Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 7

SK
मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः | असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ||
SK
मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् मद्-आश्रयः | असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ||
SK
मय्य् आभिमुख्येन असक्तमनाः मत्प्रियत्वातिरेकेण मत्स्वरूपेण गुणैश् च चेष्टितेन मद्विभूत्या विश्लेषे सति तत्क्षणाद् एव विशीर्यमाणस्वरूपतया मयि सुगाढं बद्धमनाः तथा मदश्रयः स्वयं च मया विना विशीर्यमाणतया मदाश्रयः मदेकाधारः, मद्योगं युञ्जन् योक्तुं प्रवृत्तः योगविषयभूतं माम् असंशयं निस्संशयम्, समग्रं सकलं यथा ज्ञास्यसि य्न ज्ञानेनोक्तेन ज्ञास्यसि, तज् ज्ञानम् अवहितमनाः त्वं शृणु //
SK
मय्य् आभिमुख्येन असक्त-मनाः मत्-प्रियत्व-अतिरेकेण मत्-स्व-रूपेण गुणैश् च चेष्टितेन मद्-विभूत्या विश्लेषे सति तत्-क्षणाद् एव विशीर्यमाण-स्व-रूपतया मयि सुगाढं बद्ध-मनाः तथा मद्-अश्रयः स्वयं च मया विना विशीर्यमाणतया मद्-आश्रयः मद्-एक-आधारः, मद्-योगं युञ्जन् योक्तुं प्रवृत्तः योग-विषय-भूतं माम् असंशयं निस्संशयम्, समग्रं सकलं यथा ज्ञास्यसि य्न ज्ञानेन उक्तेन ज्ञास्यसि, तज् ज्ञानम् अवहित-मनाः त्वं शृणु //
SK
ज्ञानं ते ऽहं सविज्ञानम् इदं वक्ष्याम्य् अशेषतः | यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते ||
SK
ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः | यज् ज्ञात्वा न इह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते ||
SK
अहं ते मद्विषयम् इदं ज्ञानं विज्ञानेन सहाशेषतो वक्षयामि / विज्ञानन् विविक्ताकारविषयं ज्ञानम् / यथाहं मद्व्यतिरिक्तात् समस्तचिदचिद्वस्तुजातान् निखिलहेयप्रत्यनीकतया नानाविधानवधिकातिशयासंख्येयकल्याणगुणगणानन्तमहाविभूतितया च विविक्तः, तेन विविक्तविषयज्ञानेन सह मत्स्वरूपविषयज्ञानं वक्ष्यामि / किं बहुना; यद् ज्ञानं ज्ञात्वा मयि पुनर् अन्यज् ज्ञातव्यं नावशिष्यते //
SK
अहं ते मद्-विषयम् इदं ज्ञानं विज्ञानेन सह अशेषतो वक्षयामि / विज्ञानन् विविक्त-आकार-विषयं ज्ञानम् / यथ आहं मद्-व्यतिरिक्तात् समस्त-चिद्-अचिद्-वस्तु-जातान् निखिल-हेय-प्रत्यनीकतया नाना-विध-अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गण-अनन्त-महा-विभूतितया च विविक्तः, तेन विविक्त-विषय-ज्ञानेन सह मत्-स्व-रूप-विषय-ज्ञानं वक्ष्यामि / किं बहुना; यद् ज्ञानं ज्ञात्वा मयि पुनर् अन्यज् ज्ञातव्यं न अवशिष्यते //
SK
वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापताम् आह --
SK
वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापताम् आह ---
SK
मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये | यतताम् अपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः ||
SK
मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये | यतताम् अपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः ||
SK
मनुष्याः शास्त्राधिकारयोग्याः / तेषां सहस्रेषु कश्चिद् एव सिद्धिपर्यन्तं यतते / सिद्धिपर्यन्तं यतमानानां सहस्रेषु कश्चिद् एव मां विदित्वा मत्तस् सिद्धये यतते / मद्विदां सहस्रेषु कश्चिद् एव तत्त्वतः यथावस्थितं मां वेत्ति / न कश्चिद् इत्यभिप्रायः; ᳚स महात्मा सुदुर्लभः᳚, ᳚मां तु वेद न कश्चन᳚ इति हि वक्ष्यते //
SK
मनुष्याः शास्त्र-अधिकार-योग्याः / तेषां सहस्रेषु कश्चिद् एव सिद्धि-पर्यन्तं यतते / सिद्धि-पर्यन्तं यतमानानां सहस्रेषु कश्चिद् एव मां विदित्वा मत्तस् सिद्धये यतते / मद्-विदां सहस्रेषु कश्चिद् एव तत्त्वतः यथा-अवस्थितं मां वेत्ति / न कश्चिद् इत्य्-अभिप्रायः; ᳚स महा-आत्मा सुदुर्लभः᳚, ᳚मां तु वेद न कश्चन᳚ इति हि वक्ष्यते //
SK
भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च | अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ||
SK
भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च | अहङ्कार इति इयं मे भिन्ना प्रकृतिर् अष्टधा ||
SK
अस्य विचित्रानन्तभोग्यभोगोपकरणभोगस्थानरूपेणावस्थितस्य जगतः प्रकृतिर् इयं गन्धादिगुणकपृथिव्यप्तेजोवाय्वाकाशादिरूपेण मनःप्रभृतीन्द्रियरूपेण महदहंकाररूपेण चाष्टधा भिन्ना मदीयेति विद्धि //
SK
अस्य विचित्र-अनन्त-भोग्य-भोग-उपकरण-भोग-स्थान-रूपेण अवस्थितस्य जगतः प्रकृतिर् इयं गन्ध-आदि-गुणक-पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-आदि-रूपेण मनः-प्रभृति-इन्द्रिय-रूपेण महद्-अहंकार-रूपेण च अष्टधा भिन्ना मदीय ईति विद्धि //
SK
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् | जीवभूतां महाबाहो ययेदं धार्यते जगत् ||
SK
अपर ईयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् | जीव-भूतां महा-बाहो यय ईदं धार्यते जगत् ||
SK
इयं ममापरा प्रकृतिः; इतस् त्व् अन्याम् इतो ऽचेतनायाश् चेतनभोग्यभूतायाः प्रकृतेर् विसजातीयाकारां जीवभूतां परां तस्याः भोक्तृत्वेन प्रधानभूतां चेतनरूपां मदीयां प्रकृतिं विद्धि; ययेदम् अचेतनं कृत्स्नं जगद् धार्यते //
SK
इयं मम अपरा प्रकृतिः; इतस् त्व् अन्याम् इतो ऽचेतनायाश् चेतन-भोग्य-भूतायाः प्रकृतेर् विसजातीय-आकारां जीव-भूतां परां तस्याः भोक्तृत्वेन प्रधान-भूतां चेतन-रूपां मदीयां प्रकृतिं विद्धि; यय ईदम् अचेतनं कृत्स्नं जगद् धार्यते //
SK
एतद्योनीनि भूतानि सर्वाणीत्य् उपधारय | अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ||
SK
एतद्-योनीनि भूतानि सर्वाणि इत्य् उपधारय | अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ||
SK
एतद्चेतनाचेतनसमष्टिरूपमदीयप्रकृतिद्वययोनीनि ब्रह्मादिस्तम्बपर्यन्तानि उच्चावचभावेनावस्थितानि चिदचिन्मिश्राणि मदीयानि सर्वाणि भूतानीत्य् उपधारय / मदीयप्रकृतिद्वययोनीनि हि तानि मदीयान्य् एव / तथा प्रकृतिद्वययोनित्वेन कृत्स्नस्य जगतः, तयोर् द्वयोर् अपि मद्योनित्वेन मदीयत्वेन च, कृत्स्नस्य जगतः अहम् एव प्रभवो ऽहम् एव च प्रलयो ऽहम् एव च शेषीत्य् उपधारय / तयोः चिदचित्समष्टिभूतयोः प्रकृतिपुरुषयोर् अपि परमपुरुषयोनित्वं श्रुतिस्मृतिसिद्धम् / ᳚महान् अव्यक्ते लीयते / अव्यक्तम् अक्षरे लीयते / अक्षरं तमसि लीयते / तमः परे देव एकीभवति᳚, ᳚विष्णोस् स्वरूपात् परतोदिते द्वे रूपे प्र्धानं पुरुषश् च विप्र᳚, ᳚प्रकृतिर् या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी / पुरुषश् चाप्य् उभाव् एतौ लीयते परमात्मनि / परमात्मा च सर्वेषाम् आधारः परमेश्वरः / विष्णुनामा स वेदेषु वेदान्तेषु च गीयते // Bह्GR_१.᳚ इत्यादिका हि श्रुतिस्मृतयः //
SK
एतद्-चेतन-अचेतन-समष्टि-रूप-मदीय-प्रकृति-द्वय-योनीनि ब्रह्मा-आदि-स्तम्ब-पर्यन्तानि उच्चा-वच-भावेन अवस्थितानि चिद्-अचिन्-मिश्राणि मदीयानि सर्वाणि भूतानि इत्य् उपधारय / मदीय-प्रकृति-द्वय-योनीनि हि तानि मदीयान्य् एव / तथा प्रकृति-द्वय-योनित्वेन कृत्स्नस्य जगतः, तयोर् द्वयोर् अपि मद्-योनित्वेन मदीयत्वेन च, कृत्स्नस्य जगतः अहम् एव प्रभवो ऽहम् एव च प्रलयो ऽहम् एव च शेषि ईत्य् उपधारय / तयोः चिद्-अचित्-समष्टि-भूतयोः प्रकृति-पुरुषयोर् अपि परम-पुरुष-योनित्वं श्रुति-स्मृति-सिद्धम् / ᳚महान् अव्यक्ते लीयते / अव्यक्तम् अक्षरे लीयते / अक्षरं तमसि लीयते / तमः परे देव एकी-भवति᳚, ᳚विष्णोस् स्व-रूपात् परता-उदिते द्वे रूपे प्र्धानं पुरुषश् च विप्र᳚, ᳚प्रकृतिर् या मया आख्याता व्यक्त-अव्यक्त-स्व-रूपिणी / पुरुषश् च अप्य् उभाव् एतौ लीयते परम-आत्मनि / परम-आत्मा च सर्वेषाम् आधारः परम-ईश्वरः / विष्णु-नामा स वेदेषु वेद-अन्तेषु च गीयते // Bह्GR_१.᳚ इत्य्-आदिका हि श्रुति-स्मृतयः //
SK
मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय |
SK
मत्तः परतरं न अन्यत् किञ्चिद् अस्ति धनञ्जय |
SK
यथा सर्वकारणस्यापि प्रकृतिद्वयस्य कारणत्वेन, सर्वाचेतनवस्तुशेषिणश् चेतनस्यापि शेषित्वेन कारणतया शेषितया चाहं परतरः -- तथा ज्ञानशक्तिबलादिगुणयोगेन चाहम् एव परतरः / मत्तो ऽन्यन् मद्व्यतिरिक्तं ज्ञानबलादिगुणान्तरयोगि किंचिद् अपि परतरं नास्ति //
SK
यथा सर्व-कारणस्य अपि प्रकृति-द्वयस्य कारणत्वेन, सर्व-अचेतन-वस्तु-शेषिणश् चेतनस्य अपि शेषित्वेन कारणतया शेषितया च अहं परतरः --- तथा ज्ञान-शक्ति-बल-आदि-गुण-योगेन च अहम् एव परतरः / मत्तो ऽन्यन् मद्-व्यतिरिक्तं ज्ञान-बल-आदि-गुण-अन्तर-योगि किंचिद् अपि परतरं न अस्ति //
SK
मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ||
SK
मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ||
SK
सर्वम् इदं चिदचिद्वस्तुजातं कार्यावस्थं कारणावस्थं च मच्छरीरभूतं सूत्रे मणिगणवद् अत्मतयावस्थिते मयि प्रोतम् आश्रितम् / ᳚यस्य पृथिवी शरीरम्᳚, ᳚यस्यात्मा शरीरम्᳚, ᳚एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः᳚ इति, आत्मशरीरभावेनावस्थानं च जगद्ब्रह्मणोर् अन्तर्यामिब्राह्मणादिषु सिद्धम् //
SK
सर्वम् इदं चिद्-अचिद्-वस्तु-जातं कार्य-अवस्थं कारण-अवस्थं च मच्-छरीर-भूतं सूत्रे मणि-गणवद् अत्मतय आवस्थिते मयि प्रोतम् आश्रितम् / ᳚यस्य पृथिवी शरीरम्᳚, ᳚यस्या अत्मा शरीरम्᳚, ᳚एष सर्व-भूत-अन्तर-आत्म आपहत-पाप्मा दिव्यो देव एको नारायणः᳚ इति, आत्म-शरीर-भावेन अवस्थानं च जगद्-ब्रह्मणोर् अन्तर्यामि-ब्राह्मण-आदिषु सिद्धम् //
SK
अतः सर्वस्य परमपुरुषशरीरत्वेनात्मभूतपरमपुरुषप्रकारर्वात् सर्वप्रकारः परमपुरुष एवावस्थित इति सर्वैश् शब्दैस् तस्यैवाभिधानम् इति तत् तत् सामानाधिकरण्येन आह --
SK
अतः सर्वस्य परम-पुरुष-शरीरत्वेना अत्म-भूत-परम-पुरुष-प्रकारर्वात् सर्व-प्रकारः परम-पुरुष एव अवस्थित इति सर्वैश् शब्दैस् तस्य एव अभिधानम् इति तत् तत् सामानाधिकरण्येन आह ---
SK
रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः | प्रणवस् सर्ववेदेषु शब्दः खे पौरुषं नृषु ||
SK
रसो ऽहम् अप्सु कौन्तेय प्रभ आस्मि शशि-सूर्ययोः | प्रणवस् सर्व-वेदेषु शब्दः खे पौरुषं नृषु ||
SK
पुण्यो गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ | जीवनं सर्वभूतेषु तपश् चास्मि तपस्विषु ||
SK
पुण्यो गन्धः पृथिव्यां च तेजश् च अस्मि विभा-वसौ | जीवनं सर्व-भूतेषु तपश् च अस्मि तपस्विषु ||
SK
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् | बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ||
SK
बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् | बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ||
SK
बलं बलवन्ताञ् चाहं कामरागविवर्जितम् | धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ ||
SK
बलं बलवन्ताञ् च अहं काम-राग-विवर्जितम् | धर्म-अविरुद्धो भूतेषु कामो ऽस्मि भरत-र्षभ ||
SK
एते सर्वे विलक्षणा भावा मत्त एवोत्पन्नाः, मच्छेषभूताः मच्छरीरतया मय्य् एवावस्थिताः; अतस् तत्तत्प्रकारो ऽहम् एवावथितः //
SK
एते सर्वे विलक्षणा भावा मत्त एव उत्पन्नाः, मच्-छेष-भूताः मच्-छरीरतया मय्य् एव अवस्थिताः; अतस् तत्-तत्-प्रकारो ऽहम् एव अवथितः //
SK
ये चैव सात्त्विका भावा राजसास् तामसाश् च ये | मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ||
SK
ये च एव सात्त्विका भावा राजसास् तामसाश् च ये | मत्त एव इति तान् विद्धि न त्व् अहं तेषु ते मयि ||
SK
किं विशिष्य अभिधीयते? सात्त्विका राजसास् तामसाश् च जगति देहत्वेनेन्द्रियत्वेन भोग्यत्वेन तत्तद्ध्तेतुत्वेन चावस्थिता ये भवाः, तान् सर्वान् मत्त एवोत्पन्नान् विद्धि; ते मच्छरीरतया मय्य् एवावस्थिता इति च / न त्व् अहं तेषु -- नाहं कदाचिद् अपि तदायत्तस्थितिः; अन्यत्रात्मायत्तस्थितित्वे ऽपि शरीरस्य, शरीरेणात्मनः स्थिताव् अप्य् उपकारो विद्यते; मम तु तैर् न कश्चित् तथाविध उपकारः, केवललीलैव प्रयोजनम् इत्यर्थः //
SK
किं विशिष्य अभिधीयते? सात्त्विका राजसास् तामसाश् च जगति देहत्वेन इन्द्रियत्वेन भोग्यत्वेन तत्-तद्-ध्तेतुत्वेन च अवस्थिता ये भवाः, तान् सर्वान् मत्त एव उत्पन्नान् विद्धि; ते मच्-छरीरतया मय्य् एव अवस्थिता इति च / न त्व् अहं तेषु --- न अहं कदाचिद् अपि तद्-आयत्त-स्थितिः; अन्यत्र-आत्म-आयत्त-स्थितित्वे ऽपि शरीरस्य, शरीरेणा अत्मनः स्थिताव् अप्य् उपकारो विद्यते; मम तु तैर् न कश्चित् तथा-विध उपकारः, केवल-लील ऐव प्रयोजनम् इत्य्-अर्थः //
SK
त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् | मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ||
SK
त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् | मोहितं न अभिजानाति माम् एभ्यः परम् अव्ययम् ||
SK
तद् एवं चेतनाचेतनात्मकं कृत्स्नं जगन् मदीयं काले काले मत्त एवोत्पद्यते, मयि च प्रलीयते, मय्य् एवावस्थितम्, मच्छरीरभूतम्, मदात्मकं चेत्य् अहम् एव कारणावस्थायां कार्यावथायां च सर्वशरीरतया सर्वप्रकारो ऽवस्थितः / अतः कारणत्वेन शेषित्वेन च ज्ञानाद्यसङ्ख्येयकल्याणगुणगणैश् चाहम् एव सर्वैः प्रकारैः परतरः, मत्तो ऽन्यत् केनापि कल्याणगुणगणेन परतरं न विद्यते / एवंभूतं मां त्रिभ्यः सात्त्विकराजसतामसगुणमयेभ्यो भावेभ्यः परं मदसाधारणैः कल्याणगुणगणैस् तत्तद्भोग्यताप्रकारैश् च परम् उत्कृष्टतमम्, अव्ययं सदैकरूपम् अपि तैर् एव त्रिभिर् गुणमयैर् निहीनतरैः क्षणध्वंसिभिः पूर्वकर्मानुगुणदेहेन्द्रियभोग्यत्वेनावस्थितैः पदार्थैर् मोहितं देवतिर्यङ्मनुष्यस्थावरात्मनावस्थितं सर्वम् इदं जगन् नाभिजानाति //
SK
तद् एवं चेतन-अचेतन-आत्मकं कृत्स्नं जगन् मदीयं काले काले मत्त एव उत्पद्यते, मयि च प्रलीयते, मय्य् एव अवस्थितम्, मच्-छरीर-भूतम्, मद्-आत्मकं च इत्य् अहम् एव कारण-अवस्थायां कार्य-अवथायां च सर्व-शरीरतया सर्व-प्रकारो ऽवस्थितः / अतः कारणत्वेन शेषित्वेन च ज्ञान-आद्य्-असङ्ख्येय-कल्याण-गुण-गणैश् च अहम् एव सर्वैः प्रकारैः परतरः, मत्तो ऽन्यत् केन अपि कल्याण-गुण-गणेन परतरं न विद्यते / एवं-भूतं मां त्रिभ्यः सात्त्विक-राजस-तामस-गुण-मयेभ्यो भावेभ्यः परं मद्-असाधारणैः कल्याण-गुण-गणैस् तत्-तद्-भोग्यता-प्रकारैश् च परम् उत्कृष्टतमम्, अव्ययं सद ऐक-रूपम् अपि तैर् एव त्रिभिर् गुण-मयैर् निहीनतरैः क्षण-ध्वंसिभिः पूर्व-कर्म-अनुगुण-देह-इन्द्रिय-भोग्यत्वेन अवस्थितैः पद-अर्थैर् मोहितं देव-तिर्यङ्-मनुष्य-स्थावर-आत्मन आवस्थितं सर्वम् इदं जगन् न अभिजानाति //
SK
कथं स्वत एवानवधिकातिशयानन्दे नित्ये सदैकरूपे लौकिकवस्तुभोग्यतत्प्रकारैश् चोत्कृष्टतमे त्वयि स्थिते ऽप्य् अत्यन्तनिहीनेषु गुणमयेष्व् अस्थिरेषु भावेषु सर्वस्य भोक्तृवर्गस्य भोग्यत्वबुद्धिर् उपजायत इत्य् अत्राह --
SK
कथं स्वत एव अनवधिक-अतिशय-आनन्दे नित्ये सद ऐक-रूपे लौकिक-वस्तु-भोग्य-तत्-प्रकारैश् च उत्कृष्टतमे त्वयि स्थिते ऽप्य् अत्यन्त-निहीनेषु गुण-मयेष्व् अस्थिरेषु भावेषु सर्वस्य भोक्तृ-वर्गस्य भोग्यत्व-बुद्धिर् उपजायत इत्य् अत्रा अह ---
SK
दैवी ह्य् एषा गुणमयी मम माया दुरत्यया |
SK
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया |
SK
ममैषा गुणमयी सत्त्वरजस्तमोमयी माया यस्माद् दैवी देवेन क्रीढाप्रवृत्तेन मयैव निर्मिता, तस्मात् सर्वैर् दुरत्यया दुरतिक्रमा / अस्याः मायाशब्दवाच्यत्वम् आसुरराक्षसास्त्रादीनाम् इव विचित्रकार्यकरत्वेन, यथा च ᳚ततो भगवता तस्य रक्षार्थं चक्रम् उत्तमम् / आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् / तेन मायासहस्रं तच्छम्बरस्याशुगामिना / बालस्य रक्षता देहम् ऐकाइकश्येन सूदितम्᳚ इत्य् आदौ / अतो मायाशब्दो न मिथ्यार्थवाची / ऐन्द्रजालिकादिष्व् अपि केनचिन् मन्त्राउषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेर् उत्पादकत्वेन मायावीति प्रयोगः / तथा मन्त्राउषधादिर् एव तत्र माया; सर्वप्रयोगेष्व् अनुगतस्यैकस्यैव शब्दार्थत्वात् / तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेनाउपचारिकः, मञ्चाः क्रोशन्तीतिवत् / एषा गुणमयी पारमार्थिकी भगवन्मायैव, ᳚मायाम् तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम्᳚ इत्यादिष्व् अभिधीयते / अस्याः कार्यं भगवत्स्वरूपतिरोधानम्, स्वस्वरूपभोग्यत्वबुद्धिश् च / अतो भगवन्मायया मोहितं सर्वं जगद् भगवन्तम् अनवधिकातिशयानन्दस्वरूपं नाभिजानाति //
SK
मम एषा गुण-मयी सत्त्व-रजस्-तमो-मयी माया यस्माद् दैवी देवेन क्रीढा-प्रवृत्तेन मय ऐव निर्मिता, तस्मात् सर्वैर् दुरत्यया दुरतिक्रमा / अस्याः माया-शब्द-वाच्यत्वम् आसुर-राक्षस-अस्त्र-आदीनाम् इव विचित्र-कार्य-करत्वेन, यथा च ᳚ततो भगवता तस्य रक्षा-अर्थं चक्रम् उत्तमम् / आजगाम समाज्ञप्तं ज्वाला-मालि सुदर्शनम् / तेन माया-सहस्रं तच्-छम्बरस्य अशु-गामिना / बालस्य रक्षता देहम् ऐक-ऐकश्येन सूदितम्᳚ इत्य् आदौ / अतो माया-शब्दो न मिथ्या-अर्थ-वाची / ऐन्द्रजालिक-आदिष्व् अपि केनचिन् मन्त्र-औषध-आदिना मिथ्या-अर्थ-विषयायाः पारमार्थिक्या एव बुद्धेर् उत्पादकत्वेन मायावि ईति प्रयोगः / तथा मन्त्र-औषध-आदिर् एव तत्र माया; सर्व-प्रयोगेष्व् अनुगतस्य एकस्य एव शब्द-अर्थत्वात् / तत्र मिथ्या-अर्थेषु माया-शब्द-प्रयोगो माया-कार्य-बुद्धि-विषयत्वेन औपचारिकः, मञ्चाः क्रोशन्ति इतिवत् / एषा गुण-मयी पारमार्थिकी भगवन्-माय ऐव, ᳚मायाम् तु प्रकृतिं विद्यान् मायिनं तु महा-ईश्वरम्᳚ इत्य्-आदिष्व् अभिधीयते / अस्याः कार्यं भगवत्-स्व-रूप-तिरोधानम्, स्व-स्व-रूप-भोग्यत्व-बुद्धिश् च / अतो भगवन्-मायया मोहितं सर्वं जगद् भगवन्तम् अनवधिक-अतिशय-आनन्द-स्व-रूपं न अभिजानाति //
SK
मायाविमोचनोपायम् आह --
SK
माया-विमोचन-उपायम् आह ---
SK
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ||
SK
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ||
SK
माम् एव सत्यसङ्कल्पं परमकारुणिकम् अनालोचितविशेषाशेषलोकशरण्यम् ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुणमयीं मायां तरन्ति मायाम् उत्सृज्य माम् एवोपासत इत्यर्थः //
SK
माम् एव सत्य-सङ्कल्पं परम-कारुणिकम् अनालोचित-विशेष-अशेष-लोक-शरण्यम् ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुण-मयीं मायां तरन्ति मायाम् उत्सृज्य माम् एव उपासत इत्य्-अर्थः //
SK
किम् इति भगवदुपासनापादिनीं भगवत्प्रपत्तिं सर्वे न कुर्वत इत्य् अत्राह -
SK
किम् इति भगवद्-उपासन-आपादिनीं भगवत्-प्रपत्तिं सर्वे न कुर्वत इत्य् अत्रा अह --
SK
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः | माययापहृतज्ञाना आसुरं भावम् आश्रिताः ||
SK
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नर-अधमाः | मायय आपहृत-ज्ञाना आसुरं भावम् आश्रिताः ||
SK
दुष्कृतिनः पापकर्माणः मां न प्रपद्यते / दुष्कृततारतम्येन ते चतुर्विधा भवन्ति मूढाः, नराधमाः, माययापहृतज्ञानाः, आसुरं भावम् आश्रिताः इति / मूढाः विपरीतज्ञानाः; पूर्वोक्तप्रकारेण भगवच्छेषतैकरसम् आत्मानं भोग्यजातं च स्वशेषतया मन्यमानाः / नराधमाः सामान्येन ज्ञाते ऽपि मत्स्वरूपे मदौन्मुख्यानर्हाः / माययापहृतज्ञानाः मद्विषयं मदैश्वर्यविषयं च ज्ञानं येषां तदसंभावनापादिनीभिः कूटयुक्तिभिर् अपहृतम्, ते तथा उक्ताः / आसुरं भावम् आश्रिताः मद्विषयं मदैश्वर्यविषयं च ज्ञानं सुदृढम् उपपन्नं येषां द्वैषायैव भवति; ते आसुरं भावम् आश्रिताः / उत्तरोत्तराः पापिष्ठतमाः //
SK
दुष्कृतिनः पाप-कर्माणः मां न प्रपद्यते / दुष्कृत-तारतम्येन ते चतुर्-विधा भवन्ति मूढाः, नर-अधमाः, मायय आपहृत-ज्ञानाः, आसुरं भावम् आश्रिताः इति / मूढाः विपरीत-ज्ञानाः; पूर्व-उक्त-प्रकारेण भगवच्-छेषता-एक-रसम् आत्मानं भोग्य-जातं च स्व-शेषतया मन्यमानाः / नर-अधमाः सामान्येन ज्ञाते ऽपि मत्-स्व-रूपे मद्-औन्मुख्य-अनर्हाः / मायय आपहृत-ज्ञानाः मद्-विषयं मद्-ऐश्वर्य-विषयं च ज्ञानं येषां तद्-असंभावन-आपादिनीभिः कूट-युक्तिभिर् अपहृतम्, ते तथा उक्ताः / आसुरं भावम् आश्रिताः मद्-विषयं मद्-ऐश्वर्य-विषयं च ज्ञानं सुदृढम् उपपन्नं येषां द्वैषाय एव भवति; ते आसुरं भावम् आश्रिताः / उत्तर-उत्तराः पापिष्ठतमाः //
SK
चतुर्विधा भजन्ते माम् जनाः सुकृतिनो ऽर्जुन | आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ||
SK
चतुर्-विधा भजन्ते माम् जनाः सुकृतिनो ऽर्जुन | आर्तो जिज्ञासुर् अर्थ-अर्थी ज्ञानी च भरत-र्षभ ||
SK
सुकृतिनः पुण्यकर्माणो मां शरणम् उपगम्य माम् एव भजन्ते / ते च सुकृततारतम्येन चतुर्विधाः, सुकृतगरीयस्त्वेन प्रतिपत्तिवैशेष्याद् उत्तरोत्तरा अधिकतमा भवन्ति / आर्तः प्रतिष्ठाहीनः भ्रष्टाइश्वर्यः पुनर् तत्प्राप्तिकामः / अर्थार्थी अप्राप्ताइश्वर्यतया ऐश्वर्यकामः / तयोर् मुखभेदमात्रम् / ऐश्वर्यविषयतयाइक्याद् एक एवाधिकारः / जिज्ञासुः प्रकृतिवियुक्तात्मस्वरूपावाप्तीच्छुः / ज्ञानम् एवास्य स्वरूपम् इति जिज्ञासुर् इत्य् उक्तम् / ज्ञानी च, ᳚इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्᳚ इत्यादिनाभिहितभगवच्छेषतैकरसात्मस्वरूपवित्; प्रकृतिवियुक्तकेवलात्मनि अपर्यवस्यन् भगवन्तं प्रेप्सुः भगवन्तम् एव परमप्राप्यं मन्वानः //
SK
सुकृतिनः पुण्य-कर्माणो मां शरणम् उपगम्य माम् एव भजन्ते / ते च सुकृत-तारतम्येन चतुर्-विधाः, सुकृत-गरीयस्त्वेन प्रतिपत्ति-वैशेष्याद् उत्तर-उत्तरा अधिकतमा भवन्ति / आर्तः प्रतिष्ठा-हीनः भ्रष्ट-ऐश्वर्यः पुनर् तत्-प्राप्ति-कामः / अर्थ-अर्थी अप्राप्त-ऐश्वर्यतया ऐश्वर्य-कामः / तयोर् मुख-भेद-मात्रम् / ऐश्वर्य-विषयतय आइक्याद् एक एव अधिकारः / जिज्ञासुः प्रकृति-वियुक्त-आत्म-स्व-रूप-अवाप्ति-इच्छुः / ज्ञानम् एव अस्य स्व-रूपम् इति जिज्ञासुर् इत्य् उक्तम् / ज्ञानी च, ᳚इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्᳚ इत्य्-आदिन आभिहित-भगवच्-छेषता-एक-रस-आत्म-स्व-रूप-वित्; प्रकृति-वियुक्त-केवल-आत्मनि अपर्यवस्यन् भगवन्तं प्रेप्सुः भगवन्तम् एव परम-प्राप्यं मन्वानः //
SK
तेषां ज्ञानी नित्ययुक्तः एकभक्तिर् विशिष्यते | प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ||
SK
तेषां ज्ञानी नित्य-युक्तः एक-भक्तिर् विशिष्यते | प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ||
SK
तेषां ज्ञानी विशिष्यते / कुतः? नित्ययुक्त एकभक्तिर् इति च / ज्ञानिनो हि मदेकप्राप्यस्य मया योगो नित्यः; इतरयोस् तु यावत्स्वाभिलषितप्राप्ति मया योगः / तथा ज्ञानिनो मय्य् एकस्मिन्न् एव भक्तिः; इतरयोस् तु स्वाभिलषिते तत्साधनत्वेन मयि च / अतः स एव विशिष्यते / किञ् च, प्रियो हि ज्ञानिनो ऽत्यर्थम् अहम् / अर्थशब्दो ऽभिधेयवचनः; ज्ञानिनो ऽहं यथा प्रियः, तथा मया सर्वज्ञेन सर्वशक्तिनाप्य् अभिधातुं न शक्यत इत्यर्थः; प्रियत्वस्येयत्तारहितत्वात् / यथा ज्ञानिनाम् अग्रेसरस्य प्रह्लादस्य, ᳚स त्व् आसक्तमतिः कृष्णे दश्यमानो महोरगैः / न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः᳚ इति / तथैव सो ऽपि मम प्रियः //
SK
तेषां ज्ञानी विशिष्यते / कुतः? नित्य-युक्त एक-भक्तिर् इति च / ज्ञानिनो हि मद्-एक-प्राप्यस्य मया योगो नित्यः; इतरयोस् तु यावत्-स्व-अभिलषित-प्राप्ति मया योगः / तथा ज्ञानिनो मय्य् एकस्मिन्न् एव भक्तिः; इतरयोस् तु स्व-अभिलषिते तत्-साधनत्वेन मयि च / अतः स एव विशिष्यते / किञ् च, प्रियो हि ज्ञानिनो ऽत्यर्थम् अहम् / अर्थ-शब्दो ऽभिधेय-वचनः; ज्ञानिनो ऽहं यथा प्रियः, तथा मया सर्व-ज्ञेन सर्व-शक्तिन आप्य् अभिधातुं न शक्यत इत्य्-अर्थः; प्रियत्वस्य इयत्ता-रहितत्वात् / यथा ज्ञानिनाम् अग्रेसरस्य प्रह्लादस्य, ᳚स त्व् आसक्त-मतिः कृष्णे दश्यमानो महा-उरगैः / न विवेदा अत्मनो गात्रं तत्-स्मृत्य्-आह्लाद-संस्थितः᳚ इति / तथ ऐव सो ऽपि मम प्रियः //
SK
उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् | आस्थितस् स हि युक्तात्मा माम् एवानुत्तमां गतिम् ||
SK
उदाराः सर्व एव एते ज्ञानी त्व् आत्म ऐव मे मतम् | आस्थितस् स हि युक्त-आत्मा माम् एव अनुत्तमां गतिम् ||
SK
सर्व एवैते माम् एवोपासत इति उदाराः वदान्याः / ये मत्तो यत् किंचिद् अपि गृह्णन्ति, ते हि मम सर्वस्वदायिनः / ज्ञानी त्व् आत्मैव मे मतम् -- तदायत्तधारणो ऽहम् इति मन्ये / कस्माद् एवम्? यस्माद् अयं मया विनात्मधारणासंभावनया माम् एवानुत्तमं प्राप्यम् आस्थितः, अतस् तेन विना ममाप्य् आत्मधारणं न संभवति / ततो ममात्मा हि सः //
SK
सर्व एव एते माम् एव उपासत इति उदाराः वदान्याः / ये मत्तो यत् किंचिद् अपि गृह्णन्ति, ते हि मम सर्व-स्व-दायिनः / ज्ञानी त्व् आत्म ऐव मे मतम् --- तद्-आयत्त-धारणो ऽहम् इति मन्ये / कस्माद् एवम्? यस्माद् अयं मया विना आत्म-धारण-असंभावनया माम् एव अनुत्तमं प्राप्यम् आस्थितः, अतस् तेन विना मम अप्य् आत्म-धारणं न संभवति / ततो ममा अत्मा हि सः //
SK
बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते | वासुदेवस् सर्वम् इति स महात्मा सुदुर्लभः ||
SK
बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते | वासु-देवस् सर्वम् इति स महा-आत्मा सुदुर्लभः ||
SK
नाल्पसंख्यासङ्ख्यातानां पुण्यजन्मनां फलम् इदम्, यन् मच्छेषतैकरसात्मयाथात्म्यज्ञानपूर्वकं मत्प्रपदनम्; अपि तु बहूनां जन्मनां पुण्यजन्मनाम् अन्ते अवसाने, वासुदेवशेषतैकरसो ऽहं तदायत्तस्वरूपस्थितिप्रवृत्तिश् च; स चासङ्ख्येयैः कल्याणगुणगणैः परतरः इति ज्ञानवान् भूत्वा, वासुदेव एव मम परमप्राप्यं प्रापकं च, अन्यद् अपि यन् मनोरथवर्तिं स एव मम तत् सर्वम् इति मां प्रपद्यते माम् उपास्ते; स महात्मा महामनाः सुदुर्लभः दुर्लभतरो लोके / वासुदेवस् सर्वम् इत्य् अस्यायम् एवार्थः, ᳚प्रियो हि ज्ञानिनो ऽत्यर्थम् अहम्᳚, ᳚आस्थितस् स हि युक्तात्मा माम् एवानुत्तमां गतिम्᳚ इति प्रक्रमात् / ज्ञानवांश् चायम् उक्तलक्षण एव, अस्यैव पूर्वोक्तज्ञानित्वात्, भूमिर् आपः᳚ इत्य् आरभ्य, ᳚अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा / अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् / जीवभूताम्᳚ इति हि चेतनाचेतनप्रकृतिद्वयस्य परमपुरुषशेषतैकरसतोक्ता; ᳚अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा / मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय᳚ इत्य् आरभ्य, ᳚ये चैव सात्त्विका भावा राजसास् तामसाश् च ये / मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि // इति प्रकृतिद्वयस्य कार्यकारणोभयावस्थस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वं परमपुरुषस्य च सर्वैः प्रकारैः सर्वस्मात् परतरत्वम् उक्तम्; अतः स एवात्र ज्ञानीत्य् उच्यते //
SK
न अल्प-संख्या-सङ्ख्यातानां पुण्य-जन्मनां फलम् इदम्, यन् मच्-छेषता-एक-रस-आत्म-याथात्म्य-ज्ञान-पूर्वकं मत्-प्रपदनम्; अपि तु बहूनां जन्मनां पुण्य-जन्मनाम् अन्ते अवसाने, वासु-देव-शेषता-एक-रसो ऽहं तद्-आयत्त-स्व-रूप-स्थिति-प्रवृत्तिश् च; स च असङ्ख्येयैः कल्याण-गुण-गणैः परतरः इति ज्ञानवान् भूत्वा, वासु-देव एव मम परम-प्राप्यं प्रापकं च, अन्यद् अपि यन् मनो-रथ-वर्तिं स एव मम तत् सर्वम् इति मां प्रपद्यते माम् उपास्ते; स महा-आत्मा महा-मनाः सुदुर्लभः दुर्लभतरो लोके / वासु-देवस् सर्वम् इत्य् अस्य अयम् एव अर्थः, ᳚प्रियो हि ज्ञानिनो ऽत्यर्थम् अहम्᳚, ᳚आस्थितस् स हि युक्त-आत्मा माम् एव अनुत्तमां गतिम्᳚ इति प्रक्रमात् / ज्ञानवांश् च अयम् उक्त-लक्षण एव, अस्य एव पूर्व-उक्त-ज्ञानित्वात्, भूमिर् आपः᳚ इत्य् आरभ्य, ᳚अहङ्कार इति इयं मे भिन्ना प्रकृतिर् अष्टधा / अपर ईयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् / जीव-भूताम्᳚ इति हि चेतन-अचेतन-प्रकृति-द्वयस्य परम-पुरुष-शेषता-एक-रसत ऊक्ता; ᳚अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा / मत्तः परतरं न अन्यत् किञ्चिद् अस्ति धनञ्जय᳚ इत्य् आरभ्य, ᳚ये च एव सात्त्विका भावा राजसास् तामसाश् च ये / मत्त एव इति तान् विद्धि न त्व् अहं तेषु ते मयि // इति प्रकृति-द्वयस्य कार्य-कारण-उभय-अवस्थस्य परम-पुरुष-आयत्त-स्व-रूप-स्थिति-प्रवृत्तित्वं परम-पुरुषस्य च सर्वैः प्रकारैः सर्वस्मात् परतरत्वम् उक्तम्; अतः स एव अत्र ज्ञानि ईत्य् उच्यते //
SK
तस्य ज्ञानिनो दुर्लभत्वम् एवोपपादयति --
SK
तस्य ज्ञानिनो दुर्लभत्वम् एव उपपादयति ---
SK
कामैस् तैस् तैर् हृतज्ञानाः प्रपद्यन्ते ऽन्यदेवताः | तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ||
SK
कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः | तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ||
SK
सर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पापवासनया गुणमयभावविषयया नियताः नित्यान्विताः तैस् तैः स्ववासनानुरूपैर् गुणमयैर् एव कामैः इच्छाविषयभूतैः हृतमत्स्वरूपविषयज्ञानाः तत्तत्कामसिद्ध्यर्थम् अन्यदेवताः मद्व्यतिरिक्ताः केवलेन्द्रादिदेवताः तं तं नियमं आस्थाय तत्तद्देवताविशेषमात्रप्रीणनासाधारणं नियमम् आस्थ्याय प्रपद्यन्ते ता एवाश्रित्यार्चयन्ते //
SK
सर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पाप-वासनया गुण-मय-भाव-विषयया नियताः नित्य-अन्विताः तैस् तैः स्व-वासना-अनुरूपैर् गुण-मयैर् एव कामैः इच्छा-विषय-भूतैः हृतमत्-स्व-रूप-विषय-ज्ञानाः तत्-तत्-काम-सिद्ध्य्-अर्थम् अन्य-देवताः मद्-व्यतिरिक्ताः केवल-इन्द्र-आदि-देवताः तं तं नियमं आस्थाय तत्-तद्-देवता-विशेष-मात्र-प्रीणन-असाधारणं नियमम् आस्थ्याय प्रपद्यन्ते ता एवा अश्रित्य अर्चयन्ते //
SK
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति | तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ||
SK
यो यो यां यां तनुं भक्तः श्रद्धय आर्चितुम् इच्छति | तस्य तस्य अचलां श्रद्धां ताम् एव विदधाम्य् अहम् ||
SK
ता अपि देवता मदीयास् तनवः, ᳚य आदित्ये तिष्ठन् ... यम् आदित्यो न वेद यस्यादित्यश् शरीरम्᳚ इत्यादिश्रुतिभिः प्रतिपादिताः / मदीयास् तनव इत्य् अजानन्न् अपि यो यो यां यां मदीयाम् आदित्यादिकां तनुं भक्तः श्रद्धयार्चितुम् इच्छति; तस्य तस्याजानतो ऽपि मत्तनुविषयैषा श्रद्धेत्य् अनुसन्धाय ताम् एवाचलां निर्विघ्नां विदधाम्य् अहम् //
SK
ता अपि देवता मदीयास् तनवः, ᳚य आदित्ये तिष्ठन् ... यम् आदित्यो न वेद यस्या अदित्यश् शरीरम्᳚ इत्य्-आदि-श्रुतिभिः प्रतिपादिताः / मदीयास् तनव इत्य् अजानन्न् अपि यो यो यां यां मदीयाम् आदित्य-आदिकां तनुं भक्तः श्रद्धय आर्चितुम् इच्छति; तस्य तस्य अजानतो ऽपि मत्-तनु-विषय ऐषा श्रद्ध ईत्य् अनुसन्धाय ताम् एव अचलां निर्विघ्नां विदधाम्य् अहम् //
SK
स तया श्रद्धया युक्तस् तस्याराधनम् ईहते | लभते च ततः कामान् मयैव विहितान् हि तान् ||
SK
स तया श्रद्धया युक्तस् तस्या अराधनम् ईहते | लभते च ततः कामान् मय ऐव विहितान् हि तान् ||
SK
स तया निर्विघ्नया श्रद्धया युक्तस् तस्य इन्द्रादेर् आराधनं प्रतीहते / ततः मत्तनुभूतेन्द्रादिदेवताराधनात् तान् एव हि स्वाभिलषितान् कामान् मयैव विहितान् लभते / यद्य् अप्य् आराधनकाले, ᳚आराध्येन्द्रादयो मदीयास् तनवः, तत एव तदर्चनं च मदाराधनम्᳚ इति न जानाति -- तथापि तस्य वस्तुनो मदाराधनत्वाद् आराधकाभिलषितम् अहम् एव विदधामि //
SK
स तया निर्विघ्नया श्रद्धया युक्तस् तस्य इन्द्र-आदेर् आराधनं प्रतीहते / ततः मत्-तनु-भूत-इन्द्र-आदि-देवता-आराधनात् तान् एव हि स्व-अभिलषितान् कामान् मय ऐव विहितान् लभते / यद्य् अप्य् आराधन-काले, ᳚आराध्य-इन्द्र-आदयो मदीयास् तनवः, तत एव तद्-अर्चनं च मद्-आराधनम्᳚ इति न जानाति --- तथ आपि तस्य वस्तुनो मद्-आराधनत्वाद् आराधक-अभिलषितम् अहम् एव विदधामि //
SK
अन्तवत् तु फलं तेषां तद् भवत्य् अल्पमेधसाम् | देवान् देवयज्ञो यान्ति मद्भक्ता यान्ति माम् अपि ||
SK
अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् | देवान् देव-यज्ञो यान्ति मद्-भक्ता यान्ति माम् अपि ||
SK
तेषाम् अल्पमेधसाम् अल्पबुद्धीनाम् इन्द्रादिमात्रयाजिनां तदाराधनफलम् अल्पम्, अन्तवच् च भवति / कुतः? देवान् देवयजो यान्ति -- यत इन्द्रादीन् देवान् तद्याजिनो यान्ति / इन्द्रादयो ऽपि हि परिच्छिन्नभोगाः परिमितकालवर्तिनश् च / ततस् तत्सायुज्यं प्राप्ताः तैस् सह प्रच्यवन्ते / मद्भक्ता अपि तेषाम् एव कर्मणां मदाराधनरूपतां ज्ञात्वा परिच्छिन्नफलसङ्गं त्यक्त्वा मत्प्रीणनैकप्रयोजनाः मां प्राप्नुवन्ति; न च पुनर् निवर्तन्ते / ᳚माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते᳚ इति हि वक्ष्यते //
SK
तेषाम् अल्प-मेधसाम् अल्प-बुद्धीनाम् इन्द्र-आदि-मात्र-याजिनां तद्-आराधन-फलम् अल्पम्, अन्तवच् च भवति / कुतः? देवान् देव-यजो यान्ति --- यत इन्द्र-आदीन् देवान् तद्-याजिनो यान्ति / इन्द्र-आदयो ऽपि हि परिच्छिन्न-भोगाः परिमित-काल-वर्तिनश् च / ततस् तत्-सायुज्यं प्राप्ताः तैस् सह प्रच्यवन्ते / मद्-भक्ता अपि तेषाम् एव कर्मणां मद्-आराधन-रूपतां ज्ञात्वा परिच्छिन्न-फल-सङ्गं त्यक्त्वा मत्-प्रीणन-एक-प्रयोजनाः मां प्राप्नुवन्ति; न च पुनर् निवर्तन्ते / ᳚माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते᳚ इति हि वक्ष्यते //
SK
इतरे तु सर्वसमाश्रयणीयत्वाय मम मनुष्यादिष्व् अवतारम् अप्य् अकिञ्चित्करं कुर्वन्तीत्य् आह --
SK
इतरे तु सर्व-समाश्रयणीयत्वाय मम मनुष्य-आदिष्व् अवतारम् अप्य् अकिञ्चित्करं कुर्वन्ति इत्य् आह ---
SK
अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः | परं भावम् अजानन्तो मम अव्ययम् अनुत्तमम् ||
SK
अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः | परं भावम् अजानन्तो मम अव्ययम् अनुत्तमम् ||
SK
सर्वैः कर्मभिर् आराध्यो ऽहं सर्वेश्वरो वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः परमकारुण्याद् अश्रित्यवात्सल्याच् च सर्वसमाश्रयणीयत्वायाजहत्स्वभाव एव वसुदेवसूनुर् अवरीर्ण इति ममैवं परं भावम् अव्ययम् अनुत्तमम् अजानन्तः प्राकृतराजसूनुसमानम् इतः पूर्वम् अनभिव्यक्तम् इदानीं कर्मवशाज् जन्मविशेषं प्राप्य व्यक्तिम् आपन्नम् प्राप्तं माम् बुद्धयो मन्यन्ते / अतो मां नाश्रयन्ते; न कर्मभिर् आराधयन्ति च //
SK
सर्वैः कर्मभिर् आराध्यो ऽहं सर्व-ईश्वरो वाङ्-मनसा-अपरिच्छेद्य-स्व-रूप-स्व-भावः परम-कारुण्याद् अश्रित्य-वात्सल्याच् च सर्व-समाश्रयणीयत्वाय अजहत्-स्व-भाव एव वसु-देव-सूनुर् अवरीर्ण इति मम एवं परं भावम् अव्ययम् अनुत्तमम् अजानन्तः प्राकृत-राज-सूनु-समानम् इतः पूर्वम् अनभिव्यक्तम् इदानीं कर्म-वशाज् जन्म-विशेषं प्राप्य व्यक्तिम् आपन्नम् प्राप्तं माम् बुद्धयो मन्यन्ते / अतो मां ना अश्रयन्ते; न कर्मभिर् आराधयन्ति च //
SK
कुत एवं न प्रकाश्यत इत्य् अत्राह --
SK
कुत एवं न प्रकाश्यत इत्य् अत्रा अह ---
SK
नाहं प्रकाशः सर्वस्य योगमायासमावृतः | मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् ||
SK
न अहं प्रकाशः सर्वस्य योग-माया-समावृतः | मूढो ऽयं न अभिजानाति लोको माम् अजम् अव्ययम् ||
SK
क्षेत्रज्ञासाधारणमनुष्यत्वादिसंस्थानयोगाख्यमायया समावृतो ऽहं न सर्वस्य प्रकाशः / मयि मनुष्यत्वादिसंस्थानदर्शनमात्रेण मूढो ऽयं लोको माम् अतिवाय्विन्द्रकर्माणम् अतिसूर्याग्नितेजसम् उपलभ्यमानम् अपि अजम् अव्ययं निखिलजगदेककारणं सर्वेश्वरं मां सर्वसमाश्रयणीयत्वाय मनुष्यत्वसंस्थानम् आस्थितं नाभिजानाति //
SK
क्षेत्र-ज्ञ-असाधारण-मनुष्यत्व-आदि-संस्थान-योग-आख्य-मायया समावृतो ऽहं न सर्वस्य प्रकाशः / मयि मनुष्यत्व-आदि-संस्थान-दर्शन-मात्रेण मूढो ऽयं लोको माम् अतिवाय्व्-इन्द्र-कर्माणम् अतिसूर्य-अग्नि-तेजसम् उपलभ्यमानम् अपि अजम् अव्ययं निखिल-जगद्-एक-कारणं सर्व-ईश्वरं मां सर्व-समाश्रयणीयत्वाय मनुष्यत्व-संस्थानम् आस्थितं न अभिजानाति //
SK
वेदाहं समतीतानि वर्तमानानि चार्जुन | भविष्याणि च भूतानि मां तु वेद न कश्चन ||
SK
वेद अहं समतीतानि वर्तमानानि च अर्जुन | भविष्याणि च भूतानि मां तु वेद न कश्चन ||
SK
अतीतानि वर्तमानानि अनागतानि च सर्वाणि भूतान्य् अहं वेद जानामि / मां तु वेद न कश्चन मयानुसंधीयमानेषु कालत्रयवर्तिषु भूतेषु माम् एवंविधं वासुदेवं सर्वसमाश्रय्णीयत्वायावतीर्णं विदित्वा माम् एव समाश्रयन् न कश्चिद् उपलभ्यत इत्यर्थः / अतो ज्ञानी सुदुर्लभ एव //
SK
अतीतानि वर्तमानानि अनागतानि च सर्वाणि भूतान्य् अहं वेद जानामि / मां तु वेद न कश्चन मय आनुसंधीयमानेषु काल-त्रय-वर्तिषु भूतेषु माम् एवं-विधं वासु-देवं सर्व-समाश्रय्णीयत्वाय अवतीर्णं विदित्वा माम् एव समाश्रयन् न कश्चिद् उपलभ्यत इत्य्-अर्थः / अतो ज्ञानी सुदुर्लभ एव //
SK
तथा हि --
SK
तथा हि ---
SK
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत | सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ||
SK
इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत | सर्व-भूतानि संमोहं सर्गे यान्ति परन्-तप ||
SK
इच्छाद्वेषाभ्यां समुत्थितेन शीतोष्णादिद्वन्द्वाख्येन मोहेन सर्वभूतानि सर्गे जन्मकाल एव संमोहं यान्ति / एतद् उक्तं भवति -- गुणमयेषु सुखदुःखादिद्वन्द्वेषु पूर्वपूर्वजन्मनि यद्विषयौ इच्छाद्वेषौ अभ्यस्तौ, तद्वासनया पुनर् अपि जन्मकाल एव तद् एव द्वन्द्वाख्यम् इच्छाद्वेषविषयत्वेन समुत्थितं भूतानां मोहनं भवति; तेन मोहेन सर्वभूतानि संमोहं यान्ति; तद्विषयेच्छाद्वेषस्वभावानि भवन्ति, न मत्सम्श्लेषवियोगसुखदुःखस्वभावानि, ज्ञानी तु मत्संश्लेषवियोगैकसुखदुःखस्वभावः; न तत्स्वभावं किम् अपि भूतं जायते इति //
SK
इच्छा-द्वेषाभ्यां समुत्थितेन शीत-उष्ण-आदि-द्वन्द्व-आख्येन मोहेन सर्व-भूतानि सर्गे जन्म-काल एव संमोहं यान्ति / एतद् उक्तं भवति --- गुण-मयेषु सुख-दुःख-आदि-द्वन्द्वेषु पूर्व-पूर्व-जन्मनि यद्-विषयौ इच्छा-द्वेषौ अभ्यस्तौ, तद्-वासनया पुनर् अपि जन्म-काल एव तद् एव द्वन्द्व-आख्यम् इच्छा-द्वेष-विषयत्वेन समुत्थितं भूतानां मोहनं भवति; तेन मोहेन सर्व-भूतानि संमोहं यान्ति; तद्-विषय-इच्छा-द्वेष-स्व-भावानि भवन्ति, न मत्-सम्श्लेष-वियोग-सुख-दुःख-स्व-भावानि, ज्ञानी तु मत्-संश्लेष-वियोग-एक-सुख-दुःख-स्व-भावः; न तत्-स्व-भावं किम् अपि भूतं जायते इति //
SK
येषां त्व् अन्तगतं पापं जनानां पुण्यकर्मणाम् | ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते मां दृढव्रताः ||
SK
येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् | ते द्वन्द्व-मोह-निर्मुक्ताः भजन्ते मां दृढ-व्रताः ||
SK
येषां त्व् अनेकजन्मार्जितेनोत्कृष्टपुण्यसंचयेन गुणमयद्वन्द्वेच्च्छाद्वेषहेतुभूतं मदौन्मुख्यविरोधि च अनादिकालप्रवृत्तं पापम् अन्तगतम् क्षीणम्; ते पूर्वोक्तेन सुकृततारतम्येन मां शरणम् अनुप्रपद्य गुणमयान् मोहाद् विनिर्मुक्ताः जरामरणमोक्षाय, महते चाइश्वर्याय, मत्प्राप्तये च दृढव्रताः दृढसङ्कल्पाः माम् एव भजन्ते //
SK
येषां त्व् अनेक-जन्म-अर्जितेन उत्कृष्ट-पुण्य-संचयेन गुण-मय-द्वन्द्व-इच्च्छा-द्वेष-हेतु-भूतं मद्-औन्मुख्य-विरोधि च अनादि-काल-प्रवृत्तं पापम् अन्त-गतम् क्षीणम्; ते पूर्व-उक्तेन सुकृत-तारतम्येन मां शरणम् अनुप्रपद्य गुण-मयान् मोहाद् विनिर्मुक्ताः जरा-मरण-मोक्षाय, महते च ऐश्वर्याय, मत्-प्राप्तये च दृढ-व्रताः दृढ-सङ्कल्पाः माम् एव भजन्ते //
SK
अत्र त्रयाणां भगवन्तं भजमानानां ज्ञातव्यविशेषान् उपादेयांश् च प्रस्तौति --
SK
अत्र त्रयाणां भगवन्तं भजमानानां ज्ञातव्य-विशेषान् उपादेयांश् च प्रस्तौति ---
SK
जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये | ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् ||
SK
जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये | ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म च अखिलम् ||
SK
जरामरणमोक्षाय प्रकृतिवियुक्तात्मस्वरूपदर्शनाय माम् आश्रित्य ये यतन्ते, ते तद्ब्रह्म विदुः, अध्यात्मं तु कृत्स्नं विदुः, कर्म चाखिलं विदुः //
SK
जरा-मरण-मोक्षाय प्रकृति-वियुक्त-आत्म-स्व-रूप-दर्शनाय माम् आश्रित्य ये यतन्ते, ते तद्-ब्रह्म विदुः, अध्यात्मं तु कृत्स्नं विदुः, कर्म च अखिलं विदुः //
SK
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः | प्रयाणकाले ऽपि च मां ते विदुर् युक्तचेतसः ||
SK
स-अधिभूत-अधिदैवं मां स-अधियज्ञं च ये विदुः | प्रयाण-काले ऽपि च मां ते विदुर् युक्त-चेतसः ||
SK
अत्र य इति पुनर् निर्देशात् पूर्वनिर्दिष्टव्यो ऽन्ये अधिकारिणो ज्ञायन्ते; साधिभूतं साधिदैवं माम् ऐश्वर्यार्थिनो ये विदुः इत्य् एतद् अनुवादसरूपम् अप्य् अप्राप्तार्थत्वाद् विधायकम् एव; तथा साधियज्ञम् इत्य् अपि त्रयाणाम् अधिकारिणाम् अविशेषेण विधीयते; अर्थस्वभाव्यात् / त्रयाणां हि नित्यनैमित्तिकरूपमहायज्ञाद्यनुष्ठानम् अवर्जनीयम् / ते च प्रयाणकाले ऽपि स्वप्राप्यानुगुणं मां विदुः / ते चेति चकारात् पूर्वे जरामरणमोक्षाय यतमानाश् च प्रयाणकाले विदुर् इति समुच्चीयन्ते; अनेन ज्ञानिनो ऽप्य् अर्थस्वाभाव्यात् साधियज्ञं मां विदुः, प्रयाणकाले ऽपि स्वप्राप्यानुगुणं मां विदुर् इत्य् उक्तं भवति //
SK
अत्र य इति पुनर् निर्देशात् पूर्व-निर्दिष्टव्यो ऽन्ये अधिकारिणो ज्ञायन्ते; स-अधिभूतं स-अधिदैवं माम् ऐश्वर्य-अर्थिनो ये विदुः इत्य् एतद् अनुवाद-स-रूपम् अप्य् अप्राप्त-अर्थत्वाद् विधायकम् एव; तथा स-अधियज्ञम् इत्य् अपि त्रयाणाम् अधिकारिणाम् अविशेषेण विधीयते; अर्थ-स्व-भाव्यात् / त्रयाणां हि नित्य-नैमित्तिक-रूप-महा-यज्ञ-आद्य्-अनुष्ठानम् अवर्जनीयम् / ते च प्रयाण-काले ऽपि स्व-प्राप्य-अनुगुणं मां विदुः / ते च इति च-कारात् पूर्वे जरा-मरण-मोक्षाय यतमानाश् च प्रयाण-काले विदुर् इति समुच्चीयन्ते; अनेन ज्ञानिनो ऽप्य् अर्थ-स्वाभाव्यात् स-अधियज्ञं मां विदुः, प्रयाण-काले ऽपि स्व-प्राप्य-अनुगुणं मां विदुर् इत्य् उक्तं भवति //
SK
सप्तमे -- परस्य ब्रह्मणो वासुदेवस्योपास्यत्वम् निखिलचेतनाचेतनवस्तुशेषित्वम्, कारणत्वम्, आधारत्वम्, सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम्, सर्वनियन्तृत्वम्, सर्वैश् च कल्याणगुणगणैस् तस्यैव परतरत्वम्, सत्त्वरजस्तमोमयैर् देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर् भावैर् अनादिकालप्रवृत्तदुष्कृतप्रवाहहेतुकैस् तस्य तिरोधानम्, अत्युत्कृष्टसुकृतहेतुकभगवत्प्रपत्त्या सुकृततारतम्येन च प्रतिपत्तिवैशेष्याद् ऐश्वर्याक्षरयाथात्म्यभगवत्प्राप्त्यपेक्षयोपासकभेदम्, भगवन्तं प्रेप्सोर् नित्ययुक्ततयैकभक्तितया चात्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठ्यम् दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेयभेदांश् च प्रास्तौषीत् / इदानीम् अष्टमे प्रस्तुतान् ज्ञातव्योपादेयभेदान् विविनक्ति //
SK
सप्तमे --- परस्य ब्रह्मणो वासु-देवस्य उपास्यत्वम् निखिल-चेतन-अचेतन-वस्तु-शेषित्वम्, कारणत्वम्, आधारत्वम्, सर्व-शरीरतया सर्व-प्रकारत्वेन सर्व-शब्द-वाच्यत्वम्, सर्व-नियन्तृत्वम्, सर्वैश् च कल्याण-गुण-गणैस् तस्य एव परतरत्वम्, सत्त्व-रजस्-तमो-मयैर् देह-इन्द्रियत्वेन भोग्यत्वेन च अवस्थितैर् भावैर् अनादि-काल-प्रवृत्त-दुष्कृत-प्रवाह-हेतुकैस् तस्य तिरोधानम्, अत्युत्कृष्ट-सुकृत-हेतुक-भगवत्-प्रपत्त्या सुकृत-तारतम्येन च प्रतिपत्ति-वैशेष्याद् ऐश्वर्य-अक्षर-याथात्म्य-भगवत्-प्राप्त्य्-अपेक्षय ऊपासक-भेदम्, भगवन्तं प्रेप्सोर् नित्य-युक्ततय ऐक-भक्तितया च अत्यर्थ-परम-पुरुष-प्रियत्वेन च श्रैष्ठ्यम् दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्य-उपादेय-भेदांश् च प्रास्तौषीत् / इदानीम् अष्टमे प्रस्तुतान् ज्ञातव्य-उपादेय-भेदान् विविनक्ति //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source