Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 17

SK
ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः | तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ||
SK
ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धय आन्विताः | तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ||
SK
शास्त्रविधिम् उत्सृज्य श्रद्धयान्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वम् ? आहोस्विद् रजः ? अथ तमः ? निष्ठा स्थितिः; स्थीयते ऽस्मिन्न् इति स्थितिः सत्त्वादिर् एव निष्ठेत्य् उच्यते / तेषां किं सत्त्वे स्थितिः ? किं वा रजसि ? किं वा तमसीत्यर्थः //
SK
शास्त्र-विधिम् उत्सृज्य श्रद्धय आन्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वम् ? आहोस्विद् रजः ? अथ तमः ? निष्ठा स्थितिः; स्थीयते ऽस्मिन्न् इति स्थितिः सत्त्व-आदिर् एव निष्ठ ईत्य् उच्यते / तेषां किं सत्त्वे स्थितिः ? किं वा रजसि ? किं वा तमसि इत्य्-अर्थः //
SK
एवं पृष्टो भगवान् अशास्त्रविहितश्रद्धायास् तत्पूर्वकस्य च यागादेर् निष्फलत्वं हृदि निधाय शास्त्रीयस्यैव यागादेर् गुणतस् त्रैविध्यं प्रतिपादयितुं शास्त्रीयश्रद्धायाः त्रैविध्यं तावद् आह --
SK
एवं पृष्टो भगवान् अशास्त्र-विहित-श्रद्धायास् तत्-पूर्वकस्य च याग-आदेर् निष्फलत्वं हृदि निधाय शास्त्रीयस्य एव याग-आदेर् गुणतस् त्रैविध्यं प्रतिपादयितुं शास्त्रीय-श्रद्धायाः त्रैविध्यं तावद् आह ---
SK
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा | सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||
SK
त्रि-विधा भवति श्रद्धा देहिनां सा स्व-भाव-जा | सात्त्विकी राजसी च एव तामसी च इति तां शृणु ||
SK
सर्वेषां देहिनां श्रद्धा त्रिविधा भवति / सा च स्वभावजा स्वभावः स्वासाधारणो भावः, प्राचीनवासनानिमित्तः तत्तद्रुचिविशेषः / यत्र रुचिः तत्र श्रद्धा जायते / श्रद्धा हि स्वाभिमतं साधयत्य् एतद् इति विश्वासपूर्विका साधने त्वरा / वासना रुचिश् च श्रद्धा चात्मधर्माः गुणसंसर्गजाः; तेषाम् आत्मधर्माणां वासनादीनां जनकाः देहेन्द्रियान्तःकरणविषयगता धर्माः कार्यैकनिरूपणीयाः सत्त्वादयो गुणाः सत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः / ततश् चेयं श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा / ताम् इमां श्रद्धां शृणु; सा श्रद्धा यत् स्वभावा, तं स्वभावं शृण्व् इत्यर्थः //
SK
सर्वेषां देहिनां श्रद्धा त्रि-विधा भवति / सा च स्व-भाव-जा स्व-भावः स्व-असाधारणो भावः, प्राचीन-वासना-निमित्तः तत्-तद्-रुचि-विशेषः / यत्र रुचिः तत्र श्रद्धा जायते / श्रद्धा हि स्व-अभिमतं साधयत्य् एतद् इति विश्वास-पूर्विका साधने त्वरा / वासना रुचिश् च श्रद्धा चा अत्म-धर्माः गुण-संसर्ग-जाः; तेषाम् आत्म-धर्माणां वासना-आदीनां जनकाः देह-इन्द्रिय-अन्तःकरण-विषय-गता धर्माः कार्य-एक-निरूपणीयाः सत्त्व-आदयो गुणाः सत्त्व-आदि-गुण-युक्त-देह-आद्य्-अनुभव-जा इत्य्-अर्थः / ततश् च इयं श्रद्धा सात्त्विकी राजसी तामसी च इति त्रि-विधा / ताम् इमां श्रद्धां शृणु; सा श्रद्धा यत् स्व-भावा, तं स्व-भावं शृण्व् इत्य्-अर्थः //
SK
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत | श्रद्धामयो ऽयं पुरुषो यो यच्छ्रद्धः स एव सः ||
SK
सत्त्व-अनुरूपा सर्वस्य श्रद्धा भवति भारत | श्रद्धा-मयो ऽयं पुरुषो यो यच्-छ्रद्धः स एव सः ||
SK
सत्त्वम् अन्तःकरणम् / सर्वस्य पुरुषस्यान्तःकरणानुरूपा श्रद्धा भवति / अन्तःकरणं यादृशगुणयुक्तम्, तद्विषया श्रद्धा जायत इत्यर्थः / सत्त्वशब्दः पूर्वोक्तानां देहेन्द्रियादीनां प्रदर्शनार्थः / श्रद्धामयो ऽयं पुरुषः / श्रद्धामयः श्रद्धापरिणामः / यो यच्छ्रद्धः यः पुरुषो यादृश्या श्रद्धया युक्तः, स एव सः स तादृशश्रद्धापरिणामः / पुण्यकर्मविषये श्रद्धायुक्तश् चेत्, पुण्यकर्मफलसंयुक्तो भवतीति श्रद्धाप्रधानः फलसंयोग इत्युक्तं भवति //
SK
सत्त्वम् अन्तःकरणम् / सर्वस्य पुरुषस्य अन्तःकरण-अनुरूपा श्रद्धा भवति / अन्तःकरणं यादृश-गुण-युक्तम्, तद्-विषया श्रद्धा जायत इत्य्-अर्थः / सत्त्व-शब्दः पूर्व-उक्तानां देह-इन्द्रिय-आदीनां प्रदर्शन-अर्थः / श्रद्धा-मयो ऽयं पुरुषः / श्रद्धा-मयः श्रद्धा-परिणामः / यो यच्-छ्रद्धः यः पुरुषो यादृश्या श्रद्धया युक्तः, स एव सः स तादृश-श्रद्धा-परिणामः / पुण्य-कर्म-विषये श्रद्धा-अयुक्तश् चेत्, पुण्य-कर्म-फल-संयुक्तो भवति इति श्रद्धा-प्रधानः फल-संयोग इत्य्-उक्तं भवति //
SK
तद् एव विवृणोति --
SK
तद् एव विवृणोति ---
SK
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः | प्रेतान् भूतगणांश् चान्ये यजन्ते तामसा जनाः ||
SK
यजन्ते सात्त्विका देवान् यक्ष-रक्षांसि राजसाः | प्रेतान् भूत-गणांश् च अन्ये यजन्ते तामसा जनाः ||
SK
सत्त्वगुणप्रचुराः सात्त्विक्या श्रद्धया युक्ताः देवान् यजन्ते / दुःखासंभिन्नोत्कृष्टसुखहेतुभूतदेवयागविषया श्रद्धा सात्त्विकीत्युक्तं भवति / राजसा यक्षरक्षांसि यजन्ते / अन्ये तु तामसा जनाः प्रेतान् भूतगणान् यजन्ते / दुःखसंभिन्नाल्पसुखजननी राजसी श्रद्धा; दुःखप्रायात्यल्पसुखजननी तामसीत्यर्थः //
SK
सत्त्व-गुण-प्रचुराः सात्त्विक्या श्रद्धया युक्ताः देवान् यजन्ते / दुःख-असंभिन्न-उत्कृष्ट-सुख-हेतु-भूत-देव-याग-विषया श्रद्धा सात्त्विकि ईत्य्-उक्तं भवति / राजसा यक्ष-रक्षांसि यजन्ते / अन्ये तु तामसा जनाः प्रेतान् भूत-गणान् यजन्ते / दुःख-संभिन्न-अल्प-सुख-जननी राजसी श्रद्धा; दुःख-प्राय आत्यल्प-सुख-जननी तामसि ईत्य्-अर्थः //
SK
एवं शास्त्रीयेष्व् एव यागादिषु श्रद्धायुक्तेषु गुणतः फलविशेषः. अशास्त्रीयेषु तपोयागप्रभृतिषु मदनुशासनविपरीतत्वेन न कश्चिद् अपि सुखलवः, अपि त्व् अनर्थ एवेति हृदि निहितं व्यञ्जयन् आह --
SK
एवं शास्त्रीयेष्व् एव याग-आदिषु श्रद्धा-युक्तेषु गुणतः फल-विशेषः. अशास्त्रीयेषु तपो-याग-प्रभृतिषु मद्-अनुशासन-विपरीतत्वेन न कश्चिद् अपि सुख-लवः, अपि त्व् अनर्थ एव इति हृदि निहितं व्यञ्जयन् आह ---
SK
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः | दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ||
SK
अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः | दम्भ-अहङ्कार-संयुक्ताः काम-राग-बल-अन्विताः ||
SK
कर्शयन्तः शरीरस्थं भूतग्रामम् अचेतसः | मां चैवान्तश्शरीरस्थं तान् विद्ध्य् आसुरनिश्चयान् ||
SK
कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः | मां च एव अन्तश्-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ||
SK
अशास्त्रविहितम् अतिघोरम् अपि तपो ये जनाः तप्यन्ते / प्रदर्शनार्थम् इदम् / अशास्त्रविहितं बह्वायासं यागादिकं ये कुर्वते, दम्भाहंकारसंयुक्ताः कामरागबलान्विताः शरीरस्थं पृथिव्यादिभूतसमूहं कर्शयन्तः, मदंशभूतं जीवं चान्तश्शरीरस्थं कर्शयन्तो ये तप्यन्ते, यागादिकं च कुर्वते; तान् आसुरनिश्चयान् विद्धि / असुराणां निश्चय आसुरो निश्चयः; असुरा हि मदाज्ञाविपरीतकारिणः; मदाज्ञाविपरीतकारित्वात् तेषां सुखलवसंबन्धो न विद्यते; अपि त्वननर्थव्राते पतन्तीति पूर्वम् एवोक्तम्, ᳚पतन्ति नरके ऽश्चौ᳚ इति //
SK
अशास्त्र-विहितम् अतिघोरम् अपि तपो ये जनाः तप्यन्ते / प्रदर्शन-अर्थम् इदम् / अशास्त्र-विहितं बह्व्-आयासं याग-आदिकं ये कुर्वते, दम्भ-अहंकार-संयुक्ताः काम-राग-बल-अन्विताः शरीर-स्थं पृथिव्य्-आदि-भूत-समूहं कर्शयन्तः, मद्-अंश-भूतं जीवं च अन्तश्-शरीर-स्थं कर्शयन्तो ये तप्यन्ते, याग-आदिकं च कुर्वते; तान् आसुर-निश्चयान् विद्धि / असुराणां निश्चय आसुरो निश्चयः; असुरा हि मद्-आज्ञा-विपरीत-कारिणः; मद्-आज्ञा-विपरीत-कारित्वात् तेषां सुख-लव-संबन्धो न विद्यते; अपि त्वन्-अनर्थ-व्राते पतन्ति इति पूर्वम् एव उक्तम्, ᳚पतन्ति नरके ऽश्चौ᳚ इति //
SK
अथ प्रकृतम् एव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषं प्रपञ्चयति / तत्राहारमूलत्वात् सत्त्वादिवृद्धेर् आहारत्रैविध्यं प्रथमम् उच्यते / ᳚अन्नमयं हि सोम्य मनः᳚, ᳚आहारशुद्धौ सत्त्वशुद्धिः᳚ इति हि श्रूयते --
SK
अथ प्रकृतम् एव शास्त्रीयेषु यज्ञ-आदिषु गुणतो विशेषं प्रपञ्चयति / तत्रा अहार-मूलत्वात् सत्त्व-आदि-वृद्धेर् आहार-त्रैविध्यं प्रथमम् उच्यते / ᳚अन्न-मयं हि सोम्य मनः᳚, ᳚आहार-शुद्धौ सत्त्व-शुद्धिः᳚ इति हि श्रूयते ---
SK
आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः | यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ||
SK
आहारस् त्व् अपि सर्वस्य त्रि-विधो भवति प्रियः | यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ||
SK
आहारो ऽपि सर्वस्य प्राणिजातस्य सत्त्वादिगुणत्रयान्वयेन त्रिविधः प्रियो भवति / तथैव यज्ञो ऽपि त्रिविधः, तथा तपः दानं च / तेषाम् भेदम् इमं शृणु -- तेषाम् आहारयज्ञतपोदानानां सत्त्वादिभेदेनेमम् उच्यमानं भेदं शृणु //
SK
आहारो ऽपि सर्वस्य प्राणि-जातस्य सत्त्व-आदि-गुण-त्रय-अन्वयेन त्रि-विधः प्रियो भवति / तथ ऐव यज्ञो ऽपि त्रि-विधः, तथा तपः दानं च / तेषाम् भेदम् इमं शृणु --- तेषाम् आहार-यज्ञ-तपो-दानानां सत्त्व-आदि-भेदेन इमम् उच्यमानं भेदं शृणु //
SK
आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः | रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियः ||
SK
आयुस्-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः | रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियः ||
SK
सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति / सत्त्वमयाश् चाहारा आयुर्विवर्धनाः; पुनर् अपि सत्त्वस्य विवर्धनाः / सत्त्वम् अन्तःकरणम्; अन्तःकरणकार्यं ज्ञानम् इह सत्त्वशब्देनोच्यते / ᳚सत्त्वात् संजायते ज्ञानम्᳚ इति सत्त्वस्य ज्ञानविवृद्धिहेतुत्वात्, आहारो ऽपि सत्त्वमयो ज्ञानविवृद्धिहेतुः / तथा बलारोग्ययोर् अपि विवर्धनाः / सुखप्रीत्योर् अपि विवर्धनाः -- परिणामकाले स्वयम् एव सुखस्य विवर्धनाः ;तथा प्रीतिहेतुभूतकर्मारम्भद्वारेण प्रीतिवर्धनाः / रस्याः मधुररसोपेताः / स्निग्धाः स्नेहयुक्ताः / स्थिराः स्थिरपरिणामाः / हृद्याः रमणीयवेषाः / एवंविधाः सत्त्वमया आहाराः सात्त्विकस्य पुरुषस्य प्रियाः //
SK
सत्त्व-गुण-उपेतस्य सत्त्व-मया आहाराः प्रिया भवन्ति / सत्त्व-मयाश् चा अहारा आयुर्-विवर्धनाः; पुनर् अपि सत्त्वस्य विवर्धनाः / सत्त्वम् अन्तःकरणम्; अन्तःकरण-कार्यं ज्ञानम् इह सत्त्व-शब्देन उच्यते / ᳚सत्त्वात् संजायते ज्ञानम्᳚ इति सत्त्वस्य ज्ञान-विवृद्धि-हेतुत्वात्, आहारो ऽपि सत्त्व-मयो ज्ञान-विवृद्धि-हेतुः / तथा बल-आरोग्ययोर् अपि विवर्धनाः / सुख-प्रीत्योर् अपि विवर्धनाः --- परिणाम-काले स्वयम् एव सुखस्य विवर्धनाः ;तथा प्रीति-हेतु-भूत-कर्म-आरम्भ-द्वारेण प्रीति-वर्धनाः / रस्याः मधुर-रस-उपेताः / स्निग्धाः स्नेह-युक्ताः / स्थिराः स्थिर-परिणामाः / हृद्याः रमणीय-वेषाः / एवं-विधाः सत्त्व-मया आहाराः सात्त्विकस्य पुरुषस्य प्रियाः //
SK
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः | आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||
SK
कट्व्-अम्ल-लवण-अत्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः | आहारा राजसस्य इष्टा दुःख-शोक-आमय-प्रदाः ||
SK
कटुरसाः, अम्लरसाः, लवणोत्कटाः, अत्युष्णाः, अतितीक्षणाः, रूक्षाः, विदाहिनश् चेति कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः / अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगास् तीक्ष्णाः; शोषकरा रूक्षाः; तापकरा विदाहिनः / एवंविधा आहारा राजसस्येष्टाः / ते च रजोमयत्वाद् दुःखशोकामयवर्धनाः रजोवर्धनाश् च //
SK
कटु-रसाः, अम्ल-रसाः, लवण-उत्कटाः, अत्युष्णाः, अतितीक्षणाः, रूक्षाः, विदाहिनश् च इति कट्व्-अम्ल-लवण-अत्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः / अतिशैत्य-अतितैक्ष्ण्य-आदिना दुरुपयोगास् तीक्ष्णाः; शोष-करा रूक्षाः; ताप-करा विदाहिनः / एवं-विधा आहारा राजसस्य इष्टाः / ते च रजो-मयत्वाद् दुःख-शोक-आमय-वर्धनाः रजो-वर्धनाश् च //
SK
यातयामं गतरसं पूति पर्युषितं च यत् | उच्छिष्टम् अपि चामेध्यं भोजनं तामसप्रियम् ||
SK
यात-यामं गत-रसं पूति पर्युषितं च यत् | उच्छिष्टम् अपि च अमेध्यं भोजनं तामस-प्रियम् ||
SK
यातयामम् चिरकालावस्थितम्; गतरसम् त्यक्तस्वाभाविकरसम्; पूति दुर्गन्धोपेतम्, पर्युषितम् कालातिपत्त्या रसान्तरापन्नम्; उच्छिष्टम् गुर्वादिभ्यो ऽन्येषां भुक्तशिष्टम्; अमेध्यम् अयज्ञार्हम्; अयज्ञशिष्टम् इत्यर्थः / एवंविधं तमोमयं भोजनं तामसप्रियं भवति / भुज्यत इति आहार एव भोजनम् / पुनश् च तमसो वर्धनम् / अतो हितैषिभिः सत्त्वविवृद्धये सात्त्विकाहार एव सेव्यः //
SK
यात-यामम् चिर-काल-अवस्थितम्; गत-रसम् त्यक्त-स्वाभाविक-रसम्; पूति दुर्गन्ध-उपेतम्, पर्युषितम् काल-अतिपत्त्या रस-अन्तर-आपन्नम्; उच्छिष्टम् गुर्व्-आदिभ्यो ऽन्येषां भुक्त-शिष्टम्; अमेध्यम् अयज्ञ-अर्हम्; अयज्ञ-शिष्टम् इत्य्-अर्थः / एवं-विधं तमो-मयं भोजनं तामस-प्रियं भवति / भुज्यत इति आहार एव भोजनम् / पुनश् च तमसो वर्धनम् / अतो हित-एषिभिः सत्त्व-विवृद्धये सात्त्विक-आहार एव सेव्यः //
SK
अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो य इज्यते | यष्टव्यम् एवेति मनस् समाधाय स सात्त्विकः ||
SK
अफल-आकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते | यष्टव्यम् एव इति मनस् समाधाय स सात्त्विकः ||
SK
फलाकाङ्क्षारहितैः पुरुषैः विधिदृष्टः शास्त्रदृष्टः मन्त्रद्रव्यक्रियादिभिर् युक्तः, यष्टव्यम् एवेति भगवदाराधनत्वेन स्वयंप्रयोजनतया यष्टव्यम् इति मनस् समाधाय यो यज्ञ इज्यते, स सात्त्विकः //
SK
फल-आकाङ्क्षा-रहितैः पुरुषैः विधि-दृष्टः शास्त्र-दृष्टः मन्त्र-द्रव्य-क्रिया-आदिभिर् युक्तः, यष्टव्यम् एव इति भगवद्-आराधनत्वेन स्वयं-प्रयोजनतया यष्टव्यम् इति मनस् समाधाय यो यज्ञ इज्यते, स सात्त्विकः //
SK
अभिसन्धाय तु फलं दम्भार्थम् अपि चैव यः | इज्यते भरतश्रेष्थ तं यज्ञं विद्धि राजसम् ||
SK
अभिसन्धाय तु फलं दम्भ-अर्थम् अपि च एव यः | इज्यते भरत-श्रेष्थ तं यज्ञं विद्धि राजसम् ||
SK
फलाभिसन्धियुक्तैर् दम्भगर्भो यशःफलश् च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि //
SK
फल-अभिसन्धि-युक्तैर् दम्भ-गर्भो यशः-फलश् च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि //
SK
विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् | श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ||
SK
विधि-हीनम् असृष्ट-अन्नं मन्त्र-हीनम् अदक्षिणम् | श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ||
SK
विधिहीनम् ब्राह्मणोक्तिहीनम्; सदाचारयुक्तैर् विद्वद्भिर् ब्राह्मणैर् यजस्वेत्युक्तिहीनम् इत्यर्थः; असृष्टान्नं अचोदितद्रव्यम्, मन्त्रहीनम् अदक्षिणं श्रद्धाविरहितं च यज्ञं तामसं परिचक्षते //
SK
विधि-हीनम् ब्राह्मण-उक्ति-हीनम्; सद्-आचार-युक्तैर् विद्वद्भिर् ब्राह्मणैर् यजस्व इत्य्-उक्ति-हीनम् इत्य्-अर्थः; असृष्ट-अन्नं अचोदित-द्रव्यम्, मन्त्र-हीनम् अदक्षिणं श्रद्धा-विरहितं च यज्ञं तामसं परिचक्षते //
SK
अथ तपसो गुणतस् त्रैविध्यं वक्तुं तस्य शरीरवाङ्मनोनिष्पाद्यतया स्वरूपभेदं तावद् आह --
SK
अथ तपसो गुणतस् त्रैविध्यं वक्तुं तस्य शरीर-वाङ्-मनो-निष्पाद्यतया स्व-रूप-भेदं तावद् आह ---
SK
देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् | ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ||
SK
देव-द्वि-ज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् | ब्रह्म-चर्यम् अहिंसा च शारीरं तप उच्यते ||
SK
देवद्विजगुरुप्राज्ञानां पूजनम्, शौचम् तीर्थस्नानादिकम्, आर्जवम् यथामनःशरीरवृत्तम्, ब्रह्मचर्यम् योषित्सु भोग्यताबुद्धियुक्तेक्षणादिरहितत्वम्, अहिंसा अप्राणिपीडा; एतच् छरीरं तप उच्यते //
SK
देव-द्वि-ज-गुरु-प्राज्ञानां पूजनम्, शौचम् तीर्थ-स्नान-आदिकम्, आर्जवम् यथा-मनः-शरीर-वृत्तम्, ब्रह्म-चर्यम् योषित्सु भोग्यता-बुद्धि-युक्त-ईक्षण-आदि-रहितत्वम्, अहिंसा अप्राणि-पीडा; एतच् छरीरं तप उच्यते //
SK
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् | स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ||
SK
अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् | स्व-अध्याय-अभ्यसनं च एव वाङ्-मयं तप उच्यते ||
SK
परेषाम् अनुद्वेगकरं सत्यं प्रियहितं च यद् वाक्यं स्वाध्यायाभ्यसनं चेत्य् एतद् वाङ्मयं तप उच्यते //
SK
परेषाम् अनुद्वेग-करं सत्यं प्रिय-हितं च यद् वाक्यं स्व-अध्याय-अभ्यसनं च इत्य् एतद् वाङ्-मयं तप उच्यते //
SK
मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः | भावसंशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ||
SK
मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः | भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ||
SK
मनःप्रसादः मनसः क्रोधादिरहितत्वम्, सौम्यत्वम् मनसः परेषाम् अभ्युदयप्रावण्यम्, मौनं -- मनसा वाक्प्रवृत्तिनियमनम्, आत्मविनिग्रहः मनोवृत्तेर् ध्येयविषये ऽवस्थापनम्, भावशुद्धिः आत्मव्यतिरिक्तविषयचिन्तारहितत्वम्; एतन् मानसं तपः //
SK
मनः-प्रसादः मनसः क्रोध-आदि-रहितत्वम्, सौम्यत्वम् मनसः परेषाम् अभ्युदय-प्रावण्यम्, मौनं --- मनसा वाक्-प्रवृत्ति-नियमनम्, आत्म-विनिग्रहः मनो-वृत्तेर् ध्येय-विषये ऽवस्थापनम्, भाव-शुद्धिः आत्म-व्यतिरिक्त-विषय-चिन्ता-रहितत्वम्; एतन् मानसं तपः //
SK
श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः | अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ||
SK
श्रद्धया परया तप्तं तपस् तत् त्रि-विधं नरैः | अफल-आकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ||
SK
अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः, युक्तैः परमपुरुषाराधनरूपम् इदम् इति चिन्तायुक्तैः नरैः परया श्रद्धया यत् त्रिविधं तपः कायवाङ्मनोभिस् तप्तम्, तत् सात्त्विकं परिचक्षते //
SK
अफल-आकाङ्क्षिभिः फल-आकाङ्क्षा-रहितैः, युक्तैः परम-पुरुष-आराधन-रूपम् इदम् इति चिन्ता-युक्तैः नरैः परया श्रद्धया यत् त्रि-विधं तपः काय-वाङ्-मनोभिस् तप्तम्, तत् सात्त्विकं परिचक्षते //
SK
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् | क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ||
SK
सत्-कार-मान-पूजा-अर्थं तपो दम्भेन च एव यत् | क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ||
SK
मनसा आदरः सत्कारः, वाचा प्रशंसा मानः, शरीरो नमस्कारादिः पूजा / फलाभिसन्धिपूर्वकं सत्काराद्यर्थं च दम्भेन हेतुना यत् तपः क्रियते, तद् इह राजसं प्रोक्तम्; स्वर्गादिफलसाधनत्वेनास्थिरत्वाच् चलम् अध्रुवम् / चलत्वम् पातभयेन चलनहेतुत्वम्, अध्रुवत्वम् क्षयिष्णुत्वम् //
SK
मनसा आदरः सत्-कारः, वाचा प्रशंसा मानः, शरीरो नमस्कार-आदिः पूजा / फल-अभिसन्धि-पूर्वकं सत्-कार-आद्य्-अर्थं च दम्भेन हेतुना यत् तपः क्रियते, तद् इह राजसं प्रोक्तम्; स्वर्ग-आदि-फल-साधनत्वेन अस्थिरत्वाच् चलम् अध्रुवम् / चलत्वम् पात-भयेन चलन-हेतुत्वम्, अध्रुवत्वम् क्षयिष्णुत्वम् //
SK
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः | परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ||
SK
मूढ-ग्राहेणा अत्मनो यत् पीडया क्रियते तपः | परस्य उत्सादन-अर्थं वा तत् तामसम् उदाहृतम् ||
SK
मूढाः अविवेकिनः, मूढग्राहेण मूढैः कृतेनाभिनिवेशेन आत्मनः शक्त्यादिकम् अपरीक्ष्य आत्मपीडया यत् तपः क्रियते, परस्योत्सादनार्थं च यत् क्रियते, तत् तामसम् उदाहृतम् //
SK
मूढाः अविवेकिनः, मूढ-ग्राहेण मूढैः कृतेन अभिनिवेशेन आत्मनः शक्त्य्-आदिकम् अपरीक्ष्य आत्म-पीडया यत् तपः क्रियते, परस्य उत्सादन-अर्थं च यत् क्रियते, तत् तामसम् उदाहृतम् //
SK
दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे | देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ||
SK
दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे | देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ||
SK
फलाभिसन्धिरहितं दातव्यम् इति देशे काले पात्रे चानुपकारिणे यद् दानं दीयते, तद् दानं सात्त्विकं स्मृतम् //
SK
फल-अभिसन्धि-रहितं दातव्यम् इति देशे काले पात्रे च अनुपकारिणे यद् दानं दीयते, तद् दानं सात्त्विकं स्मृतम् //
SK
यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः | दीयते च परिक्लिष्टं तद् राजसम् उदाहृतम् ||
SK
यत् तु प्रत्युपकार-अर्थं फलम् उद्दिश्य वा पुनः | दीयते च परिक्लिष्टं तद् राजसम् उदाहृतम् ||
SK
प्रत्युपकारकटाक्षगर्भं फलम् उद्दिश्य च, परिक्लिष्टम् अकल्याणद्रव्यकं यद् दानं दीयते, तद् राजसम् उदाहृतम् //
SK
प्रत्युपकार-कट-अक्ष-गर्भं फलम् उद्दिश्य च, परिक्लिष्टम् अकल्याण-द्रव्यकं यद् दानं दीयते, तद् राजसम् उदाहृतम् //
SK
अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते | असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ||
SK
अदेश-काले यद् दानम् अपात्रेभ्यश् च दीयते | अ-सत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ||
SK
अदेशकाले अपात्रेभ्यश् च यद् दानं दीयते, असत्कृतम् पादप्रक्षालनादिगौरवरहितम्, अवज्ञातं सावज्ञम् अनुपचारयुक्तं यद् दीयते, तत् तामसम् उदाहृतम् /२२//
SK
अदेश-काले अपात्रेभ्यश् च यद् दानं दीयते, अ-सत्कृतम् पाद-प्रक्षालन-आदि-गौरव-रहितम्, अवज्ञातं स-अवज्ञम् अनुपचार-युक्तं यद् दीयते, तत् तामसम् उदाहृतम् /२२//
SK
एवं वैदिकानां यज्ञतपोदानानां सत्त्वादिगुणभेदेन भेद उक्तः; इदानीं तस्यैव वैदिकस्य यज्ञादेः प्रणवसंयोगेन तत्सच्छब्दव्यपदेश्य्तया च लक्षणम् उच्यते --
SK
एवं वैदिकानां यज्ञ-तपो-दानानां सत्त्व-आदि-गुण-भेदेन भेद उक्तः; इदानीं तस्य एव वैदिकस्य यज्ञ-आदेः प्रणव-संयोगेन तत्-सच्-छब्द-व्यपदेश्य्तया च लक्षणम् उच्यते ---
SK
ॐ तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः | ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ||
SK
ॐ तत् सद् इति निर्देशो ब्रह्मणस् त्रि-विधः स्मृतः | ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ||
SK
ॐ तत् सद् इति त्रिविधो ऽयं निर्देशः शब्दः ब्रह्मणः स्मृतः ब्रह्मणो ऽन्वयी भवति / ब्रह्म च वेदः / वेदशब्देन वैदिकं कर्मोच्यते / वैदिकं यज्ञादिकम् / यज्ञादिकं कर्म ॐ तत् सद् इति शब्दान्वितं भवति / ओम् इति शब्दस्यान्वयो वैदिककर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतया; तत् सद् इति शब्दयोर् अन्वयः पूज्यत्वाय वाचकतया / तेन त्रिविधेन शब्देनान्विता ब्राह्मणाः वेदान्वयिनस् त्रैवर्णिकाः वेदाश् च यज्ञाश् च पुरा विहिताः पुरा मयैव निर्मिता इत्यर्थः //
SK
ॐ तत् सद् इति त्रि-विधो ऽयं निर्देशः शब्दः ब्रह्मणः स्मृतः ब्रह्मणो ऽन्वयी भवति / ब्रह्म च वेदः / वेद-शब्देन वैदिकं कर्म उच्यते / वैदिकं यज्ञ-आदिकम् / यज्ञ-आदिकं कर्म ॐ तत् सद् इति शब्द-अन्वितं भवति / ओम् इति शब्दस्य अन्वयो वैदिक-कर्म-अङ्गत्वेन प्रयोग-आदौ प्रयुज्यमानतया; तत् सद् इति शब्दयोर् अन्वयः पूज्यत्वाय वाचकतया / तेन त्रि-विधेन शब्देन अन्विता ब्राह्मणाः वेद-अन्वयिनस् त्रैवर्णिकाः वेदाश् च यज्ञाश् च पुरा विहिताः पुरा मय ऐव निर्मिता इत्य्-अर्थः //
SK
त्रयाणाम् ॐ तत् सद् इति शब्दानाम् अन्वयप्रकारो वर्ण्यते; प्रथमम् ओम् इति शब्दस्यान्वयप्रकारम् आह --
SK
त्रयाणाम् ॐ तत् सद् इति शब्दानाम् अन्वय-प्रकारो वर्ण्यते; प्रथमम् ओम् इति शब्दस्य अन्वय-प्रकारम् आह ---
SK
तस्माद् ओम् इत्य् उदाहृत्य यज्ञदानतपःक्रियाः | प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ||
SK
तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः | प्रवर्तन्ते विधान-उक्ताः सततं ब्रह्म-वादिनाम् ||
SK
तस्माद् ब्रह्मवादिनाम् वेदादिनां त्रैवर्णिकानां यज्ञदानतपःक्रियाः विधानोक्ताः वेदविधानोक्ताः आदौ ओम् इत्य् उदाहृत्य सततं सर्वदा प्रवर्तन्ते / वेदाश् च ओम् इत्य् उदाहृत्यारभ्यन्ते / एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणाम् ओम् इति शब्दान्वयो वर्णितः / ओम् इतिशब्दान्वितवेदधारणात् तदन्वितयज्ञादिकर्मकरणाच् च ब्राह्मणशब्दनिर्दिष्टानां त्रैवर्णिकानाम् अपि ओम् इति शब्दान्वयो वर्णितः //
SK
तस्माद् ब्रह्म-वादिनाम् वेद-आदिनां त्रैवर्णिकानां यज्ञ-दान-तपः-क्रियाः विधान-उक्ताः वेद-विधान-उक्ताः आदौ ओम् इत्य् उदाहृत्य सततं सर्वदा प्रवर्तन्ते / वेदाश् च ओम् इत्य् उदाहृत्या अरभ्यन्ते / एवं वेदानां वैदिकानां च यज्ञ-आदीनां कर्मणाम् ओम् इति शब्द-अन्वयो वर्णितः / ओम् इति-शब्द-अन्वित-वेद-धारणात् तद्-अन्वित-यज्ञ-आदि-कर्म-करणाच् च ब्राह्मण-शब्द-निर्दिष्टानां त्रैवर्णिकानाम् अपि ओम् इति शब्द-अन्वयो वर्णितः //
SK
अथैतेषां तद् इति शब्दान्वयप्रकारम् आह --
SK
अथ एतेषां तद् इति शब्द-अन्वय-प्रकारम् आह ---
SK
तद् इत्य् अनभिसन्धाय फलं यज्ञतपःक्रियाः | दानक्रियाश् च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ||
SK
तद् इत्य् अनभिसन्धाय फलं यज्ञ-तपः-क्रियाः | दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ||
SK
फलम् अनभिसन्धाय वेदाध्ययनयज्ञतपोदानक्रियाः मोक्षकाङ्क्षिभिस् त्रैवर्णिकैर् याः क्रियन्ते, ताः ब्रह्मप्राप्तिसाधनतया ब्रह्मवाचिना तद् इति शब्देन निर्देश्याः; ᳚स वः कः किं यत् तत् पदम् अनुत्तमम्᳚ इति तच्छब्दो हि ब्रह्मवाची प्रसिद्धः / एवं वेदाध्ययनयज्ञादीनां मोक्षसाधनभूतानां तच्छब्दनिर्देश्यतया तद् इति शब्दान्वय उक्तः / त्रैवर्णिकानाम् अपि तथाविधवेदाध्ययनाद्यनुष्ठानाद् एव तच्छब्दान्वय उपपन्नः //
SK
फलम् अनभिसन्धाय वेद-अध्ययन-यज्ञ-तपो-दान-क्रियाः मोक्ष-काङ्क्षिभिस् त्रैवर्णिकैर् याः क्रियन्ते, ताः ब्रह्म-प्राप्ति-साधनतया ब्रह्म-वाचिना तद् इति शब्देन निर्देश्याः; ᳚स वः कः किं यत् तत् पदम् अनुत्तमम्᳚ इति तच्-छब्दो हि ब्रह्म-वाची प्रसिद्धः / एवं वेद-अध्ययन-यज्ञ-आदीनां मोक्ष-साधन-भूतानां तच्-छब्द-निर्देश्यतया तद् इति शब्द-अन्वय उक्तः / त्रैवर्णिकानाम् अपि तथा-विध-वेद-अध्ययन-आद्य्-अनुष्ठानाद् एव तच्-छब्द-अन्वय उपपन्नः //
SK
अथैषां सच्छब्दान्वयप्रकारं वक्तुं लोके सच्छब्दस्य व्युत्पत्तिप्रकारम् आह --
SK
अथ एषां सच्-छब्द-अन्वय-प्रकारं वक्तुं लोके सच्-छब्दस्य व्युत्पत्ति-प्रकारम् आह ---
SK
सद्भावे साधुभावे च सद् इत्य् एतत् प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ||
SK
सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते ||
SK
सद्भावे विद्यमानतायाम्, साधुभावे कल्याणभावे च सर्ववस्तुषु सद् इत्य् एतत् पदं प्रयुज्यते लोकवेदयोः / तथा केनचित् पुरुषेणानुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्कर्मेदम् इति सच्छब्दो युज्यते प्रयुज्यते इत्यर्थः //
SK
सद्-भावे विद्यमानतायाम्, साधु-भावे कल्याण-भावे च सर्व-वस्तुषु सद् इत्य् एतत् पदं प्रयुज्यते लोक-वेदयोः / तथा केनचित् पुरुषेण अनुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्-कर्म इदम् इति सच्-छब्दो युज्यते प्रयुज्यते इत्य्-अर्थः //
SK
यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते | कर्म चैव तदर्थीयं सद् इत्य् एवाभिधीयते ||
SK
यज्ञे तपसि दाने च स्थितिः सद् इति च उच्यते | कर्म च एव तद्-अर्थीयं सद् इत्य् एव अभिधीयते ||
SK
अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सद् इत्य् उच्यते / कर्म च तदर्थीयम् त्रैवर्णिकार्थीयं यज्ञदानादिकं सद् इत्य् एवाभिधीयते / तस्माद् वेदाः वैदिकानि कर्माणि ब्राह्मणशब्दनिर्दिष्टास् त्रैवर्णिकाश् च ॐ तत् सद् इति शब्दान्वयरूपलक्षणेन अवेदेभ्यश् चावैदिकेभ्यश् च व्यावृत्ता वेदितव्याः //
SK
अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सद् इत्य् उच्यते / कर्म च तद्-अर्थीयम् त्रैवर्णिक-अर्थीयं यज्ञ-दान-आदिकं सद् इत्य् एव अभिधीयते / तस्माद् वेदाः वैदिकानि कर्माणि ब्राह्मण-शब्द-निर्दिष्टास् त्रैवर्णिकाश् च ॐ तत् सद् इति शब्द-अन्वय-रूप-लक्षणेन अवेदेभ्यश् च अवैदिकेभ्यश् च व्यावृत्ता वेदितव्याः //
SK
अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् | असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ||
SK
अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् | असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ||
SK
अश्रद्धया कृतं शास्त्रीयम् अपि होमादिकम् असद् इत्य् उच्यते / कुतः ? न च तत् प्रेत्य, नो इह न मोक्षाय, न सांसारिकाय च फलायेति //
SK
अश्रद्धया कृतं शास्त्रीयम् अपि होम-आदिकम् असद् इत्य् उच्यते / कुतः ? न च तत् प्रेत्य, नो इह न मोक्षाय, न सांसारिकाय च फलाय इति //
SK
अतीतेनाध्यायद्वयेन -- अभ्युदयनिश्श्रेयससाधनभूतं वैदिकम् एव यज्ञतपोदानादिकं कर्म, नान्यत्; वैदिकस्य च कर्मणस् सामान्यलक्षणं प्रणवान्वयः; तत्र मोक्षाभ्युदयसाधनयोर् भेदः तत्सच्छब्दनिर्देश्यत्वेन; मोक्षसाधनं च कर्म फलाभिसन्धिरहितं यज्ञादिकम्; तदारम्भश् च सत्त्वोद्रेकाद् भवति; सत्त्ववृद्धिश् च सात्त्विकाहारसेवया इत्युक्तम् / अनन्तरं मोक्षसाधनतया निर्दिष्टयोस् त्यागसंन्यासयोर् ऐक्यम्, त्यागस्य च स्वरूपम्, भगवति सर्वेश्वरे च सर्वकर्मणां कर्तृत्वानुसन्धानम्, सत्त्वरजस्तमसां कार्यवर्णनेन सत्त्वगुणस्यावश्योपादेयत्वम्, स्ववर्णोचितानां कर्मणां परमपुरुषाराधनभूतानां परमपुरुषप्राप्तिनिर्वर्तनप्रकारः, कृत्स्नस्य गीताशास्त्रस्य सारार्थो भक्तियोग इत्य् एते प्रतिपाद्यन्ते / तत्र तावत् त्यागसंन्यासयोर् पृथक्त्वैकत्वनिर्णयाय स्वरूपनिर्णयाय चार्जुनः पृच्छति --
SK
अतीतेन अध्याय-द्वयेन --- अभ्युदय-निश्श्रेयस-साधन-भूतं वैदिकम् एव यज्ञ-तपो-दान-आदिकं कर्म, न अन्यत्; वैदिकस्य च कर्मणस् सामान्य-लक्षणं प्रणव-अन्वयः; तत्र मोक्ष-अभ्युदय-साधनयोर् भेदः तत्-सच्-छब्द-निर्देश्यत्वेन; मोक्ष-साधनं च कर्म फल-अभिसन्धि-रहितं यज्ञ-आदिकम्; तद्-आरम्भश् च सत्त्व-उद्रेकाद् भवति; सत्त्व-वृद्धिश् च सात्त्विक-आहार-सेवया इत्य्-उक्तम् / अनन्तरं मोक्ष-साधनतया निर्दिष्टयोस् त्याग-संन्यासयोर् ऐक्यम्, त्यागस्य च स्व-रूपम्, भगवति सर्व-ईश्वरे च सर्व-कर्मणां कर्तृत्व-अनुसन्धानम्, सत्त्व-रजस्-तमसां कार्य-वर्णनेन सत्त्व-गुणस्य अवश्य-उपादेयत्वम्, स्व-वर्ण-उचितानां कर्मणां परम-पुरुष-आराधन-भूतानां परम-पुरुष-प्राप्ति-निर्वर्तन-प्रकारः, कृत्स्नस्य गीता-शास्त्रस्य सार-अर्थो भक्ति-योग इत्य् एते प्रतिपाद्यन्ते / तत्र तावत् त्याग-संन्यासयोर् पृथक्त्व-एकत्व-निर्णयाय स्व-रूप-निर्णयाय च अर्जुनः पृच्छति ---

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source