19.1 SK इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये भीमार्जुनदिग्विजयो नाम अष्टादशोऽध्यायः च्च्xवि.(पाण्डवराज्यलाभः ) अथ एकोनविं शोऽध्यायः Oं | एवं शुभोच्चगुणवत्सु जनार्दनेन युक्तेषु पाण्डुषु चरत्स्वधिकं शुभानि | नास्तिक्यनीतिमखिलां गुरुदेवतादिसत्स्वञ्जसैव जगृहुर्धृतराष्ट्रपुत्राः
19.2 SK नाम्ना कणि ङ्क इति चासुरको द्विजोऽभूच्छिष्यः सुरेतरगुरोः शकुनेर्गुरुः सः | नीतिं स कुत्सिततमां धृतराष्ट्रपुत्रेष्वाधाद् रहो वचनतः शकुनेः समस्ताम्
19.3 SK छद्मैव यत्र परमं न सुराण्स्च पूज्याः स्वार्थेन वञ्चनकृते जगतोऽखिलं च | धर्मादि कार्यमपि यस्य महोपाधिः स्याच्छ्रेष्ठः स एव निखिलासुरदैत्यसङ्घात्
19.4 SK इत्यादि कुत्सिततमां जगृहुः स्म विद्यामज्ञात एव धृतराष्ट्रमुखैः समस्तैः | तेषां स्वभावबलतो रुचिता च सैव विस्तारिता च निजबुद्धिबलादतोऽपि
19.5 SK सम्पूर्णदुर्मतिरथो धृतराष्ट्रसूनुस्तातप्यमानहृदयो निखिलान्यहानि | दृष्ट्वा ण्स्रियं परमिकां विजयं च पार्थेष्वाहेदमेत्य पितरं सह सौबलेन
19.6 SK ज्येष्ठस्य तेऽपि हि वयं हृदयप्रजाता नार्हत्वमेव गमिता भवतैव राज्ये | भ्रातुः कनीयस उतापि हि दारजाता अन्यैश्च राज्यपदवीं भवतैव नीत् आः
19.7 SK राज्यं महच्च समवाप्स्यति धर्मसूनुस्त्वत्तोऽथवाऽनुजबलात् प्रसभं वयं तु | दासा भवेम निजतन्तुभिरेव साकं कुन्तीसुतस्य परतोऽपि तदन्वयस्य
19.8 SK नाऽत्मार्थमस्ति मम दुःखमथातिशुद्धलोकप्रसिद्धयशसस्तव कीर्तिनाण्सः | अस्मन्निमित्त इति दुःखमतो हि सर्वेऽपीच्छाम मर्तुमथ नः कुरु चाप्यनुज्ञाम्
19.9 SK एवं स्वपुत्रवचनं स निशम्य राजा प्रोवाच नानुगुणमेतदहो मनस्ते | को नाम पाण्डुतनयेषु गुणोत्तमेषु प्रीतिं न याति निजवीर्यभवोच्चयेषु
19.10 SK ते हि स्वबाहुबलतोऽखिलभूपभूतिं मय्याकृषन्ति नच वः प्रतिषेधकास्ते | तस्माच्छमं व्रज शुभाय कुलस्य तात क्षेमाय नो भवति वो बलवद्विरोधः
19.11 SK एवं ब्रुवत्यपि नृपे पुनराह पाप आण्स्रित्य सौबलमतं यदि नैव पार्थान् | अन्यत्र यापयसि नागपुरात् परेतान् दृष्ट्वाऽखिलानपि हि नो मुदमेहि पार्थैः
19.12 SK च्च्xविइ.एवं निशम्य गदितं सुतहार्दपाण्सैराकृष्यताऽशु स नृपोऽरिधरेच्छयैव | प्रोवाच पुत्रमपि ते बलिनो न पार्थाः शक्याः पुरात् तनय यापयितुं कथञ्चित्
19.13 SK इत्युक्त आह पितरं शकुनिं निरीक्ष्य सृष्टो मया विधिरिहाद्य शृणुष्व तं च | आसं स्त्रयोदश समा नगरं प्रविष्टेष्वेतेषु तावदयमेव विधिर्मयेष्टः
19.14 SK द्रौणेर्हि नास्ति सदृशो बलवान् प्रतापी सोऽयं मया बहुविधैः परमैरुपायैः | नीतो वशं वशगतोऽस्य च मातुलेन साकं पिता तमनु चैष नदीप्रसूतः
19.15 SK एवं हि सैनिकगणा अपि दानमानैः प्रायो वशं मम गता अपि चैष कर्णः | अस्त्रे बलेऽप्यधिक एव सुरेन्द्रसूनोर्जेष्ये च मन्त्रबलतस्त्वहमेव भीमम्
19.16 SK त्रिं शच्छतं परमकाः सुरदुर्लभाण्स्च दुर्वाससो हि मनवोऽद्य मया गृहीत् आः | अन्यत्र ते प्रविहिता नहि वीर्यवन्तः स्युर्भीम इत्यहममून् न नियोजयामि
19.17 SK ते वीर्यदा विजयदा अपि वह्निवारिस्तम्भादिदाः सकलदेवनिकायरोधाः | वृष्ट्याद्यभीप्सितसमस्तकरा अमूभिर्जेष्यामि भीमममुमेकमयातयामैः
19.18 SK सौहार्दमेषु यदिवाऽतितरां करोषि तत्रापि नैव हि मया क्रियते विरोधः | वत्स्यन्तु वारणवते भवतु स्म राष्ट्रं तेषां तदेव मम नागपुरं त्वदर्थे
19.19 SK एवं स्वपुत्रपरिपालनतो यशस्ते भूयाद् विनश्यति परप्रसवातिपुष्टौ | ज् आते बले तव विरोधकृतश्च ते स्युः स्वार्थं हि तावदनुयान्त्यपि केवलं त्वाम्
19.20 SK क्षत्तैक एव सततं परिपोषकोऽलं तेषां मम द्विडथ मन्त्रबलादमुष्य | पौराण्स्च जानपदकाः सततं द्विषन्ति मां तेष्वतीव दृढसौहृदचेतसश्च
19.21 SK ते तेषु दूरगमितेषु निराण्स्रयत्वान्मामेव दुर्बलतया परितः श्रयन्ते | भीष्मादयश्च नहि तन्निकटे विरोधं कुर्युर्विनश्यति गतेषु हि सौहृदं तत्
19.22 SK भेदः कुलस्य भविता कुलनाण्सहेतुरस्माभिरेषु सहितेषु पुरे वसत्सु | तस्मादुपायबलतः प्रतियातनीयास्ते वारणावतमितो विहितोऽप्युपायः
19.23 SK विष्णुर्जयन्त इति शम्भुसहाय आस्ते देवोत्सवश्च सुमहान् भविताऽत्र सुष्ठु | च्च्xविइइ.भक्ताण्स्च ते हि नितरामरिशङ्खपाणौ त्वच्चोदिताः समुपयान्ति तमुत्सवं द्राक्
19.24 SK अज्ञाप्य मत्पुरुषतां पुरुषैर्मदीयैर्मध्यस्थवद् बहुगुणा उदिताण्स्च तत्र | तेषां पुरोऽत्र गमनाभिरुचिश्च जाता द्रष्टुं पुरं बहुगुणं ननु पाण्डवानाम्
19.25 SK इत्युक्तवत्यथ सुते स तथेत्युवाच प्राप्तेषु पाण्डुतनयेषु तथैव चोचे | ज् ञात्वैव तेऽपि नृपतेर्हृदयं समस्तं जग्मुः पितेति पृथया सह नीतिहेतोः
19.26 SK भीमस्तदा ह भविताऽत्र हि भैक्षचार इत्येव सम्यगनुविद्य निजं न कर्म | त्याज्यं त्विति प्रतिजगाद निजाग्रजाय यामो वयं नतु गृहात् स हि नः स्वधर्मः
19.27 SK निष्काल् . अयन्ति यदि नो निजधर्मसं स्थान् योत्स्यामहेऽत्र नहि दस्युवधोऽप्यधर्मः | इत्यूचिवां सममुमाह च धर्मसूनुः कीर्तिर्विनश्यति हि नो गुरुभिर्विरोधे
19.28 SK इत्युक्तवाक्यममुमग्रजमन्वगात् स भीमः प्रदर्श्य निजधर्ममथानुवृत्त्यै | दोषो भवेदुभयतो यत एव तेन वाच्यः स्वधर्म उत न स्थितिरत्र कार्या
19.29 SK कीर्त्यर्थमेव निजधर्मपरिप्रहाणे प्राप्तेऽग्रजस्य वचनात् प्रविहातुमेव | भीमस्य दोषमुभयं प्रतिहन्तुमीशो ज्येष्ठं चकार हरिरत्र सुतं वृषस्य
19.30 SK हन्तव्यतामुपगतेषु सुयोधनादिष्वन्योपधान्नहि भवेन्निजधर्म एव | पूर्वं वधे नहि समस्तश एव दोषास्तेषां प्रयान्ति विवृतिं च तदर्थतोऽपि
19.31 SK क्षत्ताऽथ चाऽह सुवचोऽन्त्यजभाषयैव धर्मात्मजं विषहुताण्सभयात् प्रतीत् आः | आध्वं त्विति स्म स तथेति वचोऽप्युदीर्य प्रायाच्च वारणवतं पृथयाऽनुजैश्च
19.32 SK त् आन् हन्तुमेव च तदा धृतराष्ट्रसूनुर्लाक्षागृहं सपदि काञ्चनरत्नगूढम् | कृत्वाऽभ्ययातयदमुत्र हि विष्णुपद्या स्वामात्यमेव च पुरोचननामधेयम्
19.33 SK पूर्वं प्रहस्त इति यस्त्वभवत् सुपापः सोऽभ्येत्य पाण्डुतनयानभवच्च मन्त्री | दुर्योधनं प्रतिविहाय भवत्सकाण्समायात इत्यवददेषु सकूटवाक्यम्
19.34 SK दिव्यं गृहं च भवतां हि मयोपनीतं प्रीत्यैव पापमनुयातुमहं न शक्तः | युष्मासु धर्मधृतिमत्सु सदा निवत्स्य इत्यूचिवां सममुमाहुरहो सुभद्रम्
19.35 SK च्च्xइx.दृष्ट्वैव जातुषगृहं वसया समेतं तद्गन्धतो वृषसुतः पवमानजातम् | तं चातिपापमवदत् सुमुखैष पापो हन्तुं न इच्छति सदा भव च प्रतीतः
19.36 SK क्षत्ताऽथ नीतिबलतोऽखिललोकवृत्तं ज् आनन् स्वचारमुखतः खनकाय चोचे | उक्त्वैव धर्मतनयाय मदीयवाक्यं पूर्वोक्तमाण्सु कुरु तत्र बिलं सुदूरम्
19.37 SK चक्रे स चैवमथ वर्त्म वृतिच्छलेन द्वारं च तस्य स पिधाय ययौ गृहं स्वम् | भीमः पुरोचन उभावपि तौ वधाय च्छिद्रार्थिनौ मिथ उतोषतुरब्दकार्द्धम्
19.38 SK तस्याग्रजा च सहिता सुतपञ्चकेन तत्राऽगमत् तदनु मारुतिरेष कालः | इत्थं विचिन्त्य स निशाम्य च तान् प्रसुप्तान् भ्रात्Ḹऋं श्च मातरमथाऽशु बिले न्यधात् प्राक्
19.39 SK तं भागिनेयसहितं भगिनीं च तस्य पापां ददाह सगृहां पवमानसूनुः | साऽप्यागता हि गरल् . एन निहन्तुमेतान् भीमस्य पूर्वभुजितो न शशाक चैतत्
19.40 SK तप्तं तया ससुतया च तपो नितान्तं स्यां सूनुभिः सह बलाददितिस्तथाऽब्दात् | तस्या अदाच्च गिरिशो यदि पुत्रकैस्त्वं युक्ता न यासि मृतिमेष वरस्तवेति
19.41 SK ज् आनन्निदं सकलमेव स भीमसेनो हत्वा सुतैः सह कुबुद्धिमिमां हि तं च | भ्रात्Ḹऋं श्च मातरमुदूह्य ययौ बिलात् स निर्गत्य भीतिवशतोऽबलतां प्रयातान्
19.42 SK ज् ञात्वा पुरोचनवधं यदि भीष्ममुख्यैर्वैचित्रवीर्यतनया अभियोधयेयुः | किं नो भवेदिति भयं समुहद् विवेश भीमं त्वृते च तनयान् सकलान् पृथायाः
19.43 SK भीमोऽभयोऽपि गुरुभिः स्वमुखेन युद्धमप्रीयमाण उत धर्मजवाक्यहेतोः | ऊह्यैव तानपि ययौ द्युनदीं च तीर्त्वा क्षत्त्राऽतिसृष्टमधिरुह्य जलप्रयाणम्
19.44 SK विश्वासिता विदुरपूर्ववचोभिरेव दाण्सोदिताभिरधिरुह्य च भीमपृष्ठम् | सर्वे ययुर्वनमथाभ्युदिते च सूर्ये दृष्ट्वैव सप्त मृतकानरुदं श्च पौराः
19.45 SK हा पाण्डवानदहदेष हि धार्तराष्ट्रो धर्मस्थितान् कुमतिरेव पुरोचनेन | सोऽप्येष दग्ध इह दैववशात् सुपापः को नाम सत्सु विषमः प्रभवेत् सुखाय
19.46 SK पौरेभ्य एव निखिलेन च भीष्ममुख्या वैचित्रवीर्यसहितास्तु निशम्य हेति | ऊचुः सुदुःखितधियोऽथ सुयोधनाद्याः क्षत्ता मृषैव रुरुदुर्युयुजुश्च कर्म
19.47 SK च्च्xx.भीमोऽप्युदूह्य वनमाप हिडिम्बकस्य भ्रात्Ḹऋन् पृथां च तृषितैरभियाचितश्च | पानीयमुत्तरपटेऽम्बुजपत्रनद्धं दूरादुदूह्य ददृशे स्वपतोऽथ तां श्च
19.48 SK रक्षार्थमेव परिजाग्रति भीमसेने रक्षः स्वसारमभियापयते हिडिम्बीम् | सा रूपमेत्य शुभमेव ददर्श भीमं साक्षात् समस्तशुभलक्षणसारभूतम्
19.49 SK सा राक्षसीतनुमवाप सुरेन्द्रलोकश्रीरेव शक्रदयिता त्वपरैव शच्याः | शापात् स्पृधा पतिमवाप्य च मारुतं सा प्राप्तुं निजां तनुमयाचत भीमसेनम्
19.50 SK त् आं भीम आह कमनीयतनुं न पूर्वं ज्येष्ठादुपैमि वनितां नहि धर्म एषः | सा चाऽह कामवशगा पुनरेतदेव स्वावेशयुग्धि मरुदग्र्यपरिग्रहस्य
19.51 SK सा भारती वरमिमं प्रददावमुष्यै स्वावेशमात्मदयितस्य च सङ्गमेन | शापाद् विमुक्तिमतितीव्रतपः प्रसन्ना तेनाऽह सा निजतनुं पवमानसूनोः
19.52 SK ज् ञानं च नैजमभिदर्शयितुं पुनश्च प्राहेश्वरोऽखिलजगद्गुरुरिन्दिरेशः | व्यासस्वरूप इह चेत्य परश्व एव मां ते प्रदास्यति तदा प्रकरोषि मेऽर्थ्यम्
19.53 SK काले तदैव कुपितः प्रययौ हिडिम्बो भीमं निहन्तुमपि तां च निजस्वसारम् | भक्षार्थमेव हि पुरा स तुतां न्ययुङ्क्त नेतुं च तानथ समासददाण्सु भीमम्
19.54 SK सा भीममेव शरणं प्रजगाम तां च भ्रात्Ḹऋं श्च मातरमथावितुमभ्ययात् तम् | भीमः सुदूरमपकृष्य सहोदराणां निद्राप्रभङ्गभयतो युयुधेऽमुना च
19.55 SK तौ मुष्टिभिस्तरुभिरश्मभिरद्रिभिश्च युद्ध्वा नितान्तरवतः प्रतिबोधितां स्तान् | सञ्चक्रतुस्तदनु सोदरसम्भ्रमं तं दृष्ट्वैव मारुतिरहन्नुरसि स्म रक्षः
19.56 SK तद् भीमबाहुबलताडितमीशवाक्यात् सर्वैरजेयमपि भूमितल् . ए पपात | वक्त्रस्रवद्बहुलशोणितमाप मृत्युं प्रायात् तमोऽन्धमपि नित्यमथ क्रमेण
19.57 SK हत्वैव शर्वररक्षितराक्षसं तं सर्वैरवध्यमपि सोदरमातृयुक्तः | भीमो ययौ तमनु सा प्रययौ हिडिम्बी कुन्तीं युधिष्ठिरमथास्य कृते ययाचे
19.58 SK त् आभ्यामनूक्तमपि यन्न करोति भीमः प्रादुर्बभूव निखिलोरुगुणाभिपूर्णः | च्च्xxइ.व्यासात्मको हरिरनन्तसुखाम्बुराण्सिर्विद्यामरीचिविततः सकलोत्तमोऽलम्
19.59 SK दृष्ट्वैव तं परममोदिन आण्सु पार्था मात्रा सहैव परिपूज्य गुरुं विरिञ्चेः | उल्लाल् . इत् आण्स्च हरिणा परमातिहार्दप्रोत्फुल्लपद्मनयनेन तदोपविष्टाः
19.60 SK त् आन् भक्तिनम्रशिरसः समुदीक्ष्य कृष्णो भीमं जगाद नत आण्सु हिडिम्बया च| एतां गृहाण युवतीं सुरसद्मशोभां ज् आते सुते सहसुता प्रतियातु चैषा
19.61 SK एवं ब्रुवत्यगणितोरुगुणे रमेश Oं इत्युदीर्य कृतवां श्च तथैव भीमः | स्कन्धेन चोह्य विबुधाचरितप्रदेशान् भीमं प्रयात्युदय एव रवेर्हिडिम्बी
19.62 SK सा नन्दनादिषु वनेषु विहृत्य तेन सायं प्रयाति पृथया सहितां श्च पार्थान् | एवं ययावपि तयोरिह वत्सरार्द्धो जातश्च सूनुरतिवीर्यबलोपपन्नः
19.63 SK देवोऽपि राक्षसतनुर्निरृतिः पुरा यआवेशयुक् च गिरिशस्य घटोत्कचाख्यः | पूर्वं घटोपमममुष्य शिरो बभूव केशा निमेषत उदासुरतो हि नाम
19.64 SK ज् आते सुते समयतो भगवत्कृत् आत् स भीमो जगाद ससुतां गमनाय तां च | स्मृत्याऽभियान उभयोरपि सा प्रतिज्ञां तेषां विधाय च ययौ सुरलोकमेव
19.65 SK व्यासोऽपि पाण्डुतनयैः सहितो बकस्य रौद्राद् वराज्जयवधापगतस्य नित्यम् | यातो वधाय परमागणितोरुधामा पूर्णाक्षयोरुसुख आण्सु तदैकचक्राम्
19.66 SK त् आन् ब्राह्मणस्य च गृहे प्रणिधाय कृष्णः शिष्या ममैत इति विप्रकुमाररूपान् | आयामि काल इति ताननुशास्य चायात् ते तत्र वासमथ चक्रुरनूच्य वेदान्
19.67 SK भिक्षामटत्सु सततं प्रतिहुङ्कृतेन भीमे विशां सदन एव गृहप्रमाणम् | भाण्डं कुलालविहितं प्रतिगृह्य गच्छत्याण्सङ्कयाऽवगमनस्य तमाह धार्मः
19.68 SK स्थूलं हि सद्म पृथिवीसहितं त्वरक्ष उद्धृत्य वह्निमुखतस्तदु चैकदोष्णा | भाण्डं तदर्थमुरु कुम्भकरेण दत्तं भिक्षां च तेन चरसि प्रतिहुङ्कृतेन
19.69 SK धर्मस्य ते सुनियतेर्बलतश्च बोधो भूयात् सुयोधनजनस्य ततो भयं मे | मात्रा सहैव वस फल्गुनपूर्वकैस्त्वमानीतमेव परिभुङ्क्ष्व नतु व्रजेथाः
19.70 SK च्च्xxइइ.इत्युक्त आण्सु स चकार तथैव भीमस्तेऽपि स्वधर्मपरिरक्षणहेतुमौनाः | भिक्षां चरन्त्यथ चतुर्ष्वपि तेषु यातेष्वेकत्र मातृसहितः स कदाचिदास्ते
19.71 SK तत्काल एव रुदितं निजवासहेतोर्विप्रस्य दारसहितस्य निशम्य भीमः | स्त्रीबालसं युतगृहे शिशुलाल् . अनादौ लज्जेदिति स्म जननीमवदन्नचागात्
19.72 SK ज् आनीहि विप्ररुदितं कुत इत्यतश्च योग्यं विधास्य इति सा प्रययौ च शीघ्रम् | सा सं वृतैव सकलं वचनं गृहेऽस्य शुश्राव विप्रवर आह तदा प्रियां सः
19.73 SK दातव्य एव हि करोऽद्य च रक्षसोऽस्य साक्षाद् बकस्य गिरिसन्निभभक्ष्यभोज्यः | पुं साऽनसा च सहितानडुहा पुमां स्तु नैवास्ति नोऽप्रददतां च समस्तनाण्सः
19.74 SK अन्यत्र याम इति पूर्वमुदाहृतं मे नैतत् प्रिये तव मनोगतमास तेन | यास्यामि राक्षसमुखं स्वयमेव मर्तुं भार्यैनमाह न भवानहमत्र यामि
19.75 SK अर्थे तवाद्य तनुसन्त्यजनादहं स्यां लोके सतीप्रचरिते तदृते त्वधश्च | कन्याऽह चैनमहमेव न कन्ययाऽर्थ इत्युक्त आह धिगिति स्म स विप्रवर्यः
19.76 SK कन्योदिता बत कुलद्वयतारिणीति जाया सखेति वचनं श्रुतिगं सुतश्च | आत्मैव तेन नतु जीवनहेतुतोऽहं धीपूर्वकं नृशनके प्रतिपादयामि
19.77 SK एवं रुदत्सु सहितेषु कुमारकोऽस्य प्राह स्वहस्तगतृणं प्रतिदर्श्य चैषाम् | एतेन राक्षसमहं निहनिष्य एवेत्युक्ते सुवाक्यमनु सा प्रविवेश कुन्ती
19.78 SK पृष्टस्तयाऽह स तु विप्रवरो बकस्य वीर्यं बलं च दितिजारिभिरप्यसह्यम् | सं वत्सरत्रययुते दशके करं च प्रातिस्विकं दशमुखस्य च मातुलस्य
19.79 SK श्रुत्वा तमुग्रबलमत्युरुवीर्यमेव रामायणे रघुवरोरुशरातिभीतम् | विष्टं बिलेष्वथ नृपान् वशमाण्सु कृत्वा भीत्यैव तैस्तदनु दत्तकरं ननन्द
19.80 SK एवं बलाढ्यममुमाण्सु निहत्य भीमः कीर्तिं च धर्ममधिकं प्रतियास्यतीह | सर्वे वयं च तमनु प्रगृहीतधर्मा यास्याम इत्यवददाण्सु धरासुरं तम्
19.81 SK सन्ति स्म विप्रवर पञ्च सुता ममाद्य तेष्वेक एव नरवैरिमुखाय यातु | इत्युक्त आह स न ते सुतवध्ययाऽहं पापो भवानि तव हन्त मनोऽतिधीरम्
19.82 SK च्च्xxइइइ.उक्तैवमाह च पृथा तनये मदीये विद्याऽस्ति दिक्पतिभिरप्यविषह्यरूपा | उक्तोऽपि नो गुरुभिरेष नियुङ्क्त एतां वध्यस्तथाऽपि न सुरासुरपालकैश्च
19.83 SK उक्त्वैवमेत्य निखिलं च जगाद भीम उद्धर्ष आस स निशम्य महास्वधर्मम् | प्राप्तं विलोक्य तमतीव विघूर्णनेत्रं दृष्ट्वा जगाद यमसूनुरुपेत्य चान्यैः
19.84 SK मातः किमेष मुदितोऽतितरामिति स्म तस्मै च सा निखिलमाह स चाब्रवीत् ताम् | कष्टं त्वया कृतमहो बलमेव यस्य सर्वे श्रिता वयममुं च निहं सि भीमम्
19.85 SK यद्बाहुवीर्यपरमाण्स्रयतो हि राज्यमिच्छाम एव निखिलारिवधं स्वधर्मम् | सोऽयं त्वयाऽद्य निशिचारिमुखाय मातः प्रस्थाप्यते वद ममाऽशु कयैव बुद्ध्या
19.86 SK इत्युक्तवन्तममुमाह सुधीरबुद्धिः कुन्ती न पुत्रक निहन्तुमयं हि शक्यः | सर्वैः सुरैरसुरयोगिभिरप्यनेन चूर्णीकृतो हि शतशृङ्गगिरिः प्रसूत्याम्
19.87 SK एष स्वयं हि मरुदेव नरात्मकोऽभूत् को नाम हन्तुमिममाप्तबलो जगत्सु | इत्येवमस्त्विति स तामवदत् परेद्युर्भीमो जगाम शकटेन कृतोरुभोगः
19.88 SK गत्वा त्वरन् बकवनस्य सकाण्स आण्सु भीमः स पायससुभक्ष्यपयोघटाद्यैः | युक्तं च शैलनिभमुत्तममाद्यराण्सिं स्पर्शात् पुरैव नरभक्षितुरत्तुमैच्छत्
19.89 SK तेनैव चान्नसमितौ परिभुज्यमान उत्पाट्य वृक्षममुमाद्रवदाण्सु रक्षः | वामेन मारुतिरपोह्य तदा प्रहारान् हस्तेन भोज्यमखिलं सहभक्ष्यमादत्
19.90 SK पीत्वा पयो त्वरित एनमवीक्षमाण आचम्य तेन युयुधे गुरुवृक्षण्सैलैः | तेनाऽहतोऽथ बहुभिर्गिरिभिर्बलेन जग्राह चैनमथ भूमितल् . ए पिपेष
19.91 SK आक्रम्य पादमपि पादतल् . एन तस्य दोर्भ्यां प्रगृह्य च परं विददार भीमः | मृत्वा स चोरु तम एव जगाम पापो विष्णुद्विडेव हि शनैरनिवृत्ति चोग्रम्
19.92 SK हत्वा तमक्षतबलो जगदन्तकं स यो राक्षसो न वश आस जरासुतस्य | भौमस्य पूर्वमपि नो भरतस्य राज्ञो भीमो न्यधापयदमुष्य शरीरमग्रे
19.93 SK द्वार्येव तत् प्रतिनिधाय पुनः स भीमः स्नात्वा जगाम निजसोदरपार्श्वमेव | च्च्xxइव्.श्रुत्वाऽस्य कर्म परमं तुतुषुः समेता मात्रा च ते तदनुवव्रुरतः पुरस्थाः
19.94 SK दृष्ट्वैव राक्षसशरीरमुरु प्रभीत् आ ज्ञात्वैव हेतुभिरथ क्रमशो मृतं च | विप्रस्य तस्य वचनादपि भीमसेनभग्नं निशम्य परमं तुतुषुण्स्च तस्मै
19.95 SK अन्नात्मकं करममुष्य च सम्प्रचक्रुः सोऽप्येतमाण्सु नरसिं हवपुर्धरस्य | चक्रे हरेस्तदनु सत्यवतीसुतस्य विष्णोर्हि वाक्प्रचुदिताः प्रययुस्ततश्च
19.96 SK उत्पत्तिपूर्वककथां द्रुपदात्मजाया व्यासो ह्यनूच्य जगतां गुरुरीश्वरेशः | यातेत्यचोदयदथाप्यपरे द्विजाग्र्यास्तान् ब्राह्मणा इति भुजिर्भवतीति चोचुः
19.97 SK पूर्वं हि पार्षत इमान् जतुगेहदग्धान् श्रुत्वाऽतिदुःखितमनाः पुनरेव मन्त्रः | याजोपयाजमुखनिस्सृत एवमेष नासत्यतार्ह इति जीवनमेषु मेने
19.98 SK यत्रक्वचित् प्रतिवसन्ति निलीनरूपाः पार्था इति स्म स तु फल्गुनकारणेन | चक्रे स्वयम्बरविघोषणमाण्सु राजस्वन्यैरधार्यधनुरीशवराच्च चक्रे
19.99 SK तत्काल एव वसुदेवसुतोऽपि कृष्णः सम्पूर्णनैजपरिबोधत एव सर्वम् | ज् आनन्नपि स्म हलिना सहितो जगाम पार्थान् निशम्य च मृत् आनथ कुल्यहेतोः
19.100 SK स प्राप्य हस्तिनपुरं धृतराष्ट्रपुत्रान् सं वञ्चयं स्तदनुसारिकथाण्स्च कृत्वा | भीष्मादिभिः परिगतोऽप्रियवज्जगाम द्वारावतीमुदितपूर्णसुनित्यसौख्यः
19.101 SK तस्यान्तरे हृदिकसूनुरनन्तरं स्वं श्वाफल्किबुद्धिबलमाण्स्रित इत्युवाच | सत्राजिदेष हि पुरा प्रतिजज्ञ एनामस्मत्कृते स्वतनयां मणिना सहैव
19.102 SK सर्वां श्च नः पुनरसाववमत्य कृष्णायादात् सुतां जहि च तं निशि पापबुद्धिम् | आदाय रत्नमुपयाहि च नौ विरोधे कृष्णस्य दानपतिना सह साह्यमेमि
19.103 SK इत्युक्त आण्सु कुमतिः स हि पूर्वदेहे दैत्यो यतस्तदकरोदथ सत्यभामा | आनन्दसं विदपि लोकविडम्बनाय तद् देहमस्य तिलजे पतिमभ्युपागात्
19.104 SK श्रुत्वा तदीयवचनं भगवान् पुरीं स्वामायात एव तु निशम्य महोत्सवं तम् | पाञ्चालराजपुरुषोदितमाण्सु वृष्णिवर्यैरगान्मुसलिना सह तत्पुरीं च
19.105 SK च्च्xxव्.भीमोऽपि रुद्रवररक्षितराक्षसं तं हत्वा तृणोपमतया हरिभक्तवन्द्यः | उष्याथ तत्र कतिचिद्दिनमच्युतस्य व्यासात्मनो वचनतः प्रययौ निजैश्च
19.106 SK मङ्गल्यमेतदतुलं प्रतियात शीघ्रं पाञ्चालकान् परमभोजनमत्र सिद्ध्येत् | विप्रैरितस्तत इतीरितवाक्यमेते शृण्वन्त एव परिचक्रमुरुत्तराण्साम्
19.107 SK षण्णां च मध्यगमुदीर्णभुजं विशालवक्षस्थलं बहल् . अपौरुषलक्षणं च | दृष्ट्वैव मारुतिमसावुपलप्स्यतीह कृष्णामिति स्म च वचः प्रवदन्ति विप्राः
19.108 SK रात्रौ दिवा च सततं पथि गच्छमानाः प्रापुः कदाचिदथ विष्णुपदीं निशायाम् | सर्वस्य रक्षितुमगादिह पृष्ठतस्तु भीमोऽग्र एव शतमन्युसुतोऽन्तराऽन्ये
19.109 SK प्राप्ते तदोल्मुकधरेऽर्जुन एव गङ्गां गन्धर्वराज इह चित्ररथोऽर्द्धरात्रे | दृष्ट्वैव विप्ररहितानुदकान्तरस्थः क्षत्रात्मजा इति ह धर्षयितुं स चाऽगात्
19.110 SK हन्ताऽस्मि वो ह्युपगतानुदकान्तमस्या नद्याण्स्च मर्त्यचरणाय निषिद्धकाले | इत्थं वदन्तममुमाह सुरेन्द्रसूनुर्गन्धर्व नास्त्रविदुषां भयमस्ति तेऽद्य
19.111 SK सर्वं हि फेनवदिदं बहुलं बलं ते नार्थप्रदं भवति चास्त्रविदि प्रयुक्तम् | इत्युक्तवन्तममुमुत्तमयानसं स्थो बाणान् क्षिपन्नभिससार सुरेशभृत्यः
19.112 SK आग्नेयमस्त्रमभिमन्त्र्य तदोल्मुके स चिक्षेप शक्रतनयोऽस्य रथश्च दग्धः | तं चाग्निना परिगृहीतमभिप्रगृह्य केशेषु सञ्चकर्षाऽशु सुरेन्द्रसूनुः
19.113 SK पार्थेन सन्धर्षितः शरणं जगाम धर्मात्मजं तमपि सोऽथ निजास्त्रमुग्रम् | सञ्जह्र एव तत आस च नामतोऽसावङ्गारवर्ण इति वर्णविपर्ययेण
19.114 SK गन्धर्व उल्बणसुरक्ततनुः स भूत्वा स्वर्णावदात उत पूर्वमुपेत्य सख्यम् | पार्थेन दुर्लभमहास्त्रमिदं ययाचे जानन्नपि स्म नहि तादृशमेष वेद
19.115 SK विद्या सुशिक्षिततमा हि सुरेशसूनौ तामस्य चावददसावपि कालतोऽस्मै | गन्धर्वगामवददन्वगदृश्यविद्यां पश्चादिति स्म पुरुहूतसुतस्य वाक्यात्
19.116 SK आधिक्यतः स्वगतसं विद एव साम्ये नैवेच्छति स्म निमयं स धनञ्जयोऽत्र | धर्मार्थमेव स तु तां परिदाय तस्मै कालेन सं विदममुष्य च धर्मतोऽयात्
19.117 SK च्च्xxवि.पार्थेन सोऽपि बहुलाण्स्च कथाः कथित्वा धौम्यस्य सङ्ग्रहणमाह पुरोहितत्वे | दास्यामि दिव्यतुरगानिति सोऽर्जुनाय वाचं निगद्य दिवमारुहदप्यगुस्ते
19.118 SK ते धौम्यमाप्य च पुरोधसमुत्तमज्ञं विप्रात्मजोपमतया विविशुः पुरं च | पाञ्चालकस्य निखिलां ददृशुश्च तत्र मूर्धावसिक्तसमितिं समलङ्कृत् आं च
19.119 SK राजन्यमण्डलमुदीक्ष्य सुपूर्णमत्र कृष्णां प्रगृह्य सहजः प्रगृहीतमालाम् | तेषां च मध्यमगमत् कुलवीर्यसम्पद्युक्तां विभूतिमथ चाऽह समस्तराज्ञाम्
19.120 SK त् आं श्च प्रदर्श्य सकलान् स हुताण्सनां शश्चापं च तत् प्रतिनिधाय सपञ्चबाणम् | आहाभिभाष्य सकलान् नृपतीनथोच्चैर्दीप्यद्धुताण्सनवपुर्घनतुल्यघोषः
19.121 SK एतेन कार्मुकवरेण तरूपरिस्थं मत्स्यावभासमुदके प्रतिवीक्ष्य येन | एतैः शरैः प्रतिहतो भवतीह मत्स्यः कृष्णाऽनुयास्यति तमद्य नरेन्द्रवीराः
19.122 SK इत्यस्य वाक्यमनु सर्वनरेन्द्रपुत्रा उत्तस्थुरुद्धतमदाण्स्चलकुण्डलास्याः | अस्त्रं बलं च बहु नैजमभीक्षमाणाः स्पर्धन्त एव च मिथः समलङ्कृत् आङ्गाः
19.123 SK केचिन्निरीक्ष्य धनुरेत्य न मे सुशक्यमित्येव चापययुरन्य उत प्रचाल्य | तत्राऽससाद शिशुपाल उरुप्रतापः सङ्गृह्य तत् समनुरोपणयत्न आसीत्
19.124 SK माषान्तराय स चकर्ष यदैव कोट्या उन्नम्य तत् प्रतिजघान तमेव चाऽशु | अन्यत्र फल्गुनत एतदशक्यमेवेत्यञ्जो गिरीशवरतः स ययौ च भग्नः
19.125 SK मद्रेश एत्य चकृषे स्थविरोऽपि वीर्याच्चेदीशतोऽप्यधिकमेव स मुद्गमात्रे | शिष्टेऽमुना प्रतिहतः स ययावशक्यं मत्वाऽत्मनस्तदनु भूपतयो विषण्णाः
19.126 SK सन्नेषु भूपतिषु मागध आससाद सोऽवज्ञयैव बलवीर्यमदेन दृप्तः | चापं चकर्ष चलपादतल् . ओ बलेन शिष्टे स सर्षपमितेऽभिहतोऽमुनैव
19.127 SK ज् आनुन्यमुष्य धरणीं ययतुस्तदैव दर्पेण चास्थिरपदः स्थितिमात्रहेतोः | रौद्राद् वरात् स जल् . अतां गमितोऽथ राजा राज्ञां मुखान्यनभिवीक्ष्य ययौ स्वराष्ट्रम्
19.128 SK प्रायो गतास्तमनु भूपतयोऽथ कर्णो दुर्योधनार्थमनुगृह्य धनुश्चकर्ष | च्च्xxविइ.रामादुपात्तशुभशिक्षितमात्रतोऽसौ रोमावशिष्टमकरोद् धनुषोऽन्तमाण्सु
19.129 SK तस्मिं श्च तेन विहते प्रतिसन्निवृत्ते भीमार्जुनौ द्विजसदस्युपसन्निविष्टौ | उत्तस्थतू रविशशिप्रतिमानरूपौ विप्रेषु तत्र च भिया विनिवारयत्सु
19.130 SK विप्राण्स्च केचिदतियुक्तमिमौ हि वीरौ देवोपमाविति वचो जगदुस्ततस्तौ | दृष्ट्वैव कृष्णमुखपङ्कजमाण्सु चापसान्निध्यमाययतुरुत्तमवीर्यसारौ
19.131 SK तत्रार्जुनः पवनजात् प्रियतोऽप्यनुज्ञामादाय केशवमजं मनसा प्रणम्य | कृत्वा गुणान्वितमदो धनुरश्रमेण यन्त्रान्तरेण सशरैरधुनोच्च लक्षम्
19.132 SK कृष्णा तदाऽस्य विदधे नवकञ्जमालां मध्ये च तां प्रतिविधाय नरेन्द्रपुत्रौ | भीमार्जुनौ ययतुरच्युतमाभिनम्य क्षुब्धं तदा नृपवराब्धिरिमावधावत्
19.133 SK द्रष्टुं हि केवलगतिर्नतु कन्यकाया अर्थे न चापमिह वृष्णिवराः स्पृशन्तु | इत्याज्ञयैव वरचक्रधरस्य लिप्सामप्यत्र चक्रुरिह नैव यदुप्रवीराः
19.134 SK भीमस्तु राजसमितिं प्रतिसम्प्रयातां दृष्ट्वैव योजनदशोच्छ्रयमाण्सु वृक्षम् | आरुज्य सर्वनृपतीनभितोऽप्यतिष्ठद् दृष्ट्वा पलायनपराण्स्च बभूवुरेते
19.135 SK भीमोऽयमेष पुरुहूतसुतोऽन्य एते पार्था इति स्म हलिने हरिरभ्यवोचत् | दृष्ट्वैव सोऽपि मुदमाप शिनेश्च पौत्रः खड्गं प्रगृह्य हर्षात् परिपुप्लुवेऽत्र
19.136 SK प्रीतेषु सर्वयदुषु प्रपलायितेषु दुर्योधनादिनृपतिष्वखिलेषु भीमात् | कर्णोऽभ्ययाद्धरिहयात्मजमाण्सु मद्रराजो जगाम पवनात्मजमेव वीरः
19.137 SK विप्रेषु दण्डपटदर्भमहाजिनानि कोपात् क्षिपत्सु न विनाण्सनमत्र भूयात् | क्षत्रस्य वैरत इति द्रुपदे च कृष्णं विप्रां श्च याचति स मारुतिरार शल्यम्
19.138 SK वृक्षं त्वसौ प्रतिनिधाय च मद्रराजं दोर्भ्यां प्रगृह्य जवतो गगने निधाय | बन्धुत्वतो भुवि शनैरदधात् स तस्य विज्ञाय वीर्यमगमन्निजराजधानीम्
19.139 SK पार्थोऽपि तेन धनुषा युयुधे स्म कर्णं सोऽप्यस्त्रबाहुबलमाविरमुत्र चक्रे | तौ धन्विनामनुपमौ चिरमस्यतां च सूर्यात्मजोऽत्र वचनं व्यथितो बभाषे
19.140 SK च्च्xxविइइ.त्वं फल्गुनो हरिहयो द्विजसत्तपो वा मूर्तं न मे प्रमुखतः स्थितिमन्य ईष्टे | यो वाऽस्मि कोऽपि यदि ते क्षममद्य बाणान् मुञ्चान्यथेहि रणतस्त्विति पार्थ आह
19.141 SK कार्यं न मे द्विजवरैः प्रतियोधनेनेत्युक्त्वा ययौ रविसुतः स सुयोधनाद्यैः | नागाह्वयं पुरमथ द्रुपदात्मजां त् आमादाय चार्जुनयुतः प्रययौ स भीमः
19.142 SK अग्रेऽश्विपुत्रसहितः स तु धर्मसूनुः प्रायात् कुलालगृहमन्वपि भीमपार्थौ | भिक्षेति तैरभिहिते प्रजगाद कुन्ती भुङ्ग्ध्वं समस्तश इति प्रददर्श कन्याम्
19.143 SK प्रामादिकं च वचनं न मृषा तयोक्तं प्रायो हि तेन कथमेतदिति स्म चिन्ता | तेषां बभूव वसुदेवसुतो हरिश्च तत्राऽजगाम परमेण हि सौहृदेन
19.144 SK सम्भाष्य तैः स भगवानमितात्मशक्तिः प्रायान्निजां पुरममा यदुभिः समस्तैः | ज् ञातुं च तान् निशि स तु द्रुपदः स्वपुत्रं प्रास्थापयत् स च विलीनं इमानपश्यत्
19.145 SK भिक्षान्नभोजिन उतो भगिनीं निजां च तत्रातितृप्तहृदयामथ युद्धवार्ताम् | तेषां निशम्य नदतां धनवद् गभीरां क्षत्रोत्तमा इति मतिं स चकार वीरः
19.146 SK प्रातस्तु तस्य जनितुर्वचसा पुरोधास्तान् प्राप्य मन्त्रविधिना मरुदात्मजेन | सम्पूजितोऽतिविदुषा प्रतिगृह्य तां श्च प्रावेशयन्नृपतिगेहममैव मात्रा
19.147 SK त् आनागतान् समभिपूज्य निजात्मजां च विप्रादियोग्यपृथगुक्तपदार्थजातैः | पूर्णान् गृहां श्चतुर एव दिदेश राजा तत्राऽयुधादिपरिपूर्णगृहं च तेऽगुः
19.148 SK चेष्टास्वराकृतिविवक्षितवीर्यशौर्यप्रागल्भ्यपूर्वकगुणैः क्षितिभर्तृपुत्रान् | विज्ञाय तान् द्रुपद एत्य च धर्मसूनुं पप्रच्छ कोऽसि नरवर्य वदस्व सत्यम्
19.149 SK स प्राह मन्दहसितः किमिहाद्य राजन् पूर्वं हि वर्णविषये न विशेष उक्तः | पुत्रीकृते तव सुतेन तु लक्षवेध उक्तो नरेन्द्रसमितौ स कृतोऽप्यनेन
19.150 SK एवं ब्रुवाणमथ तं पृथया सहैव राजा वदेति पुनरेव ययाच एषः | सर्वं पृथाऽप्यवदतां स च तेन तुष्टो वाचं जगाद कृतकृत्य इहाऽसमद्य
19.151 SK पार्थार्थमेव हि मयैष कृतः प्रयत्नस्त्वं फल्गुनोऽन्य उतवाऽद्य करं सुतायाः | गृह्णात्वितीरित इमं स तु धर्मसूनुराह स्म सर्व इति मे मनसि प्ररूढम्
19.152 SK च्च्xxइx.नात्र प्रमा मम हृदि प्रतिभात्यथापि धर्माचला मम मतिर्हि तदेव मानम् | इत्युक्तवत्यपि सहैव सुतेन राजा नैवैच्छदत्र भगवानगमच्च कृष्णः
19.153 SK व्यासं तमीक्ष्य भगवन्तमगण्यपूर्णनित्याव्ययात्मगुणमाण्सु समस्त एव | नत्वाऽभिपूज्य वरपीठगतस्य चाऽज्ञामादाय चोपविविशुः सहितास्तदन्ते
19.154 SK कृष्णस्तदाऽह नृपतिं प्रति देहि कन्यां सर्वेभ्य एव वृषवायुपुरन्दरा हि| नासत्यदस्रसहिता इम एव इन्द्राः पूर्वे च सम्प्रतितनश्च हरेर्हि पश्चात्
19.155 SK एषां श्रियश्च निखिला अपिचैकदेहाः पुत्री तवैव न ततोऽत्र विरुद्धता हि| इत्युक्तवत्यपि यदा द्रुपदश्चकार सं वादिनीं न धियमेनमथाऽह कृष्णः
19.156 SK दिव्यं हि दर्शनमिदं तव दत्तमद्य पश्याऽशु पाण्डुतनयान् दिवि सं स्थितां स्त्वम् | एतां च ते दुहितरं सह तैः पृथक्स्थां तल्लक्षणैः सह ततः कुरु ते यथेष्टम्
19.157 SK इत्युक्तवाक्यमनु तान् स ददर्श राजा कृष्णप्रसादबलतो दिवि तादृशां श्च | एतान् निशाम्य चरणौ जगदीशितुश्च भीतो जगाम शरणं तदनादरेण
19.158 SK दत्वाऽभयं स भगवान् द्रुपदस्य कार्ये तेनोमिति स्म कथिते स्वयमेव सर्वाम् | वैवाहिकीं कृतिमथ व्यदधाच्च धौम्ययुक्तः क्रमेण जगृहुर्निखिलाण्स्च पाणिम्
19.159 SK पाञ्चालकेषु च महोत्सव आस राजा तुष्टोऽभवत् सह सुतैः स्वजनैश्च सर्वैः | पौरैश्च जानपदिकैश्च यथैव रामे दत्वा सुतां जनक आप मुदं ततोऽनु
19.160 SK उद्बाह्य तत्र निवसत्सु च पाण्डवेषु ण्स्रुत्वैव रामसहितः सह यादवैश्च | आदाय पारिबर्हं बहुलं स कृष्ण आयान्मुदैव पृथया सहितां श्च पार्थान्
19.161 SK दृष्ट्वैव तं मुमुदुराण्सु कुरुप्रवीरा आण्स्लिष्य कृष्णमथ नेमुरसौ च कृष्णाम् | दृष्ट्वा प्रदाय गृहयोग्यसमस्तभाण्डं सौवर्णमेभ्य उरु भूषणमच्युतोऽदात्
19.162 SK देवाङ्गयोग्यशुभकुण्डलहारमौलिकेयूरवस्त्रसहितान्युरुभूषणानि | षण्णां पृथक्पृथगदात् पृथगेव योग्यान्यन्यद् ददावथ पितृष्वसुरात्मयोग्यम्
19.163 SK रत्नानि गा गजतुरङ्गरथान् सुवर्णभारान् बहूनपि ददावथ चाऽशिषोऽग्र्याः | च्च्xxx.व्यासोऽप्यदादिह परत्र च पार्षतोऽपि भूषारथाण्स्वगजरत्नसुकाञ्चनानि
19.164 SK दासीश्च दाससहिताः शुभरूपवेषाः सहस्रशो ददतुरत्र हरिर्नृपश्च | त् आसां विचित्रवसनान्युरुरत्नमालाः प्रत्येकशो ददतुरप्युरुभूषणानाम्
19.165 SK मासान् बहूनपि विहृत्य सहैव पार्थैः कृष्णो ययौ यदुपुरीं सहितोऽग्रजेन | अन्तर्हिते भगवति प्रततोरुशक्तौ व्यासे च वत्सरमिहोषुरिमे तु पार्थाः
19.166 SK वैचित्रवीर्यतनयाः सह सौबलेन कर्णेन सिन्धुपतिना रथहस्तियौधैः | भूरिश्रवः प्रभृतिभिश्च सहैव हन्तुं पाञ्चालराजमगुरेत्य पुरीं पुनस्ते
19.167 SK तैरर्दिते स्वपुर आण्सु स सोमकानां राजा सुतैः सह ससैनिक उद्गतोऽभूत् | तेषां च तस्य च बभूव महान् विमर्दः पुत्रौ च तस्य निहतौ विधुताण्स्च सेनाः
19.168 SK चित्रे हते समर आण्सु सचित्रकेतौ धावत्सु सैनिकवरेषु च पार्षतस्य | पार्था रथैरभिययुर्धृतचापबाणा वैचित्रवीर्यतनयान् रविसूनुयुक्तान्
19.169 SK तैस्तेषु पञ्चसु समं प्रतियोधयत्सु भूरिश्रवाः सरविजो विरथं चकार | शक्रात्मजं तदनु पर्वतसन्निकाण्सं दोर्भ्यां तु मारुतिरुरुं तरुमुद्बबर्ह
19.170 SK आयान्तमीक्ष्य तरुहस्तमिमं समीरसूनुं सुयोधनमुखा निखिलाः सकर्णाः | भूरिश्रवाः शकुनिभूरिजयद्रथाण्स्च सर्वेऽपि दुद्रुवुरथो विविशुः पुरं स्वम्
19.171 SK ज् ञात्वा समस्तमपि तद् विदुरोऽग्रजं स्वं वर्द्धन्त एव तनया भवतो नरेन्द्र | इत्याह सोऽपि मुदितः स्वसुतेन कृष्णा प्राप्तेति भूषणवराण्यदिशच्च वासः
19.172 SK पार्था इति स्म विदुरोऽवददाण्सु सोऽपि स्वाकारगूहनपरो यदि तर्ह्यतीव | भद्रं मृत् आ नहि पृथासहिताः स्म पार्थास्तेषां प्रवृत्तिमपि मे वद सर्वशस्त्वम्
19.173 SK इत्युक्त आह विदुरः स हिडिम्बवध्यापूर्वां प्रवृत्तिमखिलामपि लक्षवेधम् | उद्बाहमप्यथ नदीजमुखाण्स्च सर्वे तुष्टा बभूवुरपि वत्सरमूषुरेवम्
19.174 SK श्रुत्वाऽथ कृष्णमुपयातमुरु प्रदाय रत्नं च पाण्डुतनयेषु गतं पुनश्च | त् आतप्यमानहृदयास्तु सुयोधनाद्या मन्त्रं प्रचक्रुरथ कर्णमुखा ययुश्च
19.175 SK च्च्xxxइ.युद्धाय तेषु पुनरेव रथैः प्रयातेष्वाहाग्रजं स विदुरोऽपि नदीजमुख्यान् | एते हि पापतमचेतस एत्य पार्थान् युद्धाय मृत्युमुपयान्ति न सं शयोऽत्र
19.176 SK भीमार्जुनौ विषहितुं नहि कश्चनास्ति सामर्थ्ययुक् सुरवरेष्वपि वर्द्धितास्ते | ज् ञात्वैव वत्सरत एव महानधर्मस्तेषामुपेक्षणकृतस्तदलं नियुङ्क्ष्व
19.177 SK आनीतये च विनियुज्य सुसान्त्वपूर्वमानीय योजय नृपैषु तथाऽर्द्धराज्यम् | एवं कृतं तव भवेत् कुलवृद्धये हि धर्माय चोभयविनाण्सकरोऽन्यथा स्याः
19.178 SK इत्युक्तवत्यनु तथेत्यवदन्नदीजो द्रोणः कृपश्च विदुरं स नृपोऽप्युवाच | याह्यानयेति स च वेगवता रथेन तत्रागमत् तदनु तैरभिपूजितश्च
19.179 SK तत्काल एव वसुदेवसुतश्च कृष्णो व्यासश्च तानुपसमेत्य दुरन्तशक्ती | आदाय कुन्तिसहितान् विदुरेण युक्तौ नागाह्वयं पुरमितां सह भार्ययैव
19.180 SK तेष्वागतेषु सुमहानभवत् प्रहर्षः पौरस्य जानपदिकस्य जनस्य चोच्चैः | भीष्मादिकाण्स्च मुदिताः प्रतिपूज्य गेहमावेशयन् सह नृपेण महोत्सवेन
19.181 SK कृष्णामपूजयदतीव च सौबली सा दुर्योधनस्य दयितासहिताऽत्र तेऽपि | ऊषुस्ततश्च निजपुत्रकदुर्विनीत्या कृष्णानिमित्तमुरुभीतित आह भीमात्
19.182 SK कुन्ति प्रयाहि सहिता स्नुषया गृहं स्वं भीमाद् बिभेमि निजपुत्रकदुर्विनीत्या | कृष्णा त्रिलोकवनिताधिकरूपसारा यस्मादिति स्म ससुता प्रययौ गृहं सा
19.183 SK ऊषुस्तथैव परिवत्सरपञ्चकं ते पाण्डोर्गृहे सुसुखिनोऽखिलभोगयुक्ताः | कृष्णा च तेषु पृथगेव चतुः स्वरूपा रेमे तथैकतनुरप्यभिमानिभेदात्
19.184 SK कन्यैव साऽभवदतः प्रतिवासरं च जन्माभवद्ध्यभिमतेः पृथगेव नाण्सात् | प्रायो हि नाभिमतिनाण्समवाप वाणी तस्मान्मरुच्च सकलेष्वभिविष्ट आसीत्
19.185 SK धर्मात्मजादिषु मरुत् प्रतिविष्ट एषां बुद्धिं विमोह्य रमते सततं तया यत् | शुद्धैव सा हि तत एव दिनेदिने च सम्मोहतो मरणवद् भवतीह कन्या
19.186 SK नो सुप्तिवत् त्विदमतोऽन्यवशत्वतो हि देहस्य सं स्मृतित एव हरेर्न मोहः | नाऽवेशवच्च तत एव मृतेः स्वरूपमेतत् त्वतः प्रतिदिनं जननाद्धि कन्या
19.187 SK च्च्xxxइइ.एवं स वायुरनुविष्टयुधिष्ठिरादिभीमात्मनैव रमते सततं तयैकः | अन्यादृशा हि सुरभुक्तिरतोऽन्यरूपा मानुष्यभुक्तिरिति नात्र विचार्यमस्ति
19.188 SK वासिष्ठयादववृषावपि केशवौ तौ तत्रोषतुः परमसौहृदतो हि तेषु | त् आभ्यामनन्तगुणपूर्णसुखात्मकाभ्यां पार्थाण्स्च ते मुमुदिरे युतसत्कथाभिः
19.189 SK पूर्वं हि तेषु वनगेषु बभूव काण्सिराजः सुताकृत उरुक्षितिपालयोगः | तत्र स्वयम्बरगतां धृतराष्ट्रपुत्रः कन्यां बलाज्जगृह आत्मबलातिदृप्तः
19.190 SK पूर्वं हि राजगणने मगधाधिराजः सङ्ख्यात इत्यतिरुषा प्रगृहीतकन्ये | दुर्योधने नृपतयो युयुधुः स्म तेन भग्नाण्स्च कर्णसहितेन सहानुजेन
19.191 SK भग्नेषु तेषु पुनरात्तशरासनेषु कर्णो जगाद धृतराष्ट्रसुतं प्रयाहि | युक्तः सहोदरजनैर्गुरुभीष्ममुख्ययुक्तस्य ते न पुरमेत्य हि घर्षणेण्साः
19.192 SK एकान्ततो जयमवीक्ष्य च नानुयाति बार्हद्रथः पुरगतस्य जये न निष्ठा | द्रौणिं च रुद्रतनुमेष सदा विजानन् नो तेन युद्धमभिवाञ्छति रुद्रभक्तः
19.193 SK एकोऽहमेव नृपतीन् प्रतियोधयिष्य एतैर्मयि प्रतिजितेऽपि न तेऽस्त्यकीर्तिः | एकं च तेऽनुजमिमे यदि पौरुषेण गृह्णीयुरत्र तव कीर्तिरुपैति नाण्सम्
19.194 SK भीष्मादयोऽपि नहि योधयितुं समर्था राज्ञा ह्यनेन तत एव हि बाह्लिकोऽस्य | भृत्यो बभूव नतु भीष्ममयं युधेऽगाद् राजा नहीति नच तेन विरोध आसीत्
19.195 SK इत्युक्त आण्सु स विमृश्य ययौ पुरं स्वं कर्णोऽपि तैः प्रतियुयोध जिगाय चैनान् | कर्णस्य वीर्यमगणय्य जरासुतोऽपि ह्येकैकमेव नृपतिं स दिदेश योद्धुम्
19.196 SK सर्वेषु तेषु विजितेष्वभिजग्मिवान् स योद्धुं बृहद्रथसुतोऽप्यमुना रथेन | तं चैव रामवरतो विरथं विशस्त्रं चक्रे स चैनमथ मुष्टिभिरभ्युपेतौ
19.197 SK सन्धौ यदैव जरया प्रतिसन्धितस्य कर्णो जघान न परत्र तुतोष राजा | न ज्ञातमेतदपि हो हलिना तदेतज्ज्ञातं त्वया भव ततो मम भृत्य एव
19.198 SK एवं विधं सुकुशलं बहुयुद्धशौण्डं न त्वां हनिष्य उत ते पितुरेव पूर्वम् | च्च्xxxइइइ.बाह्वोर्बलादभिहृतं हि मयाऽङ्गराज्यं तत् त्वं गृहाण युधि कर्मकरश्च मे स्याः
19.199 SK इत्युक्त आण्सु स तथैव चकार कर्णः पूर्वं हि तस्य निजराज्यपदैकदेशः | दुर्योधनेन विहितो मगधाधिराजं जित्वा वृकोदरहृतः पितुरेव दत्तः
19.200 SK अङ्गाधिराज्यमुपलभ्य जरासुतस्य स्नेहं च सूर्यसुत आण्सु कुरून् जगाम | दृष्ट्वैव तं मुमुदिरे धृतराष्ट्रपुत्रा नानेन तुल्यमधिजग्मुरतो हरिं च
19.201 SK उद्वाह्य काण्सितनयां गिरिजाधिविष्टां साक्षान्नरेषु जनितां प्रथमामलक्ष्मीम् | तस्यां सुतं त्वजनयत् पुर आस योऽक्षः कन्यां पुरा प्रियतमां च षडाननस्य
19.202 SK पुत्रो बभूव स तु लक्षणनामधेयः सा लक्षणेत्यधिकरूपगुणाऽस कन्या | तस्यानुजाण्स्च निजयोग्यगुणा अवापुर्भार्याः पुनश्च स सुयोधन आप भार्याः
19.203 SK पूर्वं सुरान्तक इति प्रथितः सुतोऽभूद् दुः शासनस्य तदनु प्रतितप्यमानाः | दृष्ट्वैव पार्थबलवीर्यगुणान् समृद्धिं त् आं चैव ते प्रतिययुः स्म कलिङ्गदेशम्
19.204 SK आसीत् स्वयम्बर उतात्र कलिङ्गराजपुत्र्याः सुवज्र इति यं प्रवदन्ति भूपाः | रौद्राद् वरादविजितस्य च तस्य कन्यां दृप्तो बलात् स जगृहे धृतराष्ट्रसूनुः
19.205 SK तत्राथ रुद्रवरतः स जरासुतेन युक्तो बबन्ध च सुयोधनमाण्सु जित्वा | कर्णः पराद्रवदिह स्म सुतेषु पाण्डोर्यस्मात् स्पृधाऽगमदतः स पराजितोऽभूत्
19.206 SK दुर्योधनेऽनुजजनैः सह तैर्गृहीते भीष्माम्बिकेयविदुराग्रजवाक्यनुन्नः | भीमो विजित्य नृपतीन् सजरासुतां स्तान् हत्वा सुवज्रममुचद् धृतराष्ट्रपुत्रान्
19.207 SK तेऽपि स्म कर्णसहिता मृतकप्रतीका ७१ नागाह्वयं पुरमथाऽययुरप्यमीषाम् | दृष्ट्वा विरोधमवदन्नृपतिश्च धर्मपुत्रं पुरन्दरकृतस्थलमाण्सु याहि
19.208 SK तत्रार्द्धराज्यमनुभुङ्क्ष्व सहानुजैस्त्वं कोशार्द्धमेव च गृहाण पुरा हिशक्रः | तत्राभिषिक्त उत कञ्जभवादिदेवैस्तत्रस्थ एव स चकार चिरं च राज्यम्
19.209 SK त्वं वीर शक्रसम एव ततस्तवैव योग्यं पुरं तदत आण्स्वभिषेचयामि | ७१ प्राचीनकोशे ᳚मृतकप्रतीपाः ᳚ इति पठ्यते | अर्थस्तु न स्फुटः | यतः प्रतीपशब्दः सादृश्यवाची न प्रसिद्धः - बन्नन्जे गोविन्दाचार्यः च्च्xxxइव्.इत्युक्त आह स युधिष्ठिर Oं इति स्म चक्रेऽभिषेकमपि तस्य स आम्बिकेयः
19.210 SK तस्याभिषेकमकरोत् प्रथमं हि कृष्णो वासिष्ठनन्दन उरुर्भव चक्रवर्ती | यष्टाऽश्वमेधनिखिलात्मकराजसूयपूर्वैर्मखैः सततमेव च धर्मशीलः
19.211 SK इत्येव पार्षतसुतासहितेऽभिषिक्ते कृष्णोऽपि वृष्णिवृषभः स तथाऽभ्यषि ञ्चत् | एवं च मारुतिशिरस्यभिषेकमेतौ सञ्चक्रतुः स्म युवराजपदे सभार्यम्
19.212 SK भीमे च पार्षतसुतासहितेऽभिषिक्ते ताभ्यामनन्तसुखशक्तिचिदात्मकाभ्याम् | अन्यैश्च विप्रवृषभैः सुकृतेऽभिषेके धर्मात्मजानु मुमुदुर्निखिलाण्स्च सन्तः
19.213 SK तस्मिन् महोत्सववरे दिनसप्तकानुवृत्ते वसिष्ठवृषभेण चवृष्णिपेन | कृष्णेन ते ययुरमा पृथया तया चपाञ्चालराजसुतया स्थलमिन्द्रवासम्
19.214 SK कोशस्य चार्द्धसहितास्तु यदैव पार्था गच्छन्ति ताननुययुर्निखिलाण्स्च पौराः | ऊचुश्च हा बत सुयोधन एष पापो दूरे चकार ननु पाण्डुसुतान् गुणाढ्यान्
19.215 SK भीमप्रतापमवलम्ब्य कलिङ्गबन्धान्मुक्तः सुतामपि हि तस्य पुरं निनाय | द्वेष्ट्येवमप्यतिबलान् हि सदैव पार्थान् यामो वयं गुणिभिरद्य सहैव पार्थैः
19.216 SK आज्ञापयत्यपि स भेरिरवेण पार्थान् नैवानुगच्छत यदि व्रजथानु वोऽद्य | वित्तं हरिष्य इह सर्वमपीति तच्च पापः करोतु न वयं विजहाम पार्थान्
19.217 SK सद्भिर्हि सङ्गतिरिहैव सुखस्य हेतुर्मोक्षैकहेतुरथ तद्विपरीतमन्यत् | तस्माद् व्रजेम सह पाण्डुसुतैर्हि शक्रप्रस्थं त्विति स्म धृतचेतस आह धार्मः
19.218 SK प्रीतिर्यदि स्म भवतां मयि सानुजेऽस्ति तिष्ठध्वमत्र पितुरेव हि शासने मे | कीर्तिर्हि वोऽनुगमनात् पितुरत्ययेन नश्येन्न इत्यनुसरध्वमिहाऽम्बिकेयम्
19.219 SK इत्येव तैः पुरजना निखिलैर्निषिद्धाः कृच्छ्रेण तस्थुरपि तान् मनसाऽन्वगच्छन् | प्राप्याथ शक्रपुरमस्मरतां च कृष्णौ देवेशवर्धकिमथाऽगमदत्र सोऽपि
19.220 SK वासिष्ठपेन यदुपेन च पाण्डवानां रत्नोत्करं कुरु पुरं पुरुहूतपुर्याः | सादृश्यतस्त्विति नियुक्त उभौ प्रणम्य सर्वेश्वरौ स कृतवां श्च पुरं तथैव
19.221 SK च्च्xxxव्.देशं च नातिजनसं वृतमन्यदेशसं स्थैर्जनैरभिपुपूरिर आण्सु पार्थाः | तेषां गुणैर्हरिपदानतिहेतुतश्च राष्ट्रान्तरा इह शुभा वसतिं स्म चक्रुः
19.222 SK प्रस्थाप्य दूरमनुजस्य सुतान् स राजा चक्रेऽभिषेकमपि तत्र सुयोधनस्य | दुः शासनं च युवराजमसौ विधाय मेने कृत् आर्थमिव च स्वमशान्तकामः
19.223 SK पार्थाण्स्च ते मुमुदुरत्र वसिष्ठवृष्णिवर्योदितानखिलतत्त्वविनिर्णयां स्तु | शृण्वन्त एव हि सदा पृथिवीं च धर्माद् भुञ्जन्त आण्स्रितरमापतिपादयुग्माः
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mādhva: Mahābhāratatātparyanirṇaya (sa_mAdhva-mahAbhAratatAtparyanirNaya.htm).
Source