Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 16

SK
अभयं सत्त्वसंशुद्धिर् ज्ञानयोगव्यवस्थितिः | दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ||
SK
अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः | दानं दमश् च यज्ञश् च स्व-अध्यायस् तप आर्जवम् ||
SK
अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् | दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ||
SK
अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् | दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ||
SK
तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता | भवन्ति संपदं दैवीम् अभि जातस्य भारत ||
SK
तेजः क्षमा धृतिः शौचम् अद्रोहो न अतिमानिता | भवन्ति संपदं दैवीम् अभि जातस्य भारत ||
SK
इष्टानिष्टवियोगसंयोगरूपस्य दुःखस्य हेतुदर्शनजं दुःखं भयम्, तन्निवृत्तिर् अभयम् / सत्त्वसंशुद्धिः सत्त्वस्यान्तःकरणस्य रजस्तमोभ्याम् अस्पृष्टत्वम् / ज्ञानयोगव्यवस्थितिः प्रकृतिवियुक्तात्मस्वरूपविवेकनिष्ठा / दानम् न्यायार्जितधनस्य पात्रे प्रतिपादनम् / दमः मनसो विषयोन्मुख्यनिवृत्तिसंशीलनम् / यज्ञः फलाभिसन्धिरहितभगवदाराधनरूपमहायज्ञाद्यनुष्ठानम् / स्वाध्यायः सविभूतेर् भगवतस् तदाराधनप्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्यनुसन्धाय वेदाभ्यासनिष्ठा / तपः कृच्छ्रचान्द्रायणद्वादश्युपवासादेर् भगवत्प्रीणनकर्मयोग्यतापादनस्य करणम् / आर्जवम् मनोवाक्कायवृत्तीनाम् एकनिष्ठता परेषु / अहिंसा परपीडावर्जनम् / सत्यम् यथादृष्टार्थगोचरभूतहितवाक्यम् / अक्रोधः परपीडाफलचित्तविकाररहितत्वम् / त्यागः आत्महितप्रत्यनीकपरिग्रहविमोचनम् / शान्तिः इन्द्रियाणां विषयप्रावण्यनिरोधसंशीलनम् / अपैशुनम् परानर्थकरवाक्यनिवेदनाकरणम् / दया भूतेषु -- सर्वभूतेषु दुःखासहिष्णुत्वम् / अलोलुप्त्वम् अलोलुपत्वम् / अलोलुत्वम् इति वा पाठः; विषयेषु निस्स्पृहत्वम् इत्यर्थः / मार्दवम् अकाठिन्यम्, साधुजनसंश्लेषार्हतेत्यर्थः / ह्रीः अकार्यकरणे व्रीडा / अचापलम् स्पृहणीयविषयसन्निधौ अचञ्चलत्वम् / तेजः दुर्जनैर् अनभिभवनीयत्वम् / क्षमा परनिमित्तपीडानुभवे ऽपि परेषु तं प्रति चित्तविकाररहितता / धृतिः महत्याम् अप्य् आपदि कृत्यकर्तव्यतावधारणम् / शौचम् बाह्यान्तरकरणानां कृत्ययोग्यता शास्त्रीया / अद्रोहः परेष्व् अनुपरोधः; परेषु स्वच्छन्दवृत्तिनिरोधरहितत्वम् इत्यर्थः / नातिमानिता -- अस्थाने गर्वो ऽतिमानित्वम्; तद्रहितता / एते गुणाः दैवीं संपदम् अभिजातस्य भवन्ति / देवसंबन्धिनी संपद् दैवी; देवा भगवदाज्ञानुवृत्तिशीलाः; तेषां संपत् / सा च भगवदाज्ञानुवृत्तिर् एव / ताम् अभिजातस्य ताम् अभिमुखीकृत्य जातस्य, तां निवर्तयितुं जातस्य भवन्तीत्यर्थः //
SK
इष्ट-अनिष्ट-वियोग-संयोग-रूपस्य दुःखस्य हेतु-दर्शन-जं दुःखं भयम्, तन्-निवृत्तिर् अभयम् / सत्त्व-संशुद्धिः सत्त्वस्य अन्तः-करणस्य रजस्-तमोभ्याम् अस्पृष्टत्वम् / ज्ञान-योग-व्यवस्थितिः प्रकृति-वियुक्त-आत्म-स्व-रूप-विवेक-निष्ठा / दानम् न्याय-अर्जित-धनस्य पात्रे प्रतिपादनम् / दमः मनसो विषय-उन्मुख्य-निवृत्ति-संशीलनम् / यज्ञः फल-अभिसन्धि-रहित-भगवद्-आराधन-रूप-महा-यज्ञ-आद्य्-अनुष्ठानम् / स्व-अध्यायः स-विभूतेर् भगवतस् तद्-आराधन-प्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्य्-अनुसन्धाय वेद-अभ्यास-निष्ठा / तपः कृच्छ्र-चान्द्रायण-द्वादश्य्-उपवास-आदेर् भगवत्-प्रीणन-कर्म-योग्यता-आपादनस्य करणम् / आर्जवम् मनो-वाक्-काय-वृत्तीनाम् एक-निष्ठता परेषु / अहिंसा पर-पीडा-वर्जनम् / सत्यम् यथा-दृष्ट-अर्थ-गोचर-भूत-हित-वाक्यम् / अक्रोधः पर-पीडा-फल-चित्त-विकार-रहितत्वम् / त्यागः आत्म-हित-प्रत्यनीक-परिग्रह-विमोचनम् / शान्तिः इन्द्रियाणां विषय-प्रावण्य-निरोध-संशीलनम् / अपैशुनम् पर-अनर्थ-कर-वाक्य-निवेदन-अकरणम् / दया भूतेषु --- सर्व-भूतेषु दुःख-असहिष्णुत्वम् / अलोलुप्त्वम् अलोलुपत्वम् / अलोलुत्वम् इति वा पाठः; विषयेषु निस्स्पृहत्वम् इत्य्-अर्थः / मार्दवम् अकाठिन्यम्, साधु-जन-संश्लेष-अर्हत ईत्य्-अर्थः / ह्रीः अकार्य-करणे व्रीडा / अचापलम् स्पृहणीय-विषय-सन्निधौ अचञ्चलत्वम् / तेजः दुर्जनैर् अनभिभवनीयत्वम् / क्षमा पर-निमित्त-पीडा-अनुभवे ऽपि परेषु तं प्रति चित्त-विकार-रहितता / धृतिः महत्याम् अप्य् आपदि कृत्य-कर्तव्यता-अवधारणम् / शौचम् बाह्य-अन्तर-करणानां कृत्य-योग्यता शास्त्रीया / अद्रोहः परेष्व् अनुपरोधः; परेषु स्वच्छन्द-वृत्ति-निरोध-रहितत्वम् इत्य्-अर्थः / न अतिमानिता --- अस्थाने गर्वो ऽतिमानित्वम्; तद्-रहितता / एते गुणाः दैवीं संपदम् अभिजातस्य भवन्ति / देव-संबन्धिनी संपद् दैवी; देवा भगवद्-आज्ञा-अनुवृत्ति-शीलाः; तेषां संपत् / सा च भगवद्-आज्ञा-अनुवृत्तिर् एव / ताम् अभिजातस्य ताम् अभिमुखी-कृत्य जातस्य, तां निवर्तयितुं जातस्य भवन्ति इत्य्-अर्थः //
SK
दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च | अज्ञानं चाभिजातस्य पार्थ सम्पदम् असुरीम् ||
SK
दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च | अज्ञानं च अभिजातस्य पार्थ सम्पदम् असुरीम् ||
SK
दम्भः धार्मिकत्वख्यापनाय धर्मानुष्ठानम् / दर्पः कृत्याकृत्याविवेककरो विषयानुभवनिमित्तो हर्षः / अतिमानश् च स्वविद्याभिजनान् अनुगुणो ऽभिमानः / क्रोधः परपिडाफलचित्तविकारः / पारुष्यम् साधूनाम् उद्वेगकरः स्वभावः / अज्ञानम् परावरतत्त्वकृत्याकृत्याविवेकः / एते स्वभावाः आसुरीं संपदम् अभिजातस्य भवन्ति / असुराः भगवदाज्ञातिवृत्तिशीलाः //
SK
दम्भः धार्मिकत्व-ख्यापनाय धर्म-अनुष्ठानम् / दर्पः कृत्य-अकृत्य-अविवेक-करो विषय-अनुभव-निमित्तो हर्षः / अतिमानश् च स्व-विद्या-अभिजनान् अनुगुणो ऽभिमानः / क्रोधः पर-पिडा-फल-चित्त-विकारः / पारुष्यम् साधूनाम् उद्वेग-करः स्व-भावः / अज्ञानम् पर-अवर-तत्त्व-कृत्य-अकृत्य-अविवेकः / एते स्व-भावाः आसुरीं संपदम् अभिजातस्य भवन्ति / असुराः भगवद्-आज्ञा-अतिवृत्ति-शीलाः //
SK
दैवी संपद् विमोक्षाय निबन्धायासुरी मता |
SK
दैवी संपद् विमोक्षाय निबन्धाया असुरी मता |
SK
दैवी मदाज्ञानुवृत्तिरूपा संपद् विमोक्षाय बन्धान् मुक्तये भवति / क्रमेण मत्प्राप्तये भवतीत्यर्थः / आसुरी मदाज्ञातिवृत्तिरूपा संपन् निबन्धाय भवति अधोगतिप्राप्तये भवतीत्यर्थः //
SK
दैवी मद्-आज्ञा-अनुवृत्ति-रूपा संपद् विमोक्षाय बन्धान् मुक्तये भवति / क्रमेण मत्-प्राप्तये भवति इत्य्-अर्थः / आसुरी मद्-आज्ञा-अतिवृत्ति-रूपा संपन् निबन्धाय भवति अधो-गति-प्राप्तये भवति इत्य्-अर्थः //
SK
एतच् छ्रुत्वा स्वप्रकृत्यनिर्धारणाद् अतिभीतायार्जुनायैवम् आह --
SK
एतच् छ्रुत्वा स्व-प्रकृत्य्-अनिर्धारणाद् अतिभीताय अर्जुनाय एवम् आह ---
SK
मा शुचस् संपदं दैवीम् अभिजातो ऽसि पाण्डव ||
SK
मा शुचस् संपदं दैवीम् अभिजातो ऽसि पाण्डव ||
SK
शोकं मा कृथाः; त्वं तु दैवीं संपदम् अभिजातो ऽसि / पाण्डव / धार्मिकाग्रेसरस्य हि पाण्डोस् तनयस् त्वम् इत्यभिप्रायः //
SK
शोकं मा कृथाः; त्वं तु दैवीं संपदम् अभिजातो ऽसि / पाण्डव / धार्मिक-अग्रेसरस्य हि पाण्डोस् तनयस् त्वम् इत्य्-अभिप्रायः //
SK
द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च | दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ||
SK
द्वौ भूत-सर्गौ लोके ऽस्मिन् दैव आसुर एव च | दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ||
SK
अस्मिन् कर्मलोके कर्मकराणां भूतानां सर्गो द्विविधौ दैवश् चासुरश् चेति / सर्गः उत्पत्तिः, प्राचीनपुण्यपापरूपकर्मवशाद् भगवदाज्ञानुवृत्तितद्विपरीतकरणायोत्पत्तिकाल एव विभागेन भूतान्य् उत्पद्यन्त इत्यर्थः / तत्र दैवः सर्गो विस्तरशः प्रोक्तः -- देवानां मदाज्ञानुवृत्तिशीलानाम् उत्पत्तिर् यदाचारकरणार्था, स आचारः कर्मयोगज्ञानयोगभक्तियोगरूपो विस्तरशः प्रोक्तः / असुराणां सर्गश् च यदाचारार्थः, तम् आचारं मे शृणु -- मम सकाशाच् छृणु //
SK
अस्मिन् कर्म-लोके कर्म-कराणां भूतानां सर्गो द्वि-विधौ दैवश् चा असुरश् च इति / सर्गः उत्पत्तिः, प्राचीन-पुण्य-पाप-रूप-कर्म-वशाद् भगवद्-आज्ञा-अनुवृत्ति-तद्-विपरीत-करणाय उत्पत्ति-काल एव विभागेन भूतान्य् उत्पद्यन्त इत्य्-अर्थः / तत्र दैवः सर्गो विस्तरशः प्रोक्तः --- देवानां मद्-आज्ञा-अनुवृत्ति-शीलानाम् उत्पत्तिर् यद्-आचार-करण-अर्था, स आचारः कर्म-योग-ज्ञान-योग-भक्ति-योग-रूपो विस्तरशः प्रोक्तः / असुराणां सर्गश् च यद्-आचार-अर्थः, तम् आचारं मे शृणु --- मम सकाशाच् छृणु //
SK
प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः | न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||
SK
प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः | न शौचं न अपि चा अचारो न सत्यं तेषु विद्यते ||
SK
प्रवृत्तिं च निवृत्तिं च अभ्युदयसाधनं मोक्षसाधनं च वैदिकं धर्मम् आसुरा न विदुः न जानन्ति / शौचम् वैदिककर्मयोग्यत्वं शास्त्रसिद्धम्; तद् बाह्यम् आन्तरं चासुरेषु न विद्यते / नापि चाचारः तद् बाह्यान्तरशौचं येन सन्ध्यावन्दनादिना आचारेण जायते, सो ऽप्य् आचारस् तेषु न विद्यते / यथोक्तम्, ᳚संध्याहीनो ऽशुचिर् नित्यम् अनर्हस् सर्वकर्मसु᳚ इति / तथा सत्यं च तेषु न विद्यते यथाज्ञातभूतहितरूपभाषणं तेषु न विद्यते //
SK
प्रवृत्तिं च निवृत्तिं च अभ्युदय-साधनं मोक्ष-साधनं च वैदिकं धर्मम् आसुरा न विदुः न जानन्ति / शौचम् वैदिक-कर्म-योग्यत्वं शास्त्र-सिद्धम्; तद् बाह्यम् आन्तरं चा असुरेषु न विद्यते / न अपि चा अचारः तद् बाह्य-अन्तर-शौचं येन सन्ध्या-वन्दन-आदिना आचारेण जायते, सो ऽप्य् आचारस् तेषु न विद्यते / यथा-उक्तम्, ᳚संध्या-हीनो ऽशुचिर् नित्यम् अनर्हस् सर्व-कर्मसु᳚ इति / तथा सत्यं च तेषु न विद्यते यथा-ज्ञात-भूत-हित-रूप-भाषणं तेषु न विद्यते //
SK
किं च --
SK
किं च ---
SK
असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् | अपरस्परसंभूतं किम् अन्यत् कामहेतुकम् ||
SK
असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् | अ-परस्पर-संभूतं किम् अन्यत् काम-हेतुकम् ||
SK
असत्यम् जगद् एतत् सत्यशब्दनिर्दिष्टब्रह्मकार्यतया ब्रह्मात्मकम् इति नाहुः / अप्रतिष्ठम् तथा ब्रह्मणि प्रतिष्ठितम् इति न वदन्ति / ब्रह्मणानन्तेन धृता हि पृथिवी सर्वान् लोकान् बिभर्ति / यथोक्तम्, ᳚तेनेयं नागवर्येण शिरसा विधृता मही / बिभर्ति मालां लोकानां सद् एवासुरमानुषाम्᳚ इति / अनीश्वरम् / सत्यसंकल्पेन परेण ब्रह्मणा सर्वेश्वरेण मयैतन्नियमितम् इति च न वदन्ति / ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚ इति ह्य् उक्तम् / वदन्ति चैवम् अपरस् परसंभूतम्; किम् अन्यत् / योषित्पुरुषयोः परस्परसंबन्धेन जातम् इदं मनुष्यपश्वादिकम् उपलभ्यते; अनेवंभूतं किम् अन्यद् उपलभ्यते ? किंचिद् अपि नोपलभ्यत इत्यर्थः / अतः सर्वम् इदं जगत् कामहेतुकम् इति //
SK
असत्यम् जगद् एतत् सत्य-शब्द-निर्दिष्ट-ब्रह्म-कार्यतया ब्रह्म-आत्मकम् इति ना अहुः / अप्रतिष्ठम् तथा ब्रह्मणि प्रतिष्ठितम् इति न वदन्ति / ब्रह्मण आनन्तेन धृता हि पृथिवी सर्वान् लोकान् बिभर्ति / यथा-उक्तम्, ᳚तेन इयं नाग-वर्येण शिरसा विधृता मही / बिभर्ति मालां लोकानां सद् एव असुर-मानुषाम्᳚ इति / अनीश्वरम् / सत्य-संकल्पेन परेण ब्रह्मणा सर्व-ईश्वरेण मय ऐतन्-नियमितम् इति च न वदन्ति / ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚ इति ह्य् उक्तम् / वदन्ति च एवम् अपरस् पर-संभूतम्; किम् अन्यत् / योषित्-पुरुषयोः परस्पर-संबन्धेन जातम् इदं मनुष्य-पश्व्-आदिकम् उपलभ्यते; अनेवं-भूतं किम् अन्यद् उपलभ्यते ? किंचिद् अपि न उपलभ्यत इत्य्-अर्थः / अतः सर्वम् इदं जगत् काम-हेतुकम् इति //
SK
एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ऽल्पबुद्धयः | प्रभवन्त्य् उग्रकर्माणः क्षयाय जगतो ऽशुभाः ||
SK
एतां दृष्टिम् अवष्टभ्य नष्ट-आत्मानो ऽल्प-बुद्धयः | प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतो ऽशुभाः ||
SK
एतां दृष्टिम् अवष्टभ्य अवलम्ब्य, नष्टात्मानः अदृष्टदेहातिरिक्तात्मानः, अल्पबुद्धयः घटादिवज् ज्ञेयभूते देहे ज्ञातृत्वेन देहव्यतिरिक्त आत्मोपलभ्यत इति विवेकाकुशलाः, उग्रकर्माणः सर्वेषां हिंसका जगतः क्षयाय प्रभवन्ति //
SK
एतां दृष्टिम् अवष्टभ्य अवलम्ब्य, नष्ट-आत्मानः अदृष्ट-देह-अतिरिक्त-आत्मानः, अल्प-बुद्धयः घट-आदिवज् ज्ञेय-भूते देहे ज्ञातृत्वेन देह-व्यतिरिक्त आत्म उपलभ्यत इति विवेक-अकुशलाः, उग्र-कर्माणः सर्वेषां हिंसका जगतः क्षयाय प्रभवन्ति //
SK
कामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः | मोहाद् गृहीत्वासद्ग्राहान् प्रवर्तन्ते ऽशुचिव्रताः ||
SK
कामम् आश्रित्य दुष्पूरं दम्भ-मान-मद-अन्विताः | मोहाद् गृहीत्व आसद्-ग्राहान् प्रवर्तन्ते ऽशुचि-व्रताः ||
SK
दुष्पूरम् दुष्प्रापविषयं कामम् आश्रित्य तत्सिसाधयिषया मोहाद् अज्ञानात्, असद्ग्राहान् अन्यायगृहीतपरिग्रहान् गृहीत्वा, अशुचिव्रताः अशास्त्रविहितव्रतयुक्ताः दम्भमानमदान्विताः प्रवर्तन्ते //
SK
दुष्पूरम् दुष्प्राप-विषयं कामम् आश्रित्य तत्-सिसाधयिषया मोहाद् अज्ञानात्, असद्-ग्राहान् अ-न्याय-गृहीत-परिग्रहान् गृहीत्वा, अशुचि-व्रताः अ-शास्त्र-विहित-व्रत-युक्ताः दम्भमान-मद-अन्विताः प्रवर्तन्ते //
SK
चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः | कामोपभोगपरमा एतावद् इति निश्चिताः ||
SK
चिन्ताम् अपरिमेयां च प्रलय-अन्ताम् उपाश्रिताः | काम-उपभोग-परमा एतावद् इति निश्चिताः ||
SK
अद्य श्वो वा मुमूर्षवः चिन्ताम् अपरिमेयाम् -- अपरिच्छेद्यां प्रलयान्तां प्राकृतप्रलयावधिकालसाध्यविषयाम् उपाश्रिताः, तथा कामोपभोगपरमाः कामोपभोग एव परमपुरुषार्थ इति मन्वानाः, एतावद् इति निश्चिताः इतो ऽधिकः पुरुषार्थो न विद्यत इति संजातनिश्चयाः //
SK
अद्य श्वो वा मुमूर्षवः चिन्ताम् अपरिमेयाम् --- अपरिच्छेद्यां प्रलय-अन्तां प्राकृत-प्रलय-अवधि-काल-साध्य-विषयाम् उपाश्रिताः, तथा काम-उपभोग-परमाः काम-उपभोग एव परम-पुरुष-अर्थ इति मन्वानाः, एतावद् इति निश्चिताः इतो ऽधिकः पुरुष-अर्थो न विद्यत इति संजात-निश्चयाः //
SK
आशापाशशतैर् बद्धाः कामक्रोधपरायणाः | ईहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयान् ||
SK
आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः | ईहन्ते काम-भोग-अर्थम् अ-न्यायेन अर्थ-सञ्चयान् ||
SK
आशापाशशतैः आशाख्यपाशशतैर् बद्धाः, कामक्रोधपरायणाः कामक्रोधैकनिष्ठाः, कामभोगार्थम् अन्यायेनार्थसंचयान् प्रति ईहन्ते //
SK
आश-अपाश-शतैः आश-आख्य-पाश-शतैर् बद्धाः, काम-क्रोध-परायणाः काम-क्रोध-एक-निष्ठाः, काम-भोग-अर्थम् अ-न्यायेन अर्थ-संचयान् प्रति ईहन्ते //
SK
इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनोरथम् | इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ||
SK
इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनो-रथम् | इदम् अस्ति इदम् अपि मे भविष्यति पुनर् धनम् ||
SK
इदम् क्षेत्रपुत्रादिकं सर्वं मया मत्सामर्थ्येनैव लब्धम्, नादृष्टादिना; इमं च मनोरथम् अहम् एव प्राप्स्ये, नादृष्टादिसहितः / इदं धनं मत्सामर्थ्येन लब्धं मे अस्ति, इदम् अपि पुनर् मे मत्सामर्थ्येनैव भविष्यति //
SK
इदम् क्षेत्र-पुत्र-आदिकं सर्वं मया मत्-सामर्थ्येन एव लब्धम्, न अदृष्ट-आदिना; इमं च मनो-रथम् अहम् एव प्राप्स्ये, न अदृष्ट-आदि-सहितः / इदं धनं मत्-सामर्थ्येन लब्धं मे अस्ति, इदम् अपि पुनर् मे मत्-सामर्थ्येन एव भविष्यति //
SK
असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि |
SK
असौ मया हतः शत्रुर् हनिष्ये च अपरान् अपि |
SK
असौ मया बलवता हतः शत्रुः / अपरान् अपि शत्रून् अहं शूरो धीरश् च हनिष्ये / किम् अत्र मन्दधीभिर् दुर्बलैः परिकल्पितेनादृष्टपरिकरेण //
SK
असौ मया बलवता हतः शत्रुः / अपरान् अपि शत्रून् अहं शूरो धीरश् च हनिष्ये / किम् अत्र मन्द-धीभिर् दुर्बलैः परिकल्पितेन अदृष्ट-परिकरेण //
SK
तथा च --
SK
तथा च ---
SK
ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ||
SK
ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ||
SK
ईश्वरो ऽहम् स्वाधीनो ऽहम्; अन्येषां चाहम् एव नियन्ता / अहं भोगी स्वत एवाहं भोगी; नादृष्टादिभिः / सिद्धो ऽहम् स्वतस्सिद्धो ऽहम्; न कस्माच्चिद् अदृष्टादेः / तथा स्वत एव बलवान्; स्वत एव सुखी //
SK
ईश्वरो ऽहम् स्व-अधीनो ऽहम्; अन्येषां च अहम् एव नियन्ता / अहं भोगी स्वत एव अहं भोगी; न अदृष्ट-आदिभिः / सिद्धो ऽहम् स्वतस्-सिद्धो ऽहम्; न कस्माच्-चिद् अदृष्ट-आदेः / तथा स्वत एव बलवान्; स्वत एव सुखी //
SK
आढ्यो ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति सदृशो मया | यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ||
SK
आढ्यो ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति स-दृशो मया | यक्ष्ये दास्यामि मोदिष्य इत्य्-अज्ञान-विमोहिताः ||
SK
अहं स्वतश् चाढ्यो ऽस्मि; अभिजनवान् अस्मि स्वत एवोत्तमकुले प्रसूतो ऽस्मि; अस्मिन् लोके मया सदृशः को ऽन्यः स्वसामर्थ्यलब्धसर्वविभवो विद्यते? अहं स्वयम् एव यक्ष्ये दास्यामि, मोदिष्ये इत्यज्ञानविमोहिताः ईश्वरानुग्रहनिरपेक्षेण स्वेनैव यागदानादिकं कर्तुं शक्यम् इत्यज्ञानविमोहिता मन्यन्ते //
SK
अहं स्वतश् चा अढ्यो ऽस्मि; अभिजनवान् अस्मि स्वत एव उत्तम-कुले प्रसूतो ऽस्मि; अस्मिन् लोके मया सदृशः को ऽन्यः स्व-सामर्थ्य-लब्ध-सर्व-विभवो विद्यते? अहं स्वयम् एव यक्ष्ये दास्यामि, मोदिष्ये इत्य्-अज्ञान-विमोहिताः ईश्वर-अनुग्रह-निरपेक्षेण स्वेन एव याग-दान-आदिकं कर्तुं शक्यम् इत्य्-अज्ञान-विमोहिता मन्यन्ते //
SK
अनेकचित्तविभ्रान्ता मोहजालसमावृताः | प्रसक्ताः कामभोगेषु पतन्ति नरके ऽशुचौ ||
SK
अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः | प्रसक्ताः काम-भोगेषु पतन्ति नरके ऽशुचौ ||
SK
अदृष्टेश्वरादिसहकारम् ऋते स्वेनैव सर्वं कर्तुं शक्यम् इति कृत्वा, एवं कुर्याम्, तच् च कुर्याम्, अन्यच् च कुर्याम् इत्य् अनेकचित्तविभ्रान्ताः, एवंरूपेण मोहजालेन समावृताः, कामभोगेषु प्रकर्षेण सक्ताः, मध्ये मृताः अशुचौ नरके पतन्ति //
SK
अदृष्ट-ईश्वर-आदि-सह-कारम् ऋते स्वेन एव सर्वं कर्तुं शक्यम् इति कृत्वा, एवं कुर्याम्, तच् च कुर्याम्, अन्यच् च कुर्याम् इत्य् अनेक-चित्त-विभ्रान्ताः, एवं-रूपेण मोह-जालेन समावृताः, काम-भोगेषु प्रकर्षेण सक्ताः, मध्ये मृताः अशुचौ नरके पतन्ति //
SK
आत्मसंभाविताः स्तब्धाः धनमानमदान्विताः | यजन्ते नामयज्ञैस् ते दम्भेनाविधिपूर्वकम् ||
SK
आत्म-संभाविताः स्तब्धाः धन-मान-मद-अन्विताः | यजन्ते नाम-यज्ञैस् ते दम्भेन अविधि-पूर्वकम् ||
SK
आत्मनैव संभाविताः / आत्मनैवात्मानं संभावयन्तीत्यर्थः / स्तब्धाः परिपूर्णं मन्यमाना न किंचित्कुर्वाणाः / कथम् ? धनमानमदान्विताः धनेन विद्याभिजनाभिमानेन च जनितमदान्विताः, नामयज्ञैः नामप्रयोजनैः यष्टेतिनाममात्रप्रयोजनैर् यज्ञैः यजन्ते / तद् अपि दम्भेन हेतुना यष्टृत्वख्यापनाय, अविधिपूर्वकम् अयथाचोदनं यजन्ते //
SK
आत्मन ऐव संभाविताः / आत्मन ऐवा अत्मानं संभावयन्ति इत्य्-अर्थः / स्तब्धाः परिपूर्णं मन्यमाना न किंचित्-कुर्वाणाः / कथम् ? धन-मान-मद-अन्विताः धनेन विद्या-अभिजन-अभिमानेन च जनित-मद-अन्विताः, नाम-यज्ञैः नाम-प्रयोजनैः यष्ट-इति-नाम-मात्र-प्रयोजनैर् यज्ञैः यजन्ते / तद् अपि दम्भेन हेतुना यष्टृत्व-ख्यापनाय, अविधि-पूर्वकम् अयथा-चोदनं यजन्ते //
SK
ते चेदृग्भूता यजन्त इत्य् आह --
SK
ते चा इदृग्-भूता यजन्त इत्य् आह ---
SK
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः | माम् आत्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः ||
SK
अहं-कारं बलं दर्पं कामं क्रोधं च संश्रिताः | माम् आत्म-पर-देहेषु प्रद्विषन्तो ऽभ्यसूयकाः ||
SK
अनन्यापेक्षो ऽहम् एव सर्वं करोमीत्येवंरूपम् अहंकारम् आश्रिताः, तथा सर्वस्य करणे मद्बलम् एव पर्याप्तम् इति च बलम्, अतो मत्सदृशो न कश्चिद् अस्तीति च दर्पम्, एवंभूतस्य मम काममात्रेण सर्वं संपत्स्यत इति कामम्, मम ये अनिष्टकारिणस् तान् सर्वान् हनिष्यामीति च क्रोधम्, एवम् एतान् संश्रिताः, स्वदेहेषु परदेहेषु चावस्थितं सर्वस्य कारयितारं पुरुषोत्तमं माम् अभ्यसूयकाः प्रद्विषन्तः, कुयुक्तिभिर् मत्स्थितौ दोषम् आविष्कुर्वन्तो माम् असहमानाः / अहंकारादिकान् संश्रिता यागादिकं सर्वं क्रियाजातं कुर्वत इत्यर्थः //
SK
अनन्य-अपेक्षो ऽहम् एव सर्वं करोमि इत्य्-एवं-रूपम् अहं-कारम् आश्रिताः, तथा सर्वस्य करणे मद्-बलम् एव पर्याप्तम् इति च बलम्, अतो मत्-सदृशो न कश्चिद् अस्ति इति च दर्पम्, एवं-भूतस्य मम काम-मात्रेण सर्वं संपत्स्यत इति कामम्, मम ये अनिष्ट-कारिणस् तान् सर्वान् हनिष्यामि इति च क्रोधम्, एवम् एतान् संश्रिताः, स्व-देहेषु पर-देहेषु च अवस्थितं सर्वस्य कारयितारं पुरुष-उत्तमं माम् अभ्यसूयकाः प्रद्विषन्तः, कु-युक्तिभिर् मत्-स्थितौ दोषम् आविष्कुर्वन्तो माम् असहमानाः / अहं-कार-आदिकान् संश्रिता याग-आदिकं सर्वं क्रिया-जातं कुर्वत इत्य्-अर्थः //
SK
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् | क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ||
SK
तान् अहं द्विषतः क्रूरान् संसारेषु नर-अधमान् | क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ||
SK
य एवं मां द्विषन्ति, तान् क्रूरान् नराधमान् अशुभान् अहम् अजस्रं संसारेषु जन्मजरामरणादिरूपेण परिवर्तमानेषु संतानेषु, तत्राप्य् आसुरीष्व् एव योनिषु क्षिपामि मदानुकूल्यप्रत्यनीकेष्व् एव जन्मसु क्षिपामि / तत्तज्जन्मप्राप्त्यनुगुणप्रवृत्तिहेतुभूतबुद्धिषु क्रूरास्व् अहम् एव संयोजयामीत्यर्थः //
SK
य एवं मां द्विषन्ति, तान् क्रूरान् नर-अधमान् अशुभान् अहम् अजस्रं संसारेषु जन्म-जरा-मरण-आदि-रूपेण परिवर्तमानेषु संतानेषु, तत्र अप्य् आसुरीष्व् एव योनिषु क्षिपामि मद्-आनुकूल्य-प्रत्यनीकेष्व् एव जन्मसु क्षिपामि / तत्-तज्-जन्म-प्राप्त्य्-अनुगुण-प्रवृत्ति-हेतु-भूत-बुद्धिषु क्रूरास्व् अहम् एव संयोजयामि इत्य्-अर्थः //
SK
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि | माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ||
SK
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि | माम् अप्राप्य एव कौन्तेय ततो यान्त्य् अधमां गतिम् ||
SK
मदानुकूल्यप्रत्यनीकजन्मापन्नाः पुनर् अपि जन्मनि जन्मनि मूढाः मद्विपरीतज्ञाना माम् अप्राप्यैव ᳚अस्ति भगवान् सर्वेश्वरो वासुदेवः᳚ इति ज्ञानम् अप्राप्य ततः ततो जन्मनो ऽधमाम् एव गतिं यान्ति /२०//
SK
मद्-आनुकूल्य-प्रत्यनीक-जन्म-आपन्नाः पुनर् अपि जन्मनि जन्मनि मूढाः मद्-विपरीत-ज्ञाना माम् अप्राप्य एव ᳚अस्ति भगवान् सर्व-ईश्वरो वासुदेवः᳚ इति ज्ञानम् अप्राप्य ततः ततो जन्मनो ऽधमाम् एव गतिं यान्ति /२०//
SK
अस्यासुरस्वभावस्यात्मनाशस्य मूलहेतुम् आह --
SK
अस्य असुर-स्व-भावस्या अत्म-नाशस्य मूल-हेतुम् आह ---
SK
त्रिविधं नरकस्यैतद् द्वारं नाशनम् आत्मनः | कामः क्रोधस् तथा लोभस् तस्माद् एतत्त्रयं त्यजेत् ||
SK
त्रि-विधं नरकस्य एतद् द्वारं नाशनम् आत्मनः | कामः क्रोधस् तथा लोभस् तस्माद् एतत्-त्रयं त्यजेत् ||
SK
अस्यासुरस्वभावरूपस्य नरकस्यैतत् त्रिविधं द्वारम्, तच् चात्मनो नाशनम्; कामः क्रोधो लोभ इति त्रयाणां स्वरूपं पूर्वम् एव व्याख्यातम् / द्वारम् मार्गः; हेतुर् इत्यर्थः / तस्माद् एतत्त्रयं त्यजेत्; तस्माद् अतिघोरनरकहेतुत्वात् कामक्रोधलोभानाम्, एतत्त्रितयं दूरतः परित्यजेत् //
SK
अस्य असुर-स्व-भाव-रूपस्य नरकस्य एतत् त्रि-विधं द्वारम्, तच् चा अत्मनो नाशनम्; कामः क्रोधो लोभ इति त्रयाणां स्व-रूपं पूर्वम् एव व्याख्यातम् / द्वारम् मार्गः; हेतुर् इत्य्-अर्थः / तस्माद् एतत्-त्रयं त्यजेत्; तस्माद् अतिघोर-नरक-हेतुत्वात् काम-क्रोध-लोभानाम्, एतत्-त्रितयं दूरतः परित्यजेत् //
SK
एतैर् विमुक्तः कौन्तेय तमोद्वारैस् त्रिभिर् नरः | आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ||
SK
एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः | आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ||
SK
एतैः कामक्रोधलोभैः तमोद्वारैः मद्विपरीतज्ञानहेतुभिः विमुको नरः आत्मनः श्रेय आचरति लब्धमद्विषयज्ञानो मदानुकूल्ये प्रयतते / ततो माम् एव परां गतिं याति //
SK
एतैः काम-क्रोध-लोभैः तमो-द्वारैः मद्-विपरीत-ज्ञान-हेतुभिः विमुको नरः आत्मनः श्रेय आचरति लब्ध-मद्-विषय-ज्ञानो मद्-आनुकूल्ये प्रयतते / ततो माम् एव परां गतिं याति //
SK
शास्त्रानादरो ऽस्य नरकस्य प्रधानहेतुर् इत्य् आह --
SK
शास्त्र-अनादरो ऽस्य नरकस्य प्रधान-हेतुर् इत्य् आह ---
SK
यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः | न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ||
SK
यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः | न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ||
SK
शास्त्रं वेदाः; विधिः अनुशासनम् / वेदाख्यं मदनुशासनम् उत्सृज्य यः कामकारतो वर्तते स्वच्छन्दानुगुणमार्गेण वर्तते, न स सिद्धिम् अवाप्नोति न काम् अप्य् आमुष्मिकीं सिद्धिम् अवाप्नोति; न सुखं किंचिद् अवाप्नोति / न परां गतिम् / कुतः परां गतिं प्राप्नोतीत्यर्थः //
SK
शास्त्रं वेदाः; विधिः अनुशासनम् / वेद-आख्यं मद्-अनुशासनम् उत्सृज्य यः काम-कारतो वर्तते स्वच्छन्द-अनुगुण-मार्गेण वर्तते, न स सिद्धिम् अवाप्नोति न काम् अप्य् आमुष्मिकीं सिद्धिम् अवाप्नोति; न सुखं किंचिद् अवाप्नोति / न परां गतिम् / कुतः परां गतिं प्राप्नोति इत्य्-अर्थः //
SK
तस्माच् छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ | ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि ||
SK
तस्माच् छास्त्रं प्रमाणं ते कार्य-अकार्य-व्यवस्थितौ | ज्ञात्वा शास्त्र-विधान-उक्तं कर्म कर्तुम् इह अर्हसि ||
SK
तस्मात् कार्याकार्यव्य्वस्थितौ उपादेयानुपादेयव्यवस्थायां शास्त्रम् एव तव प्रमाणम् / धर्मशास्त्रेतिहासपुराणाद्युपबृंहिता वेदाः यद् एव पुरुषोत्तमाख्यं परं तत्त्वं तत्प्रीणनरूपं तत्प्राप्त्युपायभूतं च कर्मावबोधयन्ति, तच् शास्त्रविधानोक्तं तत्त्वं कर्म च ज्ञात्वा यथावद् अन्यूनातिरिक्तं विज्ञाय, कर्तुं त्वम् अर्हसि -- तद् एवोपादातुम् अर्हसि //
SK
तस्मात् कार्य-अकार्य-व्य्वस्थितौ उपादेय-अनुपादेय-व्यवस्थायां शास्त्रम् एव तव प्रमाणम् / धर्म-शास्त्र-इतिहास-पुराण-आद्य्-उपबृंहिता वेदाः यद् एव पुरुष-उत्तम-आख्यं परं तत्त्वं तत्-प्रीणन-रूपं तत्-प्राप्त्य्-उपाय-भूतं च कर्म अवबोधयन्ति, तच् शास्त्र-विधान-उक्तं तत्त्वं कर्म च ज्ञात्वा यथावद् अन्यून-अतिरिक्तं विज्ञाय, कर्तुं त्वम् अर्हसि --- तद् एव उपादातुम् अर्हसि //
SK
देवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानं तत्प्राप्त्युपायज्ञानं च वेदैकमूलम् इत्युक्तम् / इदानीम् अशास्त्रविहितस्यासुरत्वेनाफलत्वम्, शास्त्रविहितस्य च गुणतस् त्रैविध्यम्, शास्त्रसिद्धस्य लक्षणं चोच्यते / तत्राशास्त्रविहितस्य निष्फलत्वम् अजानन् अशास्त्रविहिते श्रद्धासंयुक्ते यागादौ सत्त्वादिनिमित्तफलभेदबुभुत्सया अर्जुनः पृच्छति --
SK
देव-असुर-विभाग-उक्ति-मुखेन प्राप्य-तत्त्व-ज्ञानं तत्-प्राप्त्य्-उपाय-ज्ञानं च वेद-एक-मूलम् इत्य्-उक्तम् / इदानीम् अशास्त्र-विहितस्या असुरत्वेन अफलत्वम्, शास्त्र-विहितस्य च गुणतस् त्रैविध्यम्, शास्त्र-सिद्धस्य लक्षणं च उच्यते / तत्र अशास्त्र-विहितस्य निष्फलत्वम् अजानन् अशास्त्र-विहिते श्रद्धा-संयुक्ते याग-आदौ सत्त्व-आदि-निमित्त-फल-भेद-बुभुत्सया अर्जुनः पृच्छति ---

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source