3.1 SK इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये व्Ḹअक्योद्धारो नाम द्वितीयोऽध्यायः xxxइइ.(सर्गानुसर्ग-लय-प्रादुर्भावनिर्णयः ) अथ तृतीयोऽध्यायः Oं | जयत्यजोऽखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली | स्वभक्तहार्दोच्चतमोनिहन्ता व्यासावतारो हरिरात्मभास्करः
3.2 SK जयत्यजोऽक्षीणसुखात्मबिम्बः स्वैश्वर्यकान्तिप्रततः सदोदितः | स्वभक्तसन्तापदुरिष्टहन्ता रामावतारो हरिरीशचन्द्रमाः
3.3 SK जयत्यसङ्ख्योरुबलाम्बुपूरो गुणोच्चरत्नाकर आत्मवैभवः | सदा सदात्मज्ञनदीभिराप्यः कृष्णावतारो हरिरेकसागरः
3.4 SK ᳚नारायणं नमस्कृत्य नरं चैव नरोत्तमम् | देवीं सरस्वतीं व्यासं ततो जयमुदीरये᳚६१
3.5 SK जयो नामेतिहासोऽयं कृष्णद्वैपायनेरितः | वायुर्नरोत्तमो नाम देवीति श्रीरुदीरिता
3.6 SK नारायणो व्यास इति वाच्यवक्तृस्वरूपकः | एकः स भगवानुक्तः साधकेशो नरोत्तमः
3.7 SK उपसाधको नरश्चोक्तो देवी भाग्यात्मिका नृणाम् | सरस्वती वाक्यरूपा तस्मान्नम्या हि तेऽखिलाः | कृष्णौ सत्या भीमपार्थौ कृष्णेत्युक्ता हिभारते
3.8 SK सर्वस्य निर्णयसुवाक्यसमुद्धृती तुस्वाध्याययोर्हरिपदस्मरणेन कृत्वा | आनन्दतीर्थवरनामवती तृतीया भौमी तनुर्मरुत आह कथाः परस्य
3.9 SK व्यूढश्चतुर्धा भगवान् स एको मायां श्रियं सृष्टिविधित्सयाऽर | रूपेण पूर्वेण सवासुदेवनाम्ना विरिञ्चं सुषुवे च साऽतः
3.10 SK सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद् बलसं विदात्मा | वायुर्य एवाथ विरिञ्चनामा भविष्य आद्यो न परस्ततो हि
3.11 SK ६१ Mअहा. Āदि. १.१ * xxxइइइ.सूत्रं स वायुः पुरुषो विरिञ्चः प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे | प्रजज्ञतुर्यमल् . ए तत्र पूर्वा प्रधानसञ्ज्ञा प्रकृतिर्जनित्री
3.12 SK श्रद्धा द्वितीयाऽथ तयोश्च योगो बभूव पुं सैव च सूत्रनाम्ना | हरेर्नियोगादथ सम्प्रसूतौ शेषः सुपर्णण्स्च तयोः सहैव
3.13 SK शेषस्तयोरेव हि जीवनामा कालात्मकः सोऽथ सुपर्ण आसीत् | तौ वाहनं शयनं चैव विष्णोः काला जयाद्याण्स्च तत प्रसूताः
3.14 SK काला जयाद्या अपि विष्णुपार्षदा यस्मादण्डात् परतः सम्प्रसूताः | नीचाः सुरेभ्यस्तत एव तेऽखिला विष्वक्सेनो वायुजः खेन तुल्यः
3.15 SK व्यूहात् तृतीयात् पुनरेव विष्णोर्देवां श्चतुर्वर्णगतान् समस्तान् | सङ्गृह्य बीज् आत्मतयाऽनिरुद्धो न्यधत्त शान्त्यां त्रिगुणात्मिकायाम्
3.16 SK ततो महत्तत्त्वतनुर्विरिञ्चः स्थूलात्मनैवाजनि वाक् च देवी | तस्यामहङ्कारतनुं स रुद्रं ससर्ज बुद्धिं च तदर्द्धदेहाम्
3.17 SK बुद्ध्यामुमायां स शिवस्त्रिरूपो मनश्च वैकारिकदेवसङ्घान् | दशेन्द्रियाण्येव च तैजसानि क्रमेण खादीन् विषयैश्च सार्द्धम्
3.18 SK पुं सः प्रकृत्यां च पुनर्विरिञ्चाच्छिवोऽथ तस्मादखिलाः सुरेशाः | ज् आताः सशक्राः पुनरेव सूत्राच्छ्रद्धा सुतानाप सुरप्रवीरान् | शेषं शिवं चेन्द्रमथेन्द्रतश्च सर्वे सुरा यज्ञगणाण्स्च जाताः
3.19 SK पुनश्च माया त्रिविधा बभूव सत्त्वादिरूपैरथ वासुदेवात् | सत्त्वात्मिकायां स बभूव तस्मात् स विष्णुनामैव निरन्तरोऽपि | रजस्तनौ चैव विरिञ्च आसीत् तमस्तनौ शर्व इति त्रयोऽस्मात्
3.20 SK एते हि देवाः पुनरण्डसृष्टावशक्नुवन्तो हरिमेत्य तुष्टुवुः | त्वं नो जगच्चित्रविचित्रसर्गनिस्सीमशक्तिः कुरु सन्निकेतम्
3.21 SK इति स्तुतस्तैः पुरुषोत्तमोऽसौ स विष्णुनामा ण्स्रियमाप सृष्टये | सुषाव सैवाण्डमधोक्षजस्य शुष्मं हिरण्यात्मकमम्बुमध्ये
3.22 SK xxxइव्.तस्मिन् प्रविष्टा हरिणैव सार्द्धं सर्वे सुरास्तस्य बभूव नाभेः | लोकात्मकं पद्मममुष्य मध्ये पुनर्विरिञ्चोऽजनि सद्गुणात्मा
3.23 SK तस्मात् पुनः सर्वसुराः प्रसूतास्ते जानमाना अपि निर्णयाय | निस्सृत्य कायादुत पद्मयोनेः सम्प्राविशन् क्रमशो मारुतान्ताः
3.24 SK पपात वायोर्गमनाच्छरीरं तस्यैव चाऽवेशत उत्थितं पुनः | तस्मात् स एको विबुधप्रधान इत्याण्स्रिता देवगणास्तमेव | हरेर्विरिञ्चस्य च मध्यसं स्थितेस्तदन्यदेवाधिपतिः स मारुतः
3.25 SK ततो विरिञ्चो भुवनानि सप्त ससप्तकान्याण्सु चकार सोऽब्जात् | तस्माच्च देवा ऋषयः पुनश्च वैकारिकाद्याः सशिवा बभूवुः
3.26 SK अग्रे शिवोऽहम्भव एव बुद्धेरुमा मनोजौ सह शक्रकामौ | गुरुर्मनुर्दक्ष उतानिरुद्धः सहैव पश्चान्मनसः प्रसूताः
3.27 SK चक्षुः श्रुतिभ्यां स्पर्शात् सहैव रविः शशी धर्म इमे प्रसूताः | जिह्वाभवो वारिपतिर्नसोश्च नासत्यदस्रौ क्रमशः प्रसूताः
3.28 SK ततः सनाद्याण्स्च मरीचिमुख्या देवाण्स्च सर्वे क्रमशः प्रसूताः | ततोऽसुराद्या ऋषयो मनुष्या जगद् विचित्रं च विरिञ्चतोऽभूत्
3.29 SK उक्तक्रमात् पूर्वभवस्तु यो यः श्रेष्ठः स स ह्यासुरकानृते च | पूर्वस्तु पश्चात् पुनरेव जातो नाण्स्रेष्ठतामेति कथञ्चिदस्य | गुणास्तु कालात् पितृमातृदोषात् स्वकर्मतो वाऽभिभवं प्रयान्ति
3.30 SK लयो भवेद् व्युत्क्रमतो हि तेषां ततो हरिः प्रल् . अये श्रीसहायः | शेतेनिजानन्दममन्दसान्द्रसन्दोहमेकोऽनुभवन्ननन्तः
3.31 SK अनन्तशीर्षास्यकरोरुपादः सोऽनन्तमूर्तिः स्वगुणाननन्तान् | अनन्तशक्तिः परिपूर्णभोगो भुञ्जन्नजस्रं निजरूप आस्ते
3.32 SK एवं पुनः सृजते सर्वमेतदनाद्यनन्तो हि जगत्प्रवाहः | नित्याण्स्च जीवाः प्रकृतिश्च नित्या कालश्च नित्यः किमु देवदेवः
3.33 SK xxxव्.यथा समुद्रात् सरितः प्रजाताः पुनस्तमेव प्रविशन्ति शश्वत् | एवं हरेर्नित्यजगत्प्रवाहस्तमेव चासौ प्रविशत्यजस्रम्
3.34 SK एवं विदुर्ये परमामनन्तामजस्य शक्तिं पुरुषोत्तमस्य | तस्य प्रसादादथ दग्धदोषास्तमाप्नुवन्त्याण्सु परं सुरेशम्
3.35 SK देवानिमान् मुक्तसमस्तदोषान् स्वसन्निधाने विनिवेश्य देवः | पुनस्तदन्यानधिकारयोग्यां स्तत्तद्गणानेव पदे नियुङ्क्ते
3.36 SK पुनश्च मारीचत एव देवा जाता आदित्यामसुराण्स्च दित्याम् | गावो मृगाः पक्ष्युरगादिसत्त्वा दाक्षायणीष्वेव समस्तशोऽपि
3.37 SK ततः स मग्नामलयो लयोदधौ महीं विलोक्याऽशु हरिर्वराहः | भूत्वा विरिञ्चार्थ इमां सशैलामुद्धृत्य वारामुपरि न्यधात् स्थिरम्
3.38 SK अथाब्जनाभप्रतिहारपालौ शापात् त्रिशो भूमितल् . एऽभिजातौ | दित्यां हिरण्यावथ राक्षसौ च पैतृष्वसेयौ च हरेः परस्तात्
3.39 SK हतो हिरण्याक्ष उदारविक्रमो दितेः सुतो योऽवरजः सुरार्थे | धात्राऽर्थितेनैव वराहरूपिणा धरोद्धृतौ पूर्वहतोऽब्जजोद्भवः
3.40 SK अथो विधातुर्मुखतो विनिः सृत् आन् वेदान् हयास्यो जगृहेऽसुरेन्द्रः | निहत्य तं मत्स्यवपुर्जुगोप मनुं मुनीं स्तां श्च ददौ विधातुः
3.41 SK मन्वन्तरप्रल् . अये मत्स्यरूपो विद्यामदान्मनवे देवदेवः | वैवस्वतायोत्तमसं विदात्मा विष्णोः स्वरूपप्रतिपत्तिरूपाम्
3.42 SK अथो दितेर्ज्येष्ठसुतेन शश्वत् प्रपीडित् आ ब्रह्मवरात् सुरेशाः | हरिं विरिञ्चेन सहोपजग्मुर्दौरात्म्यमस्यापि शशं सुरस्मै
3.43 SK अभिष्टुतस्तैर्हरिरुग्रवीर्यो नृसिं हरूपेण सआविरासीत् | हत्वा हिरण्यं च सुताय तस्य दत्वाऽभयं देवगणानतोषयत्
3.44 SK सुरासुराणामुदधिं विमथ्नतां दधार पृष्ठेन गिरिं स मन्दरम् | xxxवि.वरप्रदानादपरैरधार्यं हरस्य कूर्मो बृहदण्डवोढा
3.45 SK वरादजेयत्वमवाप दैत्यराट्चतुर्मुखस्यैव बलिर्यदा तदा | अजायतेन्द्रावरजोऽदितेः सुतो महानजोऽप्यब्जभवादिसं स्तुतः
3.46 SK स वामनात्माऽसुरभूभृतोऽध्वरं जगाम ᳚गां सन्नमयन् पदे पदे᳚६२ | जहार चास्माच्छलतस्त्रिविष्टपं त्रिभिः क्रमैस्तच्च ददौ निजाग्रजे
3.47 SK पितामहेनास्य पुरा हियाचितो बलेः कृते केशव आह यद् वचः | नायाञ्चयाऽहं प्रतिहन्मि तं बलिं शुभाननेत्येव ततोऽभ्ययाचत
3.48 SK बभूविरे चन्द्रललामतो वरात् पुरा ह्यजेया असुरा धरातल् . ए | तैरर्दिता वासवनायकाः सुराः पुरो निधायाब्जजमस्तुवन् हरिम्
3.49 SK विरिञ्चसृष्टैर्नितरामवध्यौ वराद् विधातुर्दितिजौ हिरण्यकौ | तथा हयग्रीव उदारविक्रमस्त्वया हता ब्रह्मपुरातनेन
3.50 SK स चासुरान् रुद्रवरादवध्यानिमान् समस्तैरपि देवदेव | निः सीमशक्त्यैव निहत्य सर्वान् हृदम्बुजे नो निवसाथ शश्वत्
3.51 SK इत्यादरोक्तस्त्रिदशैरजेयः स शार्ङ्गधन्वाऽथ भृगूद्वहोऽभूत् | रामो निहत्यासुरपूगमुग्रं नदाननादिर्विदधेऽसृजैव
3.52 SK ततः पुलस्त्यस्य कुले प्रसूतौ तावादिदैत्यौ जगदेकशत्रू | परैरवध्यौ वरतः पुरा हरेः सुरैरजेयौ च वराद् विधातुः
3.53 SK सर्वैरजेयः स च कुम्भकर्णः पुरातने जन्मनि धातुरेव | वरान्नरादीनृत एव रावणस्तदातनात् तौ त्रिदशानबाधताम्
3.54 SK तदाऽब्जजं शूलिनमेव चाग्रतो निधाय देवाः पुरुहूतपूर्वकाः | पयोम्बुधौ भोगिपभोगशायिनं समेत्य योग्यां स्तुतिमभ्ययोजयन्
3.55 SK त्वमेक ईशः परमः स्वतन्त्रस्त्वमादिरन्तो जगतो नियोक्ता | ६२ Bहा. Pउ. ८.१७.२० xxxविइ.त्वदाज्ञयैवाखिलमम्बुजोद्भवा वितेनिरेऽग्र्याण्स्चरमाण्स्च येऽन्ये
3.56 SK मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् | द्विषट्सहस्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः
3.57 SK सहस्त्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम् | त्वदाज्ञया स्वाननुभूय भोगानुपैति सोऽपि त्वरितस्त्वदन्तिकम्
3.58 SK त्वया पुरा कर्णपुटाद् विनिर्मितौ महासुरौ तौ मधुकैटभाख्यौ | प्रभञ्जनावेशवशात् तवाऽज्ञया बलोद्धतावाण्सु जले व्यवर्धताम्
3.59 SK त्वदाज्ञया ब्रह्मवरादवध्यौ चिक्रीडिषासम्भवया मुखोद्गतान् | स्वयम्भुवो वेदगणानहार्षतां तदाऽभवस्त्वं हयशीर्ष ईश्वरः
3.60 SK आहृत्य वेदानखिलान् प्रदाय स्वयम्भुवे तौ च जघन्थ दस्यू | निष्पीड्य तावूरुतल् . ए कराभ्यां तन्मेदसैवाऽशु चकर्थ मेदिनीम्
3.61 SK एवं सुराणां च निसर्गजं बलं तथाऽसुराणां वरदानसम्भवम् | वशे तवैतद् द्वयमप्यतो वयं निवेदयामः पितुरेव तेऽखिलम्
3.62 SK इमौ च रक्षोऽधिपती वरोद्धतौ जहि स्ववीर्येण नृषु प्रभूतः | इतीरिते तैरखिलैः सुरेश्वरैर्बभूव रामो जगतीपतिः प्रभुः
3.63 SK स कश्यपस्यादितिगर्भजन्मनो विवस्वतस्तन्तुभवस्य भूभृतः | गृहे दशस्यन्दननामिनोऽभूत् कौसल्यकानाम्नि तदर्थिनेष्टः
3.64 SK तदाज्ञया देवगणा बभूविरे पुरैव पश्चादपि तस्य भूम्नः | निषेवणायोरुगुणस्य वानरेष्वथो नरेष्वेव च पश्चिमोद्भवाः
3.65 SK स देवतानां प्रथमो गुणाधिको बभूव नाम्ना हनुमान् प्रभञ्जनः | स्वसम्भवः केसरिणो गृहे प्रभुर्बभूव वाली स्वत एव वासवः
3.66 SK सुग्रीव आसीत् परमेष्ठितेजसा युतो रविः स्वात्मत एव जाम्बवान् | य एव पूर्वं परमेष्ठिवक्षसस्त्वगुद्भवो धर्म इहाऽस्यतोऽभवत्
3.67 SK xxxविइइ.य एव सूर्यात् पुनरेव सञ्ज्ञया नाम्ना यमो दक्षिणदिक्प आसीत् | स जाम्बवान् दैवतकार्यदर्शिना पुरैव सृष्टो मुखतः स्वयम्भुवा
3.68 SK ब्रह्मोद्भवः सोम उतास्य सूनोरत्रेरभूत् सोऽङ्गद एव जातः | बृहस्पतिस्तार उतो शची चशक्रस्य भार्यैव बभूव तारा
3.69 SK बृहस्पतिर्ब्रह्मसुतोऽपि पूर्वं सहैव शच्या मनसोऽभिजातः | ब्रह्मोद्भवस्याङ्गिरसः सुतोऽभून्मारीचजस्यैव शची पुलोम्नः
3.70 SK स एव शच्या सह वानरोऽभूत् स्वसम्भवो देवगुरुर्बृहस्पतिः | अभूत् सुषेणो वरुणोऽश्विनौ च बभूवतुस्तौ विविदश्च मैन्दः
3.71 SK ब्रह्मोद्भवौ तौ पुनरेव सूर्याद् बभूवतुस्तत्र कनीयसस्तु | आवेश ऐन्द्रो वरदानतोऽभूत् ततो बलीयान् विविदो हि मैन्दात्
3.72 SK नीलोऽग्निरासीत् कमलोद्भवोत्थः कामः पुनः श्रीरमणाद् रमायाम् | प्रद्युम्ननामाऽभवदेवमीशात् स स्कन्दतामाप स चक्रतां च
3.73 SK पूर्वं हरेश्चक्रमभूद्धि दुर्गा तमः स्थिता ण्स्रीरिति यां वदन्ति | सत्त्वात्मिका ण्सङ्खमथो रजस्था भूर्नामिका पद्ममभूद्धरेर्हि
3.74 SK गदा तुवायुर्बलसं विदात्मा ण्सार्ङ्गश्च विद्येति रमैव खड्गः | दुर्गात्मिका सैव च चर्मनाम्नी पञ्चात्मको मारुत एव बाणाः
3.75 SK एवं स्थितेष्वेव पुरातनेषु वराद् रथाङ्गत्वमवाप कामः | तत्सूनुतामाप च सोऽनिरुद्धो ब्रह्मोद्भवः शङ्खतनुः पुमात्मा
3.76 SK त् आवेव जातौ भरतश्च नाम्ना ण्सत्रुघ्न इत्येव च रामतोऽनु | पूर्वं सुमित्रातनयश्च शेषः स लक्ष्मणो नाम रघूत्तमादनु
3.77 SK कौसल्यकापुत्र उरुक्रमोऽसावेकस्तथैको भरतस्य मातुः | उभौ सुमित्रातनयौ नृपस्य चत्वार एते ह्यमरोत्तमा सुताः
3.78 SK सङ्कर्षणाद्यैस्त्रिभिरेव रूपैराविष्ट आसीत् त्रिषु तेषु विष्णुः | इन्द्रोऽङ्गदे चैव ततोऽङ्गदो हि बली नितान्तं स बभूव शश्वत्
3.79 SK xxxइx.येऽन्ये च भूपाः कृतवीर्यजाद्या बलाधिकाः सन्ति सहस्रशोऽपि | सर्वे हरेः सन्निधिभावयुक्ता धर्मप्रधानाण्स्च गुणप्रधानाः
3.80 SK स्वयं रमा सीरत एव जाता सीतेति रामार्थमनूपमा या | विदेहराजस्य हि यज्ञभूमौ सुतेति तस्यैव ततस्तु साऽभूत्
3.81 SK इत्यादिकल्पोत्थित एष सर्गो मया समस्तागमनिर्णयात्मकः | सहानुसर्गः कथितोऽत्र पूर्वो यो यो गुणैर्नित्यमसौ वरो हि
3.82 SK पाण्स्चात्त्यकल्पेष्वपि सर्गभेदाः श्रुतौ पुराणेष्वपि चान्यथोक्ताः | नोत्कर्षहेतुः प्रथमत्वमेषु विशेषवाक्यैरवगम्यमेतत्
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).
Source