Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 6

SK
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः | स संन्यसी च योगी च न निरग्निर् न चाक्रियः ||
SK
अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः | स संन्यसी च योगी च न निरग्निर् न च अक्रियः ||
SK
उक्तः कर्मयोगः सपरिकरः, इदानीं ज्ञानयोगकर्मयोगसाध्यात्मावलोकनरूपयोगाभ्यासविधिर् उच्यते / तत्र कर्मयोगस्य निरपेक्षयोगसाधनत्वं द्रढयितुं ज्ञानाकारः कर्मयोगो योगशिरस्को ऽनूद्यते / कर्मफलं स्वर्गादिकम् अनाश्रितः, कार्यं कर्मानुष्ठानम् एव कार्यम्, सर्वात्मनास्मत्सुहृद्भूतपरमपुरुषाराधनरूपतया कर्मैव मम प्रयोजनम्, न तत्साध्यं किंचिद् इति यः कर्म करोति; स संन्यासी च ज्ञानयोगनिष्ठश् च; योगी च कर्मयोगनिष्ठश् च; आत्मावलोकनरूपयोगसाधनभूतोभयनिष्ठ इत्यर्थः / न निरग्निर् न चाक्रियः न चोदितयज्ञादिकर्मस्व् अप्रवृत्तः, न च केवलज्ञाननिष्ठः / तस्य हि ज्ञननिष्ठैव, कर्मयोगनिष्ठस्य तूभयम् अस्तीत्यभिप्रायः //
SK
उक्तः कर्म-योगः सपरिकरः, इदानीं ज्ञान-योग-कर्म-योग-साध्य-आत्म-अवलोकन-रूप-योग-अभ्यास-विधिर् उच्यते / तत्र कर्म-योगस्य निरपेक्ष-योग-साधनत्वं द्रढयितुं ज्ञान-आकारः कर्म-योगो योग-शिरस्को ऽनूद्यते / कर्म-फलं स्वर्ग-आदिकम् अनाश्रितः, कार्यं कर्म-अनुष्ठानम् एव कार्यम्, सर्व-आत्मन आस्मत्-सुहृद्-भूत-परम-पुरुष-आराधन-रूपतया कर्म एव मम प्रयोजनम्, न तत्-साध्यं किंचिद् इति यः कर्म करोति; स संन्यासी च ज्ञान-योग-निष्ठश् च; योगी च कर्म-योग-निष्ठश् च; आत्म-अवलोकन-रूप-योग-साधन-भूत-उभय-निष्ठ इत्य्-अर्थः / न निरग्निर् न च अक्रियः न च उदित-यज्ञ-आदि-कर्मस्व् अप्रवृत्तः, न च केवल-ज्ञान-निष्ठः / तस्य हि ज्ञन-निष्ठ एव, कर्म-योग-निष्ठस्य तु उभयम् अस्ति इत्य्-अभिप्रायः //
SK
उक्तलक्षणकर्मयोगे ज्ञानम् अप्य् अस्तीत्य् आह --
SK
उक्त-लक्षण-कर्म-योगे ज्ञानम् अप्य् अस्ति इत्य् आह ---
SK
यं संन्यास इति प्राहुर् योगं तं विद्धि पाण्डव | न ह्य् असंन्यस्तसङ्कल्पो योगी भवति कश्चन ||
SK
यं संन्यास इति प्राहुर् योगं तं विद्धि पाण्डव | न ह्य् असंन्यस्त-सङ्कल्पो योगी भवति कश्चन ||
SK
यं संन्यास इति ज्ञानयोग इति, आत्मयाथात्म्यज्ञानम् इति प्राहुः, तं कर्मयोगम् एव विद्धि / तद् उपपादयति न ह्य् असंन्यस्तसंकल्पो योगी भवति कश्चन / आत्मयाथात्म्यानुसन्धानेन अनात्मनि प्रकृतौ आत्मसङ्कल्पः संन्यस्तः परित्यक्तो येन स संन्यस्तसङ्कल्पः; अनेवंभूतः असंन्यस्तसङ्कल्पः / न ह्य् उक्तेषु कर्मयोगिष्व् अनेवंभूतः कश्चन कर्मयोगी भवति; ᳚यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः᳚ इति ह्य् उक्तम् //
SK
यं संन्यास इति ज्ञान-योग इति, आत्म-याथात्म्य-ज्ञानम् इति प्राहुः, तं कर्म-योगम् एव विद्धि / तद् उपपादयति न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन / आत्म-याथात्म्य-अनुसन्धानेन अनात्मनि प्रकृतौ आत्म-सङ्कल्पः संन्यस्तः परित्यक्तो येन स संन्यस्त-सङ्कल्पः; अनेवं-भूतः असंन्यस्त-सङ्कल्पः / न ह्य् उक्तेषु कर्म-योगिष्व् अनेवं-भूतः कश्चन कर्म-योगी भवति; ᳚यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः᳚ इति ह्य् उक्तम् //
SK
कर्मयोग एवाप्रमादेन योगं साधयतीत्य् आह --
SK
कर्म-योग एव अप्रमादेन योगं साधयति इत्य् आह ---
SK
आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते | योगारूढस्य तस्यैव शमः कारणम् उच्यते ||
SK
आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते | योग-आरूढस्य तस्य एव शमः कारणम् उच्यते ||
SK
योगम् आत्मावलोकनं प्राप्तुम् इच्छोर् मुमुक्षोः कर्मयोग एव कारणम् उच्यते / तस्यैव योगारूढस्य प्रतिष्ठितयोगस्यैव, शमः कर्मनिवृत्तिः कारणम् उच्यते / यावद् आत्मावलोकनरूपमोक्षावाप्ति कर्म कार्यम् इत्यर्थः //
SK
योगम् आत्म-अवलोकनं प्राप्तुम् इच्छोर् मुमुक्षोः कर्म-योग एव कारणम् उच्यते / तस्य एव योग-आरूढस्य प्रतिष्ठित-योगस्य एव, शमः कर्म-निवृत्तिः कारणम् उच्यते / यावद् आत्म-अवलोकन-रूप-मोक्ष-अवाप्ति कर्म कार्यम् इत्य्-अर्थः //
SK
कदा प्रतिष्ठितयोगो भवतीत्य् अत्राह --
SK
कदा प्रतिष्ठित-योगो भवति इत्य् अत्रा अह ---
SK
यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते | सर्वसङ्कल्पसंन्यासी योगारूढस् तदोच्यते ||
SK
यदा हि न इन्द्रिय-अर्थेषु न कर्मस्व् अनुषज्जते | सर्व-सङ्कल्प-संन्यासी योग-आरूढस् तद ऊच्यते ||
SK
यदायं योगी त्व् आत्मैकानुभवस्वभावतया इन्द्रियार्थेषु -- आत्मव्यतिरिक्तप्राकृतविषयेषु, तत्संबन्धिषु च कर्मसु नानुषज्जते न सङ्गम् अर्हति, तदा हि सर्वसङ्कल्पसम्न्यासी योगारूढ इत्य् उच्यते / तस्माद् आरुरुक्षोर् विषयानुभवार्हतया तदननुषङ्गाभ्यासरूपः कर्मयोग एव योगनिष्पत्तिकारणम् / अतो विषयाननुषङ्गाभ्यासरूपं कर्मयोगम् एव आरुरुक्षुः कुर्यात् //
SK
यद आयं योगी त्व् आत्म-एक-अनुभव-स्व-भावतया इन्द्रिय-अर्थेषु --- आत्म-व्यतिरिक्त-प्राकृत-विषयेषु, तत्-संबन्धिषु च कर्मसु न अनुषज्जते न सङ्गम् अर्हति, तदा हि सर्व-सङ्कल्प-सम्न्यासी योग-आरूढ इत्य् उच्यते / तस्माद् आरुरुक्षोर् विषय-अनुभव-अर्हतया तद्-अननुषङ्ग-अभ्यास-रूपः कर्म-योग एव योग-निष्पत्ति-कारणम् / अतो विषय-अननुषङ्ग-अभ्यास-रूपं कर्म-योगम् एव आरुरुक्षुः कुर्यात् //
SK
तद् एवाह --
SK
तद् एवा अह ---
SK
उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् | आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ||
SK
उद्धरेद् आत्मना आत्मानं ना अत्मानम् अवसादयेत् | आत्म ऐव ह्य् आत्मनो बन्धुर् आत्म ऐव रिपुर् आत्मनः ||
SK
आत्मना मनसा; विषयाननुषक्तेन आत्मानम् उद्धरेत् / तद्विपरीतेन मनसा आत्मानं नावसादयेत् / आत्मैव मन एव ह्य् आत्मनो बन्धुः; तद् एवात्मनो रिपुः //
SK
आत्मना मनसा; विषय-अननुषक्तेन आत्मानम् उद्धरेत् / तद्-विपरीतेन मनसा आत्मानं न अवसादयेत् / आत्म ऐव मन एव ह्य् आत्मनो बन्धुः; तद् एवा अत्मनो रिपुः //
SK
बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः | अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ||
SK
बन्धुर् आत्मा आत्मनस् तस्य येना अत्म ऐवा अत्मना जितः | अनात्मनस् तु शत्रुत्वे वर्तेता अत्म ऐव शत्रुवत् ||
SK
येन पुरुषेण स्वेनैव स्वमनो विषयेभ्यो जितम्, तन्मनस् तस्य बन्धुः / अनात्मनः अजितमनसः स्वकीयम् एव मनः स्वस्य शत्रुवच् शत्रुत्वे वर्तेत -- स्वनिश्श्रेयसविपरीते वर्तेतेत्यर्थः / यथोक्तं भगवता पराशरेणापि, ᳚मन एव मनुष्याणां कारणं बन्धमोक्षयोः / बन्धाय विषयासङ्गि मुक्त्यैव निर्विषयं मनः // इति //
SK
येन पुरुषेण स्वेन एव स्व-मनो विषयेभ्यो जितम्, तन्-मनस् तस्य बन्धुः / अनात्मनः अजित-मनसः स्वकीयम् एव मनः स्वस्य शत्रुवच् शत्रुत्वे वर्तेत --- स्व-निश्श्रेयस-विपरीते वर्तेत इत्य्-अर्थः / यथ ऊक्तं भगवता पराशरेण अपि, ᳚मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः / बन्धाय विषय-असङ्गि मुक्त्य ऐव निर्विषयं मनः // इति //
SK
योगारम्भयोग्या अवस्थोच्यते --
SK
योग-आरम्भ-योग्या अवस्थ ऊच्यते ---
SK
जितात्मनः प्रशान्तस्य परमात्मा समाहितः | शीतोष्णसुखदुःखेषु तथा मानावमानयोः ||
SK
जित-आत्मनः प्रशान्तस्य परम-आत्मा समाहितः | शीत-उष्ण-सुख-दुःखेषु तथा मान-अवमानयोः ||
SK
शीतोष्णसुखदुःखेषु मानावमानयोश् च जितात्मनः जितमनसः विकाररहितमनसः प्रशान्तस्य मनसि परमात्मा समाहितः सम्यगाहितः / स्वरूपेणावस्थितः प्रत्यगात्मात्र परमात्मेत्य् उच्यते; तस्यैव प्रकृतत्वात् / तस्यापि पूर्वपूर्वावस्थापेक्षया परमात्मत्वात् / आत्मा परं समाहित इति वान्वयः //
SK
शीत-उष्ण-सुख-दुःखेषु मान-अवमानयोश् च जित-आत्मनः जित-मनसः विकार-रहित-मनसः प्रशान्तस्य मनसि परम-आत्मा समाहितः सम्यग्-आहितः / स्व-रूपेण अवस्थितः प्रत्यग्-आत्म आत्र परम-आत्म ईत्य् उच्यते; तस्य एव प्रकृतत्वात् / तस्य अपि पूर्व-पूर्व-अवस्था-अपेक्षया परम-आत्मत्वात् / आत्मा परं समाहित इति व आन्वयः //
SK
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः | युक्त इत्य् उच्यते योगी समलोष्टाश्मकाञ्चनः ||
SK
ज्ञान-विज्ञान-तृप्त-आत्मा कूट-स्थो विजित-इन्द्रियः | युक्त इत्य् उच्यते योगी सम-लोष्ट-अश्म-काञ्चनः ||
SK
ज्ञानविज्ञानतृप्तात्मा आत्मस्वरूपविषयेण ज्ञानेन, तस्य च प्रकृतिविसजातीयाकारविषयेण ज्ञानेन च तृप्तमनाः कूटस्थः देवाद्यवस्थास्व् अनुवर्तमानसर्वसाधारणज्ञानैकाकारात्मनि स्थितः, तत एव विजितेन्द्रियः, समलोष्टाश्मकाञ्चनः प्रकृतिविविक्तस्वरूपनिष्ठतया प्राकृतवस्तुविशेषेषु भोग्यत्वाभावाल् लोष्टाश्मकाञ्चनेषु समप्रयोजनः यः कर्मयोगी, स युक्त इत्य् उच्यते आत्मावलोकनरूपयोगाभ्यासार्ह इत्य् उच्यते //
SK
ज्ञान-विज्ञान-तृप्त-आत्मा आत्म-स्व-रूप-विषयेण ज्ञानेन, तस्य च प्रकृति-विसजातीय-आकार-विषयेण ज्ञानेन च तृप्त-मनाः कूट-स्थः देव-आद्य्-अवस्थास्व् अनुवर्तमान-सर्व-साधारण-ज्ञान-एक-आकार-आत्मनि स्थितः, तत एव विजित-इन्द्रियः, सम-लोष्ट-अश्म-काञ्चनः प्रकृति-विविक्त-स्व-रूप-निष्ठतया प्राकृत-वस्तु-विशेषेषु भोग्यत्व-अभावाल् लोष्ट-अश्म-काञ्चनेषु सम-प्रयोजनः यः कर्म-योगी, स युक्त इत्य् उच्यते आत्म-अवलोकन-रूप-योग-अभ्यास-अर्ह इत्य् उच्यते //
SK
तथा च
SK
तथा च
SK
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु | साधुष्व् अपि च पापेषु समबुद्धिर् विशिष्यते ||
SK
सुहृन्-मित्र-अर्य्-उदासीन-मध्य-स्थ-द्वेष्य-बन्धुषु | साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ||
SK
वयोविशेषानङ्गीकारेण स्वहितैषिणः सुहृदः; सवयसो हितैषिणो मित्राणि, अरयो निमित्ततो ऽनर्थेच्छवः; उभयहेत्वभावाद् उभयरहिता उदासीनाः; जन्मत एवोभयरहिता मध्यस्थाः; जन्मत एवानिच्छेच्छवो द्वेष्याः; जन्मत एव हितैषिणो बन्धवः, साधवो धर्मशीलाः; पापाः पापशीलाः; आत्मैकप्रयोजनतया सुहृन्मित्रादिभिः प्रयोजनाभावाद् विरोधाभावाच् च तेषु समबुद्धिर् योगाभ्यासार्हत्वे विशिष्यते //
SK
वयो-विशेष-अनङ्गीकारेण स्व-हित-एषिणः सुहृदः; सवयसो हित-एषिणो मित्राणि, अरयो निमित्ततो ऽनर्थ-इच्छवः; उभय-हेत्व्-अभावाद् उभय-रहिता उदासीनाः; जन्मत एव उभय-रहिता मध्य-स्थाः; जन्मत एव अनिच्छा-इच्छवो द्वेष्याः; जन्मत एव हित-एषिणो बन्धवः, साधवो धर्म-शीलाः; पापाः पाप-शीलाः; आत्म-एक-प्रयोजनतया सुहृन्-मित्र-आदिभिः प्रयोजन-अभावाद् विरोध-अभावाच् च तेषु सम-बुद्धिर् योग-अभ्यास-अर्हत्वे विशिष्यते //
SK
योगी युञ्जीत सततम् आत्मानं रहसि स्थितः | एकाकी यतचित्तात्मा निराशीर् अपरिग्रहः ||
SK
योगी युञ्जीत सततम् आत्मानं रहसि स्थितः | एकाकी यत-चित्त-आत्मा निराशीर् अपरिग्रहः ||
SK
योगी उक्तप्रकारकर्मयोगनिष्ठः, सततम् अहरहर्योगकाले आत्मानं युञ्जीत आत्मानं युक्तं कुर्वीत / स्वदर्शननिष्ठं कुर्वीतेत्यर्थः; रहसि जनवर्जिते निश्शब्दे देशे स्थितः, एकाकी तत्रापि न सद्वितीयः, यतचित्तात्मा यतचित्तमनस्कः, निराशीः आत्मव्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः अपरिग्रहः तद्व्यतिरिक्ते कस्मिंश्चिद् अपि ममतारहितः //
SK
योगी उक्त-प्रकार-कर्म-योग-निष्ठः, सततम् अहर्-अहर्-योग-काले आत्मानं युञ्जीत आत्मानं युक्तं कुर्वीत / स्व-दर्शन-निष्ठं कुर्वीत इत्य्-अर्थः; रहसि जन-वर्जिते निश्शब्दे देशे स्थितः, एकाकी तत्र अपि न सद्वितीयः, यत-चित्त-आत्मा यत-चित्त-मनस्कः, निराशीः आत्म-व्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः अपरिग्रहः तद्-व्यतिरिक्ते कस्मिंश्चिद् अपि ममता-रहितः //
SK
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः | नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ||
SK
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः | न अत्युच्छ्रितं न अतिनीचं चेल-अजिन-कुश-उत्तरम् ||
SK
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः | उपविश्यासने युञ्ज्याद् योगम् आत्मविशुद्धये ||
SK
तत्र एक-अग्रं मनः कृत्वा यत-चित्त-इन्द्रिय-क्रियः | उपविश्या असने युञ्ज्याद् योगम् आत्म-विशुद्धये ||
SK
शुचौ देशे अशुचिभिः पुरुषैर् अनधिष्ठिते अपरिगृहीते च अशुचिभिर् वस्तुभिर् अस्पृष्टे च पवित्रभूते देशे, दार्वादिनिर्मितं नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं आसनं प्रतिष्ठाप्य तस्मिन् मनःप्रसादकरे सापाश्रये उपविश्य योगैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः सर्वात्मनोपसंहृतचित्तेन्द्रियक्रियः आत्मविशुद्धये बन्धनिवृत्तये योगं युञ्ज्याद् अत्मावलोकनं कुर्वीत //
SK
शुचौ देशे अशुचिभिः पुरुषैर् अनधिष्ठिते अपरिगृहीते च अशुचिभिर् वस्तुभिर् अस्पृष्टे च पवित्र-भूते देशे, दार्व-आदि-निर्मितं न अत्युच्छ्रितं न अतिनीचं चेल-अजिन-कुश-उत्तरं आसनं प्रतिष्ठाप्य तस्मिन् मनः-प्रसाद-करे स-अपाश्रये उपविश्य योग-एक-अग्रं मनः कृत्वा यत-चित्त-इन्द्रिय-क्रियः सर्व-आत्मन ऊपसंहृत-चित्त-इन्द्रिय-क्रियः आत्म-विशुद्धये बन्ध-निवृत्तये योगं युञ्ज्याद् अत्म-अवलोकनं कुर्वीत //
SK
समं कायशिरोग्रीवं धारयन् अचलं स्थिरम् | संप्रेक्ष्य नासिकाग्रं स्वं देशश् चानवलोकयन् ||
SK
समं काय-शिरो-ग्रीवं धारयन् अचलं स्थिरम् | संप्रेक्ष्य नासिक-अग्रं स्वं देशश् च अनवलोकयन् ||
SK
प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः | मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ||
SK
प्रशान्त-आत्मा विगत-भीः ब्रह्म-चारि-व्रते स्थितः | मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः ||
SK
कायशिरोग्रीवं समम् अचलं सापाश्रयतया स्थिरं धारयन्, दिशश् चानवलोअकयन्, स्वनासिकाग्रं संप्रेक्ष्य, प्रशान्तात्मा अत्यन्तनिर्वृतमनाः, विगतभीर् ब्रह्मचर्ययुक्तो मनः संयम्य मच्चित्तो युक्तः अवहितो मत्पर आसीत माम् एव चिन्त्यन् आसीत //
SK
काय-शिरो-ग्रीवं समम् अचलं स-अपाश्रयतया स्थिरं धारयन्, दिशश् च अनवलोअकयन्, स्व-नासिक-अग्रं संप्रेक्ष्य, प्रशान्त-आत्मा अत्यन्त-निर्वृत-मनाः, विगत-भीर् ब्रह्म-चर्य-युक्तो मनः संयम्य मच्-चित्तो युक्तः अवहितो मत्-पर आसीत माम् एव चिन्त्यन् आसीत //
SK
युञ्जन्न् एवं सदात्मानं योगी नियतमानसः | शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ||
SK
युञ्जन्न् एवं सदा आत्मानं योगी नियत-मानसः | शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ||
SK
एवं मयि परस्मिन् ब्रह्मणि पुरुषोत्तमे मनसश् शुभाश्रये सदा आत्मानं मनः युञ्जन् नियतमानसः मत्स्पर्शवित्रीकृतमानसतया निश्चलमानसः, माम् एव चिन्तयन् मत्संस्थां निर्वाणपरमां शान्तिम् अधिगच्छति निर्वाणकाष्ठारूपां मत्संस्थां मयि संस्थितां शान्तिम् अधिगच्छति //
SK
एवं मयि परस्मिन् ब्रह्मणि पुरुष-उत्तमे मनसश् शुभ-आश्रये सदा आत्मानं मनः युञ्जन् नियत-मानसः मत्-स्पर्श-वित्रीकृत-मानसतया निश्चल-मानसः, माम् एव चिन्तयन् मत्-संस्थां निर्वाण-परमां शान्तिम् अधिगच्छति निर्वाण-काष्ठा-रूपां मत्-संस्थां मयि संस्थितां शान्तिम् अधिगच्छति //
SK
एवम् आत्मयोगम् आरभमाणस्य मनोनैर्मल्यहेतुभूतां मनसो भगवति शुभाश्रये स्थितिम् अभिधाय अन्यद् अपि योगोपकरणम् आह --
SK
एवम् आत्म-योगम् आरभमाणस्य मनो-नैर्मल्य-हेतु-भूतां मनसो भगवति शुभ-आश्रये स्थितिम् अभिधाय अन्यद् अपि योग-उपकरणम् आह ---
SK
नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः | न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ||
SK
न अत्यश्नतस् तु योगो ऽस्ति न च एकान्तम् अनश्नतः | न च अतिस्वप्न-शीलस्य जाग्रतो न एव च अर्जुन ||
SK
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु | युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ||
SK
युक्त-आहार-विहारस्य युक्त-चेष्टस्य कर्मसु | युक्त-स्वप्न-अवबोधस्य योगो भवति दुःख-हा ||
SK
अत्यशनानशने योगविरोधिनी; अतिविहाराविहारौ च तथातिमात्रस्वप्नजागर्ये; तथा चात्यायासानायासौ / मिताहारविहारस्य मितायासस्य मितस्वप्नावबोधस्य सकलदुःखहा बन्धनाशनः योगः संपन्नो भवति //
SK
अत्यशन-अनशने योग-विरोधिनी; अतिविहार-अविहारौ च तथ आतिमात्र-स्वप्न-जागर्ये; तथा च अत्यायास-अनायासौ / मित-आहार-विहारस्य मित-आयासस्य मित-स्वप्न-अवबोधस्य सकल-दुःख-हा बन्ध-नाशनः योगः संपन्नो भवति //
SK
यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते | निस्स्पृहः सर्वकामेभ्यो युक्त इत्य् उच्यते तदा ||
SK
यदा विनियतं चित्तम् आत्मन्य् एव अवतिष्ठते | निस्स्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ||
SK
यदा प्रयोजनविषयं चित्तम् आत्मन्य् एव विनियतम् -- विशेषेण नियतं निरतिशयप्रयोजनतया तत्रैव नियतं निश्चलम् अवतिष्ठते, तदा सर्वकामेभ्यो निस्स्पृहस् सन् युक्त इत्य् उच्यते -- योगार्ह इत्य् उच्यते //
SK
यदा प्रयोजन-विषयं चित्तम् आत्मन्य् एव विनियतम् --- विशेषेण नियतं निरतिशय-प्रयोजनतया तत्र एव नियतं निश्चलम् अवतिष्ठते, तदा सर्व-कामेभ्यो निस्स्पृहस् सन् युक्त इत्य् उच्यते --- योग-अर्ह इत्य् उच्यते //
SK
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता | योगिनो यतचित्तस्य युञ्जतो योगम् आत्मनः ||
SK
यथा दीपो निवात-स्थो न इङ्गते स ऊपमा स्मृता | योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः ||
SK
निवातस्थो दीपो यथा नेङ्गते न चलति; अचलस् सप्रभस् तिष्ठति; यतचित्तस्य निवृत्तसकलेतरमनोवृत्तेः योगिनः आत्मनि योगं युञ्जतः आत्मस्वरूपस्य सोपमा; निवातस्थतया निश्चलसप्रभदीपवन् निवृत्तसकलमनोवृत्तितया निश्चलो ज्ञानप्रभ आत्मा तिष्ठईत्यर्थः //
SK
निवात-स्थो दीपो यथा न इङ्गते न चलति; अचलस् स-प्रभस् तिष्ठति; यत-चित्तस्य निवृत्त-सकल-इतर-मनो-वृत्तेः योगिनः आत्मनि योगं युञ्जतः आत्म-स्व-रूपस्य स-उपमा; निवात-स्थतया निश्चल-स-प्रभ-दीपवन् निवृत्त-सकल-मनो-वृत्तितया निश्चलो ज्ञान-प्रभ आत्मा तिष्ठै इत्य्-अर्थः //
SK
यत्रोपरमते चित्तं निरुद्धं योगसेवया / यत्र चैवात्मनात्मानं पश्यन् आत्मनि तुष्यति /२०//
SK
यत्र उपरमते चित्तं निरुद्धं योग-सेवया / यत्र च एवा अत्मना आत्मानं पश्यन् आत्मनि तुष्यति /२०//
SK
सुखम् आत्यन्तिकं यत् तद् बुद्धिग्राह्यम् अतीन्द्रियम् | वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ||
SK
सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् | वेत्ति यत्र न च एव अयं स्थितश् चलति तत्त्वतः ||
SK
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ||
SK
यं लब्ध्वा च अपरं लाभं मन्यते न अधिकं ततः | यस्मिन् स्थितो न दुःखेन गुरुण आपि विचाल्यते ||
SK
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् | स निश्चयेन योक्तव्यो योगो ऽनिर्विण्णचेतसा ||
SK
तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् | स निश्चयेन योक्तव्यो योगो ऽनिर्विण्ण-चेतसा ||
SK
योगसेवया हेतुना सर्वत्र निरुद्धं चित्तं यत्र योगे उपरमते अतिशयितसुखम् इदम् इति रमते, यत्र च योगे आत्मना मनसा आत्मानं पश्यन् अन्यनिरपेक्षम् आत्मन्य् एव तुष्यति, यत् तद् अतीन्द्रियम् आत्मबुद्ध्येकग्राह्यम् आत्यन्तिकं सुखं यत्र च योगे वेत्ति अनुभवति, यत्र च योगे स्थितः सुखातिरेकेण तत्त्वतः तद्भावान् न चलति, यं योगं लब्ध्वा योगाद् विरतस् तम् एव काङ्क्षमाणो नापरं लाभं ततो ऽधिकं मन्यते, यस्मिंश् च योगे स्थितो विरतो ऽपि गुणवत् पुत्रवियोगादिना गुरुणापि दुःखेन न विचाल्यते, तं दुःखसंयोगवियोगं दुःखसंयोगप्रत्यनीकाकारं योगशब्दाभिधेयं विद्यात् / स एवंरूपो योग इति आरम्भदशायां निश्चयेन अनिर्विण्णचेतसा हृष्टचेतसा योगो योक्तव्यः //
SK
योग-सेवया हेतुना सर्वत्र निरुद्धं चित्तं यत्र योगे उपरमते अतिशयित-सुखम् इदम् इति रमते, यत्र च योगे आत्मना मनसा आत्मानं पश्यन् अन्य-निरपेक्षम् आत्मन्य् एव तुष्यति, यत् तद् अतीन्द्रियम् आत्म-बुद्ध्य्-एक-ग्राह्यम् आत्यन्तिकं सुखं यत्र च योगे वेत्ति अनुभवति, यत्र च योगे स्थितः सुख-अतिरेकेण तत्त्वतः तद्-भावान् न चलति, यं योगं लब्ध्वा योगाद् विरतस् तम् एव काङ्क्षमाणो न अपरं लाभं ततो ऽधिकं मन्यते, यस्मिंश् च योगे स्थितो विरतो ऽपि गुणवत् पुत्र-वियोग-आदिना गुरुण आपि दुःखेन न विचाल्यते, तं दुःख-संयोग-वियोगं दुःख-संयोग-प्रत्यनीक-आकारं योग-शब्द-अभिधेयं विद्यात् / स एवं-रूपो योग इति आरम्भ-दशायां निश्चयेन अनिर्विण्ण-चेतसा हृष्ट-चेतसा योगो योक्तव्यः //
SK
सङ्कल्पप्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः | मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ||
SK
सङ्कल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः | मनस ऐव इन्द्रिय-ग्रामं विनियम्य समन्ततः ||
SK
शनैश् शनैर् उपरमेद् बुद्ध्या धृतिगृहीतया | आत्मसंस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ||
SK
शनैश् शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया | आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ||
SK
स्पर्शजाः सङ्कल्पजाश् चेति द्विविधाः कामाः, स्पर्शजाः शीतोष्णादयः, सङ्कल्पजाः पुत्रक्षेत्रादयः / तत्र सङ्कल्पप्रभवाः स्वरूपेणैव त्यक्तुं शक्याः / तान् सर्वान् मनसैव तदन्वयानुसन्धानेन त्यक्त्वा स्पर्शजेष्व् अवर्जनीयेषु तन्निमित्तहर्षोद्वेगौ त्यक्त्वा समन्ततः सर्वस्माद् विषयात् सर्वम् इन्द्रियग्रामं विनियम्य शनैश् शनैर् धृतिगृहीतया विवेकविषयया बुद्ध्या सर्वस्माद् आत्मव्यतिरिक्ताद् उपरम्य आत्मसंस्थं मनः कृत्वा न किञ्चिद् अपि चिन्तयेत् //
SK
स्पर्श-जाः सङ्कल्प-जाश् च इति द्वि-विधाः कामाः, स्पर्श-जाः शीत-उष्ण-आदयः, सङ्कल्प-जाः पुत्र-क्षेत्र-आदयः / तत्र सङ्कल्प-प्रभवाः स्व-रूपेण एव त्यक्तुं शक्याः / तान् सर्वान् मनस ऐव तद्-अन्वय-अनुसन्धानेन त्यक्त्वा स्पर्श-जेष्व् अवर्जनीयेषु तन्-निमित्त-हर्ष-उद्वेगौ त्यक्त्वा समन्ततः सर्वस्माद् विषयात् सर्वम् इन्द्रिय-ग्रामं विनियम्य शनैश् शनैर् धृति-गृहीतया विवेक-विषयया बुद्ध्या सर्वस्माद् आत्म-व्यतिरिक्ताद् उपरम्य आत्म-संस्थं मनः कृत्वा न किञ्चिद् अपि चिन्तयेत् //
SK
यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् | ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ||
SK
यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् | ततस् ततो नियम्य एतद् आत्मन्य् एव वशं नयेत् ||
SK
चलस्वभावतयात्मन्य् अस्थिरं मनः यतो यतो विषयप्रावण्यहेतोः बहिः निश्चरति, ततस् ततो यत्नेन मनो नियम्य आत्मन्य् एव अतिशयितसुखभावनया वशं नयेत् //
SK
चल-स्व-भावतया आत्मन्य् अस्थिरं मनः यतो यतो विषय-प्रावण्य-हेतोः बहिः निश्चरति, ततस् ततो यत्नेन मनो नियम्य आत्मन्य् एव अतिशयित-सुख-भावनया वशं नयेत् //
SK
प्रशान्तमनसं ह्य् एनं योगिनं सुखम् उत्तमम् | उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् ||
SK
प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् | उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ||
SK
प्रशान्तमनसम् आत्मनि निश्चलमनसम्, आत्मन्यस्तमनसं तद् एव हेतोर् दग्धाशेषकल्मषम्, तत एव शान्तरजसं विनष्टरजोगुणम्, तत एव ब्रह्मभूतं स्वस्वरूपेणावस्थितम् एनं योगिनम् आत्मस्वरूपानुभवरूपम् उत्तमं सुखम् उपैति / हीति हेतौ; उत्तमसुखरूपत्वाद् आत्मस्वरूपस्येत्यर्थः //
SK
प्रशान्त-मनसम् आत्मनि निश्चल-मनसम्, आत्म-न्यस्त-मनसं तद् एव हेतोर् दग्ध-अशेष-कल्मषम्, तत एव शान्त-रजसं विनष्ट-रजो-गुणम्, तत एव ब्रह्म-भूतं स्व-स्व-रूपेण अवस्थितम् एनं योगिनम् आत्म-स्व-रूप-अनुभव-रूपम् उत्तमं सुखम् उपैति / हि इति हेतौ; उत्तम-सुख-रूपत्वाद् आत्म-स्व-रूपस्य इत्य्-अर्थः //
SK
एवं युञ्जन् सदात्मानं योगी विगतकल्मषः | सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते ||
SK
एवं युञ्जन् सदा आत्मानं योगी विगत-कल्मषः | सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ||
SK
एवम् उक्तप्रकारेणात्मानं युञ्जन् तेनैव विगतप्राचीनसमस्तकल्मषो ब्रह्मसंस्पर्शं ब्रह्मानुभवरूपं सुखम् अत्यन्तम् अपरिमितं सुखेन अनायासेन सदाशुनुते //
SK
एवम् उक्त-प्रकारेणा अत्मानं युञ्जन् तेन एव विगत-प्राचीन-समस्त-कल्मषो ब्रह्म-संस्पर्शं ब्रह्म-अनुभव-रूपं सुखम् अत्यन्तम् अपरिमितं सुखेन अनायासेन सद आशुनुते //
SK
अथ योगविपाकदशा चतुष्प्रकारोच्यते --
SK
अथ योग-विपाक-दशा चतुष्-प्रकार ऊच्यते ---
SK
सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि | ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ||
SK
सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चा अत्मनि | ईक्षते योग-युक्त-आत्मा सर्वत्र सम-दर्शनः ||
SK
स्वात्मनः परेषाम् च भूतानां प्रकृतिवियुक्तस्वरूपाणां ज्ञानैकाकारतया साम्याद् वैषम्यस्य च प्रकृतिगतत्वाद् योगयुक्तात्मा प्रकृतिवियुक्तेष्व् आत्मसु सर्वत्र ज्ञानैकाकारतया समदर्शनः सर्वभूतस्थं स्वात्मानं सर्वभूतानि च स्वात्मनीक्षते -- सर्वभूतसमानाकारं स्वात्मानं स्वात्मसमानाकाराणि च सर्वभूतानि पश्यतीत्यर्थः / एकस्मिन् आत्मनि दृष्टे सर्वस्यात्मवस्तुनस् तत्साम्यात् सर्वम् आत्मवस्तु दृष्टं भवतीत्यर्थः / ᳚सर्वत्र समदर्शनः᳚ इति वचनात् / ᳚यो ऽयं योगस् त्वया प्रोक्तः साम्येन᳚ इत्यनुभाषणाच् च / ᳚निर्दोषं हि समं ब्रह्म᳚ इति वचनाच् च //
SK
स्व-आत्मनः परेषाम् च भूतानां प्रकृति-वियुक्त-स्व-रूपाणां ज्ञान-एक-आकारतया साम्याद् वैषम्यस्य च प्रकृति-गतत्वाद् योग-युक्त-आत्मा प्रकृति-वियुक्तेष्व् आत्मसु सर्वत्र ज्ञान-एक-आकारतया सम-दर्शनः सर्व-भूत-स्थं स्व-आत्मानं सर्व-भूतानि च स्व-आत्मनी इक्षते --- सर्व-भूत-समान-आकारं स्व-आत्मानं स्व-आत्म-समान-आकाराणि च सर्व-भूतानि पश्यति इत्य्-अर्थः / एकस्मिन् आत्मनि दृष्टे सर्वस्या अत्म-वस्तुनस् तत्-साम्यात् सर्वम् आत्म-वस्तु दृष्टं भवति इत्यर्थः / ᳚सर्वत्र सम-दर्शनः᳚ इति वचनात् / ᳚यो ऽयं योगस् त्वया प्रोक्तः साम्येन᳚ इत्य्-अनुभाषणाच् च / ᳚निर्दोषं हि समं ब्रह्म᳚ इति वचनाच् च //
SK
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ||
SK
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्य अहं न प्रणश्यामि स च मे न प्रणश्यति ||
SK
ततो ऽपि विपाकदशापन्नो मम साधर्म्यम् उपागतः, ᳚निरञ्जनः परमं साम्यम् उपैति᳚ इत्य् उच्यमानं सर्वस्यात्मवस्तुनो विधूतपुण्यपापस्य स्वरूपेणावस्थितस्य मत्साम्यं पश्यन् यः सर्वत्रात्मवस्तुनि मां पश्यति, सर्वम् आत्मवस्तु च मयि पश्यति अन्योन्यसाम्याद् अन्यतरदर्शनेन अन्यतरद् अपीदृशम् इति पश्यति, तस्य स्वात्मस्वरूपं पश्यतो ऽहं तत्साम्यान् न प्रणश्यामि नादर्शनम् उपयामि; ममापि मां पश्यतः, मत्साम्यात् स्वात्मानं मत्समम् अवलोकयन् स नादर्शनम् उपयाति //
SK
ततो ऽपि विपाक-दशा-आपन्नो मम साधर्म्यम् उपागतः, ᳚निरञ्जनः परमं साम्यम् उपैति᳚ इत्य् उच्यमानं सर्वस्या अत्म-वस्तुनो विधूत-पुण्य-पापस्य स्व-रूपेण अवस्थितस्य मत्-साम्यं पश्यन् यः सर्वत्रा अत्म-वस्तुनि मां पश्यति, सर्वम् आत्म-वस्तु च मयि पश्यति अन्योन्य-साम्याद् अन्यतर-दर्शनेन अन्यतरद् अपी इदृशम् इति पश्यति, तस्य स्व-आत्म-स्व-रूपं पश्यतो ऽहं तत्-साम्यान् न प्रणश्यामि न अदर्शनम् उपयामि; मम अपि मां पश्यतः, मत्-साम्यात् स्व-आत्मानं मत्-समम् अवलोकयन् स न अदर्शनम् उपयाति //
SK
ततो ऽपि विपाकदशाम् आह --
SK
ततो ऽपि विपाक-दशाम् आह ---
SK
सर्वभूतस्थितं यो माम् भजत्य् एकत्वम् आस्थितः | सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ||
SK
सर्व-भूत-स्थितं यो माम् भजत्य् एकत्वम् आस्थितः | सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ||
SK
योगदशायां सर्वभूतस्थितं माम् असंकुचितज्ञानैकाकारतया एकत्वम् आस्थितः प्राकृतभेदपरित्यागेन सुदृढं यो भजते, स योगी व्युत्थानकाले ऽपि यथा तथा वर्तमानः स्वात्मानं सर्वभूतानि च पश्यन् मयि वर्तते माम् एव पश्यति / स्वात्मनि सर्वभूतेषु च सर्वदा मत्साम्यम् एव पश्यतीत्यर्थः //
SK
योग-दशायां सर्व-भूत-स्थितं माम् असंकुचित-ज्ञान-एक-आकारतया एकत्वम् आस्थितः प्राकृत-भेद-परित्यागेन सुदृढं यो भजते, स योगी व्युत्थान-काले ऽपि यथा तथा वर्तमानः स्व-आत्मानं सर्व-भूतानि च पश्यन् मयि वर्तते माम् एव पश्यति / स्व-आत्मनि सर्व-भूतेषु च सर्वदा मत्-साम्यम् एव पश्यति इत्य्-अर्थः //
SK
ततो ऽपि काष्ठाम् आह --
SK
ततो ऽपि काष्ठाम् आह ---
SK
आत्माउपम्येन सर्वत्र समं पश्यति यो ऽर्जुन | सुखं वा यदि वा दुःखं स योगी परमो मतः ||
SK
आत्म-औपम्येन सर्वत्र समं पश्यति यो ऽर्जुन | सुखं वा यदि वा दुःखं स योगी परमो मतः ||
SK
स्वात्मनश् चान्येषां चात्मनाम् असंकुचितज्ञानैकाकारतयोपम्येन स्वात्मनि चान्येषु च सर्वत्र वर्तमानं पुत्रजन्मादिरूपं सुखं तन्मरणादिरूपं च दुःखम् असंबन्धसाम्यात् समं यः पश्यति परपुत्रजन्ममरणादिसमं स्वपुत्रजन्ममरणादिकं यः पश्यतीत्यर्थः / स योगी परमो मतः योगकाष्ठाम् गतो मतः //
SK
स्व-आत्मनश् च अन्येषां चा अत्मनाम् असंकुचित-ज्ञान-एक-आकारतय ऊपम्येन स्व-आत्मनि च अन्येषु च सर्वत्र वर्तमानं पुत्र-जन्म-आदि-रूपं सुखं तन्-मरण-आदि-रूपं च दुःखम् असंबन्ध-साम्यात् समं यः पश्यति पर-पुत्र-जन्म-मरण-आदि-समं स्व-पुत्र-जन्म-मरण-आदिकं यः पश्यति इत्य्-अर्थः / स योगी परमो मतः योग-काष्ठाम् गतो मतः //
SK
यो ऽयं योगस् त्वया प्रोक्तः साम्येन ंअधुसूदन | एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ||
SK
यो ऽयं योगस् त्वया प्रोक्तः साम्येन ंअधु-सूदन | एतस्य अहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ||
SK
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् | तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ||
SK
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् | तस्य अहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ||
SK
यो ऽयं देवमनुष्यादिभेदेन जीवेश्वरभेदेन चात्यतभिन्नतयैतावन्तं कालम् अनुभूतेषु सर्वेष्व् आत्मसु ज्ञानैकाकारतया परस्परसाम्येन अकर्मवश्यतया चेश्वरसाम्येन सर्वत्र समदर्शनरूपो योगस् त्वया प्रोक्तः, एतस्य योगस्य स्थिरां स्थितिं न पश्यामि, मनसश् चञ्चलत्वात् / तथा अनवरताभ्यस्तविषयेष्व् अपि स्वत एव चञ्चलं पुरुषेणैकत्रावस्थापयितुम् अशक्यं मनः पुरुषं बलात् प्रमथ्य दृढम् अन्यत्र चरति; तस्य स्वाभ्यस्तविषयेष्व् अपि चञ्चलस्वभावस्य मनसस् तद्विपरीताकारात्मनि स्थापयितुं निग्रहं प्रतिकूलगतेर् महावातस्य व्यजनादिनैव सुदुष्करम् अहं मन्ये / मनोनिग्रहोपायो वक्तव्य इत्यभिप्रायः //
SK
यो ऽयं देव-मनुष्य-आदि-भेदेन जीव-ईश्वर-भेदेन च अत्यत-भिन्नतय ऐतावन्तं कालम् अनुभूतेषु सर्वेष्व् आत्मसु ज्ञान-एक-आकारतया परस्पर-साम्येन अकर्म-वश्यतया चा इश्वर-साम्येन सर्वत्र सम-दर्शन-रूपो योगस् त्वया प्रोक्तः, एतस्य योगस्य स्थिरां स्थितिं न पश्यामि, मनसश् चञ्चलत्वात् / तथा अनवरत-अभ्यस्त-विषयेष्व् अपि स्वत एव चञ्चलं पुरुषेण एकत्र अवस्थापयितुम् अशक्यं मनः पुरुषं बलात् प्रमथ्य दृढम् अन्यत्र चरति; तस्य स्व-अभ्यस्त-विषयेष्व् अपि चञ्चल-स्व-भावस्य मनसस् तद्-विपरीत-आकार-आत्मनि स्थापयितुं निग्रहं प्रतिकूल-गतेर् महा-वातस्य व्यजन-आदिन ऐव सुदुष्करम् अहं मन्ये / मनो-निग्रह-उपायो वक्तव्य इत्य्-अभिप्रायः //
SK
असंशयं महाबाहो मनो दुर्निग्रहं चलम् | अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ||
SK
असंशयं महाबाहो मनो दुर्निग्रहं चलम् | अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ||
SK
असंयतात्मना योगो दुष्प्राप इति मे मतिः | वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ||
SK
असंयत-आत्मना योगो दुष्प्राप इति मे मतिः | वश्य-आत्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ||
SK
चलस्वभावतया मनो दुर्निग्रहम् एवेत्य् अत्र न संशयः; तथा +अप्य् आत्मनो गुणाकरत्वाभ्यासजनिताभिमुख्येन आत्मव्यतिरिक्तेषु दोषाकरत्वजनितवैतृष्ण्येन च कथंचिद् गृह्यते; असंयतात्मना अजितमनसा महतापि बलेन योगो दुष्प्राप एअ / उपायतस् तु वश्यात्मना पूर्वोक्तेन मदाराधनरूपेणान्तर्गतज्ञानेन कर्मणा जितमनसा यतमानेनायम् एव समदर्शनरूपो योगो ऽवाप्तुं शक्यः //
SK
चल-स्व-भावतया मनो दुर्निग्रहम् एव इत्य् अत्र न संशयः; तथा +अप्य् आत्मनो गुण-आकरत्व-अभ्यास-जनित-अभिमुख्येन आत्म-व्यतिरिक्तेषु दोष-आकरत्व-जनित-वैतृष्ण्येन च कथंचिद् गृह्यते; असंयत-आत्मना अजित-मनसा महत आपि बलेन योगो दुष्प्राप एअ / उपायतस् तु वश्य-आत्मना पूर्व-उक्तेन मद्-आराधन-रूपेण अन्तर्गत-ज्ञानेन कर्मणा जित-मनसा यतमानेन अयम् एव सम-दर्शन-रूपो योगो ऽवाप्तुं शक्यः //
SK
अथ ᳚नेहाभिक्रमनाशो ऽस्ति᳚ इति आदाव् एव श्रुतं योगमाहात्म्यं यथावच्छ्रोतुम् अर्जुनः पृच्छति / अन्तर्गतात्मज्ञानतया योगशिरस्कतया च हि कर्मयोगस्य माहात्म्यं तत्रोदितम्; तच् च योगमाहात्म्यम् एव /
SK
अथ ᳚न इह अभिक्रम-नाशो ऽस्ति᳚ इति आदाव् एव श्रुतं योग-माहात्म्यं यथ आवच्छ्रोतुम् अर्जुनः पृच्छति / अन्तर्गत-आत्म-ज्ञानतया योग-शिरस्कतया च हि कर्म-योगस्य माहात्म्यं तत्र उदितम्; तच् च योग-माहात्म्यम् एव /
SK
अयतिः श्रद्धयोपेतो योगाच् चलितमानसः | अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ||
SK
अयतिः श्रद्धय ऊपेतो योगाच् चलित-मानसः | अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ||
SK
कच्चिन् नोभयविभ्रष्टश् छिन्नाभ्रम् इव नश्यति | अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ||
SK
कच्चिन् न उभय-विभ्रष्टश् छिन्न-अभ्रम् इव नश्यति | अप्रतिष्ठो महा-बाहो विमूढो ब्रह्मणः पथि ||
SK
एतं मे संशयं कृष्ण च्छेतुम् अर्हस्य् अशेषतः | त्वदन्यः संशयस्यास्य च्छेत्ता न ह्य् उपपद्यते ||
SK
एतं मे संशयं कृष्ण च्छेतुम् अर्हस्य् अशेषतः | त्वद्-अन्यः संशयस्य अस्य च्छेत्ता न ह्य् उपपद्यते ||
SK
श्रद्धया योगे प्रवृत्तो दृढतराभ्यासरूपयतनवैकल्येन योगसंसिद्धिम् अप्राप्य योगाच् चलितमानसः कां गतिं गच्छति; उभयविभ्रष्टो ऽयं च्छिन्नाभ्रम् इव कच्चिन् न नश्यति? यथा मेघशकलः पूर्वस्माद् बृहतो मेघाच् छिन्नः परं बृहन्तं मेघम् अप्राप्य मध्ये विनष्टो भवति, तथैव कच्चिन् न नश्यति / कथम् उभयविभ्रष्टता? अप्रतिष्ठः, विमूढो ब्रह्मणः पथीति / यथावस्थितं स्वर्गादिसाधनभूतं कर्म फलाभिसन्धिरहितस्यास्य पुरुषस्य स्वफलसाधनत्वेन प्रतिष्ठा न भवतीत्य् अप्रतिष्ठः / प्रक्रान्ते ब्रह्मणः पथि विमूढः तस्मात् पथः प्रच्युतः / अतः उभयविभ्रष्टतया किम् अयं नश्यत्य् एव, उत न नश्यति? तम् एनं संशयम् अशेषतश् छेत्तुम् अर्हसि / स्वतः प्रत्यक्षेण युगपत् सर्वं सदा पश्यतस् त्वत्तो ऽन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते //
SK
श्रद्धया योगे प्रवृत्तो दृढतर-अभ्यास-रूप-यतन-वैकल्येन योग-संसिद्धिम् अप्राप्य योगाच् चलित-मानसः कां गतिं गच्छति; उभय-विभ्रष्टो ऽयं च्छिन्न-अभ्रम् इव कच्चिन् न नश्यति? यथा मेघ-शकलः पूर्वस्माद् बृहतो मेघाच् छिन्नः परं बृहन्तं मेघम् अप्राप्य मध्ये विनष्टो भवति, तथ ऐव कच्चिन् न नश्यति / कथम् उभय-विभ्रष्टता? अप्रतिष्ठः, विमूढो ब्रह्मणः पथि इति / यथा-अवस्थितं स्वर्ग-आदि-साधन-भूतं कर्म फल-अभिसन्धि-रहितस्य अस्य पुरुषस्य स्व-फल-साधनत्वेन प्रतिष्ठा न भवति इत्य् अप्रतिष्ठः / प्रक्रान्ते ब्रह्मणः पथि विमूढः तस्मात् पथः प्रच्युतः / अतः उभय-विभ्रष्टतया किम् अयं नश्यत्य् एव, उत न नश्यति? तम् एनं संशयम् अशेषतश् छेत्तुम् अर्हसि / स्वतः प्रत्यक्षेण युगपत् सर्वं सदा पश्यतस् त्वत्तो ऽन्यः संशयस्य अस्य छेत्ता न ह्य् उपपद्यते //
SK
पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते | न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति ||
SK
पार्थ न एव इह न अमुत्र विनाशस् तस्य विद्यते | न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ||
SK
श्रद्धया योगे प्रक्रान्तस्य तस्मात् प्रच्युतस्येह चामुत्र च विनाशो न विद्यते प्राकृतस्वर्गादिभोगानुभवे ब्रह्मानुभवे चाभिलषितान् अवाप्तिरूपः प्रत्यवायाख्यानिष्टावाप्तिरूपश् च विनाशो न विद्यत इत्यर्थः / न हि निरतिशयकल्याणरूपयोगकृत् कश्चित् कालत्रये ऽपि दुर्गतिं गच्छति //
SK
श्रद्धया योगे प्रक्रान्तस्य तस्मात् प्रच्युतस्य इह च अमुत्र च विनाशो न विद्यते प्राकृत-स्वर्ग-आदि-भोग-अनुभवे ब्रह्म-अनुभवे च अभिलषितान् अवाप्ति-रूपः प्रत्यवाय-आख्य-अनिष्ट-अवाप्ति-रूपश् च विनाशो न विद्यत इत्य्-अर्थः / न हि निरतिशय-कल्याण-रूप-योग-कृत् कश्चित् काल-त्रये ऽपि दुर्गतिं गच्छति //
SK
कथम् अयं भविष्यतीत्य् अत्राह --
SK
कथम् अयं भविष्यति इत्य् अत्रा अह ---
SK
प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः | शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते ||
SK
प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः | शुचीनां श्रीमतां गेहे योग-भ्रष्टो ऽभिजायते ||
SK
यज्जातीयभोगाभिकाङ्क्षया योगात् प्रच्युतो ऽयम्, अतिपुण्यकृतां प्राप्यान् लोकान् प्राप्य तज्जातीयान् अतिकल्याणान् भोगान् योगमाहात्म्याद् एव भुञ्जानो यावत् तद्भोगतृष्णावसानं शश्वतीः समास् तत्रोषित्वा तस्मिन् भोगे वितृष्णः शुचीनां श्रीमताम् योगोपक्रमयोग्यानां कुले योगोपक्रमे भ्रष्टो योगमाहात्म्याज् जायते //
SK
यज्-जातीय-भोग-अभिकाङ्क्षया योगात् प्रच्युतो ऽयम्, अतिपुण्य-कृतां प्राप्यान् लोकान् प्राप्य तज्-जातीयान् अतिकल्याणान् भोगान् योग-माहात्म्याद् एव भुञ्जानो यावत् तद्-भोग-तृष्ण-अवसानं शश्वतीः समास् तत्र उषित्वा तस्मिन् भोगे वितृष्णः शुचीनां श्रीमताम् योग-उपक्रम-योग्यानां कुले योग-उपक्रमे भ्रष्टो योग-माहात्म्याज् जायते //
SK
अथ वा योगिनाम् एव कुले भवति धीमताम् | एतद् धि दुर्लभतरं लोके जन्म यदीदृशम् ||
SK
अथ वा योगिनाम् एव कुले भवति धीमताम् | एतद् धि दुर्लभतरं लोके जन्म यदी इदृशम् ||
SK
परिपक्वयोगश् चलितश् चेत्, योगिनां धीमतां योगं कुर्वतां स्वयम् एव योगोपदेशक्षमाणां महतां कुले भवति; तद् एतद् उभयविधं योगयोग्यानां योगिनां च कुले जन्म लोके प्राकृतानां दुर्लभतरम् / एतत् तु योगमाहात्म्यकृतम् //
SK
परिपक्व-योगश् चलितश् चेत्, योगिनां धीमतां योगं कुर्वतां स्वयम् एव योग-उपदेश-क्षमाणां महतां कुले भवति; तद् एतद् उभय-विधं योग-योग्यानां योगिनां च कुले जन्म लोके प्राकृतानां दुर्लभतरम् / एतत् तु योग-माहात्म्य-कृतम् //
SK
तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् | यतते च ततो भूयः संसिद्धौ कुरुनन्दन ||
SK
तत्र तं बुद्धि-संयोगं लभते पौर्व-दैहिकम् | यतते च ततो भूयः संसिद्धौ कुरु-नन्दन ||
SK
पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः |
SK
पूर्व-अभ्यासेन तेन एव ह्रियते ह्य् अवशो ऽपि सः |
SK
तत्र जन्मनि पौर्वदैहिकं तम् एव योगविषयं बुद्धिसंयोगं लभते / ततः सुप्तप्रबुद्धवद् भूयः संसिद्धौ यतते -- यथा नान्तरायहतो भवति, तथा यतते / तेन पूर्वाभ्यासेन पूर्वेण योगविष्येणाभ्यासेन सः योगभ्रष्टो ह्य् अवशो ऽपि योग एव ह्रियते / प्रसिद्धं ह्य् एतद् योगमाहात्म्यम् इत्यर्थः //
SK
तत्र जन्मनि पौर्व-दैहिकं तम् एव योग-विषयं बुद्धि-संयोगं लभते / ततः सुप्त-प्रबुद्धवद् भूयः संसिद्धौ यतते --- यथा न अन्तर्-आय-हतो भवति, तथा यतते / तेन पूर्व-अभ्यासेन पूर्वेण योग-विष्येण अभ्यासेन सः योग-भ्रष्टो ह्य् अवशो ऽपि योग एव ह्रियते / प्रसिद्धं ह्य् एतद् योग-माहात्म्यम् इत्य्-अर्थः //
SK
जिज्ञासुर् अपि योगस्य शब्दब्रह्मातिवर्तते ||
SK
जिज्ञासुर् अपि योगस्य शब्द-ब्रह्म अतिवर्तते ||
SK
अप्रवृत्तयोगो योगे जिज्ञासुर् अपि ततश् चलितमानसः पुनर् अपि ताम् एव जिज्ञासां प्राप्य कर्मयोगादिकं योगम् अनुष्ठाय शब्दब्रह्मातिवर्तते / शब्दब्रह्म देवमनुष्यपृथिव्यन्तरिक्षस्वर्गादिशब्दाभिलापयोग्यं ब्रह्म प्रकृतिः / प्रकृतिबन्धाद् विमुक्तो देवमनुष्यादिशब्दाभिलापानर्हं ज्ञानानन्दैकतानम् आत्मानं प्राप्नोतीत्यर्थः //
SK
अप्रवृत्त-योगो योगे जिज्ञासुर् अपि ततश् चलित-मानसः पुनर् अपि ताम् एव जिज्ञासां प्राप्य कर्म-योग-आदिकं योगम् अनुष्ठाय शब्द-ब्रह्म अतिवर्तते / शब्द-ब्रह्म देव-मनुष्य-पृथिव्य्-अन्तरिक्ष-स्वर्ग-आदि-शब्द-अभिलाप-योग्यं ब्रह्म प्रकृतिः / प्रकृति-बन्धाद् विमुक्तो देव-मनुष्य-आदि-शब्द-अभिलाप-अनर्हं ज्ञान-आनन्द-एकतानम् आत्मानं प्राप्नोति इत्य्-अर्थः //
SK
प्रयत्नाद् यतमानस् तु योगी संशुद्धकिल्बिषः | अनेकजन्मसंसिद्धस् ततो याति परां गतिम् ||
SK
प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः | अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ||
SK
यत एवं योगमाहात्म्यम्, ततः अनेकजन्मार्जितपुण्यसञ्चयैः संशुद्धकिल्बिषस् संसिद्धिः संजातः प्रयत्नाद् यतमानस् तु योगी चलितो ऽपि पुनः परां गतिं यात्य् एव //
SK
यत एवं योग-माहात्म्यम्, ततः अनेक-जन्म-अर्जित-पुण्य-सञ्चयैः संशुद्ध-किल्बिषस् संसिद्धिः संजातः प्रयत्नाद् यतमानस् तु योगी चलितो ऽपि पुनः परां गतिं यात्य् एव //
SK
अतिशयितपुरुषार्थनिष्ठतया योगिनः सर्वस्माद् आधिक्यम् आह --
SK
अतिशयित-पुरुष-अर्थ-निष्ठतया योगिनः सर्वस्माद् आधिक्यम् आह ---
SK
तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः | कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ||
SK
तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः | कर्मिभ्यश् च अधिको योगी तस्माद् योगी भव अर्जुन ||
SK
केवलतपोभिर् यः पुरुषार्थः साध्यते, आत्मज्ञानव्यतिरिक्तैर् ज्ञानैश् च यः, यश् च केवलैर् अश्वमेधादिभिः कर्मभिः, तेभ्यस् सर्वेभ्यो ऽधिकपुरुषार्थसाधनत्वाद् योगस्य, तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन //
SK
केवल-तपोभिर् यः पुरुष-अर्थः साध्यते, आत्म-ज्ञान-व्यतिरिक्तैर् ज्ञानैश् च यः, यश् च केवलैर् अश्व-मेध-आदिभिः कर्मभिः, तेभ्यस् सर्वेभ्यो ऽधिक-पुरुष-अर्थ-साधनत्वाद् योगस्य, तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश् च अधिको योगी तस्माद् योगी भव अर्जुन //
SK
तद् एवं परविद्याङ्गभूतं प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनम् उक्तम्; अथ परविद्यां प्रस्तौति --
SK
तद् एवं पर-विद्या-अङ्ग-भूतं प्रजा-पति-वाक्य-उदितं प्रत्यग्-आत्म-दर्शनम् उक्तम्; अथ पर-विद्यां प्रस्तौति ---
SK
योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना | श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ||
SK
योगिनाम् अपि सर्वेषां मद्-गतेन अन्तर्-आत्मना | श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ||
SK
योगिनाम् इति पञ्चम्यर्थे षष्ठी / ᳚सर्वभूतस्थम् आत्मानम्᳚ इत्यादिना चतुर्विधा योगिनः प्रतिपादिताः / तेष्व् अनन्तर्गतत्वाद् वक्ष्यमाणस्य योगिनः न निर्धारणे षष्ठी संभवति / अपि सर्वेषाम् इति सर्वशब्दनिर्दिष्टास् तपस्विप्रभृतयः / तत्राप्य् उक्तेन न्यायेन पञ्चम्यर्थो ग्रहीतव्यः / योगिभ्यः, अपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः / तदपेक्षया अवरत्वे तपस्विप्रभृतीनां योगिनां च न कश्चिद्विशेष इत्यर्थः; मेर्वपेक्षया सर्षपाणाम् इव / यद्य् अपि सर्षपेषु अन्योन्यन्यूनाधिकभावो विद्यते -- तथापि मेर्वपेक्षया अवरत्वनिर्देशः समानः / मत्प्रियत्वातिरेकेन अनन्यधारणस्वभावतया मद्गतेन अन्तरात्मना मनसा, श्रद्धावान् अत्यर्थमत्प्रियत्वेन क्षणमात्रविश्लेषासहतया मत्प्राप्तिप्रवृत्तौ त्वरावान् यो मां भजते -- मां विचित्रानन्तभोग्यभोक्तृवर्गभोगोपकरणभोगस्थानपरिपूर्णनिखिलजगदुदयविभवलयलीलम्, अस्पृष्टाशेषदोषानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृत्यसङ्ख्येयकल्याणगुणगणनिधिम्, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयाउज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपम्, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्, अपारकारुण्यसौशील्यवात्सल्योदार्यमहोदधिम्, अनालोचितविशेषाशेषलोकशरण्यम्, प्रणतार्तिहरम्, आश्रितवात्सल्यैकजलधिम्, अखिलम् अनुजनयनविषयतां गतम्, अजहत्स्वस्वभावम्, वसुदेवगृहे ऽवतीर्णम्, अनवधिकातिशयतेजसा निखिलं जगद् भासयन्तम्, आत्मकान्त्या विश्वम् आप्याययन्तम्, भजते सेवते, उपास्त इत्यर्थः -- स मे युक्ततमो मतः -- स सर्वेभ्यश् श्रेष्टतमः इति सर्वं सर्वदा यथावस्थितं स्वत एव साक्षात्कुर्वन् अहं मन्ये //
SK
योगिनाम् इति पञ्चम्य्-अर्थे षष्ठी / ᳚सर्व-भूत-स्थम् आत्मानम्᳚ इत्य्-आदिना चतुर्-विधा योगिनः प्रतिपादिताः / तेष्व् अनन्तर्गतत्वाद् वक्ष्यमाणस्य योगिनः न निर्धारणे षष्ठी संभवति / अपि सर्वेषाम् इति सर्व-शब्द-निर्दिष्टास् तपस्-विप्र-भृतयः / तत्र अप्य् उक्तेन न्यायेन पञ्चम्य्-अर्थो ग्रहीतव्यः / योगिभ्यः, अपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः / तद्-अपेक्षया अवरत्वे तपस्वि-प्रभृतीनां योगिनां च न कश्चिद्-विशेष इत्य्-अर्थः; मेर्व्-अपेक्षया सर्षपाणाम् इव / यद्य् अपि सर्षपेषु अन्योन्य-न्यून-अधिक-भावो विद्यते --- तथ आपि मेर्व्-अपेक्षया अवरत्व-निर्देशः समानः / मत्-प्रियत्व-अतिरेकेन अनन्य-धारण-स्व-भावतया मद्-गतेन अन्तर्-आत्मना मनसा, श्रद्धावान् अत्यर्थ-मत्-प्रियत्वेन क्षण-मात्र-विश्लेष-असहतया मत्-प्राप्ति-प्रवृत्तौ त्वरावान् यो मां भजते --- मां विचित्र-अनन्त-भोग्य-भोक्तृ-वर्ग-भोग-उपकरण-भोग-स्थान-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलम्, अस्पृष्ट-अशेष-दोष-अनवधिक-अतिशय-ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असङ्ख्येय-कल्याण-गुण-गण-निधिम्, स्व-अभिमत-अनुरूप-एक-रूप-अचिन्त्य-दिव्य-अद्भुत-नित्य-निरवद्य-निरतिशय-औज्ज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवन-आद्य्-अनन्त-गुण-निधि-दिव्य-रूपम्, वाङ्-मनसा-अपरिच्छेद्य-स्व-रूप-स्व-भावम्, अपार-कारुण्य-सौशील्य-वात्सल्य-उदार्य-महा-उदधिम्, अनालोचित-विशेष-अशेष-लोक-शरण्यम्, प्रणत-अर्ति-हरम्, आश्रित-वात्सल्य-एक-जलधिम्, अखिलम् अनुज-नयन-विषयतां गतम्, अजहत्-स्व-स्व-भावम्, वसु-देव-गृहे ऽवतीर्णम्, अनवधिक-अतिशय-तेजसा निखिलं जगद् भासयन्तम्, आत्म-कान्त्या विश्वम् आप्याययन्तम्, भजते सेवते, उपास्त इत्य्-अर्थः --- स मे युक्ततमो मतः --- स सर्वेभ्यश् श्रेष्टतमः इति सर्वं सर्वदा यथा-अवस्थितं स्वत एव साक्षात्-कुर्वन् अहं मन्ये //
SK
प्रथमेनाध्यायषट्केन -- परमप्राप्यभूतस्य परस्य ब्रह्मणो निरवधस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतस्य सत्यसङ्कल्पस्य महाविभूतेः श्रीमतो नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतम् -- आत्मज्ञानपूर्वककर्मानुष्ठानसाध्यं प्राप्तुः प्रत्यगात्मनो याथात्म्यदार्शनम् उक्तम् / इदानीं मध्यमेन षट्केन परब्रह्मभूतपरमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यम् उच्यते / तद् एतद् उत्तरत्र, ᳚यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् / स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः // Bह्GR_१.᳚ इत्य् आरभ्य, ᳚विमुच्य निर्ममश् शान्तो ब्रह्मभूयाय कल्पते / ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति / समस् सर्वेषु भूतेषु मद्भक्तिं लभते पराम् // इति संक्षिप्य वक्ष्यते /
SK
प्रथमेन अध्याय-षट्केन --- परम-प्राप्य-भूतस्य परस्य ब्रह्मणो निरवधस्य निखिल-जगद्-एक-कारणस्य सर्व-ज्ञस्य सर्व-भूतस्य सत्य-सङ्कल्पस्य महा-विभूतेः श्रीमतो नारायणस्य प्राप्त्य्-उपाय-भूतं तद्-उपासनं वक्तुं तद्-अङ्ग-भूतम् --- आत्म-ज्ञान-पूर्वक-कर्म-अनुष्ठान-साध्यं प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दार्शनम् उक्तम् / इदानीं मध्यमेन षट्केन पर-ब्रह्म-भूत-परम-पुरुष-स्व-रूपं तद्-उपासनं च भक्ति-शब्द-वाच्यम् उच्यते / तद् एतद् उत्तरत्र, ᳚यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् / स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः // Bह्GR_१.᳚ इत्य् आरभ्य, ᳚विमुच्य निर्ममश् शान्तो ब्रह्म-भूयाय कल्पते / ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न काङ्क्षति / समस् सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् // इति संक्षिप्य वक्ष्यते /
SK
उपानसं तु भक्तिरूपापन्नम् एव परप्राप्त्युपायभूतम् इति वेदान्तवाक्यसिद्धम् / ᳚तम् एव विदित्वातिमृत्युम् एति᳚, ᳚तम् एवं विद्वान् अमृत इह भवति᳚ इत्यादिना अभिहितं वेदनम्, ᳚आत्मा वा अरे द्रष्टव्यः ..... निदिध्यासितव्यः᳚, ᳚आत्मानम् एव लोकम् उपासीत᳚, ᳚सत्त्वशुद्धौ ध्रुवा स्मृतिः; स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः᳚, ᳚भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः / क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे᳚ इत्यादिभिर् ऐकार्थ्यात् स्मृतिसन्तानरूपं दर्शनसमानाकारं ध्यानोपासनशब्दवाच्यम् इत्य् अवगम्यते / पुनश् च, ᳚नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन / यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम्᳚ इति विशेषणात् परेणात्मना वरणीयताहेतुभूतं स्मर्यमाणात्यर्थप्रियत्वेन स्वयम् अप्य् अत्यर्थप्रियरूपं स्मृतिसन्तानम् एवोपासनशब्दवाच्यम् इति हि निश्चीयते / तद् एव हि भक्तिर् इत्य् उच्यते, ᳚स्नेहपूर्वम् अनुध्यानं भक्तिर् इत्य् अभिधीयते᳚ इत्यादिवचनात् / अतः ᳚तम् एवं विद्वान् अमृत इह भवति, नान्यः पन्था अयनाय विद्यते᳚, ᳚नाहं वेदैर् न तपसा न दानेन न चेज्यया / शक्य एवंविधो द्रष्टुं दृष्टवान् असि माम् यथा // भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन / ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप᳚ इत्य् अनयोर् एकार्थत्वं सिद्धं भवति /
SK
उपानसं तु भक्ति-रूप-आपन्नम् एव पर-प्राप्त्य्-उपाय-भूतम् इति वेद-अन्त-वाक्य-सिद्धम् / ᳚तम् एव विदित्व आतिमृत्युम् एति᳚, ᳚तम् एवं विद्वान् अमृत इह भवति᳚ इत्य्-आदिना अभिहितं वेदनम्, ᳚आत्मा वा अरे द्रष्टव्यः ..... निदिध्यासितव्यः᳚, ᳚आत्मानम् एव लोकम् उपासीत᳚, ᳚सत्त्व-शुद्धौ ध्रुवा स्मृतिः; स्मृति-लम्भे सर्व-ग्रन्थीनां विप्रमोक्षः᳚, ᳚भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः / क्षीयन्ते च अस्य कर्माणि तस्मिन् दृष्टे पर-अवरे᳚ इत्य्-आदिभिर् ऐकार्थ्यात् स्मृति-सन्तान-रूपं दर्शन-समान-आकारं ध्यान-उपासन-शब्द-वाच्यम् इत्य् अवगम्यते / पुनश् च, ᳚न अयम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन / यम् एव एष वृणुते तेन लभ्यस् तस्य एष आत्मा विवृणुते तनूं स्वाम्᳚ इति विशेषणात् परेणा अत्मना वरणीयता-हेतु-भूतं स्मर्यमाण-अत्यर्थ-प्रियत्वेन स्वयम् अप्य् अत्यर्थ-प्रिय-रूपं स्मृति-सन्तानम् एव उपासन-शब्द-वाच्यम् इति हि निश्चीयते / तद् एव हि भक्तिर् इत्य् उच्यते, ᳚स्नेह-पूर्वम् अनुध्यानं भक्तिर् इत्य् अभिधीयते᳚ इत्य्-आदि-वचनात् / अतः ᳚तम् एवं विद्वान् अमृत इह भवति, न अन्यः पन्था अयनाय विद्यते᳚, ᳚न अहं वेदैर् न तपसा न दानेन न च इज्यया / शक्य एवं-विधो द्रष्टुं दृष्टवान् असि माम् यथा // भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन / ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्-तप᳚ इत्य् अनयोर् एक-अर्थत्वं सिद्धं भवति /
SK
तत्र सप्तमे तावद् उपास्यभूतपरमपुरुषयाथात्म्यं प्रकृत्या तत्तिरोधानं तन्निवृत्तये भगवत्प्रपत्तिः, उपासकविधाभेदः, ज्ञानिनश् श्रैष्ठ्यं चोच्यते //
SK
तत्र सप्तमे तावद् उपास्य-भूत-परम-पुरुष-याथात्म्यं प्रकृत्या तत्-तिरोधानं तन्-निवृत्तये भगवत्-प्रपत्तिः, उपासक-विधा-भेदः, ज्ञानिनश् श्रैष्ठ्यं च उच्यते //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source