Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 3

SK
ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन | तत् किं कर्मणि घोरे मां नियोजयसि केशव ||
SK
ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जन-अर्दन | तत् किं कर्मणि घोरे मां नियोजयसि केशव ||
SK
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे | तद् एकं वद, निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ||
SK
व्यामिश्रेण एव वाक्येन बुद्धिं मोहयसि इव मे | तद् एकं वद, निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ||
SK
यदि कर्मणो बुद्धिर् एव ज्यायसीति ते मता, किम् अर्थं तर्हि घोरे कर्मणि मां नियोजयसि / एतद् उक्तं भवति -- ज्ञाननिष्ठैवात्मावलोकनसाधनम्; कर्मनिष्ठा तु तस्याः निष्पादिका; आत्मावलोकनसाधनभूता च ज्ञाननिष्ठा सकलेन्द्रियमनसां शब्दादिविषयव्यापारोपरतिनिष्पाद्येत्य् अभिहिता / इन्द्रियव्यापारोपरतिनिष्पाद्यम् आत्मावलोकनं चेत् सिषाधयिषितम्, सकलकर्मनिवृत्तिपूर्वकज्ञाननिष्ठायाम् एवाहं नियोजयितव्यः / किम् अर्थं घोरे कर्मणि सर्वेन्द्रियव्यापाररूपे आत्मावलोकनविरोधिनि कर्मणि मां नियोजयसीति // अतो मिश्रवाक्येन मां मोहयसीव -- प्रतिभाति / तथा ह्य् आत्मावलोकनसाधनभूतायाः सर्वेन्द्रियव्यापारोपरतिरूपायाः ज्ञाननिष्ठायाः तद्विपर्ययरूपं कर्म साधनम्, तद् एव कुर्व् इति वाक्यं विरुद्धं व्यामिश्रम् एव / तस्माद् एकम् अमिश्ररूपं वाक्यं वद, येन वाक्येनाहम् अनुष्ठेयरूपं निश्चित्य श्रेयः प्राप्नुयाम् //
SK
यदि कर्मणो बुद्धिर् एव ज्यायसि ईति ते मता, किम् अर्थं तर्हि घोरे कर्मणि मां नियोजयसि / एतद् उक्तं भवति --- ज्ञान-निष्ठ ऐवा अत्म-अवलोकन-साधनम्; कर्म-निष्ठा तु तस्याः निष्पादिका; आत्म-अवलोकन-साधन-भूता च ज्ञान-निष्ठा सकल-इन्द्रिय-मनसां शब्द-आदि-विषय-व्यापार-उपरति-निष्पाद्य ईत्य् अभिहिता / इन्द्रिय-व्यापार-उपरति-निष्पाद्यम् आत्म-अवलोकनं चेत् सिषाधयिषितम्, सकल-कर्म-निवृत्ति-पूर्वक-ज्ञान-निष्ठायाम् एव अहं नियोजयितव्यः / किम् अर्थं घोरे कर्मणि सर्व-इन्द्रिय-व्यापार-रूपे आत्म-अवलोकन-विरोधिनि कर्मणि मां नियोजयसि इति // अतो मिश्र-वाक्येन मां मोहयसि इव --- प्रतिभाति / तथा ह्य् आत्म-अवलोकन-साधन-भूतायाः सर्व-इन्द्रिय-व्यापार-उपरति-रूपायाः ज्ञान-निष्ठायाः तद्-विपर्यय-रूपं कर्म साधनम्, तद् एव कुर्व् इति वाक्यं विरुद्धं व्यामिश्रम् एव / तस्माद् एकम् अमिश्र-रूपं वाक्यं वद, येन वाक्येन अहम् अनुष्ठेय-रूपं निश्चित्य श्रेयः प्राप्नुयाम् //
SK
लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ||
SK
लोके ऽस्मिन् द्वि-विधा निष्ठा पुरा प्रोक्ता मय आनघ | ज्ञान-योगेन साङ्ख्यानां कर्म-योगेन योगिनाम् ||
SK
पूर्वोक्तं न सम्यगवधृतं त्वया / पुरा ह्य् अस्मिन् लोके विचित्राधिकारिपूर्णे, द्विविधा निष्ठा ज्ञानकर्मविषया यथाधिकारम् असङ्कीर्णैव मयोक्ता / न हि सर्वो लौकिकः पुरुषः संजातमोक्षाभिलाषस् तदानीम् एव ज्ञानयोगाधिकारे प्रभवति, अपि त्व् अनभिसंहितफलेन केवलपरमपुरुषाराधनवेषेणानुष्ठितेन कर्मणा विध्वस्तस्वान्तमलः, अव्याकुलेन्द्रियो ज्ञाननिष्ठायाम् अधिकरोति / ᳚यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् / स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः᳚ इति परमपुरुषाराधनैकवेषता कर्मणां वक्ष्यते / इहापि, ᳚कर्मण्य् एवाधिकारस् ते᳚ इत्यादिना अनभिसंहितफलं कर्म अनुष्ठेयं विधाय, तेन विषयव्याकुलतारूपमोहाद् उत्तीर्णबुद्धेः ᳚प्रजहाति यदा कामान्᳚ इत्यादिना ज्ञानयोग उदितः / अतः साङ्ख्यानाम् एव ज्ञानयोगेन स्थितिर् उक्ता / योगिनां तु कर्मयोगेन / सङ्ख्या बुद्धिः तद्युक्ताः साङ्ख्याः -- आत्मैकविषयया बुद्ध्या संबन्धिनः साङ्ख्याः; अतदर्हाः कर्मयोगाधिकारिणो योगिनः / विषयव्याकुलबुद्धियुक्तानां कर्मयोगे ऽधिकारः; अव्याकुलबुद्धीनां तु ज्ञानयोगे ऽधिकार उक्त इति न किंचिद् इह विरुद्धं व्यामिश्रम् अभिहितम् //
SK
पूर्व-उक्तं न सम्यग्-अवधृतं त्वया / पुरा ह्य् अस्मिन् लोके विचित्र-अधिकारि-पूर्णे, द्वि-विधा निष्ठा ज्ञान-कर्म-विषया यथा-अधिकारम् असङ्कीर्ण ऐव मय ऊक्ता / न हि सर्वो लौकिकः पुरुषः संजात-मोक्ष-अभिलाषस् तदानीम् एव ज्ञान-योग-अधिकारे प्रभवति, अपि त्व् अनभिसंहित-फलेन केवल-परम-पुरुष-आराधन-वेषेण अनुष्ठितेन कर्मणा विध्वस्त-स्व-अन्त-मलः, अव्याकुल-इन्द्रियो ज्ञान-निष्ठायाम् अधिकरोति / ᳚यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् / स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः᳚ इति परम-पुरुष-आराधन-एक-वेषता कर्मणां वक्ष्यते / इह अपि, ᳚कर्मण्य् एव अधिकारस् ते᳚ इत्य्-आदिना अनभिसंहित-फलं कर्म अनुष्ठेयं विधाय, तेन विषय-व्याकुलता-रूप-मोहाद् उत्तीर्ण-बुद्धेः ᳚प्रजहाति यदा कामान्᳚ इत्य्-आदिना ज्ञान-योग उदितः / अतः साङ्ख्यानाम् एव ज्ञान-योगेन स्थितिर् उक्ता / योगिनां तु कर्म-योगेन / सङ्ख्या बुद्धिः तद्-युक्ताः साङ्ख्याः --- आत्म-एक-विषयया बुद्ध्या संबन्धिनः साङ्ख्याः; अतद्-अर्हाः कर्म-योग-अधिकारिणो योगिनः / विषय-व्याकुल-बुद्धि-युक्तानां कर्म-योगे ऽधिकारः; अव्याकुल-बुद्धीनां तु ज्ञान-योगे ऽधिकार उक्त इति न किंचिद् इह विरुद्धं व्यामिश्रम् अभिहितम् //
SK
सर्वस्य लौकिकस्य पुरुषस्य मोक्षेच्छायां जातायां सहसैव ज्ञानयोगो दुष्कर इत्य् आह --
SK
सर्वस्य लौकिकस्य पुरुषस्य मोक्ष-इच्छायां जातायां सहस ऐव ज्ञान-योगो दुष्कर इत्य् आह ---
SK
न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते | न च संन्यसनाद् एव सिद्धिं समधिगच्छति ||
SK
न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते | न च संन्यसनाद् एव सिद्धिं समधिगच्छति ||
SK
न शास्त्रीयाणां कर्मणाम् अनारम्भाद् एव, पुरुषो नैष्कर्म्यं -- ज्ञाननिष्ठां प्राप्नोति / न चारब्धस्य शास्त्रीयस्य त्यागात्; यतो ऽनभिसंहितफलस्य परमपुरुषाराधनवेषस्य कर्मणः सिद्धिः सा / अतस् तेन विना तां न प्राप्नोति / अनभिसंहितफलैः कर्मभिर् अनाराधितगोविन्दैर् अविनष्टानादिकालप्रवृत्तानन्तपापसञ्चयैर् अव्याकुलेन्द्रियतापूर्विका आत्मनिष्ठा दुस्संपादा //
SK
न शास्त्रीयाणां कर्मणाम् अनारम्भाद् एव, पुरुषो नैष्कर्म्यं --- ज्ञान-निष्ठां प्राप्नोति / न चा अरब्धस्य शास्त्रीयस्य त्यागात्; यतो ऽनभिसंहित-फलस्य परम-पुरुष-आराधन-वेषस्य कर्मणः सिद्धिः सा / अतस् तेन विना तां न प्राप्नोति / अनभिसंहित-फलैः कर्मभिर् अनाराधित-गोविन्दैर् अविनष्ट-अनादि-काल-प्रवृत्त-अनन्त-पाप-सञ्चयैर् अव्याकुल-इन्द्रियता-पूर्विका आत्म-निष्ठा दुस्संपादा //
SK
एतद् एवोपपादयति --
SK
एतद् एव उपपादयति ---
SK
न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत् | कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ||
SK
न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् | कार्यते ह्य् अवशः कर्म सर्वः प्रकृति-जैर् गुणैः ||
SK
न ह्य् अस्मिन् लोके वर्तमानः पुरुषः कश्चित् कदाचिद् अपि कर्माकुर्वाणस् तिष्ठति; न किंचित् करोमीति व्यवसितो ऽपि सर्वः पुरुषः प्रकृतिसंभवैः सत्त्वरजस्तमोभिः प्राचीनकर्मानुगुणं प्रवृद्धैर् गुणैः स्वोचितं कर्म प्रति अवशः कार्यते - प्रवर्त्यते / अत उक्तलक्षणेन कर्मयोगेन प्राचीनं पापसंचयं नाशयित्वा गुणांश् च सत्त्वादीन् वशे कृत्वा निर्मलान्तःकरणेन संपाद्यो ज्ञानयोगः //
SK
न ह्य् अस्मिन् लोके वर्तमानः पुरुषः कश्चित् कदाचिद् अपि कर्म-अकुर्वाणस् तिष्ठति; न किंचित् करोमि इति व्यवसितो ऽपि सर्वः पुरुषः प्रकृति-संभवैः सत्त्व-रजस्-तमोभिः प्राचीन-कर्म-अनुगुणं प्रवृद्धैर् गुणैः स्व-उचितं कर्म प्रति अवशः कार्यते -- प्रवर्त्यते / अत उक्त-लक्षणेन कर्म-योगेन प्राचीनं पाप-संचयं नाशयित्वा गुणांश् च सत्त्व-आदीन् वशे कृत्वा निर्मल-अन्तःकरणेन संपाद्यो ज्ञान-योगः //
SK
अन्यथा ज्ञानयोगाय प्रवृत्तो मिथ्याचारो भवतीत्य् आह --
SK
अन्यथा ज्ञान-योगाय प्रवृत्तो मिथ्या-आचारो भवति इत्य् आह ---
SK
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ||
SK
कर्म-इन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | इन्द्रिय-अर्थान् विमूढ-आत्मा मिथ्या-आचारः स उच्यते ||
SK
अविनष्टपापतया अजितान्तःकरणः आत्मज्ञानाय प्रवृत्तो विषयप्रवणतया आत्मनि विमुखीकृतमनाः विषयान् एव स्मरन् य आस्ते, अन्यथा संकल्प्य अन्यथा चरतीति स मिथ्याचार उच्यते / आत्मज्ञानायोद्युक्तो विपरीतो विनष्टो भवतीत्यर्थः //
SK
अविनष्ट-पापतया अजित-अन्तःकरणः आत्म-ज्ञानाय प्रवृत्तो विषय-प्रवणतया आत्मनि विमुखीकृत-मनाः विषयान् एव स्मरन् य आस्ते, अन्यथा संकल्प्य अन्यथा चरति इति स मिथ्या-आचार उच्यते / आत्म-ज्ञानाय उद्युक्तो विपरीतो विनष्टो भवति इत्य्-अर्थः //
SK
यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन | कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते ||
SK
यस् त्व् इन्द्रियाणि मनसा नियम्या अरभते ऽर्जुन | कर्म-इन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ||
SK
अतः पूर्वाभ्यस्तविषयसजातीये शास्त्रीये कर्मणि इन्द्रियाण्य् आत्मावलोकनप्रवृत्तेन मनसा नियम्य तैः स्वत एव कर्मप्रवणैर् इन्द्रियैर् असङ्गपूर्वकं यः कर्मयोगम् आरभते, सो ऽसंभाव्यमानप्रमादत्वेन ज्ञाननिष्ठाद् अपि पुरुषाद् विशिष्यते //
SK
अतः पूर्व-अभ्यस्त-विषय-सजातीये शास्त्रीये कर्मणि इन्द्रियाण्य् आत्म-अवलोकन-प्रवृत्तेन मनसा नियम्य तैः स्वत एव कर्म-प्रवणैर् इन्द्रियैर् असङ्ग-पूर्वकं यः कर्म-योगम् आरभते, सो ऽसंभाव्यमान-प्रमादत्वेन ज्ञान-निष्ठाद् अपि पुरुषाद् विशिष्यते //
SK
नियतं कुरु कर्म त्वं कर्मं ज्यासयो ह्य् अकर्मणः | शरीरयात्रापि च ते न प्रसिद्ध्येद् अकर्मणः ||
SK
नियतं कुरु कर्म त्वं कर्मं ज्यासयो ह्य् अकर्मणः | शरीर-यात्र आपि च ते न प्रसिद्ध्येद् अकर्मणः ||
SK
नियतं व्याप्तम्; प्रकृतिसंसृष्टेन हि व्याप्तं कर्म, अनादिवासनया प्रकृतिसंसृष्टस् त्वं नियतत्वेन सुशकत्वाद् असंभावितप्रमादत्वाच् च कर्मणः, कर्मैव कुरु; अकर्मणः ज्ञाननिष्ठाया अपि कर्मैव ज्यायः / ᳚नैष्कर्म्यं पुरुषो ऽशुनुते᳚ इति प्रक्रमाद् अकर्मशब्देन ज्ञाननिष्ठैवोच्यते / ज्ञाननिष्ठाधिकारिणो ऽप्य् अनभ्यस्तपूर्वतया ह्य् अनियतत्वेन दुःशकत्वात् सप्रमादत्वाच् च ज्ञाननिष्ठायाः, कर्मनिष्ठैव ज्यायसी; कर्मणि क्रियमाणे च आत्मयाथात्म्यज्ञानेनात्मनो ऽकर्तृत्वानुसन्धानम् अनन्तरम् एव वक्ष्यते / अत आत्मज्ञानस्यापि कर्मयोगान्तर्गतत्वात् स एव ज्यायान् इत्यर्थः / कर्मणो ज्ञाननिष्ठाया ज्यायस्त्ववचनं ज्ञाननिष्ठायाम् अधिकारे सत्य् एवोपपद्यते / यदि सर्वं कर्म परित्यज्य केवलं ज्ञाननिष्ठायाम् अधिकारो ऽपि, तर्हि अकर्मणः ज्ञाननिष्ठस्य ज्ञाननिष्ठोपकारिणी शरीरयात्रापि न सेत्स्यति / यावत् साधनसमाप्ति शरीरधारणं चावश्यं कार्यम् / न्यायार्जितधनेन महायज्ञादिकं कृत्वा तच्छिष्टाशनेनैव शरीरधारणं कार्यम्, ᳚आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुत्वा स्मृतिः᳚ इत्यादिश्रुतेः / ᳚ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्मकारणात्᳚ इति वक्ष्यते / अतो ज्ञाननिष्ठस्यापि कर्माकुर्वतो देहयात्रापि न सेत्स्यति / यतो ज्ञाननिष्ठस्यापि ध्रियमाणशरीरस्य यावत्साधनसमाप्ति महायज्ञादि नित्यनैमित्तिकं कर्म अवश्यं कर्तव्यम्, यतश् च कर्मयोगे ऽप्य् आत्मनो ऽकर्तृत्वभावनयात्मयाथात्म्यानुसन्धानम् अन्तर्भूतम्, यतश् च प्रकृतिसंसृष्टस्य कर्मयोगः सुशको ऽप्रमादश् च, अतो ज्ञाननिष्ठायोग्यस्यापि ज्ञानयोगात् कर्मयोगो ज्यायान् / तस्मात् त्वं कर्मयोगम् एव कुर्व् इत्यभिप्रायः //
SK
नियतं व्याप्तम्; प्रकृति-संसृष्टेन हि व्याप्तं कर्म, अनादि-वासनया प्रकृति-संसृष्टस् त्वं नियतत्वेन सुशकत्वाद् असंभावित-प्रमादत्वाच् च कर्मणः, कर्म एव कुरु; अकर्मणः ज्ञान-निष्ठाया अपि कर्म एव ज्यायः / ᳚नैष्कर्म्यं पुरुषो ऽशुनुते᳚ इति प्रक्रमाद् अकर्म-शब्देन ज्ञान-निष्ठ ऐव उच्यते / ज्ञान-निष्ठा-अधिकारिणो ऽप्य् अनभ्यस्त-पूर्वतया ह्य् अनियतत्वेन दुःशकत्वात् सप्रमादत्वाच् च ज्ञान-निष्ठायाः, कर्म-निष्ठ ऐव ज्यायसी; कर्मणि क्रियमाणे च आत्म-याथात्म्य-ज्ञानेना अत्मनो ऽकर्तृत्व-अनुसन्धानम् अनन्तरम् एव वक्ष्यते / अत आत्म-ज्ञानस्य अपि कर्म-योग-अन्तर्गतत्वात् स एव ज्यायान् इत्य्-अर्थः / कर्मणो ज्ञान-निष्ठाया ज्यायस्त्व-वचनं ज्ञान-निष्ठायाम् अधिकारे सत्य् एव उपपद्यते / यदि सर्वं कर्म परित्यज्य केवलं ज्ञान-निष्ठायाम् अधिकारो ऽपि, तर्हि अकर्मणः ज्ञान-निष्ठस्य ज्ञान-निष्ठा-उपकारिणी शरीर-यात्र आपि न सेत्स्यति / यावत् साधन-समाप्ति शरीर-धारणं च अवश्यं कार्यम् / न्याय-अर्जित-धनेन महा-यज्ञ-आदिकं कृत्वा तच्-छिष्ट-आशनेन एव शरीर-धारणं कार्यम्, ᳚आहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुत्वा स्मृतिः᳚ इत्य्-आदि-श्रुतेः / ᳚ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्म-कारणात्᳚ इति वक्ष्यते / अतो ज्ञान-निष्ठस्य अपि कर्म-अकुर्वतो देह-यात्र आपि न सेत्स्यति / यतो ज्ञान-निष्ठस्य अपि ध्रियमाण-शरीरस्य यावत्-साधन-समाप्ति महा-यज्ञ-आदि नित्य-नैमित्तिकं कर्म अवश्यं कर्तव्यम्, यतश् च कर्म-योगे ऽप्य् आत्मनो ऽकर्तृत्व-भावनया आत्म-याथात्म्य-अनुसन्धानम् अन्तर्भूतम्, यतश् च प्रकृति-संसृष्टस्य कर्म-योगः सुशको ऽप्रमादश् च, अतो ज्ञान-निष्ठा-योग्यस्य अपि ज्ञान-योगात् कर्म-योगो ज्यायान् / तस्मात् त्वं कर्म-योगम् एव कुर्व् इत्य्-अभिप्रायः //
SK
एवं तर्हि द्रव्यार्जनादेः कर्मणो ऽहङ्कारममकारादिसर्वेन्द्रियव्यकुलतागर्भत्वेनास्य पुरुषस्य कर्मवासनया बन्धनं भविष्यतीत्य् अत्राह --
SK
एवं तर्हि द्रव्य-अर्जन-आदेः कर्मणो ऽहङ्कार-ममकार-आदि-सर्व-इन्द्रिय-व्यकुलता-गर्भत्वेन अस्य पुरुषस्य कर्म-वासनया बन्धनं भविष्यति इत्य् अत्रा अह ---
SK
यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्मबन्धनः | तदर्थं कर्म कौन्तेय मुक्तसङ्गस् समाचर ||
SK
यज्ञ-अर्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्म-बन्धनः | तद्-अर्थं कर्म कौन्तेय मुक्त-सङ्गस् समाचर ||
SK
यज्ञादिशास्त्रीयकर्मशेषभूताद् द्रव्यार्जनादेः कर्मणो ऽन्यत्र आत्मीयप्रयोजनशेषभूते कर्मणि क्रियमाणे अयं लोकः कर्मबन्धनो भवति / अतस् त्वं यज्ञार्थं द्रव्यार्जनादिकं कर्म समाचर / तत्रात्मप्रयोजनसाधनतया यः सङ्गः तस्मात् सङ्गान् मुक्तस् तम् समाचर / एवं मुक्तसङ्गेन यज्ञाद्यर्थतया कर्मणि क्रियमाणे यज्ञादिभिः कर्मभिर् आराधितः परमपुरुषो ऽस्यानादिकालप्रवृत्तकर्मवासनाम् उच्छिद्य अव्याकुलात्मावलोकनं ददातीत्यर्थः //
SK
यज्ञ-आदि-शास्त्रीय-कर्म-शेष-भूताद् द्रव्य-अर्जन-आदेः कर्मणो ऽन्यत्र आत्मीय-प्रयोजन-शेष-भूते कर्मणि क्रियमाणे अयं लोकः कर्म-बन्धनो भवति / अतस् त्वं यज्ञ-अर्थं द्रव्य-अर्जन-आदिकं कर्म समाचर / तत्रा अत्म-प्रयोजन-साधनतया यः सङ्गः तस्मात् सङ्गान् मुक्तस् तम् समाचर / एवं मुक्त-सङ्गेन यज्ञ-आद्य्-अर्थतया कर्मणि क्रियमाणे यज्ञ-आदिभिः कर्मभिर् आराधितः परम-पुरुषो ऽस्य-अनादि-काल-प्रवृत्त-कर्म-वासनाम् उच्छिद्य अव्याकुल-आत्म-अवलोकनं ददाति इत्य्-अर्थः //
SK
यज्ञशिष्टेनैव सर्वपुरुषार्थसाधननिष्ठानां शरीरधारणकर्तव्यताम्, अयज्ञशिष्टेन शरीरधारणं कुर्वतां दोषं चाह --
SK
यज्ञ-शिष्टेन एव सर्व-पुरुष-अर्थ-साधन-निष्ठानां शरीर-धारण-कर्तव्यताम्, अयज्ञ-शिष्टेन शरीर-धारणं कुर्वतां दोषं चा अह ---
SK
सह यज्ञैः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः | अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्टकामधुक् ||
SK
सह यज्ञैः प्रजाः सृष्ट्वा पुर ऊवाच प्रजापतिः | अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्ट-काम-धुक् ||
SK
᳚पतिं विश्वस्य᳚ इत्यादिश्रुतेर् निरुपाधिकः प्रजापतिशब्दः सर्वेश्वरं विश्वस्य स्रष्टारं विश्वात्मानं परायणं नारायणम् आह / पुरा -- सर्गकाले स भगवान् प्रजापतिर् अनादिकालप्रवृत्ताचित्संसर्गविवशाः उपसंहृतनामरूपविभागाः स्वस्मिन् प्रलीनाः सकलपुरुषार्थानर्हाः चेतनेतरकल्पाः प्रजाः समीक्ष्य परमकारुणिकस् तदुज्जीवयिषया स्वाराधनभूतयज्ञनिर्वृत्तये यज्ञैः सह ताः सृष्ट्वैवम् उवाच -- अनेन यज्ञेन प्रसविष्यध्वम्, आत्मनो वृद्धिं कुरुध्वम्; एष वो यज्ञः परमपुरुषार्थलक्षणमोक्षाख्यस्य कामस्य तदनुगुणानाअं च कामानां प्रपूरयिता भवतु // Bह्GR_३.१० //
SK
᳚पतिं विश्वस्य᳚ इत्य्-आदि-श्रुतेर् निरुपाधिकः प्रजापति-शब्दः सर्व-ईश्वरं विश्वस्य स्रष्टारं विश्व-आत्मानं परायणं नारायणम् आह / पुरा --- सर्ग-काले स भगवान् प्रजापतिर् अनादि-काल-प्रवृत्त-अचित्-संसर्ग-विवशाः उपसंहृत-नाम-रूप-विभागाः स्वस्मिन् प्रलीनाः सकल-पुरुष-अर्थ-अनर्हाः चेतन-इतर-कल्पाः प्रजाः समीक्ष्य परम-कारुणिकस् तद्-उज्जीवयिषया स्व-आराधन-भूत-यज्ञ-निर्वृत्तये यज्ञैः सह ताः सृष्ट्व ऐवम् उवाच --- अनेन यज्ञेन प्रसविष्यध्वम्, आत्मनो वृद्धिं कुरुध्वम्; एष वो यज्ञः परम-पुरुष-अर्थ-लक्षण-मोक्ष-आख्यस्य कामस्य तद्-अनुगुणानाअं च कामानां प्रपूरयिता भवतु // Bह्GR_३.१० //
SK
कथम्?
SK
कथम्?
SK
देवान् भावयतानेन ते देवा भावयन्तु वः | परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ||
SK
देवान् भावयत अनेन ते देवा भावयन्तु वः | परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ||
SK
अनेन देवताराधनभूतेन देवान् मच्छरीरभूतान् मदात्मकान् आराधयत / ᳚अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च᳚ इति हि वक्ष्यते / यज्ञेनाराधितास् ते देवा मदात्मकाः स्वाराधनापेक्षितान्नपानादिकैर् युष्मान् पुष्णन्तु / एवं परस्परं भावयन्तः परं श्रेयो मोक्षाख्यम् अवाप्स्यथ //
SK
अनेन देवता-आराधन-भूतेन देवान् मच्-छरीर-भूतान् मद्-आत्मकान् आराधयत / ᳚अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च᳚ इति हि वक्ष्यते / यज्ञेना अराधितास् ते देवा मद्-आत्मकाः स्व-आराधन-अपेक्षित-अन्न-पान-आदिकैर् युष्मान् पुष्णन्तु / एवं परस्परं भावयन्तः परं श्रेयो मोक्ष-आख्यम् अवाप्स्यथ //
SK
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः | तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ||
SK
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः | तैर् दत्तान् अप्रदाय एभ्यो यो भुङ्क्ते स्तेन एव सः ||
SK
यज्ञभाविताः -- यज्ञेनाराधिताः मदात्मका देवाः इष्टान् वो दास्यन्ते उत्तमपुरुषार्थलक्षणं मोक्षं साधयतां ये इष्टा भोगास् तान् पूर्वपूर्वयज्ञभाविता देवा दास्यन्ते उत्तरोत्तराराधनोपेक्षितान् सर्वान् भोगान् वो दास्यन्ते इत्यर्थः / स्वाराधनार्थतया तैर् दत्तान् भोगान् तेभ्यो ऽप्रदाय यो भुङ्क्ते चोर एव सः / चोउर्यं हि नाम अन्यदीये तत्प्रयोजनायैव परिकॢप्ते वस्तुनि स्वकीयताबुद्धिं कृत्वा तेन स्वात्मपोषणम् / अतो ऽस्य न परमपुरुषार्थानर्हतामात्रम्; अपि तु निरयगामित्वं च भविष्यतीत्यभिप्रायः //
SK
यज्ञ-भाविताः --- यज्ञेना अराधिताः मद्-आत्मका देवाः इष्टान् वो दास्यन्ते उत्तम-पुरुष-अर्थ-लक्षणं मोक्षं साधयतां ये इष्टा भोगास् तान् पूर्व-पूर्व-यज्ञ-भाविता देवा दास्यन्ते उत्तर-उत्तर-आराधन-उपेक्षितान् सर्वान् भोगान् वो दास्यन्ते इत्य्-अर्थः / स्व-आराधन-अर्थतया तैर् दत्तान् भोगान् तेभ्यो ऽप्रदाय यो भुङ्क्ते चोर एव सः / चोउर्यं हि नाम अन्यदीये तत्-प्रयोजनाय एव परिकॢप्ते वस्तुनि स्वकीयता-बुद्धिं कृत्वा तेन स्व-आत्म-पोषणम् / अतो ऽस्य न परम-पुरुष-अर्थ-अनर्हता-मात्रम्; अपि तु निरय-गामित्वं च भविष्यति इत्य्-अभिप्रायः //
SK
तद् एव विवृणोति -
SK
तद् एव विवृणोति --
SK
यज्ञशिष्टाशिनस् सन्तो मुच्यन्ते सर्वकिल्विषैः | ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्मकारणात् ||
SK
यज्ञ-शिष्ट-आशिनस् सन्तो मुच्यन्ते सर्व-किल्विषैः | ते त्व् अघं भुञ्जते पापा ये पचन्त्य् आत्म-कारणात् ||
SK
इन्द्राद्यात्मनावस्थितपरमपुरुषाराधनार्थतयैव द्रव्याण्य् उपादाय विपच्य तैर् यथावस्थितं परमपुरुषम् आराध्य तच्छिष्टाशनेन ये शरीरयात्रां कुर्वते, ते त्व् अनादिकालोपार्जितैः किल्बिषैः आत्मयाथात्म्यावलोकनविरोधिभिः सर्वैर् मुच्यन्ते / ये तु परमपुरुषेणेन्द्राद्यात्मना स्वाराधनाय दत्तानि आत्मार्थत्योपादाय विपच्याश्नन्ति, ते पापात्मनो ऽघम् एव भुञ्जते / अघपरिणामित्वाद् अघम् इत्य् उच्यते / आत्मावलोकनविमुखाः नरकायैव पचन्ते //
SK
इन्द्र-आद्य्-आत्मन आवस्थित-परम-पुरुष-आराधन-अर्थतय ऐव द्रव्याण्य् उपादाय विपच्य तैर् यथा-अवस्थितं परम-पुरुषम् आराध्य तच्-छिष्ट-आशनेन ये शरीर-यात्रां कुर्वते, ते त्व् अनादि-काल-उपार्जितैः किल्बिषैः आत्म-याथात्म्य-अवलोकन-विरोधिभिः सर्वैर् मुच्यन्ते / ये तु परम-पुरुषेण इन्द्र-आद्य्-आत्मना स्व-आराधनाय दत्तानि आत्म-अर्थत्य ऊपादाय विपच्य अश्नन्ति, ते पापा-आत्मनो ऽघम् एव भुञ्जते / अघ-परिणामित्वाद् अघम् इत्य् उच्यते / आत्म-अवलोकन-विमुखाः नरकाय एव पचन्ते //
SK
पुनर् अपि लोकदृष्ट्या शास्त्रदृष्ट्या च सर्वस्य यज्ञमूलत्वं दर्शयित्वा यज्ञानुवर्तनस्यावश्यकार्यताम् अननुवर्तने दोषं चाह --
SK
पुनर् अपि लोक-दृष्ट्या शास्त्र-दृष्ट्या च सर्वस्य यज्ञ-मूलत्वं दर्शयित्वा यज्ञ-अनुवर्तनस्य अवश्य-कार्यताम् अननुवर्तने दोषं चा अह ---
SK
अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्नसंभवः | यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ||
SK
अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः | यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ||
SK
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् | तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||
SK
कर्म ब्रह्म-उद्भवं विद्धि ब्रह्म अक्षर-समुद्भवम् | तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||
SK
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः | अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ||
SK
एवं प्रवर्तितं चक्रं न अनुवर्तयति इह यः | अघ-आयुर् इन्द्रिय-आरामो मोघं पार्थ स जीवति ||
SK
᳚अन्नात् सर्वाणि भूतानि भवन्ति पर्जन्याच् चान्नसंभवः᳚ इति सर्वलोकसाक्षिकम् / यज्ञात् पर्जन्यो भवतीति च शास्त्रेणावगम्यते, ᳚अग्नौ प्रास्ताहुतिः सम्यगादित्यम् उपतिष्ठते / आदित्याज् जायते वृष्टिः᳚ इत्यादिना / यज्ञश् च द्रव्यार्जनादिकर्तृव्यापाररूपकर्मसमुद्भवः, कर्म च ब्रह्मोद्भवम् / अत्र च ब्रह्मशब्दनिर्दिष्टं प्रकृतिपरिणामरूपं शरीरम् / ᳚तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते᳚ इति हि ब्रह्मशब्देन प्रकृतिनिर्दिष्टा / इहापि ᳚मम योनिर् महद् ब्रह्म᳚ इति वक्ष्यते / अतः कर्म ब्रह्मोद्भवम् इति प्रकृतिपरिणामरूपशरीरोद्भवं कर्मेत्युक्तं भवति / ब्रह्माक्षरसमुद्भवम् इत्य् अत्राक्षरशब्दनिर्दिष्टो जीवात्मा, अन्नपानादिना तृप्ताक्षराधिष्ठितं शरीरं कर्मणे प्रभवतीति कर्मसाधनभूतं
SK
᳚अन्नात् सर्वाणि भूतानि भवन्ति पर्जन्याच् च अन्न-संभवः᳚ इति सर्व-लोक-साक्षिकम् / यज्ञात् पर्जन्यो भवति इति च शास्त्रेण अवगम्यते, ᳚अग्नौ प्रास्त-आहुतिः सम्यग्-आदित्यम् उपतिष्ठते / आदित्याज् जायते वृष्टिः᳚ इत्य्-आदिना / यज्ञश् च द्रव्य-अर्जन-आदि-कर्तृ-व्यापार-रूप-कर्म-समुद्भवः, कर्म च ब्रह्म-उद्भवम् / अत्र च ब्रह्म-शब्द-निर्दिष्टं प्रकृति-परिणाम-रूपं शरीरम् / ᳚तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते᳚ इति हि ब्रह्म-शब्देन प्रकृति-निर्दिष्टा / इह अपि ᳚मम योनिर् महद् ब्रह्म᳚ इति वक्ष्यते / अतः कर्म ब्रह्म-उद्भवम् इति प्रकृति-परिणाम-रूप-शरीर-उद्भवं कर्म इत्य्-उक्तं भवति / ब्रह्म-अक्षर-समुद्भवम् इत्य् अत्र अक्षर-शब्द-निर्दिष्टो जीव-आत्मा, अन्न-पान-आदिना तृप्त-अक्षर-अधिष्ठितं शरीरं कर्मणे प्रभवति इति कर्म-साधन-भूतं
SK
शरीरम् अक्षरसमुद्भवम्; तस्मात् सर्वगतं ब्रह्म सर्वाधिकारिगतं शरीरं नित्यं यज्ञे प्रतिष्ठितं -- यज्ञमूलम् इत्यर्थः / एवं परमपुरुषेण प्रवर्तितम् इदं चक्रम् अन्नाद् भूतशब्दनिर्दिष्टानि सजीवानि शरीराणि, पर्य्जन्याद् अन्नम्, यज्ञात् पर्जन्यः, यज्ञश् च कर्तृव्यापाररूपात् कर्मणः, कर्म च सजीवाच् छरीरात्, सजीवं शरीरं पुनर् अप्य् अन्नाद् इत्य् अन्योन्यकार्यकारणभावेन चक्रवत् परिवर्तमानम् इह साधने वर्तमानो यः कर्मयोगाधिकारी ज्ञानयोगाधिकारी वा नानुवर्तयति न प्रवर्तयति, यज्ञशिष्टेन देहधारणम् अकुर्वन् सो ऽघायुर् भवति / अघारम्भायैव यस्यायुः, अघपरिणतं वा, उभयरूपं वा सो ऽघायुः / अत एवेन्द्रियारामो भवति, नात्मारामः; इन्द्रियाण्य् एवास्योद्यानानि भवन्ति; अयज्ञशिष्टवर्धितदेहमनस्त्वेनोद्रिक्तरजस्तमस्कः आत्मावलोकनविमुखतया विषयभोगैकरतिर् भवति / अतो ज्ञानयोगादौ यतमानो ऽपि निष्फलप्रयत्नतया मोघं पार्थ स जीवति //
SK
शरीरम् अक्षर-समुद्भवम्; तस्मात् सर्व-गतं ब्रह्म सर्व-अधिकारि-गतं शरीरं नित्यं यज्ञे प्रतिष्ठितं --- यज्ञ-मूलम् इत्य्-अर्थः / एवं परम-पुरुषेण प्रवर्तितम् इदं चक्रम् अन्नाद् भूत-शब्द-निर्दिष्टानि सजीवानि शरीराणि, पर्य्जन्याद् अन्नम्, यज्ञात् पर्जन्यः, यज्ञश् च कर्तृ-व्यापार-रूपात् कर्मणः, कर्म च सजीवाच् छरीरात्, सजीवं शरीरं पुनर् अप्य् अन्नाद् इत्य् अन्योन्य-कार्य-कारण-भावेन चक्रवत् परिवर्तमानम् इह साधने वर्तमानो यः कर्म-योग-अधिकारी ज्ञान-योग-अधिकारी वा न अनुवर्तयति न प्रवर्तयति, यज्ञ-शिष्टेन देह-धारणम् अकुर्वन् सो ऽघ-आयुर् भवति / अघ-आरम्भाय एव यस्या अयुः, अघ-परिणतं वा, उभय-रूपं वा सो ऽघ-आयुः / अत एव इन्द्रिय-आरामो भवति, ना अत्म-आरामः; इन्द्रियाण्य् एव अस्य उद्यानानि भवन्ति; अयज्ञ-शिष्ट-वर्धित-देह-मनस्त्वेन उद्रिक्त-रजस्-तमस्कः आत्म-अवलोकन-विमुखतया विषय-भोग-एक-रतिर् भवति / अतो ज्ञान-योग-आदौ यतमानो ऽपि निष्फल-प्रयत्नतया मोघं पार्थ स जीवति //
SK
असाधनायत्तात्मदर्शनस्य मुक्तस्येव महायज्ञादिवर्णाश्रमोचितकर्मानारम्भ इत्य् आह
SK
असाधन-आयत्त-आत्म-दर्शनस्य मुक्तस्य इव महा-यज्ञ-आदि-वर्ण-आश्रम-उचित-कर्म-अनारम्भ इत्य् आह
SK
यस् त्व् आत्मरतिर् एव स्याद् आत्मतृप्तश् च मानवः | आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ||
SK
यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः | आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ||
SK
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिद् अर्थव्यपाश्रयः ||
SK
न एव तस्य कृतेन अर्थो न अकृतेन इह कश्चन | न च अस्य सर्व-भूतेषु कश्चिद् अर्थ-व्यपाश्रयः ||
SK
यस् तु ज्ञानयोगकर्मयोगसाधननिरपेक्षः स्वत एवात्मरतिः आत्माभिमुखः, आत्मनैव तृप्तः नान्नपानादिभिर् आत्मव्यतिरिक्तैः, आत्मन्य् एव च सन्तुष्टः, नोद्यानस्रक्चन्दनगीतवादित्रनृत्तादौ, धारणपोषणभोग्यादिकं सर्वम् अत्मैव यस्य, तस्यात्मदर्शनाय कर्तव्यं न विद्यते, स्वत एव सर्वदा दृष्टात्मस्वरूपत्वात् / अत एव तस्यात्मदर्शनाय कृतेन तत्साधनेन नार्थः न किंचित् प्रयोजनम्; अकृतेनात्मदर्शनसाधनेन न कश्चिद् अनर्थः; असाधनायत्तात्मदर्शनत्वात् / स्वत एवात्मव्यतिरिक्तसकलाचिद्वस्तुविमुखस्यास्य सर्वेषु प्रकृतिपरिणामविशेषेष्व् आकाशादिषु सकार्येषु न कश्चित् प्रयोजनतया साधनतया वा व्यपाश्रयः; यतस् तद्विमुखीकरणाय साधनारम्भः; स हि मुक्त एव //
SK
यस् तु ज्ञान-योग-कर्म-योग-साधन-निरपेक्षः स्वत एवा अत्म-रतिः आत्म-अभिमुखः, आत्मन ऐव तृप्तः न अन्न-पान-आदिभिर् आत्म-व्यतिरिक्तैः, आत्मन्य् एव च सन्तुष्टः, न उद्यान-स्रक्-चन्दन-गीत-वादित्र-नृत्त-आदौ, धारण-पोषण-भोग्य-आदिकं सर्वम् अत्म ऐव यस्य, तस्या अत्म-दर्शनाय कर्तव्यं न विद्यते, स्वत एव सर्वदा दृष्ट-आत्म-स्व-रूपत्वात् / अत एव तस्या अत्म-दर्शनाय कृतेन तत्-साधनेन न अर्थः न किंचित् प्रयोजनम्; अकृतेना अत्म-दर्शन-साधनेन न कश्चिद् अनर्थः; असाधन-आयत्त-आत्म-दर्शनत्वात् / स्वत एवा अत्म-व्यतिरिक्त-सकल-अचिद्-वस्तु-विमुखस्य अस्य सर्वेषु प्रकृति-परिणाम-विशेषेष्व् आकाश-आदिषु सकार्येषु न कश्चित् प्रयोजनतया साधनतया वा व्यपाश्रयः; यतस् तद्-विमुखीकरणाय साधन-आरम्भः; स हि मुक्त एव //
SK
तस्माद् असक्तस् सततं कार्यं कर्म समाचर | असक्तो ह्य् आचरन् कर्म परम् आप्नोति पुरुषः ||
SK
तस्माद् असक्तस् सततं कार्यं कर्म समाचर | असक्तो ह्य् आचरन् कर्म परम् आप्नोति पुरुषः ||
SK
यस्माद् असाधनायत्तात्मदर्शनस्यैव साधनाप्रवृत्तिः, यस्माच् च साधने प्रवृत्तस्यापि सुशकत्वाच् च अप्रमादत्वाद् अन्तर्गतात्मयाथात्म्यानुसन्धानत्वाच् च ज्ञानयोगिनो ऽपि मात्रया कर्मानुवृत्त्यपेक्षत्वाच् च कर्मयोग एवात्मदर्शननिर्वृत्तौ श्रेयान्, तस्माद् असङ्गपूर्वकं कार्यम् इत्य् एव सततं यावदात्मप्राप्ति कर्मैव समाचर / असक्तः, कार्यम् इति वक्ष्यमाणाकर्तृत्वानुसन्धानपूर्वकं च कर्माचरन् पुरुषः कर्मयोगेनैव परम् आप्नोति आत्मानं प्राप्नोतीत्यर्थः //
SK
यस्माद् असाधन-आयत्त-आत्म-दर्शनस्य एव साधन-अप्रवृत्तिः, यस्माच् च साधने प्रवृत्तस्य अपि सुशकत्वाच् च अप्रमादत्वाद् अन्तर्गत-आत्म-याथात्म्य-अनुसन्धानत्वाच् च ज्ञान-योगिनो ऽपि मात्रया कर्म-अनुवृत्त्य्-अपेक्षत्वाच् च कर्म-योग एवा अत्म-दर्शन-निर्वृत्तौ श्रेयान्, तस्माद् असङ्ग-पूर्वकं कार्यम् इत्य् एव सततं यावद्-आत्म-प्राप्ति कर्म एव समाचर / असक्तः, कार्यम् इति वक्ष्यमाण-अकर्तृत्व-अनुसन्धान-पूर्वकं च कर्म अचरन् पुरुषः कर्म-योगेन एव परम् आप्नोति आत्मानं प्राप्नोति इत्य्-अर्थः //
SK
कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः |
SK
कर्मण ऐव हि संसिद्धिम् आस्थिता जनक-आदयः |
SK
यतो ज्ञानयोगाधिकारिणो ऽपि कर्मयोग एवात्मदर्शने श्रेयान्; अत एव हि जनकादयो राजर्षयो ज्ञानिनाम् अग्रेसराः कर्मयोगेनैव संसिद्धिम् आस्थिताः आत्मानं प्राप्तवन्तः // एवं प्रथमं मुमुक्षोर् ज्ञानयोगानर्हतया कर्मयोगाधिकारिणः कर्मयोग एव कार्य इत्य् उक्त्वा ज्ञानयोगाधिकारिणो ऽपि ज्ञानयोगात् कर्मयोग एव श्रेयान् इति सहेतुकम् उक्तम् / इदानीं शिष्टतया व्यपदेश्यस्य सर्वथा कर्मयोग एव कार्य इत्य् उच्यते --
SK
यतो ज्ञान-योग-अधिकारिणो ऽपि कर्म-योग एवा अत्म-दर्शने श्रेयान्; अत एव हि जनक-आदयो राज-र्षयो ज्ञानिनाम् अग्रेसराः कर्म-योगेन एव संसिद्धिम् आस्थिताः आत्मानं प्राप्तवन्तः // एवं प्रथमं मुमुक्षोर् ज्ञान-योग-अनर्हतया कर्म-योग-अधिकारिणः कर्म-योग एव कार्य इत्य् उक्त्वा ज्ञान-योग-अधिकारिणो ऽपि ज्ञान-योगात् कर्म-योग एव श्रेयान् इति सहेतुकम् उक्तम् / इदानीं शिष्टतया व्यपदेश्यस्य सर्वथा कर्म-योग एव कार्य इत्य् उच्यते ---
SK
लोकसंग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ||
SK
लोक-संग्रहम् एव अपि संपश्यन् कर्तुम् अर्हसि ||
SK
यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः | स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ||
SK
यद् यद् आचरति श्रेष्ठस् तत् तद् एव इतरो जनः | स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ||
SK
लोकसंग्रहं पश्यन्न् अपि कर्मैव कर्तुम् अर्हसि / श्रेष्ठः कृत्स्नशास्त्रज्ञातयानुष्ठातृतया च प्रथितो यद् यद् आचरति, तत् तद् एवाकृत्स्नविज् जनो ऽप्य् आचरति; अनुष्ठीयमानम् अपि कर्म श्रेष्ठो यत् प्रमाणं यदङ्गयुक्तम् अनुतिष्ठति तदङ्गयुक्तम् एवाकृत्स्नविल्लोको ऽप्य् अनुतिष्ठति / अतो लोकरक्षार्थं शिष्टतया प्रथितेन श्रेष्ठेन स्ववर्णाश्रमोचितं कर्म सकलं सर्वदा अनुष्ठेयम्; अन्यथा लोकनाशजनितं पापं ज्ञानयोगाद् अप्य् एनं प्रच्यावयेत् //
SK
लोक-संग्रहं पश्यन्न् अपि कर्म एव कर्तुम् अर्हसि / श्रेष्ठः कृत्स्न-शास्त्र-ज्ञातय आनुष्ठातृतया च प्रथितो यद् यद् आचरति, तत् तद् एव अकृत्स्न-विज् जनो ऽप्य् आचरति; अनुष्ठीयमानम् अपि कर्म श्रेष्ठो यत् प्रमाणं यद्-अङ्ग-युक्तम् अनुतिष्ठति तद्-अङ्ग-युक्तम् एव अकृत्स्न-विल्-लोको ऽप्य् अनुतिष्ठति / अतो लोक-रक्षा-अर्थं शिष्टतया प्रथितेन श्रेष्ठेन स्व-वर्ण-आश्रम-उचितं कर्म सकलं सर्वदा अनुष्ठेयम्; अन्यथा लोक-नाश-जनितं पापं ज्ञान-योगाद् अप्य् एनं प्रच्यावयेत् //
SK
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन | नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ||
SK
न मे पार्थ अस्ति कर्तव्यं त्रिषु लोकेषु किंचन | न अनवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ||
SK
न मे सर्वेश्वरस्याप्तकामस्य सर्वज्ञस्य सत्यसङ्कल्पस्य त्रिषु लोकेषु देवमनुष्यादिरूपेण स्वच्छन्दतो वर्तमानस्य किंचिद् अपि कर्तव्यम् अस्ति, यतो ऽनवाप्तं कर्मणावाप्तव्यं न किंचिद् अप्य् अस्ति / अथापि लोकरक्षायै कर्मण्य् एव वर्ते //
SK
न मे सर्व-ईश्वरस्या अप्त-कामस्य सर्व-ज्ञस्य सत्य-सङ्कल्पस्य त्रिषु लोकेषु देव-मनुष्य-आदि-रूपेण स्वच्छन्दतो वर्तमानस्य किंचिद् अपि कर्तव्यम् अस्ति, यतो ऽनवाप्तं कर्मण आवाप्तव्यं न किंचिद् अप्य् अस्ति / अथ अपि लोक-रक्षायै कर्मण्य् एव वर्ते //
SK
यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||
SK
यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः | मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ||
SK
उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् | संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ||
SK
उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् | संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ||
SK
अहं सर्वेश्वरः सत्यसङ्कल्पः स्वसङ्कल्पकृतजगदुदयविभवलयलीलः छन्दतो जगदुपकृतिमर्त्यो जातो ऽपि मनुष्येषु शिष्टजनाग्रेसरवसुदेवगृहे ऽवतीर्णस् तत्कुलोचिते कर्मण्य् अतन्द्रितस् सर्वदा यदि न वर्तेय, मम शिष्टजनाग्रेसरवसुदेवसूनोर् वर्त्म अकृत्स्नविदः शिष्टाः सर्वप्रकारेणायम् एव धर्म इत्य् अनुवर्तन्ते; ते च स्वकर्तव्याननुष्ठानेन अकरणे प्रत्यवायेन च आत्मानम् अलब्ध्वा निरयगामिनो भवेयुः / अहं कुलोचितं कर्म न चेत् कुर्याम्, एवम् एव सर्वे शिष्टलोका मदाचरायत्तधर्मनिश्चयाः अकरणाद् एवोत्सीदेयुः नष्टा भवेयुः / शास्त्रीयाचाराननुपालनात् सर्वेषां शिष्टकुलानां संकरस्य च कर्ता स्याम् / अत एवेमाः प्रजाः उपहन्याम् / एवम् एव त्वम् अपि शिष्टजनाग्रेसरपाण्डुतनयो युधिष्ठिरानुजो ऽर्जुनस् सन् यदि ज्ञाननिष्ठायाम् अधिकरोषि; ततस् त्वदाचारानुवर्तिनो ऽकृत्स्नविदः शिष्टा मुमुक्षवः स्वाधिकारम् अजानन्तः कर्मनिष्ठायां नाधिकुर्वन्तो विनश्येयुः / अतो व्यपदेश्येन विदुषा कर्मैव कर्तव्यम् //
SK
अहं सर्व-ईश्वरः सत्य-सङ्कल्पः स्व-सङ्कल्प-कृत-जगद्-उदय-विभव-लय-लीलः छन्दतो जगद्-उपकृति-मर्त्यो जातो ऽपि मनुष्येषु शिष्ट-जन-अग्रेसर-वसु-देव-गृहे ऽवतीर्णस् तत्-कुल-उचिते कर्मण्य् अतन्द्रितस् सर्वदा यदि न वर्तेय, मम शिष्ट-जन-अग्रेसर-वसु-देव-सूनोर् वर्त्म अकृत्स्न-विदः शिष्टाः सर्व-प्रकारेण अयम् एव धर्म इत्य् अनुवर्तन्ते; ते च स्व-कर्तव्य-अननुष्ठानेन अकरणे प्रत्यवायेन च आत्मानम् अलब्ध्वा निरय-गामिनो भवेयुः / अहं कुल-उचितं कर्म न चेत् कुर्याम्, एवम् एव सर्वे शिष्ट-लोका मद्-आचर-आयत्त-धर्म-निश्चयाः अकरणाद् एव उत्सीदेयुः नष्टा भवेयुः / शास्त्रीय-आचार-अननुपालनात् सर्वेषां शिष्ट-कुलानां संकरस्य च कर्ता स्याम् / अत एव इमाः प्रजाः उपहन्याम् / एवम् एव त्वम् अपि शिष्ट-जन-अग्रेसर-पाण्डु-तनयो युधिष्ठिर-अनुजो ऽर्जुनस् सन् यदि ज्ञान-निष्ठायाम् अधिकरोषि; ततस् त्वद्-आचार-अनुवर्तिनो ऽकृत्स्न-विदः शिष्टा मुमुक्षवः स्व-अधिकारम् अजानन्तः कर्म-निष्ठायां न अधिकुर्वन्तो विनश्येयुः / अतो व्यपदेश्येन विदुषा कर्म एव कर्तव्यम् //
SK
सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत | कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोकसंग्रहम् ||
SK
सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत | कुर्याद् विद्वांस् तथ आसक्तश् चिकीर्षुर् लोक-संग्रहम् ||
SK
न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् | जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ||
SK
न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् | जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ||
SK
अविद्वांसः आत्मन्य् अकृत्स्नविदः, कर्मणि सक्ताः कर्मण्य् अवर्जनीयसंबन्धाः आत्मन्य् अकृत्स्नवित्तया तदभ्यासरूपज्ञानयोगे ऽनधिकृताः कर्मयोगाधिकारिणः कर्मयोगम् एव यथा आत्मदर्शनाय कुर्वते, तथा आत्मनि कृत्स्नवित्तया कर्मण्य् असक्तः ज्ञानयोगाधिकारयोग्यो ऽपि व्यपदेश्यः शिष्टो लोकरक्षार्थं स्वाचारेण शिष्टलोकानां धर्मनिश्चयं चिकीर्षुः कर्मयोगम् एव कुर्यात् / अज्ञानाम् आत्मन्य् अकृत्स्नवित्तया ज्ञानयोगोपादानाशक्तानां मुमुक्षूणां कर्मसङ्गिनाम् अनादिकर्मवासनया कर्मण्य् एव नियतत्वेन कर्मयोगाधिकारिणां कर्मयोगाद् अन्यद् आत्मावलोकनसाधनम् अस्तीति न बुद्धिभेदं जनयेत् / किं तर्हि? आत्मनि कृत्स्नवित्तया ज्ञानयोगशक्तो ऽपि पूर्वोक्तरीत्या, ᳚कर्मयोग एव ज्ञानयोगनिरपेक्षः आत्मावलोकनसाधनम्᳚ इति बुद्ध्या युक्तः कर्मैवाचरन्
SK
अविद्वांसः आत्मन्य् अकृत्स्न-विदः, कर्मणि सक्ताः कर्मण्य् अवर्जनीय-संबन्धाः आत्मन्य् अकृत्स्न-वित्तया तद्-अभ्यास-रूप-ज्ञान-योगे ऽनधिकृताः कर्म-योग-अधिकारिणः कर्म-योगम् एव यथा आत्म-दर्शनाय कुर्वते, तथा आत्मनि कृत्स्न-वित्तया कर्मण्य् असक्तः ज्ञान-योग-अधिकार-योग्यो ऽपि व्यपदेश्यः शिष्टो लोक-रक्षा-अर्थं स्व-आचारेण शिष्ट-लोकानां धर्म-निश्चयं चिकीर्षुः कर्म-योगम् एव कुर्यात् / अज्ञानाम् आत्मन्य् अकृत्स्न-वित्तया ज्ञान-योग-उपादान-अशक्तानां मुमुक्षूणां कर्म-सङ्गिनाम् अनादि-कर्म-वासनया कर्मण्य् एव नियतत्वेन कर्म-योग-अधिकारिणां कर्म-योगाद् अन्यद् आत्म-अवलोकन-साधनम् अस्ति इति न बुद्धि-भेदं जनयेत् / किं तर्हि? आत्मनि कृत्स्न-वित्तया ज्ञान-योग-शक्तो ऽपि पूर्व-उक्त-रीत्या, ᳚कर्म-योग एव ज्ञान-योग-निरपेक्षः आत्म-अवलोकन-साधनम्᳚ इति बुद्ध्या युक्तः कर्म एवा अचरन्
SK
सकलकर्मसु अकृत्स्नविदां प्रीतिं जनयेत् //
SK
सकल-कर्मसु अकृत्स्न-विदां प्रीतिं जनयेत् //
SK
कर्मयोगम् अनुतिष्ठतो विदुषो ऽविदुषश् च विशेषं प्रदर्शयन् कर्मयोगापेक्षितम् आत्मनो ऽकर्तृत्वानुसन्धानप्रकारम् उपदिशति --
SK
कर्म-योगम् अनुतिष्ठतो विदुषो ऽविदुषश् च विशेषं प्रदर्शयन् कर्म-योग-अपेक्षितम् आत्मनो ऽकर्तृत्व-अनुसन्धान-प्रकारम् उपदिशति ---
SK
प्रकृतेः क्रियमाणाणि गुणैः कर्माणि सर्वशः | अहङ्कारविमूढात्मा कर्ताहम् इति मन्यते ||
SK
प्रकृतेः क्रियमाणाणि गुणैः कर्माणि सर्वशः | अहङ्कार-विमूढ-आत्मा कर्त आहम् इति मन्यते ||
SK
तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः | गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||
SK
तत्त्व-वित् तु महा-बाहो गुण-कर्म-विभागयोः | गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||
SK
प्रकृतेर् गुणैः सत्त्वादिभिः स्वानुरूपं क्रियमाणानि कर्माणि प्रति अहङ्कारविमूढात्मा, अहं कर्तेति मन्यते; अहङ्कारेण विमूढ आत्मा यस्यासाव् अहङ्कारविमूढात्मा; अहङ्कारो नाम अनहमर्थे प्रकृताव् अहमभिमानः; तेन अज्ञातस्वरूपो गुणकर्मसु अहं कर्तेति मन्यत इत्यर्थः / गुणकर्मविभागयोः सत्त्वादिगुणविभागे तत्तत्कर्मविभागे च तत्त्ववित्, गुणास् सत्त्वादयः गुणेषु स्वेषु कार्येषु वर्तन्त इति मत्वा गुणकर्मसु अहं कर्तेति न सज्जते //
SK
प्रकृतेर् गुणैः सत्त्व-आदिभिः स्व-अनुरूपं क्रियमाणानि कर्माणि प्रति अहङ्कार-विमूढ-आत्मा, अहं कर्त ईति मन्यते; अहङ्कारेण विमूढ आत्मा यस्य असाव् अहङ्कार-विमूढ-आत्मा; अहङ्कारो नाम अनहम्-अर्थे प्रकृताव् अहम्-अभिमानः; तेन अज्ञात-स्व-रूपो गुण-कर्मसु अहं कर्त ईति मन्यत इत्य्-अर्थः / गुण-कर्म-विभागयोः सत्त्व-आदि-गुण-विभागे तत्-तत्-कर्म-विभागे च तत्त्व-वित्, गुणास् सत्त्व-आदयः गुणेषु स्वेषु कार्येषु वर्तन्त इति मत्वा गुण-कर्मसु अहं कर्त ईति न सज्जते //
SK
प्रकृतेर् गुणसंमूढाः सज्जन्ते गुणकर्मसु | तान् अकृत्स्नविदो मन्दान् कृत्स्नविन् न विचालयेत् ||
SK
प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु | तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ||
SK
अकृत्स्नविदः स्वात्मदर्शनाय प्रवृत्ताः प्रकृतिसंसृष्टतया प्रकृतेर् गुणैर् यथावस्थितात्मनि संमूढाः गुणकर्मसु क्रियास्व् एव सज्जन्ते, न तद्विविक्तात्मस्वरूपे / अतस् ते ज्ञानयोगाय न प्रभवन्तीति कर्मयोग एव तेषाम् अधिकारः / एवंभूतांस् तान् मन्दान् अकृत्स्नविदः कृत्स्नवित् स्वयं ज्ञानयोगावस्थानेन न विचालयेत् / ते किल मन्दाः श्रेष्ठजनाचारानुवर्तिनः कर्मयोगाद् उत्थितम् एनं दृष्ट्वा कर्मयोगात् प्रचलितमनसो भवेयुः / अतः श्रेष्ठः स्वयम् अपि कर्मयोगे तिष्ठन् आत्मयाथात्म्यज्ञानेनात्मनो ऽकर्तृत्वम् अनुसन्धानः, कर्मयोग एवात्मावलोकने निरपेक्षसाधनम् इति दर्शयित्वा तान् अकृत्स्नविदो जोषयेद् इत्यर्थः / ज्ञानयोगाधिकारिणो ऽपि ज्ञानयोगाद् अस्यैव ज्यायस्त्वं पूर्वम् एवोक्तम् / अतो व्यपदेश्यो लोकसंग्रहायैतम् एव कुर्यात् //
SK
अकृत्स्न-विदः स्व-आत्म-दर्शनाय प्रवृत्ताः प्रकृति-संसृष्टतया प्रकृतेर् गुणैर् यथा-अवस्थित-आत्मनि संमूढाः गुण-कर्मसु क्रियास्व् एव सज्जन्ते, न तद्-विविक्त-आत्म-स्व-रूपे / अतस् ते ज्ञान-योगाय न प्रभवन्ति इति कर्म-योग एव तेषाम् अधिकारः / एवं-भूतांस् तान् मन्दान् अकृत्स्न-विदः कृत्स्न-वित् स्वयं ज्ञान-योग-अवस्थानेन न विचालयेत् / ते किल मन्दाः श्रेष्ठ-जन-आचार-अनुवर्तिनः कर्म-योगाद् उत्थितम् एनं दृष्ट्वा कर्म-योगात् प्रचलित-मनसो भवेयुः / अतः श्रेष्ठः स्वयम् अपि कर्म-योगे तिष्ठन् आत्म-याथात्म्य-ज्ञानेना अत्मनो ऽकर्तृत्वम् अनुसन्धानः, कर्म-योग एवा अत्म-अवलोकने निरपेक्ष-साधनम् इति दर्शयित्वा तान् अकृत्स्न-विदो जोषयेद् इत्य्-अर्थः / ज्ञान-योग-अधिकारिणो ऽपि ज्ञान-योगाद् अस्य एव ज्यायस्त्वं पूर्वम् एव उक्तम् / अतो व्यपदेश्यो लोक-संग्रहाय एतम् एव कुर्यात् //
SK
प्रकृतिविविक्तात्मस्वभावनिरूपणेन गुणेषु कर्तृत्वम् आरोप्य कर्मानुष्ठानप्रकार उक्तः -- गुणेषु कर्तृत्वानुसन्धानं चेदम् एव -- आत्मनो न स्वरूपप्रयुक्तम् इदं कर्तृत्वम्, अपि तु गुणसम्पर्ककृतम् इति प्राप्ताप्राप्तविवेकेन गुणकृतम् इत्य् अनुसन्धानम् -- इदानीम् आत्मनां परमपुरुषशरीरतया तन्नियाम्यत्वस्वरूपनिरूपणेन भगवति पुरुषोत्तमे सर्वात्मभूते गुणकृतं च कर्तृत्वम् आरोप्य कर्मकर्तव्यतोच्यते --
SK
प्रकृति-विविक्त-आत्म-स्व-भाव-निरूपणेन गुणेषु कर्तृत्वम् आरोप्य कर्म-अनुष्ठान-प्रकार उक्तः --- गुणेषु कर्तृत्व-अनुसन्धानं च इदम् एव --- आत्मनो न स्व-रूप-प्रयुक्तम् इदं कर्तृत्वम्, अपि तु गुण-सम्पर्क-कृतम् इति प्राप्त-अप्राप्त-विवेकेन गुण-कृतम् इत्य् अनुसन्धानम् --- इदानीम् आत्मनां परम-पुरुष-शरीरतया तन्-नियाम्यत्व-स्व-रूप-निरूपणेन भगवति पुरुष-उत्तमे सर्व-आत्म-भूते गुण-कृतं च कर्तृत्वम् आरोप्य कर्म-कर्तव्यत ऊच्यते ---
SK
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा | निराशीर् निर्ममो भूत्वा युध्यस्व विगतज्वरः ||
SK
मयि सर्वाणि कर्माणि संन्यस्य अध्यात्म-चेतसा | निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ||
SK
मयि सर्वेश्वरे सर्वभूतान्तरात्मभूते सर्वाणि कर्माण्य् अध्यात्मचेतसा संन्यस्य, निराशीर् निर्ममश् च विगतज्वरो युद्धादिकं सर्वं चोदितं कर्म कुरुष्व / आत्मनि यच् चेतः तद् अध्यात्मचेतः / आत्मस्वरूपविषयेण श्रुतिशतसिद्धेन ज्ञानेनेत्यर्थः / ᳚अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा ..... अन्तः प्रविष्टं कर्तारम् एतम्᳚ ᳚आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्मान्तर्याम्यमृतः᳚ इत्य् एवम् आद्याः श्रुतयः परमपुरुषप्रवर्त्यं तच्छरीरभूतम् एनम् आत्मानम्, परमपुरुषं च प्रवर्तयितारम् आचक्षते / स्मृतयश् च ᳚प्रशासितारं सर्वेषाम्᳚ इत्याद्याः / ᳚सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च᳚, ᳚ईश्वरस् सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति / भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया // Bह्GR_३.᳚ इति वक्ष्यते / अतो मच्छरीरतया मत्प्रवर्त्यात्मस्वरूपानुसन्धानेन सर्वाणि कर्माणि मयैव क्रियमाणानीति मयि परमपुरुषे संन्यस्य, तानि च केवलं मदाराधनानीति कृत्वा तत्फले निराशीः, तत एव तत्र कर्मणि ममतारहितो भूत्वा विगतज्वरो युद्धादिकं कुरुष्व - स्वकीयेनात्मना कर्त्रा स्वकीयैश् चोपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषः सर्वशेषी सर्वेश्वरः स्वयम् एव स्वकर्माणि कारयतीत्य् अनुसन्धाय, कर्मस् ममतारहितः, प्राचीनेनानादिकालप्रवृत्तानन्तपापसञ्चयेन कथम् अहं भविष्यामीत्य् एवंभूतान्तर्ज्वरविनिर्मुक्तः, परमपुरुष एव कर्मभिर् आराधितो बन्धान् मोचयिष्यतीति सुखेन कर्मयोगम् एव कुरुष्व् इत्यर्थः / ᳚तम् ईश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम्᳚, ᳚पतिं विश्वस्य᳚ , ᳚पतिं पतीनाम्᳚ इत्यादिश्रुतिसिद्धिं हि सर्वेश्वरत्वं सर्वशेषित्वं च / ईश्वरत्वम् नियन्तृत्वम्, शेषित्वं पतित्वम् //
SK
मयि सर्व-ईश्वरे सर्व-भूत-अन्तर-आत्म-भूते सर्वाणि कर्माण्य् अध्यात्म-चेतसा संन्यस्य, निराशीर् निर्ममश् च विगत-ज्वरो युद्ध-आदिकं सर्वं चोदितं कर्म कुरुष्व / आत्मनि यच् चेतः तद् अध्यात्म-चेतः / आत्म-स्व-रूप-विषयेण श्रुति-शत-सिद्धेन ज्ञानेन इत्य्-अर्थः / ᳚अन्तः प्रविष्टः शास्ता जनानां सर्व-आत्मा ..... अन्तः प्रविष्टं कर्तारम् एतम्᳚ ᳚आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या अत्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्म आन्तर्याम्य्-अमृतः᳚ इत्य् एवम् आद्याः श्रुतयः परम-पुरुष-प्रवर्त्यं तच्-छरीर-भूतम् एनम् आत्मानम्, परम-पुरुषं च प्रवर्तयितारम् आचक्षते / स्मृतयश् च ᳚प्रशासितारं सर्वेषाम्᳚ इत्य्-आद्याः / ᳚सर्वस्य च अहं हृदि सन्-निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च᳚, ᳚ईश्वरस् सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति / भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया // Bह्GR_३.᳚ इति वक्ष्यते / अतो मच्-छरीरतया मत्-प्रवर्त्य्-आत्म-स्व-रूप-अनुसन्धानेन सर्वाणि कर्माणि मय ऐव क्रियमाणानि इति मयि परम-पुरुषे संन्यस्य, तानि च केवलं मद्-आराधनानि इति कृत्वा तत्-फले निराशीः, तत एव तत्र कर्मणि ममता-रहितो भूत्वा विगत-ज्वरो युद्ध-आदिकं कुरुष्व -- - स्वकीयेना अत्मना कर्त्रा स्वकीयैश् च उपकरणैः स्व-आराधन-एक-प्रयोजनाय परम-पुरुषः सर्व-शेषी सर्व-ईश्वरः स्वयम् एव स्व-कर्माणि कारयति इत्य् अनुसन्धाय, कर्मस् ममता-रहितः, प्राचीनेन अनादि-काल-प्रवृत्त-अनन्त-पाप-सञ्चयेन कथम् अहं भविष्यामि इत्य् एवं-भूत-अन्तर्ज्वर-विनिर्मुक्तः, परम-पुरुष एव कर्मभिर् आराधितो बन्धान् मोचयिष्यति इति सुखेन कर्म-योगम् एव कुरुष्व् इत्य्-अर्थः / ᳚तम् ईश्वराणां परमं महा-ईश्वरं तं दैवतानां परमं च दैवतम्᳚, ᳚पतिं विश्वस्य᳚ , ᳚पतिं पतीनाम्᳚ इत्य्-आदि-श्रुति-सिद्धिं हि सर्व-ईश्वरत्वं सर्व-शेषित्वं च / ईश्वरत्वम् नियन्तृत्वम्, शेषित्वं पतित्वम् //
SK
अयम् एव साक्षाद् उपनिषत्सारभूतो ऽर्थ इत्याह --
SK
अयम् एव साक्षाद् उपनिषत्-सार-भूतो ऽर्थ इत्य्-आह ---
SK
ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः | श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ||
SK
ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः | श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ||
SK
ये मानवाः शास्त्राधिकारिणः अयम् एव शास्त्रार्थ इति एतन् मे मतं निश्चित्य तथानुतिष्ठन्ति, ये चाननुतिष्ठन्तो ऽप्य् अस्मिन् शास्त्रार्थे श्रद्दधाना भवन्ति, ये चाश्रद्दधाना अपि एवं शास्त्रार्थो न संभवतीति नाभ्यसूयन्ति -- अस्मिन् महागुणे शास्त्रार्थे दोषम् अनाविष्कुर्वन्तो भवन्तीत्यर्थः -- ते सर्वे बन्धहेतुभिर् अनादिकालारब्धैस् सर्वैः कर्मभिर् मुच्यन्ते; ते ऽपि इत्य् अपिशब्दाद् एषां पृथक्करणम् / इदानीम् अननुतिष्ठन्तो ऽप्य् अस्मिन् शास्त्रार्थे श्रद्दधाना अनभ्यसूयवश् च श्रद्धया चानसूयया च क्षीणपापाः अचिरेणेमम् एव शास्त्रार्थम् अनुष्ठाय मुच्यन्त इत्यर्थः //
SK
ये मानवाः शास्त्र-अधिकारिणः अयम् एव शास्त्र-अर्थ इति एतन् मे मतं निश्चित्य तथ आनुतिष्ठन्ति, ये च अननुतिष्ठन्तो ऽप्य् अस्मिन् शास्त्र-अर्थे श्रद्दधाना भवन्ति, ये च अश्रद्दधाना अपि एवं शास्त्र-अर्थो न संभवति इति न अभ्यसूयन्ति --- अस्मिन् महा-गुणे शास्त्र-अर्थे दोषम् अनाविष्कुर्वन्तो भवन्ति इत्य्-अर्थः --- ते सर्वे बन्ध-हेतुभिर् अनादि-काल-आरब्धैस् सर्वैः कर्मभिर् मुच्यन्ते; ते ऽपि इत्य् अपि-शब्दाद् एषां पृथक्-करणम् / इदानीम् अननुतिष्ठन्तो ऽप्य् अस्मिन् शास्त्र-अर्थे श्रद्दधाना अनभ्यसूयवश् च श्रद्धया च अनसूयया च क्षीण-पापाः अचिरेण इमम् एव शास्त्र-अर्थम् अनुष्ठाय मुच्यन्त इत्य्-अर्थः //
SK
भगवदभिमतम् औपनिषदम् अर्थम् अननुतिष्ठताम् अश्रद्दधानानाम् अभ्यसूयतां च दोषम् आह --
SK
भगवद्-अभिमतम् औपनिषदम् अर्थम् अननुतिष्ठताम् अश्रद्दधानानाम् अभ्यसूयतां च दोषम् आह ---
SK
ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् | सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः ||
SK
ये त्व् एतद् अभ्यसूयन्तो न अनुतिष्ठन्ति मे मतम् | सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ||
SK
ये त्व् एतत् सर्वम् आत्मवस्तु मच्छरीरतया मदाधारं मच्छेषभूतं मदेकप्रवर्त्यम् इति मे मतं नानुतिष्ठन्ति नैवम् अनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये चाभ्यसूयन्तो वर्तन्ते -- तान् सर्वेषु ज्ञानेषु विशेषेण मूढान् तत एव नष्टान्, अचेतसो विद्धि; चेतःकार्यं हि वस्तुयाथात्म्यनिश्चयः; तदभावाद् अचेतसः; विपरीतज्ञानाः सर्वत्र विमूढाश् च //
SK
ये त्व् एतत् सर्वम् आत्म-वस्तु मच्-छरीरतया मद्-आधारं मच्-छेष-भूतं मद्-एक-प्रवर्त्यम् इति मे मतं न अनुतिष्ठन्ति न एवम् अनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये च अभ्यसूयन्तो वर्तन्ते --- तान् सर्वेषु ज्ञानेषु विशेषेण मूढान् तत एव नष्टान्, अचेतसो विद्धि; चेतः-कार्यं हि वस्तु-याथात्म्य-निश्चयः; तद्-अभावाद् अचेतसः; विपरीत-ज्ञानाः सर्वत्र विमूढाश् च //
SK
एवं प्रकृतिसंसर्गिणस् तद्गुणोद्रेककृतं कर्तृत्वम्, तच् च परमपुरुषायत्तम् इत्य् अनुसन्धाय कर्मयोगयोग्येन ज्ञानयोगयोग्येन च कर्मयोगस्य सुशकत्वाद् अप्रमादत्वाद् अन्तर्गतात्मज्ञानतया निरपेक्षत्वात्, इतरस्य दुश्शकत्वात् सप्रमादत्वाच् शरीरधारणाद्यर्थतया कर्मापेक्षत्वात् कर्मयोग एव कर्तव्यः; व्यपदेश्यस्य तु विशेषतः स एव कर्तव्यः इति चोक्तम् / अतः परम् अध्यायशेषेण ज्ञानयोगस्य दुश्शकतया सप्रमादतोच्यते --
SK
एवं प्रकृति-संसर्गिणस् तद्-गुण-उद्रेक-कृतं कर्तृत्वम्, तच् च परम-पुरुष-आयत्तम् इत्य् अनुसन्धाय कर्म-योग-योग्येन ज्ञान-योग-योग्येन च कर्म-योगस्य सुशकत्वाद् अप्रमादत्वाद् अन्तर्गत-आत्म-ज्ञानतया निरपेक्षत्वात्, इतरस्य दुश्शकत्वात् सप्रमादत्वाच् शरीर-धारण-आद्य्-अर्थतया कर्म-अपेक्षत्वात् कर्म-योग एव कर्तव्यः; व्यपदेश्यस्य तु विशेषतः स एव कर्तव्यः इति च उक्तम् / अतः परम् अध्याय-शेषेण ज्ञान-योगस्य दुश्शकतया सप्रमादत ऊच्यते ---
SK
सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि | प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||
SK
सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि | प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||
SK
प्रकृतिविविक्तम् ईदृशम् आत्मस्वरूपम्, तद् एव सर्वदानुसन्धेयम् इति च शास्त्राणि प्रतिपादयन्तीति ज्ञानवान् अपि स्वस्याः प्रकृतेः प्राचीनवासनायास् सदृशं प्राकृतविषयेष्व् एव चेष्टते; कुतः? प्रकृतिं यान्ति भूतानि -- अचित्संसृष्टा जन्तवो ऽनादिकालप्रवृत्तवासनाम् एवानुयान्ति; तानि वासनानुयायीनि भूतानि शास्त्रकृतो निग्रहः किं करिष्यति //
SK
प्रकृति-विविक्तम् ईदृशम् आत्म-स्व-रूपम्, तद् एव सर्वद आनुसन्धेयम् इति च शास्त्राणि प्रतिपादयन्ति इति ज्ञानवान् अपि स्वस्याः प्रकृतेः प्राचीन-वासनायास् सदृशं प्राकृत-विषयेष्व् एव चेष्टते; कुतः? प्रकृतिं यान्ति भूतानि --- अचित्-संसृष्टा जन्तवो ऽनादि-काल-प्रवृत्त-वासनाम् एव अनुयान्ति; तानि वासना-अनुयायीनि भूतानि शास्त्र-कृतो निग्रहः किं करिष्यति //
SK
प्रकृत्यनुयायित्वप्रकारम् आह --
SK
प्रकृत्य्-अनुयायित्व-प्रकारम् आह ---
SK
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ | तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ||
SK
इन्द्रियस्य इन्द्रियस्य अर्थे राग-द्वेषौ व्यवस्थितौ | तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ||
SK
श्रोत्रादिज्ञानेन्द्रियस्यार्थे शब्दादौ वागादिकर्मेन्द्रियस्य चार्थे वचनादौ प्राचीनवासनाजनिततदनुबुभूषारूपो यो रागो ऽवर्जनीयो व्यवस्थितः; तदनुभवे प्रतिहते चावर्जनीयो यो द्वेषो व्यवस्थितः, ताव् एवं ज्ञानयोगाय यतमानं नियमितसर्वेन्द्रियं स्ववशे कृत्वा प्रसह्य स्वकार्येषु संयोजयतः / ततश् चायम् आत्मस्वरूपानुभवविमुखो विनष्टो भवति / ज्ञानयोगारम्भेण रागद्वेषवशम् आगम्य न विनश्येत् / तौ हि रागद्वेषौ अस्य दुर्जयौ शत्रू -- ज्ञानाभ्यासं वारयतः //
SK
श्रोत्र-आदि-ज्ञान-इन्द्रियस्य अर्थे शब्द-आदौ वाग्-आदि-कर्म-इन्द्रियस्य च अर्थे वचन-आदौ प्राचीन-वासना-जनित-तद्-अनुबुभूषा-रूपो यो रागो ऽवर्जनीयो व्यवस्थितः; तद्-अनुभवे प्रतिहते च अवर्जनीयो यो द्वेषो व्यवस्थितः, ताव् एवं ज्ञान-योगाय यतमानं नियमित-सर्व-इन्द्रियं स्व-वशे कृत्वा प्रसह्य स्व-कार्येषु संयोजयतः / ततश् च अयम् आत्म-स्व-रूप-अनुभव-विमुखो विनष्टो भवति / ज्ञान-योग-आरम्भेण राग-द्वेष-वशम् आगम्य न विनश्येत् / तौ हि राग-द्वेषौ अस्य दुर्जयौ शत्रू --- ज्ञान-अभ्यासं वारयतः //
SK
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् | स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ||
SK
श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् | स्व-धर्मे निधनं श्रेयः पर-धर्मो भय-आवहः ||
SK
अतः सुशकतया स्वधर्मभूतः कर्मयोगो विगुणो ऽप्य् अप्रमादगर्भः प्रकृतिसंसृष्टस्य दुश्शकतया परधर्मभूताज् ज्ञानयोगात् सगुणाद् अपि किंचित् कालम् अनुष्ठितात् सप्रमादाच् छ्रेयान्; स्वेनैवोपादातुं योग्यतया स्वधर्मभूते कर्मयोगे वर्तमानस्यैकस्मिन् जन्मन्य् अप्राप्तफलतया निधनम् अपि श्रेयः, अनन्तरायहततयानन्तरजन्मन्य् अपि अव्याकुलकर्मयोगारम्भसंभवात् / प्रकृतिसंसृष्टस्य स्वेनैवोपादातुम् अशक्यतया परधर्मभूतो ज्ञानयोगः प्रमादगर्भतया भयावहः //
SK
अतः सुशकतया स्व-धर्म-भूतः कर्म-योगो विगुणो ऽप्य् अप्रमाद-गर्भः प्रकृति-संसृष्टस्य दुश्शकतया पर-धर्म-भूताज् ज्ञान-योगात् सगुणाद् अपि किंचित् कालम् अनुष्ठितात् सप्रमादाच् छ्रेयान्; स्वेन एव उपादातुं योग्यतया स्व-धर्म-भूते कर्म-योगे वर्तमानस्य एकस्मिन् जन्मन्य् अप्राप्त-फलतया निधनम् अपि श्रेयः, अनन्तर-आय-हततय आनन्तर-जन्मन्य् अपि अव्याकुल-कर्म-योग-आरम्भ-संभवात् / प्रकृति-संसृष्टस्य स्वेन एव उपादातुम् अशक्यतया पर-धर्म-भूतो ज्ञान-योगः प्रमाद-गर्भतया भय-आवहः //
SK
अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः | अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ||
SK
अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः | अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ||
SK
अथायं ज्ञानयोगाय प्रवृत्तः पुरुषः स्वयं विषयान् अनुभवितुम् अनिच्छन्न् अपि केन प्रयुक्तो विषयानुभवरूपं पापं बलान् नियोजित इव चरति //
SK
अथ अयं ज्ञान-योगाय प्रवृत्तः पुरुषः स्वयं विषयान् अनुभवितुम् अनिच्छन्न् अपि केन प्रयुक्तो विषय-अनुभव-रूपं पापं बलान् नियोजित इव चरति //
SK
काम एष क्रोध एष रजोगुणसमुद्भवः | महाशनो महापाप्मा विद्ध्य् एनम् इह वैरिणम् ||
SK
काम एष क्रोध एष रजो-गुण-समुद्भवः | महा-अशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ||
SK
अस्योद्भवाभिभवरूपेण वर्तमानगुणमयप्रकृतिसंसृष्टस्य ज्ञानायारब्धस्य रजोगुणसमुद्भवः प्राचीनवासनाजनितः शब्दादिविषयः कामो महाशनः शत्रुः विषयेष्व् एनम् आकर्षति / एष एव प्रतिहतगतिः प्रतिहतिहेतुभूतचेतनान् प्रति क्रोधरूपेण परिणतो महापाप्मा परहिंसादिषु प्रवर्तयति / एनं रजोगुणसमुद्भवं सहजं ज्ञानयोगविरोधिनं वैरिणं विद्धि //
SK
अस्य उद्भव-अभिभव-रूपेण वर्तमान-गुण-मय-प्रकृति-संसृष्टस्य ज्ञानाया अरब्धस्य रजो-गुण-समुद्भवः प्राचीन-वासना-जनितः शब्द-आदि-विषयः कामो महा-आशनः शत्रुः विषयेष्व् एनम् आकर्षति / एष एव प्रतिहत-गतिः प्रतिहति-हेतु-भूत-चेतनान् प्रति क्रोध-रूपेण परिणतो महा-पाप्मा पर-हिंसा-आदिषु प्रवर्तयति / एनं रजो-गुण-समुद्भवं सह-जं ज्ञान-योग-विरोधिनं वैरिणं विद्धि //
SK
धूमेनाव्रियते वह्निर् यथादर्शो मलेन च | यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ||
SK
धूमेना अव्रियते वह्निर् यथा आदर्शो मलेन च | यथ ऊल्बेना अवृतो गर्भस् तथा तेन इदम् आवृतम् ||
SK
यथा धूमेन वह्निर् आव्रियते, यथा आदर्शो मलेन, यथा च उल्बेनावृतो गर्भः, तथा तेन कामेन इदं जन्तुजातम् आवृतम् //
SK
यथा धूमेन वह्निर् आव्रियते, यथा आदर्शो मलेन, यथा च उल्बेना अवृतो गर्भः, तथा तेन कामेन इदं जन्तु-जातम् आवृतम् //
SK
आवरणप्रकारम् आह --
SK
आवरण-प्रकारम् आह ---
SK
आवृतं ज्ञानम् एतेन ज्ञानिनो नित्यवैरिणा | कामरूपेण कौन्तेय दुष्पूरेणानलेन च ||
SK
आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा | काम-रूपेण कौन्तेय दुष्पूरेण अनलेन च ||
SK
अस्य जन्तोः ज्ञानिनः ज्ञानस्वभावस्यात्मविषयं ज्ञानम् एतेन -- कामकारेण विषयव्यामोहजननेन नित्यवैरिणा आवृतम्; दुष्पूरेण -- प्राप्त्यनर्हविषयेण, अनलेन च -- पर्याप्तिरहितेन //
SK
अस्य जन्तोः ज्ञानिनः ज्ञान-स्व-भावस्या अत्म-विषयं ज्ञानम् एतेन --- काम-कारेण विषय-व्यामोह-जननेन नित्य-वैरिणा आवृतम्; दुष्पूरेण --- प्राप्त्य्-अनर्ह-विषयेण, अनलेन च --- पर्याप्ति-रहितेन //
SK
कैर् उपकरणैर् अयं काम आत्मानम् अधिष्ठितीत्य् अत्राह --
SK
कैर् उपकरणैर् अयं काम आत्मानम् अधिष्ठिति इत्य् अत्रा अह ---
SK
इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते | एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ||
SK
इन्द्रियाणि मनो बुद्धिर् अस्य अधिष्ठानम् उच्यते | एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ||
SK
अधितिष्ठत्य् एभिर् अयं काम आत्मानम् इतीन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम्; एतैर् इन्द्रियमनोबुद्धिभिः कामो ऽधिष्ठानभूतैर् विषयप्रवणैर् देहिनं प्रकृतिसंसृष्टं ज्ञानम् आवृत्य विमोहयति -- विविधं मोहयति, आत्मज्ञानविमुखं विषयानुभवपरं करोतीत्यर्थः //
SK
अधितिष्ठत्य् एभिर् अयं काम आत्मानम् इति इन्द्रियाणि मनो बुद्धिर् अस्य अधिष्ठानम्; एतैर् इन्द्रिय-मनो-बुद्धिभिः कामो ऽधिष्ठान-भूतैर् विषय-प्रवणैर् देहिनं प्रकृति-संसृष्टं ज्ञानम् आवृत्य विमोहयति --- विविधं मोहयति, आत्म-ज्ञान-विमुखं विषय-अनुभव-परं करोति इत्य्-अर्थः //
SK
तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ | पाप्मानं प्रजहि ह्य् एनं ज्ञानविज्ञाननाशनम् ||
SK
तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरत-र्षभ | पाप्मानं प्रजहि ह्य् एनं ज्ञान-विज्ञान-नाशनम् ||
SK
यस्मात् सर्वेन्द्रियव्यापारोपरतिरूपे ज्ञानयोगे प्रवृत्तस्यायं कामरूपः शत्रुः विषयाभिमुख्यकरणेन आत्मनि वैमुख्यं करोति, तस्मात् प्रकृतिसंसृष्टतयेन्द्रियव्यापारप्रवणस्त्वम् आदौ -- मोक्षोपायारम्भसमय एव, इन्द्रियव्यापाररूपे कर्मयोगे इन्द्रियाणि नियम्य, एनं ज्ञानविज्ञाननाशनम् -- आत्मस्वरूपविषयस्य ज्ञानस्य तद्विवेकविषयस्य च नाशनं पाप्मानं कामरूपं वैरिणं प्रजहि -- नाशय //
SK
यस्मात् सर्व-इन्द्रिय-व्यापार-उपरति-रूपे ज्ञान-योगे प्रवृत्तस्य अयं काम-रूपः शत्रुः विषय-अभिमुख्य-करणेन आत्मनि वैमुख्यं करोति, तस्मात् प्रकृति-संसृष्टतय ईन्द्रिय-व्यापार-प्रवणस्त्वम् आदौ --- मोक्ष-उपाय-आरम्भ-समय एव, इन्द्रिय-व्यापार-रूपे कर्म-योगे इन्द्रियाणि नियम्य, एनं ज्ञान-विज्ञान-नाशनम् --- आत्म-स्व-रूप-विषयस्य ज्ञानस्य तद्-विवेक-विषयस्य च नाशनं पाप्मानं काम-रूपं वैरिणं प्रजहि --- नाशय //
SK
ज्ञानविरोधिषु प्रधानम् आह --
SK
ज्ञान-विरोधिषु प्रधानम् आह ---
SK
इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः | मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ||
SK
इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः | मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ||
SK
ज्ञानविरोधे प्रधानानीन्द्रियाण्य् आहुः, यत इन्द्रियेषु विषयव्यापृतेषु आत्मनि ज्ञानं न प्रवर्तते / इन्द्रियेभ्यः परं मनः -- इन्द्रियेषु उपरतेष्व् अपि मनसि विषयप्रवणे आत्मज्ञानं न संभवति / मनसस् तु परा बुद्धिः -- मनसि वृत्त्यन्तरविमुखे ऽपि विपरीताध्यवसायप्रवृत्तौ सत्यां ज्ञानं न प्रवर्तते / सर्वेषु बुद्धिपर्यन्तेषु उपरतेष्व् अपीच्छापर्यायः कामो रजस्समुद्भवो वर्तते चेत्, स एवैतानीन्द्रियादीन्य् अपि स्वविषये वर्तयित्वा आत्मज्ञानं निरुणद्धि / तद् इदम् उच्यते, यो बुद्धेः परस् तु सः इति / बुद्धेर् अपि यः परस् स काम इत्यर्थः //
SK
ज्ञान-विरोधे प्रधानानि इन्द्रियाण्य् आहुः, यत इन्द्रियेषु विषय-व्यापृतेषु आत्मनि ज्ञानं न प्रवर्तते / इन्द्रियेभ्यः परं मनः --- इन्द्रियेषु उपरतेष्व् अपि मनसि विषय-प्रवणे आत्म-ज्ञानं न संभवति / मनसस् तु परा बुद्धिः --- मनसि वृत्त्य्-अन्तर-विमुखे ऽपि विपरीत-अध्यवसाय-प्रवृत्तौ सत्यां ज्ञानं न प्रवर्तते / सर्वेषु बुद्धि-पर्यन्तेषु उपरतेष्व् अपि इच्छा-पर्यायः कामो रजस्-समुद्भवो वर्तते चेत्, स एव एतानि इन्द्रिय-आदीन्य् अपि स्व-विषये वर्तयित्वा आत्म-ज्ञानं निरुणद्धि / तद् इदम् उच्यते, यो बुद्धेः परस् तु सः इति / बुद्धेर् अपि यः परस् स काम इत्य्-अर्थः //
SK
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना | जहि शत्रुं महाबाहो कामरूपं दुरासदम् ||
SK
एवं बुद्धेः परं बुद्ध्वा संस्तभ्या अत्मानम् आत्मना | जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ||
SK
एवं बुद्धेर् अपि परं कामं ज्ञानयोगविरोधिनं वैरिणं बुद्ध्वा आत्मानं -- मनः आत्मना -- बुद्ध्या कर्मयोगे ऽवस्थाप्य एनं कामरूपं दुरासदं शत्रुं जहि -- नाशयेति //
SK
एवं बुद्धेर् अपि परं कामं ज्ञान-योग-विरोधिनं वैरिणं बुद्ध्वा आत्मानं --- मनः आत्मना --- बुद्ध्या कर्म-योगे ऽवस्थाप्य एनं काम-रूपं दुरासदं शत्रुं जहि --- नाशय इति //
SK
तृतीये ऽध्याये -- प्रकृतिसंसृष्टस्य मुमुक्षोः सहसा ज्ञानयोगे ऽनधिकारात् कर्मयोग एव कार्यः, ज्ञानयोगाधिकारिणो ऽप्य् अकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयान् इति -- सहेतुकम् उक्तम्; शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्मयोग एव कार्य इति चोक्तम् / चतुर्थेनेदानीम् -- अस्यैव कर्मयोगस्य निखिलजगदुद्धरणाय मन्वन्तरादाव् एवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गतज्ञानतयास्यैव ज्ञानयोगाकरतां प्रदर्श्य, कर्मयोगस्वरूपम्, तद्भेदाः, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं चोच्यते / प्रसङ्गाच् च भगवदवतारयाथात्म्यम् उच्यते /
SK
तृतीये ऽध्याये --- प्रकृति-संसृष्टस्य मुमुक्षोः सहसा ज्ञान-योगे ऽनधिकारात् कर्म-योग एव कार्यः, ज्ञान-योग-अधिकारिणो ऽप्य् अकर्तृत्व-अनुसन्धान-पूर्वक-कर्म-योग एव श्रेयान् इति --- सहेतुकम् उक्तम्; शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्म-योग एव कार्य इति च उक्तम् / चतुर्थेन इदानीम् --- अस्य एव कर्म-योगस्य निखिल-जगद्-उद्धरणाय मन्व्-अन्तर-आदाव् एव उपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गत-ज्ञानतय आस्य एव ज्ञान-योग-आकरतां प्रदर्श्य, कर्म-योग-स्व-रूपम्, तद्-भेदाः, कर्म-योगे ज्ञान-अंशस्य एव प्राधान्यं च उच्यते / प्रसङ्गाच् च भगवद्-अवतार-याथात्म्यम् उच्यते /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source