Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 8

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये श्रीरामचरिते हनूमत्प्रतियानं न्Ḹअम सप्तमोऽध्यायः ल्xइइ.(हनूमति श्रीरामदयादानम्) अथ अष्टमोऽध्यायः Oं | श्रुत्वा हनूमदुदितं कृतमस्य सर्वं प्रीतः प्रयाणमभिरोचयते स रामः | आरुह्य वायुसुतमङ्गदगेन युक्तः सौमित्रिणा सरविजः सह सेनयाऽगात्
SK
सम्प्राप्य दक्षिणमपान्निधिमत्र देवः शिश्ये जगद्गुरुतमोऽप्यविचिन्त्यशक्तिः | अग्रे हि मार्दवमनुप्रथयन् स धर्मं पन्थानमर्थितुमपाम्पतितः प्रतीतः
SK
तत्राऽजगाम स विभीषणनामधेयो रक्षः पतेरवरजोऽप्यथ रावणेन | भक्तोऽधिकं रघुपताविति धर्मनिष्ठस्त्यक्तो जगाम शरणं च रघूत्तमं तम्
SK
ब्रह्मात्मजेन रविजेन बलप्रणेत्रा नीलेन मैन्दविविदाङ्गदतारपूर्वैः | सर्वैश्च शत्रुसदनादुपयात एष भ्राताऽस्य न ग्रहणयोग्य इति स्थिरोक्तः
SK
अत्राऽह रूपमपरं बलदेवताया ग्राह्यः स एष नितरां शरणं प्रपन्नः | भक्तश्च रामपदयोर्विनशिष्णु रक्षो विज्ञाय राज्यमुपभोक्तुमिहाभियातः
SK
इत्युक्तवत्यथ हनूमति देवदेवः सङ्गृह्य तद्वचनमाह यथैव पूर्वम् | सुग्रीवहेतुत इमं स्थिरमाग्रहीष्ये पादप्रपन्नमिदमेव सदा व्रतं मे
SK
सब्रह्मकाः सुरगणाः सहदैत्यमर्त्याः सर्वे समेत्य च मदङ्गुलिचालनेऽपि | नेशा भयं न मम रात्रिचरादमुष्माच्छुद्धस्वभाव इति चैनमहं विजाने
SK
इत्युक्तवाक्य उत तं स्वजनं विधाय राज्येऽभ्यषेचयदपारसुसत्त्वराण्सिः | मत्वा तृणोपममशेषसदन्तकं तं रक्षः पतिं त्ववरजस्य ददौ स लङ्काम्
SK
कल्पान्तमस्य निशिचारि पतित्वपूर्वमायुः प्रदाय निजलोकगतिं तदन्ते | रात्रित्रयेऽप्यनुपगामिनमीक्ष्य सोऽब्धिं चुक्रोध रक्तनयनान्तमयुञ्जदब्धौ
SK
स क्रोधदीप्तनयनान्तहतः परस्य शोषं क्षणादुपगतो दनुजादिसत्त्वैः | ᳚सिन्धुः शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत्᳚६४
SK
६४ Bहा. Pउ. ९.८.९५ ल्xइइइ.᳚तं त्वां वयं जडधियो न विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम् | त्वं सत्त्वतः सुरगणान् रजसो᳚ मनुष्यां स्तार्तीयतोऽसुरगणानभितस्तथाऽस्राः ६५
SK
᳚कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् | बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ᳚ ६६
SK
इत्युक्तवन्तममुमाण्स्वनुगृह्य बाणं तस्मै धृतं दितिसुतात्मसु चान्त्यजेषु | शार्वाद् वराद् विगतमृत्युषु दुर्जयेषु निः सङ्ख्यकेष्वमुचदाण्सु ददाह सर्वान्
SK
कृत्वेरिणं तदथ मूलफलानि चात्र सम्यग् विधाय भवशत्रुरमोघचेष्टः | बद्धुं दिदेश सुरवर्धकिणोऽवतारं तज्जं नल् . अं हरिवरानपरां श्च सेतुम्
SK
बध्वोदधौ रघुपतिर्विविधाद्रिकूटैः सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः | सुग्रीवनीलहनुमत्प्रमुखैरनीकैर्लऽ न्कां विभीषणदृशाऽविशदाण्सु दग्धाम्
SK
प्राप्तं निशाम्य परमं भुवनैकसारं निः सीमपौरुषमनन्तमसौ दशास्यः | त्रासाद् विषण्णहृदयो नितरां बभूव कर्तव्यकर्मविषये च विमूढचेताः
SK
प्रस्थाप्य वालिसुतमेव च राजनीत्यै रामस्तदुक्तवचनेऽप्यमुनाऽगृहीते | द्वारो रुरोध स चतस्र उदीर्णसैन्यो रक्षः पतेः पुर उदारगुणः परेशः
SK
द्वारां निरोधसमये स दिदेश पुत्रं वाराम्पतेर्दिशि सुरेश्वरशत्रुमुग्रम् | प्राच्यां प्रहस्तमदिशद् दिशि वज्रदं ष्ट्रं प्रेताधिपस्य शशिनः स्वयमेव चागात्
SK
विज्ञाय तत् स भगवान् हनुमन्तमेव देवेन्द्रशत्रुविजयाय दिदेश चाऽशु | नीलं प्रहस्तनिधनाय च वज्रदं ष्ट्रं हन्तुं सुरेन्द्रसुतसूनुमथाऽदिदेश
SK
मध्ये हरीश्वरमधिज्यधनुर्नियुज्य यस्यां स राक्षसपतिर्दिशमेव तां हि | उद्दिश्य सं स्थित उपात्तशरः सखड्गो देदीप्यमानवपुरुत्तमपूरुषोऽसौ
SK
विद्रावितो हनुमतेन्द्रजिदाण्सु हस्तं तस्य प्रपन्न इव वीर्यममुष्य जानन् | नीलो विभीषण उभौ शिलया चशक्त्या सञ्चक्रतुर्यमवशं गमितं प्रहस्तम्
SK
६५ Bहा. Pउ. ९.८.९६ ६६ Bहा. Pउ. ९.८.९७ ल्xइव्नीलस्य नैव वशमेति स इत्यमोघशक्त्या विभीषण इमं प्रजहार साकम् | तस्मिन् हतेऽङ्गद उपेत्य जघान वज्रदं ष्ट्रं निपात्य भुवि शीर्षममुष्य मृद्गन्
SK
सर्वेषु तेषु निहतेषु दिदेश धूम्रनेत्रं स राक्षसपतिः स च पश्चिमेन | द्वारेण मारुतसुतं समुपेत्य दग्धो गुप्तोऽपि शूलिवचनेन दुरन्तशक्तिम्
SK
अकम्पनोऽपि राक्षसो निशाचरेशचोदितः | उमापतेर्वरोद्धतः क्षणाद्धतो हनूमता
SK
अथास्त्रसम्प्रदीपितैः समस्तशो महोल्मुकैः | रघुप्रवीरचोदिताः पुरं निशि स्वदाहयन्
SK
ततस्तौ निकुम्भोऽथ कुम्भश्च कोपात् प्रदिष्टौ दशास्येन कुम्भश्रुतेर्हि | सुतौ सुप्रहृष्टौ रणायाभियातौ कपीं स्तान् बहिः सर्वशो यातयित्वा
SK
स कुम्भो विधातुः सुतं त् आरनीलौ नल् . अं चाण्स्विपुत्रौ जिगायाङ्गदं च | सुयुद्धं च कृत्वा दिनेशात्मजेन प्रणीतो यमस्याऽशु लोकं सुपापः
SK
ततो निकुम्भोऽद्रिवरप्रदारणं महान्तमुग्रं परिघं प्रगृह्य | ससार सूर्यात्मजमाण्सु भीतः स पुप्लुवे पश्चिमतो धनुः शतम्
SK
तं भ्रामयत्याण्सु भुजेन वीरे भ्रान्ता दिशो द्यौश्च सचन्द्रसूर्या | सुराण्स्च तस्योरुबलं वरं च शर्वोद्भवं वीक्ष्य विषेदुरीषत्
SK
अनन्यसाध्यं तमथो निरीक्ष्य समुत्पपाताऽशु पुरोऽस्य मारुतिः | प्रकाण्सबाह्वन्तर आह चैनं किमेभिरत्र प्रहराऽयुधं ते
SK
इतीरितस्तेन स राक्षसोत्तमो वरादमोघं प्रजहार वक्षसि | विचूर्णितोऽसौ तदुरस्यभेद्ये यथैव वज्रो विपतौ वृथाऽभवत्
SK
विचूर्णिते निजायुधे निकुम्भ एत्य मारुतिम् | प्रगृह्य चात्मनोऽं सके निधाय जग्मिवान् द्रुतम्
SK
प्रगृह्य कण्ठमस्य स प्रधानमारुतात्मजः | स्वमाण्सु मोचयं स्ततो न्यपातयद् धरातल् . ए
SK
ल्xव्.चकार तं रणात्मके मखे रमेशदैवते | पशुं प्रभञ्जनात्मजो विनेदुरत्र देवताः
SK
सुप्तघ्नो यज्ञकोपश्च शकुनिर्देवतापनः | विद्युज्जिह्वः प्रमाथी चशुकसारणसं युताः
SK
रावणप्रेरिताः सर्वान् मथन्तः कपिकुञ्जरान् | अवध्या ब्रह्मवरतो निहता रामसायकैः
SK
युद्धोन्मत्तश्च मत्तश्च देवान्तकनरान्तकौ | त्रिशिरा अतिकायश्च निर्ययू रावणाज्ञया
SK
नरान्तको रावणजो हयवर्योपरि स्थितः | अभीः ससार समरे प्रासोद्यतकरो हरीन्
SK
तं दहन्तमनीकानि युवराजोऽङ्गदो बली | उत्पपात निरीक्ष्याऽशु समदर्शयदप्युरः
SK
तस्योरसि प्रासवरं प्रजहार स राक्षसः | द्विधा समभवत् तत्तु वालिपुत्रस्य तेजसा
SK
अथास्य हयमाण्स्वेव निजघान मुखे कपिः | पेततुश्चाक्षिणी तस्य स पपात ममार च
SK
स खड्गवरमादाय प्रससार रणे कपिम् | आच्छिद्य खड्गमस्यैव निहतो वालिसूनुना
SK
गन्धर्वकन्यकासूते निहते रावणात्मजे | आजगामाग्रजस्तस्य सोदर्यो देवतान्तकः
SK
तस्याऽपतत एवाऽशु शरवर्षप्रतापिताः | प्रदुद्रुवुर्भयात् सर्वे कपयो जाम्बवन्मुखाः
SK
स शरं तरसाऽदाय रविपुत्रायुधोपमम् | ल्xवि.अङ्गदं प्रजहारोरस्यपतत् स मुमोह च
SK
अथ तिग्मां शुतनयः शैलं प्रचलपादपम् | अभिदुद्राव सङ्गृह्य चिक्षेप च निशाचरे
SK
तमापतन्तमालक्ष्य दूराच्छरविदारितम् | सुरान्तकश्चकाराऽशु दधार च परं शरम्
SK
स तमाकर्णमाकृष्य यमदण्डोपमं शरम् | अविद्ध्यद्धृदये राज्ञः कपीनां स पपात ह
SK
बलमप्रतिमं वीक्ष्य सुरशत्रोस्तु मारुतिः | आह्वयामास युद्धाय केशवः कैटभं यथा
SK
तमापतन्तमालोक्य रथं सहयसारथिम् | चूर्णयित्वा धनुश्चास्य समाच्छिद्य बभञ्ज ह
SK
अथ खड्गं समादाय पुर आपततो रिपोः | हरिः प्रगृह्य केशेषु पातयित्वैनमाहवे | शिरो ममर्द तरसा पवमानात्मजः पदा
SK
वरदानादवध्यं तं निहत्य पवनात्मजः | समीडितः सुरवरैः प्लवगैर्वीक्षितो मुदा
SK
विद्राविताखिलकपिं वरात् त्रिशिरसं विभोः | भङ्क्त्वा रथं धनुः खड्गमाच्छिद्याण्सिरसं व्यधात्
SK
युद्धोन्मत्तश्च मत्तश्च पार्वतीवरदर्पितौ | प्रमथन्तौ कपीन् सर्वान् हतौ मारुतिमुष्टिना
SK
ततोऽतिकायोऽतिरथो रथेन स्वयम्भुदत्तेन हरीन् प्रमृद्गन् | चचार कालानलसन्निकाण्सो गन्धर्विकायां जनितो दशास्यात्
SK
बृहत्तनुः कुम्भवदेव कर्णावस्येत्यतो नाम च कुम्भकर्णः | इत्यस्य सोऽर्कात्मजपूर्वकान् कपीन् जिगाय रामं सहसाऽभ्यधावत्
SK
ल्xविइ.तमापतन्तं शरवर्षधारं महाघनाभं स्तनयित्नुघोषम् | निवारयामास यथा समीरः सौमित्रिरात्तेष्वसनः शरौघैः
SK
ववर्षतुस्तावतिमात्रवीर्यौ शरान् सुरेशाण्सनितुल्यवेगान् | तमोमयं चक्रतुरन्तरिक्षं स्वशिक्षया क्षिप्रतमास्तबाणैः
SK
शरैः शरानस्य निवार्य वीरः सौमित्रिरस्त्राणि महास्त्रजालैः | चिच्छेद बाहू ण्सिरसा सहैव चतुर्भुजोऽभूत् स पुनर्द्विशीर्षः
SK
छिन्नेषु तेषु द्विगुणास्यबाहुः पुनः पुनः सोऽथ बभूव वीरः | उवाच सौमित्रिमथान्तरात्मा समस्तलोकस्य मरुद् विषण्णम्
SK
ब्रह्मास्त्रतोऽन्येन न वध्य एष वराद् विधातुः सुमुखेत्यदृश्यः | रक्षः सुतस्याण्स्रवणीयमित्थमुक्त्वा समीरोऽरुहदन्तरिक्षम्
SK
अथानुजो देवतमस्य सोऽस्त्रं ब्राह्मं तनूजे दशकन्धरस्य | मुमोच दग्धः सरथाण्स्वसूतस्तेनातिकायः प्रवरोऽस्त्रवित्सु
SK
हतेषु पुत्रेषु सराक्षसेशः स्वयं प्रयाणं समरार्थमैच्छत् | सज्जीभवत्येव निशाचरेशे खरात्मजः प्राह धनुर्धरोत्तमः
SK
नियुङ्क्ष्व मां मे पितुरन्तकस्य वधाय राजन् सहलक्ष्मणं तम् | कपिप्रवीरां श्च निहत्य सर्वान् प्रतोषये त्वामहमद्य सुष्ठु
SK
इतीरितेऽनेन नियोजितः स जगाम वीरो मकराक्षनामा | विधूय सर्वां श्च हरिप्रवीरान् सहाङ्गदान् सूर्यसुतेन साकम्
SK
अचिन्तयन् लक्ष्मणबाणसङ्घानवज्ञया राममथाऽह्वयद् रणे | उवाच रामं रजनीचरोऽसौ हतो जनस्थानगतः पिता त्वया
SK
केनाप्युपायेन धनुर्धराणां वरः फलं तस्य ददामि तेऽद्य | इति ब्रुवाणः स सरोजयोनेर्वरादवध्योऽमुचदस्त्रसङ्घान्
SK
प्रहस्य रामोऽस्य निवार्य चास्त्रैरस्त्राण्यमेयोऽशनिसन्निभेन | ल्xविइइ.शिरः शरेणोत्तमकुण्डलोज्ज्वलं खरात्मजस्याथ समुन्ममाथ
SK
विदुद्रुवुस्तस्य तु येऽनुयायिनः कपिप्रवीरैर्निहतावशेषित् आः | यथैव धूम्राक्षमुखेषु पूर्वं हतेषु पृथ्वीरुहशैलधारिभिः
SK
ततः स सज्जीकृतमात्तधन्वा रथं समास्थाय निशाचरेश्वरः | वृतः सहस्रायुतकोट्यनीकपैर्निशाचरैराण्सु ययौ रणाय
SK
बलैस्तु तस्याथ बलं कपीनां नैकप्रकारायुधपूगभग्नम् | दिशः प्रदुद्राव हरीन्द्रमुख्याः समार्दयन्नाण्सु निशाचरां स्तदा
SK
गजो गवाक्षो गवयो वृषण्स्च सगन्धमादा धनदेन जाताः | प्राणादयः पञ्च मरुत्प्रवीराः स कत्थनो वित्तपतिश्च जघ्नुः
SK
शरैस्तु तान् षड्भिरमोघवेगैर्निपातयामास दशाननो द्राक् | अथाण्स्विपुत्रौ च सजाम्बवन्तौ प्रजह्रतुः शैलवरैस्त्रिभिस्तम्
SK
गिरीन् विदार्याऽशु शरैरथान्याञ्छरान् दशास्योऽमुचदाण्सु तेषु | एकैकमेभिर्विनिपातित् आस्ते ससार तं शक्रसुतात्मजोऽथ
SK
शिलां समादाय तमापतन्तं विभेद रक्षो हृदये शरेण | दृढाहतः सोऽप्यगमद् धरातल् . अं रवेः सुतोऽथैनमभिप्रजग्मिवान्
SK
तद्धस्तगं भूरुहमाण्सु बाणैर्दशाननः खण्डण्स एव कृत्वा | ग्रीवाप्रदेशेऽस्य मुमोच बाणं भृशाहतः सोऽपि पपात भूमौ
SK
अथो हनूमानुरगेन्द्रभोगसमं स्वबाहुं भृशमुन्नमय्य | तताड वक्षस्यधिपं तु रक्षसां मुखैः स रक्तं प्रवमन् पपात
SK
स लब्धसञ्ज्ञः प्रशशं स मारुतिं त्वया समो नास्ति पुमान् हि कश्चित् | कः प्रापयेदन्य इमां दशां मामितीरितो मारुतिराह तं पुनः
SK
अत्यल्पमेतद् यदुपात्तजीवितः पुनस्त्वमित्युक्त उवाच रावणः | गृहाण मत्तोऽपि समुद्यतं त्वं मुष्टिप्रहारं त्विति तं पुपोथ
SK
ल्xइx.किञ्चित् प्रहारेण तु विह्वलाङ्गवत् स्थिते हि तस्मिन्निदमन्तरं मम | इत्यग्निसूनुं प्रययौ स रावणो निवारितो मारुतिनाऽपि वाचा
SK
तमापतन्तं प्रसमीक्ष्य नीलो धनुर्ध्वजाग्राण्स्वरथेषु तस्य | चचार मूर्धस्वपि चञ्चलोऽलं जल् . ईकृतस्तेन स रावणोऽपि
SK
स क्षिप्रमादाय हुताण्सनास्त्रं मुमोच नीले रजनीचरेशः | स तेन भूमौ पतितो नचैनं ददाह वह्निः स्वतनुर्यतोऽसौ
SK
ततो ययौ राघवमेव रावणो निवारयामास तमाण्सु लक्ष्मणः | ततक्षतुस्तावधिकौ धनुर्भृत् आं शरैः शरीरावरणावदारणैः
SK
निवारितस्तेन स रावणो भृशं रुषाऽन्वितो बाणममोघमुग्रम् | स्वयम्भुदत्तं प्रविकृष्य चाऽशु ललाटमध्ये प्रमुमोच तस्य
SK
भृशाहतस्तेन मुमोह लक्ष्मणो रथादवप्लुत्य दशाननोऽपि | क्षणादभिद्रुत्य बलात् प्रगृह्य स्वबाहुभिर्नेतुमिमं समैच्छत्
SK
सम्प्राप्य सञ्ज्ञां स सुविह्वलोऽपि सस्मार रूपं निजमेव लक्ष्मणः | शेषं हरेरं शयुतं नचास्य स चालनायापि शशाक रावणः
SK
बलात् स्वदोर्भिः प्रतिगृह्य चाखिलैर्यदा सवीरं प्रचकर्ष रावणः | चचाल पृथ्वी सहमेरुमन्दरा ससागरा नैव चचाल लक्ष्मणः
SK
सहस्रमूर्ध्नोऽस्य बतैकमूर्ध्नि ससप्तपाताल् . अगिरीन्द्रसागरा | धराऽखिलेयं ननु सर्षपायति प्रसह्य को नाम हरेत् तमेनम्
SK
प्रकर्षति त्वेव निशाचरेश्वरे तथैव रामावरजं त्वरान्वितः | समस्तजीवाधिपतेः परा तनुः समुत्पपातास्य पुरो हनूमान्
SK
स मुष्टिमावर्त्य च वज्रकल्पं जघान तेनैव च रावणं रुषा | प्रसार्य बाहूनखिलैर्मुखैर्वमन् स रक्तमुष्णं व्यसुवत् पपात
SK
निपात्य रक्षोधिपतिं स मारुतिः प्रगृह्य सौमित्रिमुरङ्गशायिनः | जगाम रामाख्यतनोः समीपं सौमित्रिमुद्धर्तुमलं ह्यसौ कपिः
SK
ल्xx.स रामसं स्पर्शनिवारितक्लमः समुत्थितस्तेन समुद्धृते शरे | बभौ यथा राहुमुखात् प्रमुक्तः शशी सुपूर्णो विकचस्वरश्मिभिः
SK
स शेषभोगाभमथो जनार्दनः प्रगृह्य चापं सशरं पुनश्च | सुलब्धसञ्ज्ञं रजनीचरेशं जगाद सज्जीभव रावणेति
SK
रथं समारुह्य पुनः सकार्मुकः समार्गणो रावण आण्सु रामम् | अभ्येत्य सर्वाण्स्च दिशश्चकार शरान्धकाराः परमास्त्रवेत्ता
SK
रथस्थितेऽस्मिन् रजनीचरेशे न मे पतिर्भूमितल् . ए स्थितः स्यात् | इति स्म पुत्रः पवनस्य रामं स्कन्धं समारोप्य ययौ च राक्षसम्
SK
प्रहस्य रामोऽस्य हयान् निहत्य सूतं च कृत्वा तिलशो ध्वजं रथम् | धनूं षि खड्गं सकलायुधानि छत्रं च सञ्छिद्य चकर्त मौलिम्
SK
कर्तव्यमूढं तमवेक्ष्य रामः पुनर्जगादाऽशु गृहं प्रयाहि | समस्तभोगाननुभूय शीघ्रं प्रतोष्य बन्धून् पुनरेहि मर्तुम्
SK
इतीरितोऽवाग्वदनो ययौ गृहं विचार्य कार्यं सह मन्त्रिभिः स्वकैः | हतावशेषैरथ कुम्भकर्णप्रबोधनायाऽशु मतिं चकार
SK
सशैलशृङ्गासिपरश्वधायुधैर्निशाचराणामयुतैरनेकैः | तच्छ्वासवेगाभिहतैः कथञ्चिद् गतैः समीपं कथमप्यबोधयत्
SK
शैलोपमानस्य च मां सराण्सीन् विधाय भक्षानपि शोणितह्रदान् | सुतृप्तमेनं परमादरेण समाह्वयामास सभातल् . आय
SK
उवाच चैनं रजनीचरेन्द्रः पराजितोऽस्म्यद्य हि जीवति त्वयि | रणे नरेणैव च रामनाम्ना कुरुष्व मे प्रीतिममुं निहत्य
SK
इतीरितः कारणमप्यशेषं श्रुत्वा जगर्हाग्रजमेव वीरः | अमोघवीर्येण हिराघवेण त्वया विरोधश्चरितो बताद्य
SK
प्रशस्यते नो बलिभिर्विरोधः कथञ्चिदेषोऽतिबलो मतो मम | ल्xxइ.इतीरितो रावण आह दुर्नयोऽप्यहं त्वयाऽव्यो हि किमन्यथा त्वया
SK
चरन्ति राजान उताक्रमं क्वचित् त्वयोपमान् बन्धुजनान् बलाधिकान् | समीक्ष्य हीत्थं गदितोऽग्रजेन स कुम्भकर्णः प्रययौ रणाय
SK
प्राकारमालङ्घ्य स पञ्चयोजनं यदा ययौ शूलवरायुधो रणम् | कपिप्रवीरा अखिलाः प्रदुद्रुवुर्भयादतीत्यैव च सेतुमाण्सु
SK
शतवलिपनसाख्यौ तत्र वस्वं शभूतौ पवनगणवरां शौ श्वेतसम्पातिनौ च | निरृतितनुमथोग्रं दुर्मुखं केसरीति प्रवरमथ मरुत्सु प्रास्यदेतान् मुखे सः
SK
रजनिचरवरोऽसौ कुम्भकर्णः प्रतापी कुमुदमपि जयन्तं पाणिना सम्पिपेष | नल् . अमथ च गजादीन् पञ्च नीलं सतारं गिरिवरतरुहस्तान् मुष्टिनाऽपातयच्च
SK
अथाङ्गदश्च जाम्बवानिनात्मजश्च वानरैः | निजघ्निरे निशाचरं सवृक्षण्सैलसानुभिः
SK
विचूर्णित् आण्स्च राक्षसास्तनौ निशाचरस्य ते | बभूव काचन व्यथा नचास्य बाहुषाल् . इनः
SK
अथापरं महाचलं प्रगृह्य भास्करात्मजः | मुमोच राक्षसेऽथ तं प्रगृह्य तं जघान सः
SK
तदा पपात सूर्यजस्तताड चाङ्गदं रुषा | स जाम्बवन्तमाण्सु तौ निपेततुस्तल् . आहतौ
SK
अथ प्रगृह्य भास्करिं ययौ स राक्षसो बली | जगाम चानु मारुतिः सुसूक्ष्ममक्षिकोपमः
SK
यदैनमेष बाधते तदा विमोचयाम्यहम् | यदि स्म शक्यतेऽस्य तु स्वमोचनाय तद् वरम्
SK
इति व्रजत्यनु स्म तं मरुत्सुते निशाचरः | पुरं विवेश चार्चितः स्वबन्धुभिः समस्तशः
SK
ल्xxइइ.तुहिनसलिलमाल्यैः सर्वतोऽभिप्रवृष्टे रजनिचरवरेऽस्मिं स्तेन सिक्तः कपीशः | विगतसकलयुद्धग्लानिरावञ्चयित्वा रजनिचरवरं तं तस्य नासां ददं श
SK
कराभ्यामथ कर्णौ च नासिकां दशनैरपि | सञ्छिद्य क्षिप्रमेवासावुत्पपात हरीश्वरः
SK
तल् . एन चैनं निजघान राक्षसः पिपेष भूमौ पतितं ततोऽपि | समुद्गतोऽसौ विवरेऽङ्गुलीनां जघान शूलेन पुनः स राक्षसः
SK
अमोघशूलं प्रपतत् तदीक्ष्य रवेः सुतस्योपरि मारुतात्मजः | प्रगृह्य जानौ प्रणिधाय शीघ्रं बभञ्ज तं प्रेक्ष्य ननाद चोच्चैः
SK
अथैनमावृत्य जघान मुष्टिना स राक्षसो वायुसुतं स्तनान्तरे | जगर्ज तेनाभिहतो हनूमानचिन्तयं स्तत् प्रजहार चैनम्
SK
तल् . एन वक्षस्यभिताडितो रुषा हनूमता मोहमवाप राक्षसः | पुनश्च सञ्ज्ञां समवाप्य शीघ्रं ययौ स यत्रैव रघुप्रवीरः
SK
विचिन्तयामास ततो हनूमान् मयैव हन्तुं समरे हि शक्यः | असौ तथाऽप्येनमहं न हन्मि यशो हि रामस्य दृढं प्रकाण्सयन्
SK
अनन्यवध्यं तमिमं निहत्य स्वयं स रामो यश आहरेत | दत्तो वरो द्वारपयोः स्वयं च जनार्दनेनैव पुरा ततश्च
SK
मयैव वध्यौ भवतं त्रिजन्मसु प्रवृद्धवीर्याविति केशवेन | उक्तं ममैवैष यदप्यनुग्रहं वधेऽस्य कुर्यान्नतु मे स धर्मः
SK
इति स्म सञ्चिन्त्य कपीशयुक्तो जगाम यत्रैव कपिप्रवीराः | स कुम्भकर्णोऽखिलवानरां स्तु प्रभक्षयन् राममुपाजगाम
SK
ते भक्षित् आस्तेन कपिप्रवीराः सर्वे विनिर्जग्मुरमुष्य देहात् | स्रोतोभिरेवाथ च रोमकूपैः केचित् तमेवाऽरुरुहुर्यथा गिरिम्
SK
स तान् विधूयाऽशु यथा महागजो जगाम रामं समरार्थमेकः | प्रभक्षयन् स्वानपरां श्च सर्वशो मत्तः समाघ्राय च शोणितं पिबन्
SK
ल्xxइइइ.न्यवारयत् तं शरवर्षधारया स लक्ष्मणो नैनमचिन्तयत् सः | जगाम रामं गिरिशृङ्गधारी समाह्वयत् तं समराय चाऽशु
SK
अथो समादाय धनुः सुघोरं शरां श्च वज्राण्सनितुल्यवेगान् | प्रवेशयामास निशाचरे प्रभुः स राघवः पूर्वहतेषु यद्वत्
SK
यावद्बलेन न्यहनत् खरादिकान् न तावतैव न्यपतत् स राक्षसः | अथ प्रहस्याऽत्मबलैकदेशं प्रदर्शयन् बाणवरान् मुमोच
SK
द्वाभ्यां स बाहू निचकर्त तस्य पदद्वयं चैव तथा ण्सराभ्याम् | अथापरेणास्य शिरो निकृत्य सम्प्राक्षिपत् सागरतोय आण्सु
SK
अवर्धताब्धिः पतितेऽस्य काये महाचलाभे क्षणदाचरस्य | सुराण्स्च सर्वे ववृषुः प्रसूनैर्मुदा स्तुवन्तो रघुवर्यमूर्ध्नि
SK
योजनानां त्रिलक्षं हि कुम्भकर्णो व्यवर्धत | पूर्वं पश्चात् सञ्चुकोच लङ्कायामुषितुं स्वयम्
SK
स तु स्वभावमापन्नो म्रियमाणो व्यवर्धत | तेनास्मिन् पतिते त्वब्धिरवर्धदधिकं तदा
SK
अथापरे ये रजनीचरास्तदा कपिप्रवीरैर्निहताण्स्च सर्वशः | हतावशिष्टास्त्वरिताः प्रदुद्रुवुभ्रातुर्वधं चोचुरुपेत्य रावणम्
SK
स दुःखतप्तो निपपात मूर्छितो निराण्सकश्चाभवदात्मजीविते | तमाह पुत्रस्त्रिदशेशशत्रुर्नियुङ्क्ष्व मां शत्रुवधाय माचिरम्
SK
मया गृहीतस्त्रिदशेश्वरः पुरा विषीदसे किं नरराजपुत्रतः | स एवमुक्त्वा प्रजुहाव पावकं शिवं समभ्यर्च्य समारुहद् रथम्
SK
स आत्तधन्वा सशरो रथेन वियत् समारुह्य ययावदर्शनम् | स नागपाण्सैर्वरतः शिवस्य बबन्ध सर्वान् कपिवीरसऽ न्घान्
SK
पुराऽवताराय यदा स विष्णुर्दिदेश सर्वां स्त्रिदशां स्तदैव | ल्xxइव्ममापि सेवा भवते प्रयोज्येत्येवं गरुत्मानवदद् वृषाकपिम्
SK
तमाह विष्णुर्न भुवि प्रजातिमुपैहि सेवां तव चान्यथाऽहम् | आदास्य एवात्र यथा यशः स्याद् धर्मश्च कर्तव्यकृदेव च स्याः
SK
वरेण ण्सर्वस्य हि रावणात्मजो यदा निबध्नाति कपीन् सलक्ष्मणान् | उरङ्गपाण्सेन तदा त्वमेव समेत्य सर्वानपि मोचयस्व
SK
अहं समर्थोऽपि स लक्ष्मणण्स्च तथा हनूमान् न विमोचयामः | तव प्रियार्थं गरुडैष एव कृतस्तवाऽदेश इमं कुरुष्व
SK
तदेतदुक्तं हि पुराऽत्मना यत् ततो हि रामो न मुमोच कञ्चन | न लक्ष्मणो नैव च मारुतात्मजः स चैव जानाति हि देवगुह्यम्
SK
अथो निबद्ध्याऽशु हरीन् सलक्ष्मणान् जगाम रक्षः स्वपितुः सकाण्सम् | ननन्द चासौ पिशिताण्सनेश्वरः शशं स पुत्रं च कृत् आत्मकार्यम्
SK
स पक्षिराजोऽथ हरेर्निदेशं स्मरं स्त्वरावानिह चाऽजगाम | तत्पक्षवातस्पर्शेन केवलं विनष्ट एषां स उरङ्गबन्धः
SK
स राममानम्य परात्मदैवतं ययौ सुमाल्याभरणानुलेपनः | कपिप्रवीराण्स्च तरूञ्छिलाण्स्च प्रगृह्य नेदुर्बलिनः प्रहृष्टाः
SK
श्रुत्वा निनादं प्लवगेश्वराणां पुनः सपुत्रोऽत्रसदत्र रावणः | बन्धादमुष्मात् प्रतिनिस्सृत् आस्ते किमत्र कार्यं त्विति चिन्तयानः
SK
पुनश्च हुत्वा स हुताण्समेव रथं समारुह्य ययावदर्शनम् | ववर्ष चास्त्राणि महान्त्यजस्रं वरादुमेशस्य तथाऽब्जजस्य
SK
पुनश्च तस्यास्त्रनिपीडित् आस्ते निपेतुरुर्व्यां कपयः सलक्ष्मणाः | स्पृशन्ति नास्त्राणि दुरन्तशक्तिं तनुं समीरस्य हि कानिचित् क्वचित्
SK
विज्ञातुकामः पुरि सम्प्रवृत्तिं विभीषणः पूर्वगतस्तदाऽगात् | ददर्श सर्वान् पतितान् स वानरान् मरुत्सुतं त्वेकमनाकुलं च
SK
ल्xxव्.स तं समादाय ययौ विधातृजं विमूर्च्छितं चोदकसेकतस्तम् | आण्स्वास्य किं जीवसि हीत्युवाच तथेति स प्राह च मन्दवाक्यः
SK
ऊचे पुनर्जीवति किं हनूमान् जीवाः स्म सर्वेऽपि हि जीवमाने | तस्मिन् हते निहताण्स्चैव सर्व इतीरितेऽस्मीत्यवदत् स मारुतिः
SK
इत्युक्तो जाम्बवानाह हनूमन्तमनन्तरम् | योऽसौ मेरोः समीपस्थो गन्धमादनसञ्ज्ञितः | गिरिस्तस्मात् समाहार्यं त्वयौषधचतुष्टयम्
SK
मृतसञ्जीवनी मुख्या सन्धानकरणी परा | सवर्णकरणी चैव विशल्यकरणीति च
SK
इत्युक्तः स क्षणेनैव प्रापतद् गन्धमादनम् | अवाप चाम्बरचरो राममुक्तः शरो यथा
SK
अन्तर्हिताण्स्चौषधीस्तु तदा विज्ञाय मारुतिः | उद्बबर्ह गिरिं क्रोधाच्छतयोजनमण्डलम्
SK
स तं समुत्पाट्य गिरिं करेण प्रतोल् . अयित्वा बलदेवसूनुः | समुत्पपाताम्बरमुग्रवेगो यथा हरिश्चक्रधरस्त्रिविक्रमे
SK
अवाप चाक्ष्णोः स निमेषमात्रतो निपातिता यत्र कपिप्रवीराः | तच्छैलवातस्पर्शात् समुत्थिताः समस्तशो वानरयूथपाः क्षणात्
SK
अपूजयन् मारुतिमुग्रपौरुषं रघूत्तमोऽस्यानुजनिस्तथाऽपरे | पपात मूर्ध्न्यस्य च पुष्पसन्ततिः प्रमोदितैर्देववरैर्विसर्जिता
SK
स देवगन्धर्वमहर्षिसत्तमैरभिष्टुतो रामकरोपगूहितः | पुनर्गिरिं तं शतयोजनोच्छ्रितं न्यपातयत् सं स्थित एव तत्र च
SK
स पूर्ववन्मारुतिवेगचोदितो निरन्तरं श्लिष्टतरोऽत्र चाभवत् | पुनश्च सर्वे तरुशैलहस्ता रणाय चोत्तस्थुरलं नदन्तः
SK
पुनश्च तान् प्रेक्ष्य समुत्थितान् कपीन् भयं महच्छक्रजितं विवेश | ल्xxवि.स पूर्ववद्धव्यवहे समर्च्य शिवं तथाऽदर्शनमेव जग्मिवान्
SK
वराण्स्रयेणाजगिरीशयोस्तथा पुनर्महास्त्रैः स बबन्ध तान् कपीन् | अथाऽह रामस्य मनोऽनुसारतः पुराऽस्त्रमेवानुसरन् स लक्ष्मणः
SK
पितामहास्त्रेण निहन्मि दुर्मतिं तवाऽज्ञया ण्सक्रजितं सबान्धवम् | इतीरिते तेन स चाऽह राघवो भयाददृश्ये न विमोक्तुमर्हसि
SK
न सोढुमीशोऽसि यदि त्वमेतदस्त्रं तदाऽहं शरमात्रकेण | अदृश्यमप्याण्सु निहन्मि सन्तं रसातल् . एऽथापि हि सत्यलोके
SK
इति स्म वीन्द्रस्य हनूमतश्च बलप्रकाण्साय पुरा प्रभुः स्वयम् | सम्मानयित्वाऽस्त्रममुष्य रामो दुरन्तशक्तिः शरमाददेऽथ
SK
अनेन दृष्टोऽहमिति स्म दुष्टो विज्ञाय बाह्वोर्बलमस्य चोग्रम् | विनिश्चयं देवतमस्य पश्यन् प्रदुद्रुवे प्राणपरीप्सुराण्सु
SK
हाहाकृते प्रद्रुत इन्द्रशत्रौ रघूत्तमः शत्रुविभीषणत्वात् | विभीषणेत्येव सुरैरभिष्टुतो विज्ञानमस्त्रं त्वमुचत् स्वसैन्ये
SK
निशाचरास्त्रं ह्यगमत् क्षणेन रामास्त्रवीर्याद्धरयो नदन्तः | उत्तस्थुरुच्चोरुगिरीन् प्रगृह्य प्रशं समाना रघुवीरमुच्चैः
SK
सुरैश्च पुष्पं वर्षद्भिरीडितस्तस्थौ धनुष्पाणिरनन्तवीर्यः | स रावणस्याथ सुतो निकुम्भिलां पुनः समासाद्य जुहाव पावकम्
SK
विभीषणोऽथाऽह रघूत्तमं प्रभुं नियोजयाद्यैव वधाय दुर्मतेः | कृत् आग्निपूजो नहि वध्य एष वरो विधातुः प्रथितोऽस्य तादृशः
SK
न वै वधं राम इयेष तस्य पलायितस्याऽत्मसमीक्षणात् पुनः | सत्त्वोज्झितोऽसावपि कूटयोधी न मे वधार्होऽयमिति स्म स प्रभुः
SK
स आदिदेशावरजं जनार्दनो हनूमता चैव विभीषणेन | सहैव सर्वैरपि वानरेन्द्रैर्ययौ महात्मा स च तद्वधाय
SK
ल्xxविइ.स जुह्वतस्तस्य चकार विघ्नं प्लवǣ न्गमैः सोऽथ युयुत्सया रथम् | समास्थितः कार्मुकबाणपाणिः प्रयुद्ययौ लक्ष्मणमाण्सु गर्जन्
SK
उभौ च तावस्त्रविदां वरिष्ठौ शरैः शरीरान्तकरैस्ततक्षतुः | दिशश्च सर्वाः प्रदिशः शरोत्तमैर्विधाय शिक्षास्त्रबलैर्निरन्तराः
SK
अस्त्राणि तस्यास्त्रवरैः स लक्ष्मणो निवार्य शत्रोश्चलकुण्डलोज्ज्वलम् | शिरः शरेणाऽशु समुन्ममाथ सुरैः प्रसूनैरथ चाभिवृष्टः
SK
निपातितेऽस्मिन् नितरां निशाचरान् प्लवङ्गमा जघ्नुरनेककोटिशः | हतावशिष्टास्तु दशाननाय शशं सुरत्याप्तसुतप्रणाण्सम्
SK
स तन्निशम्याप्रियमुग्ररूपं भृशं विनिश्वस्य विलप्य दुःखात् | सं स्थापयामास मतिं पुनश्च मरिष्य इत्येव विनिश्चितार्थः
SK
मरणाभिमुखः शीघ्रं रावणो रणकर्मणे | सज्जीभवन्नन्तरैव दिदेश बलमूर्जितम्
SK
त्रिं शत् सहस्राणि महौघकानामक्षोहिणीनां सहषट्सहस्रम् | श्रमेण सं योजयताऽशु रामं सज्जो भवामीति दिदेश रावणः
SK
तदप्रधृष्यं वरतः स्वयम्भुवो युगान्तकालार्णवघूर्णितोपमम् | प्रगृह्य नानाविधमस्त्रशस्त्रं बलं कपी ञ्छीघ्रतमं जगाम
SK
आगच्छमानं तदपारमेयं बलं सुघोरं प्रल् . अयार्णवोपमम् | भयात् समुद्विग्नविषण्णचेतसः कपिप्रवीरा नितरां प्रदुद्रुवुः
SK
वरो हि दत्तोऽस्य पुरा स्वयम्भुवा धरातल् . एऽल्पेऽपि निवासशक्तिः | अजेयता चेत्यत एव सार्कजाः प्लवङ्गमा द्रष्टुमपि स्म नाण्सकन्
SK
प्रगृह्य रामोऽथ धनुः शरां श्च समन्ततस्तानवधीच्छरौघैः | स एव सर्वत्र च दृश्यमानो विदिक्षु दिक्षु प्रजहार सर्वशः
SK
क्षणेन सर्वां श्च निहत्य राघवः प्लवङ्गमानामृषभैः स पूजितः | अभिष्टुतः सर्वसुरोत्तमैर्मुदा भृशं प्रसूनोत्करवर्षिभिः प्रभुः
SK
ल्xxविइइ.अथाऽययौ सर्वनिशाचरेश्वरो हतावशिष्टेन बलेन सं वृतः | विमानमारुह्य च पुष्पकं त्वरन् शरीरनाण्साय महायुधोद्धतः
SK
विरूपनेत्रोऽथच यूपनेत्रस्तथा महापार्श्वमहोदरौ च | ययुस्तमावृत्य सहैव मन्त्रिणो मृतिं पुरोधाय रणाय यान्तम्
SK
अथास्य सैन्यानि निजघ्नुरोजसा समन्ततः शैलशिलाभिवृष्टिभिः | प्लवङ्गमास्तानभिवीक्ष्य वीर्यवान् ससार वेगेन महोदरो रुषा
SK
वीक्ष्यातिकायं तमभिद्रवन्तं स कुम्भकर्णोऽयमिति ब्रुवन्तः | प्रदुद्रुवुर्वानरवीरसऽ न्घास्तमाससादाऽशु सुतोऽथ वालिनः
SK
वदन् स तिष्ठध्वमिति स्म वीरो विभीषिकामात्रमिदं न यात | इतीरयन्नग्रत एष पुप्लुवे महोदरस्येन्द्रसुतात्मजो बली
SK
अथो शरानाण्सु विमुञ्चमानं शिरः परामृश्य निपात्य भूतल् . ए | ममर्द पद्भ्यामभवद् गतासुर्महोदरो वालिसुतेन चूर्णितः
SK
अथो महापार्श्व उपाजगाम प्रवर्षमाणोऽस्य शराम्बुधाराः | प्रसं ह्य चाऽच्छिद्य धनुः करस्थं समाददे खड्गममुष्य सोऽङ्गदः
SK
निगृह्य केशेषु निपात्य भूतल् . ए चकर्त वामां सत ओदरं परम् | यथोपवीतं स तथा द्विधाकृतो ममार मन्त्री रजनीचरेशितुः
SK
अथैनमाजग्मतुरुद्यतायुधौ विरूपनेत्रोऽप्यथ यूपनेत्रः | यथैव मेघौ दिवि तिग्मरश्मिं तथा समाच्छादयतां शरौघैः
SK
त् आभ्यां स बद्धः शरपञ्जरेण विचेष्टितुं नाण्सकदत्र वीरः | हरीश्वरः शैलमतिप्रमाणमुत्पाट्य चिक्षेप तयोः शरीरे
SK
उभौ च तौ तेन विचूर्णितौ रणे रवेः सुतस्योरुबलेरितेन | निशाचरेशोऽथ शरेण सूर्यजं बिभेद वक्षस्यपि सोऽपतद् भुवि
SK
ततः स सर्वां श्च हरिप्रवीरान् विधूय बाणैर्बलवान् दशाननः | ल्xxइx.जगाम रामाभिमुखस्तदैनं रुरोध रामावरजं शरौघैः
SK
तदा दशास्योऽन्तकदण्डकल्पां मयाय दत्तां कमलोद्भवेन | मयाद्गृहीत् आं च विवाहकाले प्रगृह्य शक्तिं विससर्ज लक्ष्मणे
SK
तया स वीरः सुविदारितोराः पपात भूमौ सुभृशं विमूर्च्छितः | मरुत्सुतः शैलमतिप्रमाणं चिक्षेप रक्षः पतिवक्षसि द्रुतम्
SK
तेनातिगाढं व्यथितो दशाननो मुखैर्वमञ्छोणितपूरमाण्सु | तदन्तरेण प्रतिगृह्य लक्ष्मणं जगाम शक्त्या सह रामसन्निधिम्
SK
समुद्बबर्हाथ च तां स राघवो दिदेश च प्राणवरात्मजं पुनः | प्रभुः समानेतुमथो वरौषधीः स चाऽनिनायाऽशु गिरिं पुनस्तम्
SK
तद्गन्धमात्रेण समुत्थितोऽसौ सौमित्रिरात्तोरुबलश्च पूर्ववत् | शशं स चाण्स्लिष्य मरुत्सुतं प्रभुः स राघवोऽगण्यगुणार्णवः स्मयन्
SK
प्राक्षिपत् तं गिरिवरं लङ्कास्थः सन् स मारुतिः | अर्धलक्षे योजनानां यत्रासौ पूर्वसं स्थितः
SK
तद्बाहुवेगात् सं श्लेष प्राप पूर्ववदेव सः | मृत् आण्स्च ये प्लवङ्गास्तु तद्गन्धात् तेऽपि जीविताः
SK
रामाज्ञयैव रक्षां सि हरयोऽब्धाववाक्षिपन् | नोज्जीवितास्ततस्ते तु वानरा निरुजोऽभवन्
SK
छिन्नप्ररोहिणण्स्चैव विशल्याः पूर्ववर्णिनः | औषधीनां प्रभावेन सर्वेऽपि हरयोऽभवन्
SK
अथाऽससादोत्तमपूरुषं प्रभुं विमानगो रावण आयुधौघान् | प्रवर्षमाणो रघुवं शनाथं तमात्तधन्वाऽभिययौ च रामः
SK
सम्मानयन् राघवमादिपूरुषं निर्यातयामास रथं पुरन्दरः | सहायुधं मातलिसङ्गृहीतं समारुरोहाऽशु स लक्ष्मणाग्रजः
SK
ल्xxx.आरुह्य तं रथवरं जगदेकनाथो लोकाभयाय रजनीचरनाथमाण्सु | अभ्युद्ययौ दशशतां शुरिवान्धकारं लोकानशेषत इमान् निगिरन्तमुद्यन्
SK
आयान्तमीक्ष्य रजनीचरलोकनाथः शस्त्राण्यथास्त्रसहितानि मुमोच रामे | रामस्तु तानि विनिहत्य निजैर्महास्त्रैस्तस्योत्तमाङ्गदशकं युगपन्न्यकृन्तत्
SK
कृत्त् आनि तानि पुनरेव समुत्थितानि दृष्ट्वा वराच्छतधृतेर्हृदयं विभेद | बाणेन वज्रसदृशेन स भिन्नहृत्को रक्तं वमन् न्यपतदाण्सु महाविमानात्
SK
तस्मिन् हते त्रिजगतां परमप्रतीपे ब्रह्मा ण्सिवेन सहितः सह लोकपालैः | अभ्येत्य पादयुगल् . अं जगदेकभर्तू रामस्य भक्तिभरितः शिरसा ननाम
SK
अथैनमस्तौत् पितरं कृत् आञ्जलिर्गुणाभिरामं जगतः पितामहः | जितं जितं तेऽजित लोकभावन प्रपन्नपालाय नताः स्म ते वयम्
SK
त्वमेक ईशोऽस्य नचाऽदिरन्तस्तवेड्य कालेन तथैव देशतः | गुणा ह्यगण्यास्तव तेऽप्यनन्ताः प्रत्येकशश्चाऽदिविनाण्सवर्जिताः
SK
नचोद्भवो नैव तिरस्कृतिस्ते क्वचिद् गुणानां परतः स्वतो वा | त्वमेक आद्यः परमः स्वतन्त्रो भृत्यास्तवाहं शिवपूर्वकाण्स्च ये
SK
यथाऽर्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चाऽपः | गच्छन्ति चाऽयन्ति च सन्ततास्त्त्वत् तद्वन्मदाद्याः शिवपूर्वकाण्स्च ये
SK
ये ये च मुक्तास्त्वथ ये च बद्धाः सर्वे तवेशेश वशे सदैव | वयं सदा त्वद्गुणपूगमुच्चैः सर्वे वदन्तोऽपि न पारगामिनः
SK
किमेष ईदृग्गुणकस्य ते प्रभो रक्षोवधोऽशेषसुरप्रपालनम् | अनन्यसाध्यं हि तथाऽपि तद् द्वयं कृतं त्वया तस्य नमोनमस्ते
SK
इतीरिते त्वब्जभवेन शूली समाह्वयद् राघवमाहवाय | वरं मदीयं त्वगणय्य रक्षो हतं त्वया तेन रणाय मेहि
SK
इतीरितेऽस्त्वित्यभिधाय राघवो धनुः प्रगृह्याऽशु शरं च सन्दधे | विकृष्यमाणे चलिता वसुन्धरा पपात रुद्रोऽपि धराप्रकम्पतः
SK
ल्xxxइ.अथोत्थितश्चाऽसुरभाववर्जितः क्षमस्व देवेति ननाम पादयोः | उवाच च त्वद्वशगोऽस्मि सर्वदा प्रसीद मे त्वद्विषयं मनः कुरु
SK
अथेन्द्रमुख्याण्स्च तमूचिरे सुरास्त्वयाऽविताः स्मोऽद्य निशाचराद् वयम् | तथैव सर्वापद एव नस्त्वं प्रपाहि सर्वे भवदीयकाः स्म
SK
सीत् आकृतिं त् आमथ तत्र चाऽगतां दिव्यच्छलेन प्रणिधाय पावके | कैलासतस्तां पुनरेव चाऽगतां सीत् आमगृह्णाद्धुतभुक्समर्पिताम्
SK
ज् आनन् गिरीशालयगां स सीत् आं समग्रहीत् पावकसम्प्रदत्ताम् | मुमोद सम्प्राप्य च तां स रामः सा चैव देवी भगवन्तमाप्य
SK
अथो गिरेरानयनात् परस्ताद् ये वानरा रावणबाणपीडित् आः | त् आरापिता तान् निरुजश्चकार सुषेणनामा भिषजां वरिष्ठः
SK
तदा मृत् आन् राघव आनिनाय यमक्षयाद् देवगणां श्च सर्वशः | समन्वजानात् पितरं च तत्र समागतं गन्तुमियेष चाथ
SK
विभीषणेनार्पितमारुरोह स पुष्पकं तत्सहितः सवानरः | पुरीं जगामाऽशु निजामयोध्यां पुरो हनूमन्तमथ न्ययोजयत्
SK
ददर्श चासौ भरतं हुताण्सनं प्रवेष्टुकामं जगदीश्वरस्य | अदर्शनात् तं विनिवार्य रामं समागतं चास्य शशं स मारुतिः
SK
श्रुत्वा प्रमोदोरुभरः स तेन सहैव पौरैः सहितः समातृकः | शत्रुघ्नयुक्तोऽभिसमेत्य राघवं ननाम बाष्पाकुललोचनाननः
SK
उत्थाप्य तं रघुपतिः सस्वजे प्रणयान्वितः | शत्रुघ्नं च तदन्येषु प्रतिपेदे यथावयः
SK
पुरीं प्रविश्य मुनिभिः साम्राज्ये चाभिषेचितः | यथोचितं च सम्मान्य सर्वानाहेदमीश्वरः
SK
सर्वैर्भवद्भिः सुकृतं विधाय देहं मनोवाक्सहितं मदीयम् | ल्xxxइइ.एतावदेवाखिलसद्विधेयं यत् कायवाक्चित्तभवं मदर्चनम्
SK
मुक्तिप्रदानात् प्रतिकर्तृत् आ मे सर्वस्य चाथो भवतां भवेत् | हनूमतो न प्रतिकर्तृत् आ स्यात् स्वभावभक्तस्य निरौपधं मे
SK
मद्भक्तौ ज्ञानपूर्तावनुपधिकबलप्रोन्नतौ स्थैर्यधैर्य स्वाभाव्याधिक्यतेजः सुमतिदमशमेष्वस्य तुल्यो न कश्चित् | शेषो रुद्रः सुपर्णोऽप्युरुगुणसमितौ नो सहस्रां शतुल्या अस्येत्यस्मान्मदैशं पदमहममुना सार्धमेवोपभोक्ष्ये
SK
पूर्वं जिगाय भुवनं दशकन्धरोऽसावब्जोद्भवस्य वरतो नतु तं कदाचित् | कश्चिज्जिगाय पुरुहूतसुतः कपित्वाद् विष्णोर्वरादजयदर्जुन एव चैनम्
SK
दत्तो वरो न मनुजान् प्रति वानरां श्च धात्राऽस्य तेन विजितो युधि वालिनैषः | अब्जोद्भवस्य वरमाण्स्वभिभूय रक्षो जिग्ये त्वहं रणमुखे बलिमाह्वयन्तम्
SK
बलेर्द्वारस्थोऽहं वरमस्मै सम्प्रदाय पूर्वं तु | तेन मया रक्षोऽस्तं योजनमयुतं पदाङ्गुल्या
SK
पुनश्च युद्धाय समाह्वयन्तं न्यपातयं रावणमेकमुष्टिना | महाबलोऽहं कपिलाख्यरूपस्त्रिकोटिरूपः पवनश्च मे सुतः
SK
आवां स्वशक्त्या जयिनाविति स्म शिवो वरान्मेऽजयदेनमेवम् | ज् ञात्वा सुराजेयमिमं हि वव्रे हरो जयेयाहममुं दशाननम्
SK
अतः स्वभावाज्जयिनावहं च वायुश्च वायुर्हनुमान् स एषः | अमुष्य हेतोस्तु पुरा हि वायुना ण्सिवेन्द्रपूर्वा अपि काष्ठवत् कृत् आः
SK
अतो हनूमान् पदमेतु धातुर्मदाज्ञया सृष्ट्यवनादि कर्म | मोक्षं च लोकस्य सदैव कुर्वन् मुक्तश्च मुक्तान् सुखयन् प्रवर्तताम्
SK
भोगाण्स्च ये यानि च कर्मजातान्यनाद्यनन्तानि ममेह सन्ति | मदाज्ञया तान्यखिलानि सन्ति धातुः पदे तत् सहभोगनाम
SK
एतादृशं मे सहभोजनं ते मया प्रदत्तं हनुमन् सदैव | ल्xxxइइइ.इतीरितस्तं हनुमान् प्रणम्य जगाद वाक्यं स्थिरभक्तिनम्रः
SK
को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह | तथाऽपि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणादृते
SK
त्वमेव साक्षात् परमस्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः | त्वमेव चागण्यगुणार्णवः सदा रमाविरिञ्चादिभिरप्यशेषैः
SK
समेत्य सर्वेऽपि सदा वदन्तोऽप्यनन्तकालाच्च नवै समाप्नुयुः | गुणां स्त्वदीयान् परिपूर्णसौख्यज्ञानात्मकस्त्वं हि सदाऽतिशुद्धः
SK
यस्ते कथासेवक एव सर्वदा सदारतिस्त्वय्यचलैकभक्तिः | स जीवमानो न परः कथञ्चित् तज्जीवनं मेऽस्त्वधिकं समस्तात्
SK
प्रवर्द्धतां भक्तिरलं क्षणेक्षणे त्वयीश मे ह्रासविवर्जिता सदा | अनुग्रहस्ते मयि चैवमेव निरौपधौ तौ मम सर्वकामः
SK
इतीरितस्तस्य ददौ स तद्द्वयं पदं विधातुं सकलैश्च शोभनम् | समाण्स्लिषच्चैनमथाऽर्द्रया धिया यथोचितं सर्वजनानपूजयत्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source