SKइति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये श्रीरामचरिते समुद्रतरणनिश्चयो नाम षष्ठोऽध्यायः ल्विइ.(हनूमत्प्रतियानम्) अथ सप्तमोऽध्यायः Oं | रामाय शाण्स्वतसुविस्तृतषड्गुणाय सर्वेश्वराय सुखसारमहार्णवाय | नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः
SKचुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः | वृक्षाण्स्च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः
SKस्यालो हरस्य गिरिपक्षविनाण्सकाले क्षिप्त्वाऽर्णवे स मरुतोर्वरितात्मपक्षः | हैमो गिरिः पवनजस्य तु विश्रमार्थमुद्भिद्य वारिधिमवर्द्धदनेकसानुः
SKनैवात्र विश्रमणमैच्छत निः श्रमोऽसौ निः सीमपौरुषगुणस्य कुतः श्रमोऽस्य | आण्स्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण
SKजिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत् त्वमिच्छसि तदित्यमरोदितायाः | आस्यं प्रविश्य सपदि प्रविनिः सृतोऽस्माद् देवाननन्दयदुत स्वृतमेषु रक्षन्
SKदृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोभिवृष्ट्या | तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिं हिकाख्यम्
SKलङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता | छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाऽशु
SKनिस्सीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् | लम्बे स लम्बशिखरे निपपात लङ्काप्राकाररूपकगिरावथ सञ्चुकोच
SKभूत्वा बिलाल् . असमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् | रुद्धोऽनयाऽश्वथ विजित्य च तां स्वमुष्टिपिष्टां तयाऽनुमत एव विवेश लङ्काम्
SKमार्गमाणो बहिश्चान्तः सोऽशोकवनिकातल् . ए | ददर्श शिं शपावृक्षमूलस्थितरमाकृतिम्
SKनरलोकविडम्बस्य जानन् रामस्य हृद्गतम् | तस्य चेष्टानुसारेण कृत्वा चेष्टाण्स्च सं विदः | ल्विइइ.त् आदृक्चेष्टासमेताया अङ्गुलीयमदात् ततः
SKसीत् आया यानि चैवाऽसन्नाकृतेस्तानि सर्वशः | भूषणानि द्विधा भूत्वा तान्येवाऽसं स्तथैव च
SKअथ चूल् . आमणिं दिव्यं दातुं रामाय सा ददौ | यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते | द्युलोकचारिणः सर्वं पश्यन्त्यृषय एव च
SKतेषां विडम्बनायैव दैत्यानां वञ्चनाय च | पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत्
SKकृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः | आत्माविष्करणे चित्तं चक्रे मतिमतां वरः
SKअथ वनमखिलं तद् रावणस्यावलुप्य क्षितिरुहमिममेकं वर्जयित्वाऽशु वीरः | रजनिचरविनाण्सं काङ्क्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चाऽरुरोह
SKअथाण्सृणोद् दशाननः कपीन्द्रचेष्टितं परम् | दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति
SKसमस्तशो विमृत्यवो वराद्धरस्य किङ्कराः | समासदन् महाबलम् सुरान्तरात्मनोऽङ्गजम्
SKअण्सीतिकोटियूथपं पुरस्सराष्टकायुतम् | अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद् बलम्
SKसमावृतस्तथाऽयुधैः स ताडितश्च तैर्भृशम् | चकार तान् समस्तशस्तल् . अप्रहारचूर्णित् आन्
SKपुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् | ममर्द सप्त पर्वतप्रभान् वराभिरक्षित् आन्
SKबलाग्रगामिनस्तथा सशर्ववाक्सुगर्वितान् | निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत्
SKलिx.अनौपमं हरेर्बलं निशम्य राक्षसाधिपः | कुमारमक्षमात्मनः समं सुतं न्ययोजयत्
SKस सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह| शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत्
SKस मण्डमध्यकासुतं समीक्ष्य रावणोपमम् | तृतीय एष चां शको बलस्य हीत्यचिन्तयत्
SKनिधार्य एव रावणः स राघवस्य नान्यथा | यदीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते
SKअतस्तयोः समो मया तृतीय एष हन्यते | विचार्य चैवमाण्सु तं पदोः प्रगृह्य पुप्लुवे
SKस चक्रवद् भ्रमातुरं विधाय रावणात्मजम् | अपोथयद् धरातल् . ए क्षणेन मारुती तनुः
SKविचूर्णिते धरातल् . ए निजे सुते स रावणः | निशम्य शोकतापितस्तदग्रजं समादिशत्
SKअथेन्द्रजिन्महाण्सरैर्वरास्त्रसम्प्रयोजितैः | ततक्ष वानरोत्तमं न चाण्सकद् विचालने
SKअथास्त्रमुत्तमं विधेर्युयोज सर्वदुष्षहम् | स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः
SKमया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः | स माननीय एव मे ततोऽत्र मानयाम्यहम्
SKइमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः | इतीह लक्ष्यमेव मे स रावणण्स्च दृश्यते
SKइदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाण्सु ते | ल्x.बबन्धुरन्यपाण्सकैर्जगाम चास्त्रमस्य तत्
SKअथ प्रगृह्य तं कपिं समीपमानयं श्च ते | निशाचरेश्वरस्य तं स पृष्टवां श्च रावणः
SKकपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् | इतीरितः स चावदत् प्रणम्य राममीश्वरम्
SKअवैहि दूतमागतं दुरन्तविक्रमस्य माम् | रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम्
SKन चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा | सपुत्रमित्रबान्धवो विनाण्समाण्सु यास्यसि
SKन रामबाणधारणे क्षमाः सुरेश्वरा अपि | विरिञ्चिशर्वपूर्वकाः किमु त्वमल्पसारकः
SKप्रकोपितस्य तस्य कः पुरस्थितौ क्षमो भवेत् | सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः
SKइतीरिते वधोद्यतं न्यवारयद् विभीषणः | स पुच्छदाहकर्मणि न्ययोजयन्निशाचरान्
SKअथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये | ददुर्ददाह नास्य तन्मरुत्सखो हुताण्सनः
SKममर्ष सर्वचेष्टितं स रक्षसां निरामयः | बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम्
SKददाह चाखिलं पुरं स्वपुच्छगेन वह्निना | कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा
SKसुवर्णरत्नकारितां स राक्षसोत्तमैः सह | प्रदह्य सर्वशः पुरीं मुदाऽन्वितो जगर्ज च
SKल्xइ.स रावणं सपुत्रकं तृणोपमं विधाय च | तयोः प्रपश्यतोः पुरं विधाय भस्मसाद् ययौ
SKविलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः | प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान्
SKरामं सुरेश्वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः | चूल् . आमणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या
SKरामोऽपि नान्यदनुदातुममुष्य योग्यमत्यन्तभक्तिपरमस्य विलक्ष्य किञ्चित् | स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाण्स्लिषदमुं परमाभितुष्टः