Rāmānuja's Commentary on the Bhagavadgītā Bhagavadgītābhāṣya
Bहगवद्गीताभाष्य
14.1 SK परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् | यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ||
2 SK परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् | यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ||
14.1 SK परम् पूर्वोक्ताद् अन्यत् प्रकृतिपुरुषान्तर्गतम् एव सत्त्वादिगुणविषयं ज्ञानं भूयः प्रवक्ष्यामि / तच् च ज्ञानं सर्वेषां प्रकृतिपुरुषविषयज्ञानानाम् उत्तमम् / यज् ज्ञानं ज्ञात्वा सर्वे मुनयस् तन् मननशीलाः इतः संसारबन्धात् परां सिद्धिं गताः परां परिशुद्धात्मस्वरूपप्राप्तिरूपां सिद्धिम् अवाप्ताः //
4 SK परम् पूर्व-उक्ताद् अन्यत् प्रकृति-पुरुष-अन्तर्गतम् एव सत्त्व-आदि-गुण-विषयं ज्ञानं भूयः प्रवक्ष्यामि / तच् च ज्ञानं सर्वेषां प्रकृति-पुरुष-विषय-ज्ञानानाम् उत्तमम् / यज् ज्ञानं ज्ञात्वा सर्वे मुनयस् तन् मनन-शीलाः इतः संसार-बन्धात् परां सिद्धिं गताः परां परिशुद्ध-आत्म-स्व-रूप-प्राप्ति-रूपां सिद्धिम् अवाप्ताः //
BhGR_p344302 SK पुनर् अपि तज् ज्ञानं फलेन विशिनष्टि --
6 SK पुनर् अपि तज् ज्ञानं फलेन विशिनष्टि ---
14.2 SK इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः | सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ||
8 SK इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः | सर्गे ऽपि न उपजायन्ते प्रलये न व्यथन्ति च ||
14.2 SK इदम् वक्ष्यमाणं ज्ञानम् उपश्रित्य मम साधर्म्यम् आगताः मत्साम्यं प्राप्ताः, सर्गे ऽपि नोपजायन्ते -- न सृजिकर्मतां भजन्ते; प्रलये न व्यथन्ति च -- न च संहृतिकर्मताम् //
10 SK इदम् वक्ष्यमाणं ज्ञानम् उपश्रित्य मम साधर्म्यम् आगताः मत्-साम्यं प्राप्ताः, सर्गे ऽपि न उपजायन्ते --- न सृजि-कर्मतां भजन्ते; प्रलये न व्यथन्ति च --- न च संहृति-कर्मताम् //
BhGR_p344729 SK अथ प्राकृतानां गुणानां बन्धहेतुताप्रकारं वक्तुं सर्वस्य भूतजातस्य प्रकृतिपुरुषसंसर्गजत्वं ᳚यावत् संजायते किञ्चित्᳚ इत्य् अनेनोक्तं भगवता स्वेनैव कृतम् इत्य् आह --
12 SK अथ प्राकृतानां गुणानां बन्ध-हेतुता-प्रकारं वक्तुं सर्वस्य भूत-जातस्य प्रकृति-पुरुष-संसर्ग-जत्वं ᳚यावत् संजायते किञ्चित्᳚ इत्य् अनेन उक्तं भगवता स्वेन एव कृतम् इत्य् आह ---
14.3 SK मम योनिर् महद्ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् | संभवस् सर्वभूतानां ततो भवति भारत ||
14 SK मम योनिर् महद्-ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् | संभवस् सर्व-भूतानां ततो भवति भारत ||
14.3 SK कृत्स्नस्य जगतो योनिभूतं मम महद्ब्रह्म यत्, तस्मिन् गर्भं दधाम्य् अहम्; ᳚भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च / अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा // अपरेयम्᳚ इति निर्दिष्टा अचेतनप्रकृतिः महदहङ्कारादिविकाराणां कारणतया महद्ब्रह्मेत्य् उच्यते / श्रुताव् अपि क्वचित् प्रकृतिर् अपि ब्रह्मेति निर्दिश्यते, ᳚यस् सर्वज्ञस् सर्वविद् यस्य ज्ञानमयं तपः / तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते᳚ इति; ᳚इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् / जीवभूताम्᳚ इति चेतनपुञ्जरूपा या परा प्रकृतिर् निर्दिष्टा, सेह सकलप्राणिबीजतया गर्भशब्देनोच्यते / तस्मिन् अचेतने योनिभूते महति ब्रह्मणि चेतनपुञ्जरूपं गर्भं दधामि; अचेतनप्रकृत्या भोगक्षेत्रभूतया भोक्तृवर्गपुञ्जभूतां चेतनप्रकृतिं संयोजयामीत्यर्थः / ततः तस्मात् प्रकृतिद्वयसंयोगान् मत्संकल्पकृतात् सर्वभूतानां ब्रह्मादिस्तम्बपर्यन्तानां संभवो भवति //
16 SK कृत्स्नस्य जगतो योनि-भूतं मम महद्-ब्रह्म यत्, तस्मिन् गर्भं दधाम्य् अहम्; ᳚भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च / अहङ्कार इति इयं मे भिन्ना प्रकृतिर् अष्टधा // अपर ईयम्᳚ इति निर्दिष्टा अचेतन-प्रकृतिः महद्-अहङ्कार-आदि-विकाराणां कारणतया महद्-ब्रह्म इत्य् उच्यते / श्रुताव् अपि क्वचित् प्रकृतिर् अपि ब्रह्म इति निर्दिश्यते, ᳚यस् सर्व-ज्ञस् सर्व-विद् यस्य ज्ञान-मयं तपः / तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते᳚ इति; ᳚इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् / जीव-भूताम्᳚ इति चेतन-पुञ्ज-रूपा या परा प्रकृतिर् निर्दिष्टा, स ईह सकल-प्राणि-बीजतया गर्भ-शब्देन उच्यते / तस्मिन् अचेतने योनि-भूते महति ब्रह्मणि चेतन-पुञ्ज-रूपं गर्भं दधामि; अचेतन-प्रकृत्या भोग-क्षेत्र-भूतया भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन-प्रकृतिं संयोजयामि इत्य्-अर्थः / ततः तस्मात् प्रकृति-द्वय-संयोगान् मत्-संकल्प-कृतात् सर्व-भूतानां ब्रह्मा-आदि-स्तम्ब-पर्यन्तानां संभवो भवति //
BhGR_p346016 SK कार्यावस्थो ऽपि चिदचित्प्रकृतिसंसर्गो मयैव कृत इत्य् आह --
18 SK कार्य-अवस्थो ऽपि चिद्-अचित्-प्रकृति-संसर्गो मय ऐव कृत इत्य् आह ---
14.4 SK सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः | तासां ब्रह्म महद् योनिर् अहं बीजप्रदः पिता ||
20 SK सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः | तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ||
14.4 SK सर्वासु देवगन्धर्वयक्षराक्षसमनुष्यपशुमृगपक्षिसरीसृपादिषु योनिषु तत्तन्मूर्तयो याः संभवन्ति जायन्ते, तासां ब्रह्म महद् योनिः कारणम्; मया संयोजितचेतनवर्गा महदादिविशेषान्तावस्था प्रकृतिः कारणम् इत्यर्थः / अहं बीजप्रदः पिता -- तत्र तत्र च तत्तत्कर्मानुगुण्येन चेतनवर्गस्य संयोजकश् चाहम् इत्यर्थः //
22 SK सर्वासु देव-गन्धर्व-यक्ष-राक्षस-मनुष्य-पशु-मृग-पक्षि-सरीसृप-आदिषु योनिषु तत्-तन्-मूर्तयो याः संभवन्ति जायन्ते, तासां ब्रह्म महद् योनिः कारणम्; मया संयोजित-चेतन-वर्गा महद्-आदि-विशेष-अन्त-अवस्था प्रकृतिः कारणम् इत्य्-अर्थः / अहं बीज-प्रदः पिता --- तत्र तत्र च तत्-तत्-कर्म-अनुगुण्येन चेतन-वर्गस्य संयोजकश् च अहम् इत्य्-अर्थः //
BhGR_p346642 SK एवं सर्गादौ प्राचीनकर्मवशाद् अचित्संसर्गेण देवादियोनिषु जातानां पुनः पुनर् देवादिभावेन जन्महेतुम् आह --
24 SK एवं सर्ग-आदौ प्राचीन-कर्म-वशाद् अचित्-संसर्गेण देव-आदि-योनिषु जातानां पुनः पुनर् देव-आदि-भावेन जन्म-हेतुम् आह ---
14.5 SK सत्त्वं रजस् तम इति गुणाः प्रकृतिसंभवाः | निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् ||
26 SK सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः | निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ||
14.5 SK सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभावविशेषाः प्रकाशादिकार्यैकनिरूपणीयाः प्रकृत्यवस्थायाम् अनुद्भूताः तद्विकारेषु महदादिषु उद्भूताः महदादिविशेषान्तैर् आरब्धदेवमनुष्यादिदेहसंबन्धिनम् एनं देहिनम्, अव्ययम् स्वतो गुणसंबन्धानर्हं देहे वर्तमानं निबध्नन्ति, देहे वर्तमानत्वोपाधिना निबध्नन्तीत्यर्थः //
28 SK सत्त्व-रजस्-तमांसि त्रयो गुणाः प्रकृतेः स्व-रूप-अनुबन्धिनः स्व-भाव-विशेषाः प्रकाश-आदि-कार्य-एक-निरूपणीयाः प्रकृत्य्-अवस्थायाम् अनुद्भूताः तद्-विकारेषु महद्-आदिषु उद्भूताः महद्-आदि-विशेष-अन्तैर् आरब्ध-देव-मनुष्य-आदि-देह-संबन्धिनम् एनं देहिनम्, अव्ययम् स्वतो गुण-संबन्ध-अनर्हं देहे वर्तमानं निबध्नन्ति, देहे वर्तमानत्व-उपाधिना निबध्नन्ति इत्य्-अर्थः //
BhGR_p347334 SK सत्त्वरजस्तमसाम् आकारं बन्धनप्रकारं चाह --
30 SK सत्त्व-रजस्-तमसाम् आकारं बन्धन-प्रकारं चा अह ---
14.6 SK तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् | सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ||
32 SK तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् | सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन च अनघ ||
14.6 SK तत्र सत्त्वरजस्तमस् तु सत्त्वस्य स्वरूपम् ईदृशम् निर्मलत्वात् प्रकाशकम्; प्रकाशसुखावरणस्वभावरहितता निर्मलत्वम्; प्रकाशसुखजननैकान्तस्वभावतया प्रकाशसुखहेतुभूतम् इत्यर्थः / प्रकाशः वस्तुयाथात्म्यावबोधः / अनामयम् आमयाख्यं कार्यं न विद्यत इत्य् अनामयम्; अरोगताहेतुर् इत्यर्थः / एष सत्त्वाख्यो गुणो देहिनम् एनं सुखसङ्गेन ज्ञानसङ्गेन च बध्नाति पुरुषस्य सुखसङ्गं ज्ञानसङ्गं च जनयतीत्यर्थः/ ज्ञानसुखयोस् सङ्गे हि जाते तत्साधनेषु लौकिकवैदिकेषु प्रवर्तते; ततश् च तत्फलानुभवसाधनभूतासु योनिषु जायत इति सत्त्वं सुखज्ञानसङ्गद्वारेण पुरुषं बध्नाति / ज्ञानसुखजननं पुनर् अपि तयोस् सङ्गजननं च सत्त्वम् इत्य् उक्तं भवति //
34 SK तत्र सत्त्व-रजस्-तमस् तु सत्त्वस्य स्व-रूपम् ईदृशम् निर्मलत्वात् प्रकाशकम्; प्रकाश-सुख-आवरण-स्व-भाव-रहितता निर्मलत्वम्; प्रकाश-सुख-जनन-एक-अन्त-स्व-भावतया प्रकाश-सुख-हेतु-भूतम् इत्य्-अर्थः / प्रकाशः वस्तु-याथात्म्य-अवबोधः / अनामयम् आमय-आख्यं कार्यं न विद्यत इत्य् अनामयम्; अरोगता-हेतुर् इत्य्-अर्थः / एष सत्त्व-आख्यो गुणो देहिनम् एनं सुख-सङ्गेन ज्ञान-सङ्गेन च बध्नाति पुरुषस्य सुख-सङ्गं ज्ञान-सङ्गं च जनयति इत्य्-अर्थः/ ज्ञान-सुखयोस् सङ्गे हि जाते तत्-साधनेषु लौकिक-वैदिकेषु प्रवर्तते; ततश् च तत्-फल-अनुभव-साधन-भूतासु योनिषु जायत इति सत्त्वं सुख-ज्ञान-सङ्ग-द्वारेण पुरुषं बध्नाति / ज्ञान-सुख-जननं पुनर् अपि तयोस् सङ्ग-जननं च सत्त्वम् इत्य् उक्तं भवति //
14.7 SK रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् | तन् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ||
36 SK रजो राग-आत्मकं विद्धि तृष्णा-सङ्ग-समुद्भवम् | तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ||
14.7 SK रजो रागात्मकम् रागहेतुभूतम् / रागः योषित्पुरुषयोर् अन्यान्यस्पृहा / तृणासङ्गसमुद्भवम् तृष्णासङ्गयोर् उद्भवस्थानम् -- तृष्णासङ्गहेतुभूतम् इत्यर्थः / तृष्णा शब्दादिसर्वविषयस्पृहा; सङ्गः पुत्रमित्रादिषु संबन्धिषु संश्लेषस्पृहा / तद् रजः देहिनं कर्मसु क्रियासु स्पृहाजननद्वारेण निबध्नाति; क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश् च पुण्यपापरूपा इति तत्फलानुभवसाधनभूतासु योनिषु जन्महेतवो भवन्ति / अतः कर्मसङ्गद्वारेण रजो देहिनं निबध्नाति / तद् एवं रजो रागतृष्णासङ्गहेतुः कर्मसङ्गहेतुश् चेत्य् उक्तं भवति //
38 SK रजो राग-आत्मकम् राग-हेतु-भूतम् / रागः योषित्-पुरुषयोर् अन्य-अन्य-स्पृहा / तृणा-सङ्ग-समुद्भवम् तृष्णा-सङ्गयोर् उद्भव-स्थानम् --- तृष्णा-सङ्ग-हेतु-भूतम् इत्य्-अर्थः / तृष्णा शब्द-आदि-सर्व-विषय-स्पृहा; सङ्गः पुत्र-मित्र-आदिषु संबन्धिषु संश्लेष-स्पृहा / तद् रजः देहिनं कर्मसु क्रियासु स्पृहा-जनन-द्वारेण निबध्नाति; क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश् च पुण्य-पाप-रूपा इति तत्-फल-अनुभव-साधन-भूतासु योनिषु जन्म-हेतवो भवन्ति / अतः कर्म-सङ्ग-द्वारेण रजो देहिनं निबध्नाति / तद् एवं रजो राग-तृष्णा-सङ्ग-हेतुः कर्म-सङ्ग-हेतुश् च इत्य् उक्तं भवति //
14.8 SK तमस् त्व् अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् | प्रमादालस्यनिद्राभिस् तन् निबध्नाति भारत ||
40 SK तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् | प्रमाद-आलस्य-निद्राभिस् तन् निबध्नाति भारत ||
14.8 SK ज्ञानाद् अन्यद् इह अज्ञानम् अभिप्रेतम् / ज्ञानं वस्तुयथात्म्यावबोधः; तस्माद् अन्यत् तद्विपर्ययज्ञानम् / तमस् तु वस्तुयाथात्म्यविअपरीतविषयज्ञानजम् / मोहनं सर्वदेहिनाम् / मोहो विपर्ययज्ञानम्; विपर्ययज्ञानहेतुर् इत्यर्थः / तत् तमः प्रमादालस्यनिद्राहेतुतया तद्द्वारेण देहिनं निबध्नाति / प्रमादः कर्तव्यात् कर्मणो ऽन्यत्र प्रवृत्तिहेतुभूतम् अनवधानम् / आलस्यम् कर्मस्व् अनारम्भस्वभावः; स्तब्धतेति यावत् / पुरुषस्येन्द्रियप्रवर्तनश्रान्त्या सर्वेन्द्रियप्रवर्तनोपरतिर् निद्रा; तत्र बाह्येन्द्रियप्रवर्तनोपरमः स्वप्नः; मनसो ऽप्य् उपरतिः सुषुप्तिः //
42 SK ज्ञानाद् अन्यद् इह अज्ञानम् अभिप्रेतम् / ज्ञानं वस्तु-यथात्म्य-अवबोधः; तस्माद् अन्यत् तद्-विपर्यय-ज्ञानम् / तमस् तु वस्तु-याथात्म्य-विअपरीत-विषय-ज्ञान-जम् / मोहनं सर्व-देहिनाम् / मोहो विपर्यय-ज्ञानम्; विपर्यय-ज्ञान-हेतुर् इत्य्-अर्थः / तत् तमः प्रमाद-आलस्य-निद्रा-हेतुतया तद्-द्वारेण देहिनं निबध्नाति / प्रमादः कर्तव्यात् कर्मणो ऽन्यत्र प्रवृत्ति-हेतु-भूतम् अनवधानम् / आलस्यम् कर्मस्व् अनारम्भ-स्व-भावः; स्तब्धत ईति यावत् / पुरुषस्य इन्द्रिय-प्रवर्तन-श्रान्त्या सर्व-इन्द्रिय-प्रवर्तन-उपरतिर् निद्रा; तत्र बाह्य-इन्द्रिय-प्रवर्तन-उपरमः स्वप्नः; मनसो ऽप्य् उपरतिः सुषुप्तिः //
BhGR_p349853 SK सत्त्वादीनां बन्धद्वारभूतेषु प्रधानान्य् आह --
44 SK सत्त्व-आदीनां बन्ध-द्वार-भूतेषु प्रधानान्य् आह ---
14.9 SK सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत | ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्य् उत ||
46 SK सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत | ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्य् उत ||
14.9 SK सत्त्वं सुखसङ्गप्रधानम्; रजः कर्मसङ्गप्रधानम्; तमस् तु वस्तुयाथात्म्यज्ञानम् आवृत्य विपरीतज्ञानहेतुतया कर्तव्यविपरीतप्रवृत्तिसङ्गप्रधानम् //
48 SK सत्त्वं सुख-सङ्ग-प्रधानम्; रजः कर्म-सङ्ग-प्रधानम्; तमस् तु वस्तु-याथात्म्य-ज्ञानम् आवृत्य विपरीत-ज्ञान-हेतुतया कर्तव्य-विपरीत-प्रवृत्ति-सङ्ग-प्रधानम् //
BhGR_p350273 SK देहाकारपरिणतायाः प्रकृतेः स्वरूपानुबन्धिनः सत्त्वादयो गुणाः; ते च स्वरूपानुबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्परविरुद्धं कार्यं कथं जनयन्तीत्य् अत्र आह --
50 SK देह-आकार-परिणतायाः प्रकृतेः स्व-रूप-अनुबन्धिनः सत्त्व-आदयो गुणाः; ते च स्व-रूप-अनुबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्-पर-विरुद्धं कार्यं कथं जनयन्ति इत्य् अत्र आह ---
14.10 SK रजस् तमश् चाभिभूय सत्त्वं भवति भारत | रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ||
52 SK रजस् तमश् च अभिभूय सत्त्वं भवति भारत | रजः सत्त्वं तमश् च एव तमः सत्त्वं रजस् तथा ||
14.10 SK यद्य् अपि सत्त्वाद्यस् त्रयः प्रकृतिसंसृष्टात्मस्वरूपानुबन्धिनः, तथापि प्राचीनकर्मवशाद् देहाप्य् आयनभूताहारवैषम्याच् च सत्त्वादयः परस्परसमुद्भवाभिभवरूपेण वर्तन्ते / रजस्तमसी कदाचिद् अभिभूय सत्त्वम् उद्रिक्तं वर्तते; तथा तमस्सत्त्वे अभिभूय रजः कदाचित्; कदाचिच् च रजस्सत्त्वे अभिभूय तमः //
54 SK यद्य् अपि सत्त्व-आद्यस् त्रयः प्रकृति-संसृष्ट-आत्म-स्व-रूप-अनुबन्धिनः, तथ आपि प्राचीन-कर्म-वशाद् देह अप्य् आयन-भूत-आहार-वैषम्याच् च सत्त्व-आदयः परस्-पर-समुद्भव-अभिभव-रूपेण वर्तन्ते / रजस्-तमसी कदाचिद् अभिभूय सत्त्वम् उद्रिक्तं वर्तते; तथा तमस्-सत्त्वे अभिभूय रजः कदाचित्; कदाचिच् च रजस्-सत्त्वे अभिभूय तमः //
BhGR_p351015 SK तच् च कार्योपलभ्यैवावगच्छेद् इत्य् आह --
56 SK तच् च कार्य-उपलभ्य एव अवगच्छेद् इत्य् आह ---
14.11 SK सर्वद्वारेषु देहे ऽस्मिन् प्रकाश उपजायते / ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ||
58 SK सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते / ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ||
14.11 SK सर्वेषु चक्षुरादिषु ज्ञानद्वारेषु यदा वस्तुयाथात्म्यप्रकाशे ज्ञानम् उपजायते, तदा तस्मिन् देहे सत्त्वं प्रवृद्धम् इति विद्यात् //
60 SK सर्वेषु चक्षुर्-आदिषु ज्ञान-द्वारेषु यदा वस्तु-याथात्म्य-प्रकाशे ज्ञानम् उपजायते, तदा तस्मिन् देहे सत्त्वं प्रवृद्धम् इति विद्यात् //
14.12 SK लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा / रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ //
62 SK लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा / रजस्य् एतानि जायन्ते विवृद्धे भरत-र्षभ //
14.12 SK लोभः स्वकीयद्रव्यस्यात्यागशीलता; प्रवृत्तिः प्रयोजनम् अनुद्दिश्यापि चलनस्वभावाता; आरम्भः कर्मणाम् -- फलसाधनभूतानां कर्मणाम् आरम्भः; अशमः इन्द्रियानुरतिः; स्पृहा -- विषयेच्छा / एतानि रजसि प्रवृद्धे जायन्ते / यदा लोभादयो वर्तन्ते, तदा रजः प्रवृद्धम् इति विद्याद् इत्यर्थः //
64 SK लोभः स्वकीय-द्रव्यस्य अत्याग-शीलता; प्रवृत्तिः प्रयोजनम् अनुद्दिश्य अपि चलन-स्व-भावाता; आरम्भः कर्मणाम् --- फल-साधन-भूतानां कर्मणाम् आरम्भः; अशमः इन्द्रिय-अनुरतिः; स्पृहा --- विषय-इच्छा / एतानि रजसि प्रवृद्धे जायन्ते / यदा लोभ-आदयो वर्तन्ते, तदा रजः प्रवृद्धम् इति विद्याद् इत्य्-अर्थः //
14.13 SK अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च / तमस्य् एतानि जायन्ते विवृद्धे कुरुनन्दन //
66 SK अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च / तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन //
14.13 SK अप्रकाशः ज्ञानानुदयः; अप्रवृत्तिश् च स्तब्धता; प्रमादः अकार्यप्रवृत्तिफलम् अनवधानम्; मोहः विपरीतज्ञानम् / एतानि तमसि प्रवृद्धे जायन्ते / एतैस् तमः प्रवृद्धम् इति विद्यात् //
68 SK अप्रकाशः ज्ञान-अनुदयः; अप्रवृत्तिश् च स्तब्धता; प्रमादः अकार्य-प्रवृत्ति-फलम् अनवधानम्; मोहः विपरीत-ज्ञानम् / एतानि तमसि प्रवृद्धे जायन्ते / एतैस् तमः प्रवृद्धम् इति विद्यात् //
14.14 SK यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् / तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते //
70 SK यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् / तद ऊत्तम-विदां लोकान् अमलान् प्रतिपद्यते //
14.14 SK यदा सत्त्वं प्रवृद्धं तदा, सत्त्वे प्रवृद्धे देहभृत् प्रलयं मरणं याति चेत्, उत्तमविदाम् उत्तमतत्त्वविदाम् आत्मयाथात्म्यविदाम् लोकान् समूहान् अमलान् मलरहितान् -- अज्ञानरहितान्, प्रतिपद्यते प्राप्नोति / सत्त्वे प्रवृद्धे तु मृतः आत्मविदां कुलेषु जनित्वा आत्मयाथात्म्यज्ञानसाधनेषु पुण्यकर्मस्व् अधिकरोतीत्य् उक्तं भवति //
72 SK यदा सत्त्वं प्रवृद्धं तदा, सत्त्वे प्रवृद्धे देह-भृत् प्रलयं मरणं याति चेत्, उत्तम-विदाम् उत्तम-तत्त्व-विदाम् आत्म-याथात्म्य-विदाम् लोकान् समूहान् अमलान् मल-रहितान् --- अज्ञान-रहितान्, प्रतिपद्यते प्राप्नोति / सत्त्वे प्रवृद्धे तु मृतः आत्म-विदां कुलेषु जनित्वा आत्म-याथात्म्य-ज्ञान-साधनेषु पुण्य-कर्मस्व् अधिकरोति इत्य् उक्तं भवति //
BhGR_p352748 SK रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते /
74 SK रजसि प्रलयं गत्वा कर्म-सङ्गिषु जायते /
BhGR_p352823 SK रजसि प्रवृद्धे मरणं प्राप्य फलार्थं कर्म कुर्वतां कुलेषु जायते; तत्र जनित्वा स्वर्गादिफलसाधनकर्मस्व् अधिकरोतीत्यर्थः //
76 SK रजसि प्रवृद्धे मरणं प्राप्य फल-अर्थं कर्म कुर्वतां कुलेषु जायते; तत्र जनित्वा स्वर्ग-आदि-फल-साधन-कर्मस्व् अधिकरोति इत्य्-अर्थः //
14.15 SK तथा प्रलीनस् तमसि मूढयोनिषु जायते //
78 SK तथा प्रलीनस् तमसि मूढ-योनिषु जायते //
79 SK तथा तमसि प्रवृद्धे मृता मूढ-योनिषु श्व-सूकर-आदि-योनिषु जायते / सकल-पुरुष-अर्थ-आरम्भ-अनर्हो जायत इत्य्-अर्थः //
14.15 SK तथा तमसि प्रवृद्धे मृता मूढयोनिषु श्वसूकरादियोनिषु जायते / सकलपुरुषार्थारम्भानर्हो जायत इत्यर्थः //
81 SK तथा प्रलीनस् तमसि मूढ-योनिषु जायते //
82 SK तथा तमसि प्रवृद्धे मृता मूढ-योनिषु श्व-सूकर-आदि-योनिषु जायते / सकल-पुरुष-अर्थ-आरम्भ-अनर्हो जायत इत्य्-अर्थः //
14.16 SK कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् / रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् //
84 SK कर्मणः सुकृतस्या अहुः सात्त्विकं निर्मलं फलम् / रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् //
14.16 SK एवं सत्त्वप्रवृद्धौ मरणम् उपगम्यात्मविदां कुले जातेनानुष्ठितस्य सुकृतस्य फलाभिसन्धिरहितस्य मदाराधनरूपस्य कर्मणः फलं पुनर् अपि ततो ऽधिकसत्त्वजनितं निर्मलं दुःखगन्धरहितं भवतीत्य् आहुः सत्त्वगुणपरिणामविदः / अन्त्यकालप्रवृद्धस्य रजसस् तु फलं फलसाधनकर्मसङ्गिकुलजन्मफलाभिसन्धिपूर्वककर्मारम्भतत्फलानुभवपुनर्जन्मरजोवृद्धिफलाभिसन्धिपूर्वक कर्मारम्भपरम्परारूपं सांसारिकदुःखप्रायम् एवेत्य् आहुः तद्गुणयाथात्म्यविदः / अज्ञानं तमसः फलम् -- एवम् अन्त्यकालप्रवृद्धस्य तमसः फलम् अज्ञानपरम्परारूपम् //
86 SK एवं सत्त्व-प्रवृद्धौ मरणम् उपगम्या अत्म-विदां कुले जातेन अनुष्ठितस्य सुकृतस्य फल-अभिसन्धि-रहितस्य मद्-आराधन-रूपस्य कर्मणः फलं पुनर् अपि ततो ऽधिक-सत्त्व-जनितं निर्मलं दुःख-गन्ध-रहितं भवति इत्य् आहुः सत्त्व-गुण-परिणाम-विदः / अन्त्य-काल-प्रवृद्धस्य रजसस् तु फलं फल-साधन-कर्म-सङ्गि-कुल-जन्म-फल-अभिसन्धि-पूर्वक-कर्म-आरम्भ-तत्-फल-अनुभव-पुनर्-जन्म-रजो-वृद्धि-फल-अभिसन्धि-पूर्वक कर्म-आरम्भ-परम्परा-रूपं सांसारिक-दुःख-प्रायम् एव इत्य् आहुः तद्-गुण-याथात्म्य-विदः / अज्ञानं तमसः फलम् --- एवम् अन्त्य-काल-प्रवृद्धस्य तमसः फलम् अज्ञान-परम्परा-रूपम् //
BhGR_p354030 SK तद् अधिकसत्त्वादिजनितं निर्मलादिफलं किम् इत्य् अत्राह --
88 SK तद् अधिक-सत्त्व-आदि-जनितं निर्मल-आदि-फलं किम् इत्य् अत्रा अह ---
14.17 SK सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च / प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च //
90 SK सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च / प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च //
14.17 SK एवं परम्परया जाताद् अधिकसत्त्वाद् आत्मयाथात्म्यापरोक्ष्यरूपं ज्ञानं जायते / तथा प्रवृद्धाद् रजसः स्वर्गादिफललोभो जायते / तथा प्रवृद्धाच् च तमसः प्रमादः अनवधाननिमित्ता असत्कर्मणि प्रवृत्तिः; ततश् च मोहः विपरीतज्ञानम्; ततश् चाधिकतरं तमः; ततश् चाज्ञानम् -- ज्ञानाभावः //
92 SK एवं परम्परया जाताद् अधिक-सत्त्वाद् आत्म-याथात्म्य-अपरोक्ष्य-रूपं ज्ञानं जायते / तथा प्रवृद्धाद् रजसः स्वर्ग-आदि-फल-लोभो जायते / तथा प्रवृद्धाच् च तमसः प्रमादः अनवधान-निमित्ता असत्-कर्मणि प्रवृत्तिः; ततश् च मोहः विपरीत-ज्ञानम्; ततश् च अधिकतरं तमः; ततश् च अज्ञानम् --- ज्ञान-अभावः //
14.18 SK ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः / जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः //
94 SK ऊर्ध्वं गच्छन्ति सत्त्व-स्था मध्ये तिष्ठन्ति राजसाः / जघन्य-गुण-वृत्ति-स्था अधो गच्छन्ति तामसाः //
14.18 SK एवम् उक्तेन प्रकारेण सत्त्वस्था ऊर्ध्वं गच्छन्ति -- क्रमेण संसारबन्धान् मोक्षं गच्छन्ति / रजसः स्वर्गादिफललोभकरत्वाद् राजसाः फलसाधनभुतं कर्मानुष्ठाय तत्फलम् अनुभूय पुनर् अपि जनित्वा तद् एव कर्मानुतिष्ठन्तीति मध्ये तिष्ठन्ति / पुनरावृत्तिरूपतया दुःखप्रायम् एव तत् / तामसास् तु जघन्यगुणवृत्तिस्था उत्तरोत्तरनिकृष्टतमोगुणवृत्तिषु स्थिता अधो गच्छन्ति -- अन्त्यत्वम्, ततस् तिर्यक्त्वम्, ततः क्रिमिकीटादिजन्म, स्थावरत्वम्, ततो ऽपि गुल्मलतात्वम्, ततश् च शिलाकाष्ठलोष्टतृणादित्वं गच्छन्तीत्यर्थः //
96 SK एवम् उक्तेन प्रकारेण सत्त्व-स्था ऊर्ध्वं गच्छन्ति --- क्रमेण संसार-बन्धान् मोक्षं गच्छन्ति / रजसः स्वर्ग-आदि-फल-लोभ-करत्वाद् राजसाः फल-साधन-भुतं कर्म-अनुष्ठाय तत्-फलम् अनुभूय पुनर् अपि जनित्वा तद् एव कर्म-अनुतिष्ठन्ति इति मध्ये तिष्ठन्ति / पुनर्-आवृत्ति-रूपतया दुःख-प्रायम् एव तत् / तामसास् तु जघन्य-गुण-वृत्ति-स्था उत्तर-उत्तर-निकृष्ट-तमो-गुण-वृत्तिषु स्थिता अधो गच्छन्ति --- अन्त्यत्वम्, ततस् तिर्यक्त्वम्, ततः क्रिमि-कीट-आदि-जन्म, स्थावरत्वम्, ततो ऽपि गुल्म-लतात्वम्, ततश् च शिला-काष्ठ-लोष्ट-तृण-आदित्वं गच्छन्ति इत्य्-अर्थः //
BhGR_p355364 SK आहारविशेषैः फलाभिसन्धिरहितसुकृतविशेषैश् च परम्परया प्रवर्धितसत्त्वानां गुणात्ययद्वारेण ऊर्ध्वगमनप्रकारम् आह --
98 SK आहार-विशेषैः फल-अभिसन्धि-रहित-सुकृत-विशेषैश् च परम्परया प्रवर्धित-सत्त्वानां गुण-अत्यय-द्वारेण ऊर्ध्व-गमन-प्रकारम् आह ---
14.19 SK नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति / गुणेभ्यश् च परं वेत्ति मद्भावं सो ऽधिगच्छति //
100 SK न अन्यं गुणेभ्यः कर्तारं यदा द्रष्ट आनुपश्यति / गुणेभ्यश् च परं वेत्ति मद्-भावं सो ऽधिगच्छति //
14.19 SK एवं सात्त्विकाहारसेवया फलाभिसन्धिरहितभगवदाराधनरूपकर्मानुष्ठानैश् च रजस्तमसी सर्वात्मनाभिभूय उत्कृष्टसत्त्वनिष्ठो यदायं गुणेभ्यो ऽन्यं कर्तारं नानुपश्यति -- गुणा एव स्वानुगुणप्रवृत्तिषु कर्तार इति पश्यति; गुणेभ्यश् च परं वेत्ति कर्तृभ्यो गुणेभ्यश् च परम् अन्यम् आत्मानम् अकर्तारं वेत्ति -- स मद्भावम् अधिगच्छति मम यो भावस् तम् अधिगच्छति / एतद् उक्तं भवति -- ᳚आत्मनः स्वतः परिशुद्धस्वभावस्य पूर्वपूर्वकर्ममूलगुणसङ्गनिमित्तं विविधकर्मसु कर्तृत्वम्; आत्मा स्वतस् त्व् अकर्ता अपरिच्छिन्नज्ञानैकाकारः᳚ इत्य् एवम् आत्मानं यदा पश्यति, तदा मद्भावम् अधिगच्छतीति //
102 SK एवं सात्त्विक-आहार-सेवया फल-अभिसन्धि-रहित-भगवद्-आराधन-रूप-कर्म-अनुष्ठानैश् च रजस्-तमसी सर्व-आत्मन आभिभूय उत्कृष्ट-सत्त्व-निष्ठो यद आयं गुणेभ्यो ऽन्यं कर्तारं न अनुपश्यति --- गुणा एव स्व-अनुगुण-प्रवृत्तिषु कर्तार इति पश्यति; गुणेभ्यश् च परं वेत्ति कर्तृभ्यो गुणेभ्यश् च परम् अन्यम् आत्मानम् अकर्तारं वेत्ति --- स मद्-भावम् अधिगच्छति मम यो भावस् तम् अधिगच्छति / एतद् उक्तं भवति --- ᳚आत्मनः स्वतः परिशुद्ध-स्व-भावस्य पूर्व-पूर्व-कर्म-मूल-गुण-सङ्ग-निमित्तं विविध-कर्मसु कर्तृत्वम्; आत्मा स्वतस् त्व् अकर्ता अपरिच्छिन्न-ज्ञान-एक-आकारः᳚ इत्य् एवम् आत्मानं यदा पश्यति, तदा मद्-भावम् अधिगच्छति इति //
BhGR_p356365 SK कर्तृभ्यो गुणेभ्यो ऽन्यम् अकर्तारम् आत्मानं पश्यन् भगवद्भावम् अधिगच्छतीत्य् उक्तम्; स भगवद्भावः कीदृश इत्य् अत आह --
104 SK कर्तृभ्यो गुणेभ्यो ऽन्यम् अकर्तारम् आत्मानं पश्यन् भगवद्-भावम् अधिगच्छति इत्य् उक्तम्; स भगवद्-भावः कीदृश इत्य् अत आह ---
14.20 SK गुणान् एतान् अतीत्य त्रीन् देही देहसमुद्भवान् / जन्ममृत्युजरादुःखैर् विमुक्तो ऽमृतम् अश्नुते //
106 SK गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् / जन्म-मृत्यु-जरा-दुःखैर् विमुक्तो ऽमृतम् अश्नुते //
14.20 SK अयं देही देहसमुद्भवान् देहाकारपरिणतप्रकृतिसमुद्भवान् एतान् सत्त्वादीन् त्रीन् गुणान् अतीत्य तेभ्यो ऽन्यं ज्ञानैकाकारम् आत्मानं पश्यन् जन्ममृत्युजरादुह्खैर् विमुक्तः अमृतम् आत्मानम् अनुभवति / एष मद्भाव इत्यर्थः //
108 SK अयं देही देह-समुद्भवान् देह-आकार-परिणत-प्रकृति-समुद्भवान् एतान् सत्त्व-आदीन् त्रीन् गुणान् अतीत्य तेभ्यो ऽन्यं ज्ञान-एक-आकारम् आत्मानं पश्यन् जन्म-मृत्यु-जरा-दुह्खैर् विमुक्तः अमृतम् आत्मानम् अनुभवति / एष मद्-भाव इत्य्-अर्थः //
14.21 SK कैर् लिङ्गैस् त्रिगुणान् एतान् अतीतो भवति प्रभो / किम् आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते //
110 SK कैर् लिङ्गैस् त्रि-गुणान् एतान् अतीतो भवति प्रभो / किम् आचारः कथं च एतांस् त्रीन् गुणान् अतिवर्तते //
14.21 SK सत्त्वादीन् त्रीन् गुणान् एतान् अतीतः कैर् लिङ्गैः कैर् लक्षणैः उपलक्षितो भवति? किम् आचारः केनाचारेण युक्तो ऽसौ? अस्य स्वरूपावगतिलिङ्गभूताचारः कीदृश इत्यर्थः / कथं चैतान् केनोपायेन सत्त्वादींस् त्रीन् गुणान् अतिवर्तते? //
112 SK सत्त्व-आदीन् त्रीन् गुणान् एतान् अतीतः कैर् लिङ्गैः कैर् लक्षणैः उपलक्षितो भवति? किम् आचारः केना अचारेण युक्तो ऽसौ? अस्य स्व-रूप-अवगति-लिङ्ग-भूत-आचारः कीदृश इत्य्-अर्थः / कथं च एतान् केन उपायेन सत्त्व-आदींस् त्रीन् गुणान् अतिवर्तते? //
14.22 SK प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव / न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति //
114 SK प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव / न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति //
14.22 SK आत्मव्यतिरिक्तेषु वस्त्वनिष्टेषु संप्रवृत्तानि सत्त्वरजस्तमसां कार्याणि प्रकाशप्रवृत्तिमोहाख्यानि यो न द्वेष्टि, तथा आत्मव्यतिरिक्तेष्व् इष्टेषु वस्तुषु तान्य् एव निवृत्तानि न काङ्क्षति //
116 SK आत्म-व्यतिरिक्तेषु वस्त्व्-अनिष्टेषु संप्रवृत्तानि सत्त्व-रजस्-तमसां कार्याणि प्रकाश-प्रवृत्ति-मोह-आख्यानि यो न द्वेष्टि, तथा आत्म-व्यतिरिक्तेष्व् इष्टेषु वस्तुषु तान्य् एव निवृत्तानि न काङ्क्षति //
14.23 SK उदासीनवद् आसीनो गुणैर् यो न विचाल्यते / गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते //
118 SK उदासीनवद् आसीनो गुणैर् यो न विचाल्यते / गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति न इङ्गते //
14.23 SK उदासीनवद् आसीनः गुणव्यतिरिक्तात्मावलोकनतृप्त्या अन्यत्रोदासीनवद् आसीनः, गुणैर् द्वेषाकाङ्क्षाद्वारेणे यो न विचाल्यते -- गुणाः स्वेषु कार्येषु प्रकाशादिषु वर्तन्त इत्य् अनुसन्धाय यस् तूष्णीम् अवतिष्ठते / नेङ्गते न गुणकार्यानुगुणं चेष्टते //
120 SK उदासीनवद् आसीनः गुण-व्यतिरिक्त-आत्म-अवलोकन-तृप्त्या अन्यत्र उदासीनवद् आसीनः, गुणैर् द्वेष-आकाङ्क्षा-द्वारेणे यो न विचाल्यते --- गुणाः स्वेषु कार्येषु प्रकाश-आदिषु वर्तन्त इत्य् अनुसन्धाय यस् तु उष्णीम् अवतिष्ठते / न इङ्गते न गुण-कार्य-अनुगुणं चेष्टते //
14.24 SK समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः / तुल्यप्रियाप्रियो धीरस् तुल्यनिन्दात्मसंस्तुतिः //
122 SK सम-दुःख-सुखः स्व-स्थः सम-लोष्ट-अश्म-काञ्चनः / तुल्य-प्रिय-अप्रियो धीरस् तुल्य-निन्दा-आत्म-संस्तुतिः //
14.25 SK मानावमानयोस् तुल्यस् तुल्यो मित्रारिपक्षयोः / सर्वारम्भपरित्यागी गुणातीतः स उच्यते //
124 SK मान-अवमानयोस् तुल्यस् तुल्यो मित्र-अरि-पक्षयोः / सर्व-आरम्भ-परित्यागी गुण-अतीतः स उच्यते //
BhGR_14.24-25 SK समदुःखसुखः सुखदुःखयोस् समचित्तः, स्वस्थः स्वस्मिन् स्थितः / स्वात्मैकप्रियत्वेन तद्व्यतिरिक्तपुत्रादिजन्ममरणादिसुखदुःखयोस् समचित्त इत्यर्थः / तत एव समलोष्टाश्मकाञ्चनः / तत एव तुल्यप्रियाप्रियः तुल्यप्रियाप्रियविषयः / धीरः प्रकृत्यात्मविवेककुशलः / तत एव तुल्यनिन्दात्मसंस्तुतिः आत्मनि मनुष्याद्यभिमानकृतगुणागुणनिमित्तस्तुतिनिन्दयोः स्वासंबन्धानुसन्धानेन तुल्यचित्तः / तत्प्रयुक्तमानावमानयोः तत्प्रयुक्तमित्रारिपक्षयोर् अपि स्वसंबन्धाभावाद् एव तुल्यचित्तः / तथा देहित्वप्रयुक्तसर्वारम्भपरित्यागी / य एवंभूतः, स गुणातीत उच्यते //
126 SK सम-दुःख-सुखः सुख-दुःखयोस् सम-चित्तः, स्व-स्थः स्वस्मिन् स्थितः / स्व-आत्म-एक-प्रियत्वेन तद्-व्यतिरिक्त-पुत्र-आदि-जन्म-मरण-आदि-सुख-दुःखयोस् सम-चित्त इत्य्-अर्थः / तत एव सम-लोष्ट-अश्म-काञ्चनः / तत एव तुल्य-प्रिय-अप्रियः तुल्य-प्रिय-अप्रिय-विषयः / धीरः प्रकृत्य्-आत्म-विवेक-कुशलः / तत एव तुल्य-निन्दा-आत्म-संस्तुतिः आत्मनि मनुष्य-आद्य्-अभिमान-कृत-गुण-अगुण-निमित्त-स्तुति-निन्दयोः स्व-असंबन्ध-अनुसन्धानेन तुल्य-चित्तः / तत्-प्रयुक्त-मान-अवमानयोः तत्-प्रयुक्त-मित्र-अरि-पक्षयोर् अपि स्व-संबन्ध-अभावाद् एव तुल्य-चित्तः / तथा देहित्व-प्रयुक्त-सर्व-आरम्भ-परित्यागी / य एवं-भूतः, स गुण-अतीत उच्यते //
BhGR_p359329 SK अथैवंरूपगुणात्यये प्रधानहेतुम् आह --
128 SK अथ एवं-रूप-गुण-अत्यये प्रधान-हेतुम् आह ---
14.26 SK मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते / स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते //
130 SK मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते / स गुणान् समतीत्य एतान् ब्रह्म-भूयाय कल्पते //
BhGR_p359551 SK ᳚नान्यं गुणेभ्यः कर्तारम्᳚ इत्यादिनोक्तेन प्रकृत्यात्मविवेकानुसन्धानमात्रेण न गुणात्ययः संपत्स्यते; तस्यानादिकालप्रवृत्तिविपरीतवासनाबाध्यत्वसंभवात् / माम् सत्यसङ्कल्पं परमकारुणिकम् आश्रितवात्सल्यजलधिम्, अव्यभिचारेन ऐकान्त्यविशिष्टेन भक्तियोगेन च यः सेवते, स एतान् सत्त्वादीन् गुणान् दुरत्ययान् अतीत्य ब्रह्मभूयाय ब्रह्मत्वाय कल्पते; ब्रह्मभावयोग्यो भवति / यथावस्थितम् आत्मानम् अमृतम् अव्ययं प्राप्नोतीत्यर्थः // Bह्GR_१४.२६ //
132 SK ᳚न अन्यं गुणेभ्यः कर्तारम्᳚ इत्य्-आदिन ऊक्तेन प्रकृत्य्-आत्म-विवेक-अनुसन्धान-मात्रेण न गुण-अत्ययः संपत्स्यते; तस्य अनादि-काल-प्रवृत्ति-विपरीत-वासना-बाध्यत्व-संभवात् / माम् सत्य-सङ्कल्पं परम-कारुणिकम् आश्रित-वात्सल्य-जलधिम्, अव्यभिचारेन ऐकान्त्य-विशिष्टेन भक्ति-योगेन च यः सेवते, स एतान् सत्त्व-आदीन् गुणान् दुरत्ययान् अतीत्य ब्रह्म-भूयाय ब्रह्मत्वाय कल्पते; ब्रह्म-भाव-योग्यो भवति / यथा-अवस्थितम् आत्मानम् अमृतम् अव्ययं प्राप्नोति इत्य्-अर्थः // Bह्GR_१४.२६ //
14.27 SK ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च / शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च //
134 SK ब्रह्मणो हि प्रतिष्ठ आहम् अमृतस्य अव्ययस्य च / शाश्वतस्य च धर्मस्य सुखस्य एकान्तिकस्य च //
14.27 SK हिशब्दो हेतौ; यस्माद् अहम् अव्यभिचारिभक्तियोगेन सेवितो ऽमृतस्याव्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयितनित्याइश्वर्यस्य; एइकान्तिकस्य च सुखस्य ᳚वासुदेवः सर्वम्᳚ इत्यादिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्येत्यर्थः / यद्य् अपि शाश्वतधर्मशब्दः प्रापकवचनः, तथापि पूर्वोत्तरयोः प्राप्यरूपत्वेन तत्साहचर्यादयम् अपि प्राप्यलक्षकः / एतद् उक्तं भवति -- पूर्वत्र ᳚दैवी ह्य् एषा गुणमयी मम माया दुरत्यया / माम् एव ये प्रपद्यन्ते᳚ इत्य् आरभ्य गुणात्ययस्य तत्पूर्वकाक्षरैर् भगवत्प्राप्तीनां च भगवत्प्रपत्त्येकोपायतायाः प्रतिपादितत्वाद् एकान्तभगवत्प्रपत्त्येकोपायो गुणात्ययः तत्पूर्वकब्रह्मभावश् चेति //
136 SK हि-शब्दो हेतौ; यस्माद् अहम् अव्यभिचारि-भक्ति-योगेन सेवितो ऽमृतस्य अव्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयित-नित्य-ऐश्वर्यस्य; एइकान्तिकस्य च सुखस्य ᳚वासु-देवः सर्वम्᳚ इत्य्-आदिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्य इत्य्-अर्थः / यद्य् अपि शाश्वत-धर्म-शब्दः प्रापक-वचनः, तथ आपि पूर्व-उत्तरयोः प्राप्य-रूपत्वेन तत्-साहचर्य-आदयम् अपि प्राप्य-लक्षकः / एतद् उक्तं भवति --- पूर्वत्र ᳚दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया / माम् एव ये प्रपद्यन्ते᳚ इत्य् आरभ्य गुण-अत्ययस्य तत्-पूर्वक-अक्षरैर् भगवत्-प्राप्तीनां च भगवत्-प्रपत्त्य्-एक-उपायतायाः प्रतिपादितत्वाद् एक-अन्त-भगवत्-प्रपत्त्य्-एक-उपायो गुण-अत्ययः तत्-पूर्वक-ब्रह्म-भावश् च इति //
BhGR_p360939 SK क्षेत्राध्याये क्षेत्रक्षेत्रज्ञभूतयोः प्रकृतिपुरुषयोः स्वरूपं विशोध्य विशुद्धस्यापरिच्छिन्नज्ञानैकाकारस्यैव पुरुषस्य प्राकृतगुणसङ्गप्रवाहनिमित्तो देवाद्याकारपरिणतप्रकृतिसंबन्धो ऽनादिर् इत्य् उक्तम् / अनन्तरे चाध्याये पुरुषस्य कार्यकारणोभयावस्थप्रकृतिसंबन्धो गुणसङ्गमूलो भगवतैव कृत इत्य् उक्त्वा गुणसङ्गप्रकारं सविस्तरं प्रतिपाद्य गुणसङ्गनिवृत्तिपूर्वकात्मयाथात्म्यावाप्तिश् च भगवद्भक्तिमूलेत्य् उक्तम् / इदानीं भजनीयस्य भगवतः क्षराक्षरात्मकबद्धमुक्तविभूतिमत्ताम्, विभूतिभूतात् क्षराक्षरपुरुषद्वयान् निखिलहेयप्रत्यनीककल्याणैक्तानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवतः पुरुषोत्तमत्वं च वक्तुम् आरभते / तत्र तावद् असङ्गरूपशस्त्रच्छिन्नबन्धाम् अक्षराख्यविभूतिं वक्तुं छेद्यरूपबन्धाकारेण विततम् अचित्परिणामविशेषम् अश्वत्थवृक्षाकारम् कल्पयन् --
138 SK क्षेत्र-अध्याये क्षेत्र-क्षेत्र-ज्ञ-भूतयोः प्रकृति-पुरुषयोः स्व-रूपं विशोध्य विशुद्धस्य अपरिच्छिन्न-ज्ञान-एक-आकारस्य एव पुरुषस्य प्राकृत-गुण-सङ्ग-प्रवाह-निमित्तो देव-आद्य्-आकार-परिणत-प्रकृति-संबन्धो ऽनादिर् इत्य् उक्तम् / अनन्तरे च अध्याये पुरुषस्य कार्य-कारण-उभय-अवस्थ-प्रकृति-संबन्धो गुण-सङ्ग-मूलो भगवत ऐव कृत इत्य् उक्त्वा गुण-सङ्ग-प्रकारं स-विस्तरं प्रतिपाद्य गुण-सङ्ग-निवृत्ति-पूर्वक-आत्म-याथात्म्य-अवाप्तिश् च भगवद्-भक्ति-मूल ईत्य् उक्तम् / इदानीं भजनीयस्य भगवतः क्षर-अक्षर-आत्मक-बद्ध-मुक्त-विभूतिमत्ताम्, विभूति-भूतात् क्षर-अक्षर-पुरुष-द्वयान् निखिल-हेय-प्रत्यनीक-कल्याण-एक्तानतया अत्यन्त-उत्कर्षेण विसजातीयस्य भगवतः पुरुष-उत्तमत्वं च वक्तुम् आरभते / तत्र तावद् असङ्ग-रूप-शस्त्र-च्छिन्न-बन्धाम् अक्षर-आख्य-विभूतिं वक्तुं छेद्य-रूप-बन्ध-आकारेण विततम् अचित्-परिणाम-विशेषम् अश्वत्थ-वृक्ष-आकारम् कल्पयन् ---
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).
Source