Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya · Mअहाभारततात्पर्यनिर्णय

Determination of the Essence of the Mahabharata

Mahābhāratatātparyanirṇaya

Mअहाभारततात्पर्यनिर्णय

Adhyāya 15

SK
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये उद्धवप्रतियानं न्Ḹअम चतुर्दशोऽध्यायः च्ल्xव्.(पाण्डवशास्त्राभ्यासः ) अथ पञ्चदशोऽध्यायः Oं | एवं प्रशासति जगत् पुरुषोत्तमेऽस्मिन् भीमार्जुनौ तु सहदेवयुतावनुज्ञाम् | कृष्णादवाप्य वर्षत्रितयात् पुरं स्वमाजग्मतुर्हरिसुतेन विशोकनाम्ना
SK
सैरन्ध्रिकोदरभवः स तु नारदस्य शिष्यो वृकोदररथस्य बभूव यन्ता | या पिङ्गलाऽन्यभव आत्मनि सं स्थितं तं सं स्मृत्य कान्तमुरुगायमभूत् त्रिवक्रा
SK
तं पञ्चरात्रविदमाप्य सुषारथिं स भीमो मुमोद पुनराप परात्मविद्याम् | व्यासात् परात्मत उवाच च फल्गुनादिदैवेषु सर्वविजयी परविद्ययैषः
SK
सर्वानभागवतशास्त्रपथान् विधूय मार्गं चकार स तु वैष्णवमेव शुभ्रम् | क्रीडार्थमेव विजिगाय तथोभयात्मयुद्धे बलं च करवाक्प्रभवेऽमितात्मा
SK
नित्यप्रभूतसुशुभप्रतिभोऽपि विष्णोः श्रुत्वा परां पुनरपि प्रतिभामवाप | को नाम विष्ण्वनुपजीवक आस यस्य नित्याण्स्रयादभिहिताऽपि रमा सदा ण्स्रीः
SK
व्यासादवाप परमात्मसतत्त्वविद्यां धर्मात्मजोऽपि सततं भगवत्प्रपन्नाः | ते पञ्च पाण्डुतनया मुमुदुर्नितान्तं सद्धर्मचारिण उरुक्रमशिक्षित् आर्थाः
SK
यदा भरद्वाजसुतस्त्वसञ्चयी प्रतिग्रहोज्झो निजधर्मवर्ती | द्रौणिस्तदा धार्तराष्ट्रैः समेत्य क्रीडन् पयः पातुमुपैति सद्म
SK
तस्मै माता पिष्टमालोड्य पातुं ददाति पीत्वैति तदेष नित्यम् | पीतक्षीरान् धार्तराष्ट्रान् स चैत्य मया पीतं क्षीरमित्याह नित्यम्
SK
नृत्यन्तमेनं पाययामासुरेते पयः कदाचिद् रसमस्य सोऽवेत् | पुनः कदाचित् स तु मातृदत्ते पिष्टे नेदं क्षीरमित्यारुराव
SK
दृष्ट्वा रुवन्तं सुतमात्मजस्य स्नेहान्नियत्यैव जनार्दनस्य | सम्प्रेरितः कृपया चाऽर्तरूपो द्रोणो ययावार्जयितुं तदा गाम्
SK
प्रतिग्रहात् सन्निवृत्तः स रामं ययौ न विष्णोर्हि भवेत् प्रतिग्रहः | दोषाय यस्मात् स पिताऽखिलस्य स्वामी गुरुः परमं दैवतं च
SK
च्ल्xवि.दृष्ट्वैवैनं ज् आमदग्न्योऽप्यचिन्तयद् द्रोणं कर्तुं क्षितिभारापनोदे | हेतुं सुराणां नरयोनिजानां हन्ता चायं स्यात् सह पुत्रेण चेति
SK
तेषां वृद्धिः स्यात् पाण्डवार्थे हतानां मोक्षेऽपि सौख्यस्य न सन्ततिश्च | योग्या सुराणां कलिजा सुपापाः प्रायो यस्मात् कलिजाः सम्भवन्ति
SK
न देवानामाण्सतं पूरुषा हि सन्तानजाः प्रायशः पापयोग्याः | नाकारणात् सन्ततेरप्यभावो योग्यः सुराणां सदमोघरेतसाम्
SK
अव्युच्छिन्ने सकलानां सुराणां तन्तौ कलिर्नो भविता कथञ्चित् | तस्मादुत्साद्याः सर्व एते सुरां शा एतेन साकं तनयेन वीराः
SK
एवं विचिन्त्याप्रतिमः स भार्गवो बभाष ईषत्स्मितशोचिषा गिरा | अनन्तशक्तिः सकलेश्वरोऽपि त्यक्तं सर्वं नाद्य वित्तं ममास्ति
SK
आत्मा विद्या ण्सस्त्रमेतावदस्ति तेषां मध्ये रुचितं त्वं गृहाण | उक्तः स इत्थं प्रविचिन्त्य विप्रो जगाद कस्त्वद्ग्रहणे समर्थः
SK
सर्वेशिता सर्वपरः स्वतन्त्रस्त्वमेव कोऽन्यः सदृशस्तवेश | स्वाम्यं तवेच्छन् प्रतियात्यधो हि यस्मान्नचोत्थातुमलं कदाचित्
SK
सर्वोत्तमस्येश तवोच्चशस्त्रैः कार्यं किमस्माकमनुद्बलानाम् | विद्यैव देया भवता ततोऽज सर्वप्रकाण्सिन्यचला सुसूक्ष्मा
SK
इतीरितस्तत्त्वविद्यादिकाः स विद्याः सर्वाः प्रददौ सास्त्रशस्त्राः | अब्दद्विषट्केन समाप्य ताः स ययौ सखायं द्रुपदं महात्मा
SK
दानेऽर्द्धराज्यस्य हि तत्प्रतिज्ञां सं स्मृत्य पूर्वामुपयातं सखायम् | सखा तवास्मीति तदोदितोऽपि जगाद वाक्यं द्रुपदोऽतिदर्पात्
SK
न निर्धनो राजसखो भवेत यथेष्टतो गच्छ विप्रेति दैवात् | इतीरितस्याऽशु बभूव कोपो जितेन्द्रियस्यापि मुनेर्हरीच्छया
SK
प्रतिग्रहात् सन्निवृत्तेन सोऽयं मया प्राप्तो मत्पितुः शिष्यकत्वात् | च्ल्xविइ.पितुः शिष्यो ह्यात्मशिष्यो भवेत शिष्यस्यार्थः स्वीय एवेति मत्वा
SK
सोऽयं पापो मामवज्ञाय मूढो दुष्टं वचोऽश्रावयदस्य दर्पम् | हनिष्य इत्येव मतिं निधाय ययौ कुरूञ्छिष्यतां नेतुमेतान्
SK
प्रतिग्रहाद् विनिवृत्तस्य चार्थः स्याच्छिष्येभ्यः कौरवेभ्यो ममात्र | एवं मन्वानः क्रीडतः पाण्डवेयान् सधार्तराष्ट्रान् पुरबाह्यतोऽख्यत्
SK
विक्रीडतो धर्मसूनोस्तदैव सहाङ्गुलीयेन च कन्दुकोऽपतत् | कूपे न शेकुः सहिताः कुमारा उद्धर्तुमेतं पवनात्मजोऽवदत्
SK
निष्पत्य चोद्धृत्य समुत्पतिष्ये कूपादमुष्माद् भृशनीचादपि स्म | सकन्दुकां मुद्रिकां पश्यताद्य सर्वे कुमारा इति वीर्यसं श्रयात्
SK
तदा कुमारानवदत् स विप्रो धिगस्त्रबाह्यां भवतां प्रवृत्तिम् | ज् आताः कुले भरतानां न वित्थ दिव्यानि चास्त्राणि सुरार्चितानि
SK
इतीरिता अस्त्रविदं कुमारा विज्ञाय विप्रं सुरपूज्यपौत्रम् | सम्प्रार्थयामासुरथोद्धृतिं प्रति प्रधानमुद्रायुतकन्दुकस्य
SK
स चाऽश्विषीकाभिरथोत्तरोत्तरं सम्प्रास्य दिव्यास्त्रबलेन कन्दुकम् | उद्धृत्य मुद्रोद्धरणार्थिनः पुनर्जगाद भुक्तिर्मम कल्प्यतामिति
SK
यथेष्टवित्ताण्सनपानमस्य धर्मात्मजः प्रतिजज्ञे सुशीघ्रम् | तथैव तेनोद्धृतमङ्गुलीयं त्रिवर्गमुख्यात्मजवाक्यतोऽनु
SK
पप्रच्छुरेनं सहिताः कुमाराः कोऽसीति सोऽप्याह पितामहो वः | वक्तेति ते दुद्रुवुराण्सु भीष्मं द्रोणोऽयमित्येव स तां स्तदोचे
SK
न राजगेहं स कदाचिदेति तेनादृष्टः स कुमारैः पुराऽतः | भीष्मो विद्यास्तेन सहैव चिन्तयन्नस्त्रप्राप्तिं तस्य शुश्राव रामात्
SK
श्रुत्वा वृद्धं कृष्णवर्णं द्विजं तं महास्त्रविद्यामपि तां महामतिः | द्रोणं ज् ञात्वा तस्य शिष्यत्व एतान् ददौ कुमारां स्तत्र गत्वा स्वयं च
SK
च्ल्xविइइ.द्रोणोऽथ तानवदद् यो मदिष्टं कर्तुं प्रतिज्ञां प्रथमं करोति | तं धन्विनां प्रवरं साधयिष्य इत्यर्जुनस्तामकरोत् प्रतिज्ञाम्
SK
उन्मादनादीनि स वेद कृष्णादस्त्राण्यनापत्सु न तानि मुञ्चेत् | इत्याज्ञया केशवस्यापराणि प्रयोगयोग्यानि सदेच्छति स्म
SK
भीष्मादिभिर्भविता सङ्गरो नस्तदा नाहं गुरुभिर्नित्ययोद्धा | भवेयमेकः फल्गुनोऽस्त्रज्ञ एषां निवारकश्चेन्मम धर्मलाभः
SK
न बुद्धिपूर्वं वर इन्दिरापतेरन्यत्र मे ग्राह्य इतश्च जिष्णुः | करोतु गुर्वर्थमिति स्म चिन्तयन् भीमः प्रतिज्ञां न चकार तत्र
SK
तत्प्रेरितेनार्जुनेन प्रतिज्ञा कृत् आ यदा विप्रवरस्ततः परम् | स्नेहं नितान्तं सुरराजसूनौ कृत्वा महास्त्राणि ददौ स तस्य
SK
स पक्षपातं च चकार तस्मिन् करोति चास्योरुतरां प्रशं साम् | रहस्यविद्याण्स्च ददाति तस्य नान्यस्य कस्यापि तथा कथञ्चित्
SK
भीमः समस्तं प्रतिभाबलेन जानन् स्नेहं त्वद्वितीयं कनिष्ठे | द्रोणस्य कृत्वा सकलास्त्रवेदिनं कर्तुं पार्थं नार्जुनवच्चकार
SK
नैवातियत्नेन ददर्श लक्षं शुश्रूषायां पार्थमग्रे करोति | स्वबाहुवीर्याद् भगवत्प्रसादान्निहन्मि शत्रून् किमनेन चेति
SK
तदा समीयुः सकलाः क्षितीशपुत्रा द्रोणात् सकलास्त्राण्यवाप्तुम् | ददौ स तेषां परमास्त्राणि विप्रो रामादवाप्तान्यगतानि चान्यैः
SK
अस्त्राणि चित्राणि महान्ति दिव्यान्यन्यैर्नृपैर्मनसाऽप्यस्मृत् आनि | अवाप्य सर्वे तनया नृपाणां शक्ता बभूवुर्न यथैव पूर्वे
SK
नैतादृशाः पूर्वमासन् नरेन्द्रा अस्त्रे बले सर्वविद्यासु चैव | दौष्षन्तिमान्धातृमरुत्तपूर्वाण्स्चैतत्समानाः सुरदारवीर्याः
SK
तदा कर्णोऽथैकलव्यश्च दिव्यान्यस्त्राण्याप्तुं द्रोणसमीपमीयतुः | सूतो निषाद इति नैतयोरदादस्त्राणि विप्रः स तु रामशिष्यः
SK
च्ल्xइx.कर्णोऽनवाप्य निजमीप्सितमुच्चमानो यस्मादवाप पुरुषोत्तमतोऽस्त्रवृन्दम् | विप्रोऽप्ययं तमजमेमि भृगोः कुलोत्थमित्थं विचिन्त्य स ययौ भृगुपाण्स्रमाय
SK
स सर्ववेत्तुश्च विभोर्भयेन विप्रोऽहमित्यवददस्त्रवरातिलोभात् | ज् आनन्नपि प्रददावस्य रामो दिव्यान्यस्त्राण्यखिलान्यव्ययात्मा
SK
अस्त्रज्ञचूल् . आमणिमिन्द्रसूनुं विश्वस्य हन्तुं धृतराष्ट्रपुत्रः | एनं समाण्स्रित्य दृढो भवेतेत्यदाज्ज्ञात्वैवास्त्रमस्मै रमेशः
SK
ज् ञानं च भागवतमप्यपराण्स्च विद्या रामादवाप्य विजयं धनुरग्र्ययानम् | अब्दैश्चतुर्भिरथ च न्यवसत् तदन्ते हातुं न शक्त उरुगायमिमं स कर्णः
SK
अङ्के निधाय स कदाचिदमुष्य रामः शिश्ये शिरो विगतनिद्र उदारबोधः | सं सुप्तवत् सुरवरः सुरकार्यहेतोर्दातुं च वालिनिधनस्य फलं तदस्य
SK
तत्राऽस राक्षसवरः स तु हेतिनामा काले महेन्द्रमनुपास्य हि शापतोऽस्य | कीटस्तमिन्द्र उत तत्र समाविवेश कर्णस्य शापमुपपादयितुं सुतार्थे
SK
कर्णः स कीटतनुगेन किरीटिनैव ह्यूरोरधस्तनत ओपरिगात्वचश्च | विद्धः शरेण स यथा रुधिरस्य धारां सुस्राव तं विगतनिद्र इवाऽह रामः
SK
किं त्वं न चालयसि मां रुधिरप्रसेके प्राप्तेऽपि पावनविरोधिनि कोऽसि चेति | तं प्राह कर्ण इह नैव मया विधेयो निद्राविरोध इति कीट उपेक्षितो मे
SK
ज् आत्याऽस्मि सूत उत ते तनयोऽस्मि सत्यं तेनास्मि विप्र इति भार्गववं शजोऽहम् | अग्रेऽब्रुवं भवत ईश नहि त्वदन्यो माता पिता गुरुतरो जगतोऽपि मुख्यः
SK
इत्युक्तमात्रवचने स तु कीटकोऽस्य रामस्य दृष्टिविषयत्वत एव रूपम् | सम्प्राप्य नैजमतिपूर्णगुणस्य तस्य विष्णोरनुग्रहत आप विमानगः स्वः
SK
अथाऽह रामस्तमसत्यवाचो न ते सकाण्से मम वासयोग्यता | तथाऽपि ते नैव वृथा मदीया भक्तिर्भवेज्जेष्यसि सर्वशत्रून्
SK
अस्पर्धमानं न कथञ्चन त्वां जेता कश्चित् स्पर्धमानस्तु यासि | च्ल्xx.पराभूतिं नात्र विचार्यमस्ति प्रमादी त्वं भविता चास्त्रसङ्घे
SK
याहीति तेनोक्त उदारकर्मणा कर्णो ययौ तं प्रणम्येशितारम् | तथैकलव्योऽपि निराकृतोऽमुना द्रोणेन तस्य प्रतिमां वनेऽर्चयत्
SK
ततः कदाचिद् धृतराष्ट्रपुत्रैः पाण्डोः सुता मृगयां सम्प्रयाताः | अग्रे गच्छन् सारमेयो रुराव धर्मात्मजस्यात्र वने मृगार्थी
SK
श्रुत्वा रावं सारमेयस्य दूराच्छरैर्मुखं शब्दवेधी पुपूरे | स एकलव्यो व्रणमस्य नाकरोच्छ्वा पूरितास्यः पाण्डवानभ्ययात् सः
SK
दृष्ट्वा चित्रं कुरवः पाण्डवाण्स्च द्रष्टुं कर्तारं मार्गयामासुरत्र | द्रोणाकृतिं मार्त्तिकीं पूजयन्तं ददृशुश्चैनं धनुरेवाभ्यसन्तम्
SK
पैशाचमेवैष पिशाचकेभ्यः पूर्वं विवेदास्त्रवृन्दं निषादः | दिव्यान्यस्त्राण्याप्तुमेतां च शिक्षां द्रोणं सदा पूजयति स्म भक्त्या
SK
दृष्ट्वा विशेषं तममुष्य पार्थो द्रोणायोचे त्वद्वरो मे मृषाऽसीत् | इत्युक्त एनं त्वभिगम्य दक्षिणां विप्रो ययाचे दक्षिणाङ्गुष्ठमेव
SK
तस्य प्रसादोपचितोरुशिक्षो निषादोऽदाद् दक्षिणाङ्गुष्ठमस्मै | ततः परं नास्य बभूव शिक्षा सन्मुष्टिहीनस्य समाऽर्जुनेन
SK
पुनः कृपाल् . ऊरैवतपर्वते तं द्रोणः प्राप्याऽदादस्त्रवराणि तस्मै | एकान्त एवास्य भक्त्या सुतुष्टो धन्विश्रेष्ठं कृतवानर्जुनं च

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).

Source