Rāmānuja's Commentary on the Bhagavadgītā
Bhagavadgītābhāṣya
Bहगवद्गीताभाष्य
SKयत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः / वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् //
SKयत्-पद-अम्भोरुह-ध्यान-विध्वस्त-अशेष-कल्मषः / वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् //
SKश्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयाउज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवाइश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूपनित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिर् अनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तम् अखिलं जगत् सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरः, अपारकारुण्यसौशील्यवात्सल्याउदार्यमहोदधिः, स्वम् एव रूपं तत् तत् सजातीयसंस्थानं स्वस्वभावम् अजहद् एव कुर्वन् तेषु तेषु लोकेष्व् अवतीर्यावतीर्य तैस् तैर् आराधितस् तत् तद् इष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनाम् अपि समाश्रयणीयत्वायावतीर्योर्व्यां सकलमनुजनयनविषयतां गतः, परावरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुककालियकेशिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीन् निहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनालापामृतैर् विश्वम् आप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेणाक्रूरमालाकारादीन् परमभागवतान् कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगम् अवतारयाम् आस / तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरो जगदुपकृतिमर्त्यः आश्रितवात्सल्यविवशः पार्थं रथिनम् आत्मानं च सारथिं सर्वलोकसाक्षिकं चकार /
SKश्रियः पतिः, निखिल-हेय-प्रत्यनीक-कल्याण-एकतानः, स्व-इतर-समस्त-वस्तु-विलक्षण-अनन्त-ज्ञन-आनन्द-एक-स्व-रूपः, स्वाभाविक-अनवधिक-अतिशय-ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असंख्येय-कल्याण-गुण-गण-महा-उदधिः, स्व-अभिमत-अनुरूप-एक-रूप-अचिन्त्य-दिव्य-अद्भुत-नित्य-निरवद्य-निरतिशय-औज्ज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवन-आद्य्-अनन्त-गुण-निधि-दिव्य-रूपः, स्व-उचित-विविध-विचित्र-अनन्त-आश्चर्य-नित्य-निरवद्य-अपरिमित-दिव्य-भूषणः, स्व-अनुरूप-असंख्येय-अचिन्त्य-शक्ति-नित्य-निरवद्य-निरतिशय-कल्याण-दिव्य-आयुधः, स्व-अभिमत-अनुरूप-नित्य-निरवद्य-स्व-रूप-रूप-गुण-विभव-ऐश्वर्य-शील-आद्य्-अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गण-श्री-वल्लभः, स्व-सङ्कल्प-अनुविधायि-स्व-रूप-स्थिति-प्रवृत्ति-भेद-अशेष-सेषता-एक-रति-रूप-नित्य-निरवद्य-निरतिशय-ज्ञान-क्रिया-ऐश्वर्य-आद्य्-अनन्त-गुण-गण-अपरिमित-सूरिभिर् अनवरत-अभिष्टुत-चरण-युगलः, वाङ्-मनसा-अपरिच्छेद्य-स्व-रूप-स्व-भावः स्व-उचित-विविध-विचित्र-अनन्त-भोग्य-भोग-उपकरण-भोग-स्थान-समृद्ध-अनन्त-आश्चर्य-अनन्त-महा-विभव-अनन्त-परिमाण-नित्य-निरवद्य-अक्षर-परम-व्योम-निलयः, विविध-विचित्र-अनन्त-भोग्य-भोक्तृ-वर्ग-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलः, परं ब्रह्म पुरुष-उत्तमो नारायणः, ब्रह्मा-आदि-स्थावर-अन्तम् अखिलं जगत् सृष्ट्वा ,स्वेन रूपेण अवस्थितो ब्रह्मा-आदि-देव-मनुष्याणां ध्यान-आराधन-आद्य्-अगोचरः, अपार-कारुण्य-सौशील्य-वात्सल्य-औदार्य-महा-उदधिः, स्वम् एव रूपं तत् तत् सजातीय-संस्थानं स्व-स्व-भावम् अजहद् एव कुर्वन् तेषु तेषु लोकेष्व् अवतीर्य अवतीर्य तैस् तैर् आराधितस् तत् तद् इष्ट-अनुरूपं धर्म-अर्थ-काम-मोक्ष-आख्यं फलं प्रयच्छन्, भू-भार-अवतारण-अपदेशेन अस्मद्-आदीनाम् अपि समाश्रयणीयत्वाय अवतीर्य उर्व्यां सकल-मनुज-नयन-विषयतां गतः, पर-अवर-निखिल-जन-मनो-नयन-हारि-दिव्य-चेष्टितानि कुर्वन्, पूतना-शकट-यमल-अर्जुन-अरिष्ट-प्रलम्ब-धेनुक-कालिय-केशि-कुवलय-आपीड-चाणूर-मुष्टिक-तोसल-कंस-आदीन् निहत्य अनवधिक-दया-सौहार्द-अनुराग-गर्भ-अवलोकन-आलाप-अमृतैर् विश्वम् आप्याययन्, निरतिशय-सौन्दर्य-सौशील्य-आदि-गुण-गण-आविष्कारेण अक्रूर-माला-कार-आदीन् परम-भागवतान् कृत्वा, पाण्डु-तनय-युद्ध-प्रोत्साहन-व्याजेन परम-पुरुष-अर्थ-लक्षण-मोक्ष-साधनतया वेदान्त-उदितं स्व-विषयं ज्ञान-कर्म-अनुगृहीतं भक्ति-योगम् अवतारयाम् आस / तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे स भगवान् पुरुष-उत्तमः सर्व-ईश्वर-ईश्वरो जगद्-उपकृति-मर्त्यः आश्रित-वात्सल्य-विवशः पार्थं रथिनम् आत्मानं च सारथिं सर्व-लोक-साक्षिकं चकार /