनः
SK
चन्द्रसूर्यनिभैः शूरैर्धार्मिकैः सद्भिरुज्झिता | केवल् आ रत्नहीनेयं प्Ḹअण्डवैर्भुज्यतां मही
SK
इत्युक्तवत्येव नृपे सुरेशैः प्रसूनवृष्टिर्विहिता पपात | तामेव बुद्धिं धृतराष्ट्रसूनोः कृत्वा दृढ्Ḹअं प्Ḹअतयितुं तमोऽन्धे
SK
सम्भावयत आत्मानं व्Ḹअसुदेवं विनिन्दतः | तत्परां श्च कथं न स्यात् तमोऽन्ते च विशेषतः
SK
यदैकैकमलं तत्र दुःखाधिक्यं समुच्चयात् | इति तत् कारयित्वेश आह मोघं तवाखिलम्
SK
च्द्xव्नृशं सस्य कृतघ्नस्य गुणवद्द्वेषिणः सदा | यदि धर्मफलं ध्वान्तं सूर्यवत् स्यात् प्रकाण्सकम्
SK
वदन् पुनः पुनरिदं धर्मतो हत इत्यपि | ख्यापयामास भगवान् जने निजजनेष्टदः
SK
प्रख्यापिते वासुदेवेन धर्मे सतां सर्वेषां हृद्यमासीत् समस्तम् | हतं च धर्मेण नृपं व्यजानन् पापोऽयमित्येव च निश्चितार्थाः
SK
युधिष्ठिरोऽपायदर्शी सदैव ससं शयोऽभूत् सुमनोऽभिवृष्ट्य्Ḹअ | स्नेहाद् द्रौणिः सञ्जयो रौहिणेयो दौर्योधनात् पापमित्येव चोचुः
SK
ततः कृष्णः प्Ḹअण्डुपाञ्चालकैस्तैर्भृशं नदद्भिर्हृषितैः समेतः | ययौ विरिञ्चेशसुरेन्द्रमुख्यैः सम्पूजितस्तैश्च रणाङ्गणात् स्मयन्
SK
ततः श्रुत्वा सञ्जयाद् दुःखतप्तं सम्बोधयिष्यन् पितरं युयुत्सुः | कृष्णस्य राज्ञश्च मतेन यातो जगाम चान्वेव जनार्दनश्च
SK
धर्मयुक्तैश्च तत्त्वार्थैर्लोकवृत्तानुदर्शकैः | व्Ḹअक्यै राजानमाण्स्वास्य प्रायात् पार्थान् पुनर्हरिः
SK
क्Ḹअलानुसारतो दैवां श्चोपसं हर्तुमच्युतः | ययौ सपार्थशैनेयः कुरूणां शिबिरं निशि
SK
तदैव हार्दिक्यकृप्Ḹअन्वितोऽयात् सुयोधनं द्रौणिरमुं शयानम् | प्रभग्नसक्थिं च सृग्Ḹअलभूतैः सम्भक्ष्यमाणं ददृशे श्वसन्तम्
SK
स दुःखशोकाभिहतो विनिन्द्य पार्थान् मया भूप किमत्र कार्यम् | इत्याह निष्प्Ḹअण्डवतां कुरुष्वेत्यमुं व्यधात् पां स्वभिषेकिणं नृपः
SK
उच्छिद्य सन्ततिं प्Ḹअण्डोः कृत्वा स्वक्षेत्रसन्ततिम् | तया भूरक्षणहृद्Ḹअ सोऽभिषिक्तस्तथेत्यगात्
SK
स कृष्णभीमपार्थानां भयादेव पुनर्वनम् | कृपसात्वतसं युक्तो विवेश गहनं रथी
SK
तस्य चिन्तयतो द्रोणवधं दुर्योधनस्य च | न्Ḹअऽगान्निद्रा निशीथे च ध्वाक्षान् न्यग्रोधवासिनः
SK
हतान् सुबहुसाहस्रानेकेनातिबलेन तु | कौशिकेन निरीक्ष्यैव प्राह तौ कृपसात्वतौ
SK
च्द्xवि.निदर्शनेन ह्येनेन प्रेरितः परमात्मना | य्Ḹअमि पाण्डुसुतान् हन्तुमित्युक्त्वाऽरुरुहे रथम्
SK
निवारितोऽपि ताभ्यां स प्राद्रवच्छिबिरं प्रति | अनुजग्मतुस्तावपि तं शिबिरद्वारि चैक्षत
SK
उग्ररूपधरं रुद्रं स्वकीयां तन्वमेव सः | परीतं व्Ḹअसुदेवं च बहुकोटिस्वरूपिणा
SK
दृष्ट्वैव वासुदेवं तमत्रसद् गौतमीसुतः | व्Ḹअसुदेवाज्ञयैवात्र स्वात्मनाऽपि सदाण्सिवः
SK
अयुद्ध्यदग्रसच्चाऽशु द्रौणेः सर्वायुधान्यपि | अचिन्त्या हरिशक्तिर्यद् दृश्यन्ते त्महनोऽपि हि
SK
अतस्तया प्रेरितेन स्वात्मनैवाखिलेष्वपि | आयुधेषु निगीर्णेषु द्रौणिर्यज्ञं तु मानसम् | चक्रेऽत्मानं पशुं कृत्वा स्वात्मस्थायैव विष्णवे
SK
यज्ञतुष्टेन हरिणा प्रेरितः शङ्करः स्वयम् | आत्मने द्रोणपुत्राय ददौ सर्वायुधानि च
SK
उवाच चाहमादिष्टो विष्णुना प्रभविष्णुना | अरक्षं प्Ḹअर्थशिबिरमियन्तं क्Ḹअलमेव तु
SK
तदिच्छयैव निर्दिष्टो दास्ये मार्गं तवाद्य च | आयुधानि च सर्वाणि हन्तुं सर्वानिमान् जनान्
SK
इत्युदीर्य प्रदायाऽशु सर्वा हेतीर्वृषध्वजः | तत्रैवान्तर्दधे सोऽपि प्रोवाच कृपसात्वतौ
SK
ये निर्यास्यन्ति शिबिराज्जहितं तां स्तु सर्वशः | इत्युक्त्वा प्रविवेशान्तर्धन्वी खड्गी कृतान्तवत्
SK
प्Ḹअरावताण्स्वं स तदा ण्सयानमुपेत्य पद्भ्यां समताडयच्च | वक्षस्यसाववदद् वीतनिद्रो जाने भवन्तं हि गुरोस्तनूजम्
SK
समुत्थितं म्Ḹअं जहि शस्त्रपाणिं शस्त्रेण वीरोऽसि स वीरधर्मः | लोकाण्स्च मे सन्त्वथ शस्त्रपूता इति ब्रुवाणं स रुषा जगाद
SK
न सन्ति हि ब्रह्महणां सुलोका विशेषतश्चैव गुरुद्रुहां पुनः | च्द्xविइ.न धर्मयुद्धेन वधार्हकाण्स्च ये त्वद्विधाः प्Ḹअपतमाः सुपाप
SK
अवश्यभाविनं मृत्युं धृष्टद्युम्नो विचिन्त्य तम् | तूष्णीं बभूव स्वप्नेऽपि नित्यं पश्यति तां मृतिम्
SK
द्रौणिं च काल् . अरात्रिं च द्रोणपातादनन्तरम् | विशसन्तं कृषन्तीं च स्वप्नेऽपश्यद्धि पार्षतः
SK
समाक्षिपद् द्रोणसुतोऽस्य कण्ठे निबद्ध्य मौर्वीं धनुषोप्युरस्थः | ममन्थ कृच्छ्रेण विहाय देहं ययौ निजं स्थानमसौ च वह्निः
SK
ततः शिखण्डिनं हत्वा युधामन्यूत्तमोजसौ | जनमेजयं च पाञ्चालीसुतानभिययौ ज्वलन्
SK
तैरुत्थितैरस्यमानः शरैः खड्गेन जघ्निवान् | सर्वान् सव्यापसव्येन तथाऽन्यान् पाण्डवात्मजान् | ऋत एकं भैमसेनिं क्Ḹअण्सिराजात्मजात्मजम्
SK
तं तदाऽन्तर्हितः शर्वः कैलासमनयत् क्षणात् | स शर्वत्रातनामाऽसीदतस्तत्रैव सोऽवसत्
SK
पुराऽर्थितः स्वदौहित्रस्यामरत्वाय शङ्करः | क्Ḹअण्सिराजेन तेनासौ जुगोपैनं कृप्Ḹअयुतः
SK
व्Ḹअसुदेवमतं ज्ञ्Ḹअत्वा साम्राज्याय परीक्षितः | व्Ḹअरयामास भूलोकं नैव याहीत्यमुं शिवः
SK
सामान्यतोऽपाण्डवाय द्रौणिनाऽप्यभिसन्धितम् | तद्रूपेणैव रुद्रेण विनैनमिति चिन्तितम्
SK
अस्त्रं ब्रह्मशिरश्चैनं न जघानैक्यतस्तयोः | चेकितानादिकां श्चैव जघानान्यान् स सर्वशः
SK
स चेदिपाञ्चालकरूण्सकाण्सीनन्यां श्च सर्वान् विनिहत्य वीरः | शिशून् स्त्रियश्चैव निहन्तुमुग्रः प्राज्वालयत् तच्छिबिरं समन्तात्
SK
जिजीविषूं स्तत्र पलायमानान् द्वारि स्थितौ गौतमः सात्वतश्च | निजघ्नतुः सर्वतः प्Ḹअर्षतस्य सूतस्त्वेकः शेषितो दैवयोगात्
SK
खड्गेन प्रहृतं दृष्ट्व्Ḹअ हार्दिक्येन पपात ह | भूमौ प्रागेव सं स्पर्शान्न ज् ञ्Ḹअतस्तमसाऽमुना | अन्यासक्ते समुत्थाय प्राद्रवद् यत्र पार्षती
SK
च्द्xविइइ.तस्या अकथयत् सर्वं सा भीमायाऽह दुःखिता | प्राद्रवद् रथमारुह्य स धन्वी गौतमीसुतम्
SK
तदन्तरे द्रौणिरपि प्रयातः कृष्णासुतानां मुदितः शिरां सि | आदाय हार्दिक्यकृप्Ḹअनुयातो दुर्योधनं सन्निकृष्टप्रयाणम्
SK
दृष्ट्व्Ḹअ तदुक्तं च निशम्य पापस्तुष्टोऽत्यजत् साध्विति देहमाण्सु | भीमार्जुनाभ्यामथ केशवाच्च भीताः पृथग् द्रौणिमुखाः प्रयाताः
SK
तत्रैकलं द्रोणसुतं रथेन यान्तं रथी मारुतिरन्वधावत् | तमाद्रवन्तं प्रसमीक्ष्य भीतः पराद्रवद् द्रौणिरतिद्रुताण्स्वैः
SK
आद्रवन्तं पुनर्दृष्ट्व्Ḹअ भीमं द्रोणात्मजो रुषा | आवृत्य युद्ध्यन् विजितोऽस्त्रं ब्रह्मशिर आददे
SK
एतस्मिन्नन्तरे कृष्णो धर्मजेनार्जुनेन च | तत्राऽगमत् तदस्त्रं च भीमं च्Ḹअव्यर्थतां नयन् | अवध्यो भीमसेनस्तदस्त्रं च्Ḹअमोघमेव यत्
SK
विष्णुनैवोभयं यस्मात् क्लृप्तं भीमोऽस्त्रमेव तत् | ग्Ḹअयत्री तत्र मन्त्रो यद् ब्रह्मा तद्ध्यानदेवता | ध्येयो नारायणो देवो जगत्प्रसविता स्वयम्
SK
ऊचे च पार्थयोः कृष्णो यत् कृतं द्रौणिना पुरा | स्वायुधानां य्Ḹअचनं च्Ḹअप्यशक्तेन तदुद्धृतौ
SK
पृष्टेनोक्तं त्वया हीनां कृत्वा दुर्योधनाय गाम् | द्Ḹअतुं त्वदायुधं मेऽद्येत्येवमुक्ते त्मनोदितम् | मैवं क्Ḹअर्षीः पुनरिति द्ध्यायताऽब्धेस्तटे स्वमु
SK
तदस्त्रं प्रज्वलद् दृष्ट्व्Ḹअऽपाण्डवत्वविधित्सया | धरायां द्रौणिना मुक्तं कृष्णेन प्रेरितोऽर्जुनः
SK
स्वस्त्यस्तु द्रोणपुत्राय भूतेभ्यो मह्यमेव च | इति ब्रुवं स्तदेवास्त्रमस्त्रशान्त्यै व्यसर्जयत्
SK
अनस्त्रज्ञेषु मुक्तं तद्धन्यादस्त्रमुचं यतः | गुरुभक्त्या ततो द्रौणेः स्वस्त्यस्त्वित्याह वासविः
SK
तदाऽस्त्रयोस्तु सं योगे भूतानां सं हृतिर्भवेत् | भूतानां स्वस्तिरप्यत्र काङ्क्षिता करुणात्मना
SK
च्द्xइx.श्रीमहाभारततात्पर्यनिर्णये तथाऽप्यस्त्रद्वयं युक्तं भूतानां न्Ḹअण्सकृद् ध्रुवम् | तस्मान्निवारयन् योगं तयोर्मध्येऽभवत् क्षणात् | निस्सीमशक्तिः परमः कृष्णः सत्यवतीसुतः
SK
सं स्थाप्यास्त्रद्वयं द्Ḹउरे तावाह पुरुषोत्तमः | सन्ति ह्यस्त्रविदः प्Ḹउर्वं प्रायश्चैतन्न तैः कृतम् | लोकोपद्रवकृत् कर्म सन्तः कुर्युः कथं क्वचित्
SK
इत्युक्ते फल्गुनः प्राह मया मुक्तं महापदि | शान्त्यर्थमेव च विभो क्षन्तव्यं भवता ततः
SK
द्रौणिरप्येवमेवाऽह तौ वेदपतिरब्रवीत् | निवर्त्यतामस्त्रमिति शक्रसूनुस्तथाऽकरोत् | निवर्तनाप्रभुं द्रौणिं व्Ḹअसुदेवोऽभ्यभाषत
SK
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः | निवर्तने ततः शक्तो नायं द्रोणात्मजोऽपि सन् | अब्रह्मचर्यादित्युक्ते व्यासो द्रौणिमभाषत
SK
निवर्तनासमर्थस्त्वं देहि नैसर्गिकं मणिम् | जितः प्रागेव भीमेन भीमायैव महाप्रभम् | अपि केवलया वाचा पार्थेभ्योऽस्त्रं निवर्तय
SK
इत्युक्तो मूर्धजं रत्नं जरामरणनाण्सनम् | क्षुत्तृट्श्रमापहं दिव्यगन्धं ध्वान्तहरं शुभम्
SK
उत्कृत्य भीमाय ददौ मुक्ताः पञ्चैव पाण्डवाः | अस्त्रादिति ततो वेदभर्ता वासविमब्रवीत्
SK
तात मुक्तं द्रौणिनाऽपि त्वमेवास्त्रं निवर्तय | इत्युक्तस्तं प्रणम्याऽशु सञ्जहारार्जुनोऽपि तत्
SK
य्Ḹअदवेशोऽथ गौतम्याः सुतमाहैकसन्ततेः | व्Ḹअचा निवर्तयास्त्रं ते इत्युक्तो द्रौणिरब्रवीत्
SK
पक्षपातादिच्छसि त्वं भागिनेयस्य सन्ततिम् | तत्रैव पातयाम्यस्त्रमुत्तरागर्भकृन्तने
SK
व्Ḹअसुदेवः पुनः प्राह यदि हन्तव्य एव ते | गर्भस्तथाऽपि नैवास्त्रं प्Ḹअतयास्मिन् कथञ्चन
SK
च्द्xx.अभिमन्योर्मृतस्यैव देहे पातय मानद | एवं त्वदस्त्रनिहतं गर्भमुज्जीवयाम्यहम्
SK
प्Ḹअतये गर्भ एवाहमित्यूचे गौतमीसुतः | अथाऽह वासुदेवस्तमीषत्क्रुद्ध इव प्रभुः
SK
दुर्मते पश्य मे वीर्यं यत् ते शक्यं कुरुष्व तत् | उज्जीवयाम्यहं गर्भं यततः शक्तितोऽपि ते
SK
सन्ततिर्वर्षसाहस्रं प्Ḹअण्डवानां भवेद् भुवि | मत्पालितां न कश्चित् तां तावद्धन्तुं क्षमः क्वचित्
SK
जानामि ते मतिं दुष्टां जिघां सोः प्Ḹअर्थसन्ततिम् | चिकीर्षोर्धार्तराष्ट्रस्य तन्तुं भूयः सुदुष्करम्
SK
मदाज्ञया सा विफला भवित्री वाञ्छा मुमुक्षा विमुखस्य विष्णोः | यथैव तेनैव नराधिरूढो गम्यस्तव स्यान्नच भूमिभागः
SK
दुर्गन्धयुक्तो व्रणसञ्चिताङ्गः सदा चरः स्या विपिनेषु मन्द | य्Ḹअवद् भुवि स्यादिह पार्थतन्तुर्व्यासोऽपि तं प्राह तथेति देवः
SK
रूपद्वयेनापि हरेस्तथोक्तो जगाद काल् . ईतनयं स कृष्णम् | त्वया सह स्यान्मम सङ्गमो विभो यथेष्टतः स्यान्नच मेऽत्र विघ्नः
SK
इत्युक्त Oं इति प्राह भगवान् बादरायणः | तं प्रणम्य ययौ सोऽपि स्वप्नदृष्टमनुस्मरन्
SK
स्वप्ने हि द्रौपदेयानां वधो दृष्टो त्मना निशि | अर्जुनेन प्रतिज्ञ्Ḹअनं द्रौपद्यै स्ववधं प्रति
SK
निबध्याऽनयनं चैव तेनैव शिबिरं प्रति | मुञ्चेति द्रौपदीवाक्यं नेति भीमवचस्तथा | कृष्णवाक्यान्मणिं हृत्वा देशान्निर्यातनं तथा
SK
इत्यादि स्वप्नदृष्टं यत् प्रायः सत्यमभूदिति | चिन्तयन् प्रययौ दावं द्रौणिः शस्त्रभृतां वरः
SK
स कृष्णोक्तमपि प्राप्य बादरायणण्सिष्यताम् | प्राप्योत्तरद्वापरे च वेदान् सं विभजिष्यति
SK
ततः सप्तर्षिर्भूत्वा पाराण्सर्यप्रसादतः | एकीभावं स्वरूपेण यास्यत्यच्युतनिष्ठया
SK
च्द्xxइ.पाण्डवराज्यलाभो नाम अष्टाविं शोऽध्यायः कृपोऽथ पाण्डवान् प्राप्य गौरवात् पूजितश्च तैः | अभूदाचार्य एवासौ राज्ञ्Ḹअं तत्तन्तुभाविनाम्
SK
ब्Ḹअदरायणण्सिष्यत्वं पुनः प्राप्य भजन्नमुम् | साकं स्वभागिनेयेन भाव्येको मुनिसप्तके | कृतवर्मा द्वारवत्Ḹ Ḷं ययौ कृष्णानुमोदितः
SK
कृष्णायै तं मणिं दत्वा भीमस्तां पर्यसान्त्वयत् | विकोपा भीमवाक्येन राज्ञे सा च मणिं ददौ
SK
राजार्हे हि मणौ दत्ते मह्यं भीमेन लौकिकाः | स्त्रीपक्षपातं राजा चशङ्केयुर्मारुतेरिति
SK
मणिं राज्ञे ददौ कृष्णा भर्तृप्रियहिते रता | सोऽप्याबध्य मणिं म्Ḹउर्ध्नि रेजे राजा गवामिव
SK
वेदेश्वरेणापि यदूत्तमेन कृष्णेन युक्तास्तत आण्सु पार्थाः | ययुः सभार्या निजराजधानीं हत्वैव सन्तोऽन्तररीन् स्वराज्यम्
SK
युधिष्ठिरस्यानु विचित्रवीर्यसुतस्य पादावभिवन्दमानम् | आकृष्य भीमं परमेश्वरोऽयो मयाकृतिं धात् पुरतो नृपस्य
SK
भीमाकृतिं तां स सुयोधनेन कारापितामभ्यसने गदायाः | आण्स्लिष्य चूर्णीकृतवानसृग् वमन् हा तात भीमेति वदन् पपात
SK
तमाह कृष्णो न हतोऽद्य भीमो नच त्वयाऽन्यैरपि शक्यतेऽसौ | हन्तुं स्वबुद्धिः प्रथिता त्वयाऽद्य पापा हि ते बुद्धिरद्यापि राजन्
SK
स्वबुद्धिदोषादतिपापशीलपुत्राख्यपापानि विवर्द्धयित्वा | नीतो वशं तैः फलमद्य भुञ्जन् न क्रोधितुं च्Ḹअर्हसि भीमसेने
SK
इत्युक्ते शान्तबुद्ध्यैव राज्ञ्Ḹअऽहूतो वृकोदरः | अभ्यवन्दत तत्पादावनुजाद्याण्स्च तस्य ये
SK
वज्राच्च दृढदेहत्वादविकारे वृकोदरे | न दोषो विवृतोऽस्य स्यादिति कृष्णेन वञ्चितः | सर्वानाण्स्लिष्य च प्रेम्णा युयोज नृप आण्सिषः
SK
कुलनाण्सकरः प्Ḹअपः शापयोग्यस्तव ह्यहम् | इत्युक्त्वैव प्रणमतो गान्धारी सुपदाङ्गुलीः
SK
च्द्xxइइ.ददर्श धर्मराजस्य पट्टान्तेन प्रकोपिता | तस्याः क्रोधाग्निनिर्दग्धनखः स कुनखोऽभवत्
SK
वन्दमानं पुनर्भीममाह सा क्रोधविह्वला | अधर्मतः कथं भीम सुतं मे त्वं निजघ्निवान्
SK
इत्युक्तोऽस्याः शमयितुं क्रोधमग्रे वृकोदरः | प्राह न प्राणसन्देहे पापं स्यात् पापिनो वधे
SK
इत्युक्त्वा तां पुनः प्राह प्रतिज्ञ्Ḹअहानिमन्तरा | न मेऽस्ति प्राणसन्देह इति जानन् वृकोदरः
SK
यथाप्रतिज्ञं भ्रातृव्यान् रणे मम निजघ्नुषः | क्वाधर्मः क्षत्रजातेस्तु तद्धानौ जीवितं नहि
SK
᳚पापा नशुद्धधर्मेण हन्तव्या᳚ इति च श्रुतिः | ᳚अन्यवत् पापहननं प्Ḹअपयेत्याह᳚ इति श्रुतिः | अतोऽसुरान् नैकृतिकान् निकृत्या घ्नन्ति देवताः
SK
᳚निकृत्या निकृतिं हन्यान्निकृत्या नैव धार्मिकम्᳚ | इति श्रुतिर्हि परमा पठ्यते पैङ्गिभिः सदा
SK
इत्युक्ता तं पुनः प्राह कथं ते नरशोणितम् | पीतं नरेणैव सता नपीतमिति सोऽब्रवीत्
SK
दन्तान्तरं न मे प्राप शोणितं तत् सुतस्य ते | प्रतिज्ञ्Ḹअपालनायापि प्रतिकर्तुं च तत् कृतम्
SK
भीषणाय च शत्रूणां पीतवच्च प्रदर्शितम् | वेददृष्टण्स्च धर्मोऽयमतिपापजनं प्रति
SK
इत्युक्तोवाच नैवान्धद्वयस्यास्य वृकोदर | घ्नता पुत्रशतं यष्टिमात्रं चोर्वरितं त्वया
SK
तामाह भीमः प्Ḹअपिष्ठ्Ḹअ वधयोग्यापराधिनः | सर्वे हता इति पुनः साऽह येनाकृतस्तव | अपराधः स एकोऽपि किं न्Ḹअस्तीत्यवदत् स ताम्
SK
सर्वैः समेतैः कृष्णस्य बन्धनाय विनिश्चितम् | अन्यानि च सुपापानि कृतान्यत्र पुराऽपिच
SK
व्Ḹअसुदेवं सभासं स्थं ब्रुवाणं धर्मसं हितम् | च्द्xxइइइ.(समस्तधर्मसङ्ग्रहः ) पुनः पुनरवज् ञ्Ḹअय यान्तं दुर्योधनं बहिः | सर्वेऽन्वगच्छन्नित्यादीन्यभिप्रेत्य वृकोदरः
SK
नैकोऽप्यनपराधी मे स्वयं ताननुशिक्षितुम् | असमर्था मयि क्रोधं किं करोषि निरर्थकम्
SK
इत्युक्ता साऽभवत् त् ऊष्णीं क्रमात् सर्वैश्च पाण्डवैः | वन्दिता व्यासवाक्याच्च किञ्चिच्छान्ताऽथ साऽभवत्
SK
तस्या याण्स्च स्नुषाः सर्वास्ताभिः सह पुरस्कृताम् | कृत्वा तं धृतराष्ट्रं च विदुरादीं श्च सर्वशः
SK
प्Ḹअण्डवाः प्रधनस्थानं सभार्याः पृथया सह | कृष्णाभ्यां च ययुस्तत्र गान्धार्यास्तपसो बलम्
SK
जानन् पाण्डवरक्षार्थं चिकीर्षुस्तत्तपोव्ययम् | वेदेश्वरो ददौ दिव्यं चक्षुः सत्यवतीसुतः
SK
तेन दृष्ट्व्Ḹअ प्रेतदेहान् सर्वां स्तत्र समाकुला | शशाप यादवेशानं त्वयाऽस्मत्कुलनाण्सनम् | यत् कृतं तत् तव कुलं गच्छत्वन्योन्यतः क्षयम्
SK
इत्युक्तो भगवान् कृष्णः स्वचिकीर्षितमेव तत् | अस्त्वेवमित्याह विभुरीश्वरोऽप्यन्यथा कृतौ
SK
तेन तस्यास्तपो नष्टं हीना साऽतो हि भर्तृतः | न्Ḹअण्सयेद्धि सदा विष्णुः स्वयोग्यादधिकान् गुणान्
SK
तत आण्स्लिष्य भर्त्Ḹऋणां देहान् प्ररुदतीः स्त्रियः | सर्वा दुर्योधनादीनां दर्शयामास केशवः | कृष्णायै सा च तं देवमस्तुवत् पूर्णसद्गुणम्
SK
ततो देहान् प्रसिद्धानां प्Ḹअर्थाः समदहन् सताम् | अन्येषां धृतराष्ट्रादीन् पुरस्कृत्यैव कां श्चन | सूतैः पञ्चभिरेव स्वैः सरस्वत्यां प्रचिक्षिपुः
SK
स्नेहान्नृपो यमौ च स्वान् नाऽजौ तस्मिन् ह्ययोजयन् | शवाः प्रायो बहुत्वेन तत्रतत्रैव सं स्थिताः
SK
ततो ददत्सु पानीयं गङ्गायां स्वजनस्य तु | पृथा कर्णाय दत्तेति पार्थानाहाग्रजं च तम्
SK
सोऽनुजैः कृष्णया विप्रैरप्युक्तो धर्मशासनम् | ततो हाहेति विलपन् राजा परमदुःखितः | शशाप सर्वनारीणां गुह्यं हृदि न तिष्ठतु
SK
ह्Ḹअ मातस्तव धृत्यैव वयं सर्वे भृशं हताः | ज्येष्ठं पितृसमं हत्वा प्रतिपत्स्याम कां गतिम्
SK
एवं वदन्तं कौन्तेयं व्Ḹअसुदेवः सनारदः | शमयामास सद्वाक्यैर्गुणान् कर्णस्य चाब्रवीत्
SK
ततस्ते प्रेतकार्याणि चक्रुः सर्वेऽपि सर्वशः | सर्वेषामाधिराज्ये च स्थितोऽभूत् पाण्डवाग्रजः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source