Rāmānuja's Commentary on the Bhagavadgītā
Bhagavadgītābhāṣya
Bहगवद्गीताभाष्य
SKऊर्ध्वमूलम् अधश्शाखम् अश्वत्थं प्राहुर् अव्ययम् | छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित् ||
SKऊर्ध्व-मूलम् अधश्-शाखम् अश्वत्थं प्राहुर् अव्ययम् | छन्दांसि यस्य पर्णानि यस् तं वेद स वेद-वित् ||
SKयं संसाराख्यम् अश्वथम् ऊर्ध्वमूलम् अधश् शाखम् अव्ययं प्राहुः श्रुतयः, ᳚ऊर्ध्वमूलो ऽवाक्छाख एषो ऽश्वत्थस् सनातनः᳚, ᳚ऊर्ध्वमूलम् अवाक्छाखं वृक्षं यो वेद संप्र्ति᳚ इत्याद्याः / सप्तलोकोपरिनिविष्टचतुर्मुखादित्वेन तस्योर्ध्वमूलत्वम् / पृथिवीनिवासिसकलनरपशुमृगक्रिमिकीटपतङ्गस्थावरान्ततया अधश् शाखत्वम् / असङ्गहेतुभूताद् अ सम्यग्ज्ञनोदयात् प्रवाहरूपेणाच्छेद्यत्वेनाव्ययत्वम् / यस्य चाश्वत्थस्य छन्दांसि पर्णान्य् आहुः / छन्दांसि -- श्रुतयः, ᳚वायव्यं श्वेतम् आलभेत भूतिकामः᳚, ᳚ऐन्द्राग्नम् एकादश कपालं निर्वपेत् प्रजाकामः᳚ इत्यादिश्रुतिप्रतिपादितैः काम्यकर्मभिर् वर्धते ऽयं संसारवृक्ष इति छन्दांस्य् एवास्य पर्णानि / पर्णैर् हि वृक्षो वर्धते / यस् तम् एवंभूतम् अश्वत्थं वेद, स वेदवित् / वेदो हि संसारवृक्षच्छेदोपायं वदति; छेद्यवृक्षस्वरूपज्ञानं छेदनोपायज्ञनोपयोगीति वेदविद् इत्य् उच्यते //
SKयं संसार-आख्यम् अश्वथम् ऊर्ध्व-मूलम् अधश् शाखम् अव्ययं प्राहुः श्रुतयः, ᳚ऊर्ध्व-मूलो ऽवाक्-छाख एषो ऽश्वत्थस् सनातनः᳚, ᳚ऊर्ध्व-मूलम् अवाक्-छाखं वृक्षं यो वेद संप्र्ति᳚ इत्य्-आद्याः / सप्त-लोक-उपरि-निविष्ट-चतुर्-मुख-आदित्वेन तस्या उर्ध्व-मूलत्वम् / पृथिवी-निवासि-सकल-नर-पशु-मृग-क्रिमि-कीट-पतङ्ग-स्थावर-अन्ततया अधश् शाखत्वम् / असङ्ग-हेतु-भूताद् अ सम्यग्ज्ञन-उदयात् प्रवाह-रूपेण अच्छेद्यत्वेन अव्ययत्वम् / यस्य च अश्वत्थस्य छन्दांसि पर्णान्य् आहुः / छन्दांसि --- श्रुतयः, ᳚वायव्यं श्वेतम् आलभेत भूति-कामः᳚, ᳚ऐन्द्राग्नम् एकादश कपालं निर्वपेत् प्रजा-कामः᳚ इत्य्-आदि-श्रुति-प्रतिपादितैः काम्य-कर्मभिर् वर्धते ऽयं संसार-वृक्ष इति छन्दांस्य् एव अस्य पर्णानि / पर्णैर् हि वृक्षो वर्धते / यस् तम् एवं-भूतम् अश्वत्थं वेद, स वेद-वित् / वेदो हि संसार-वृक्ष-च्छेद-उपायं वदति; छेद्य-वृक्ष-स्व-रूप-ज्ञानं छेदन-उपाय-ज्ञन-उपयोगि इति वेद-विद् इत्य् उच्यते //
SKअधश् चोर्ध्वं च प्रसृतास् तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः |
SKअधश् चा उर्ध्वं च प्रसृतास् तस्य शाखा गुण-प्रवृद्धा विषय-प्रवालाः |
SKअधश् च मूलान्य् अनुसंततानि कर्म-अनुबन्धीनि मनुष्य-लोके ||
SKतस्य मनुष्यादिशाखस्य वृक्षस्य तत्तत्कर्मकृता अपराश् च अधः शाखाः पुनर् अपि मनुष्यपश्वादिरूपेण प्रसृता भवन्ति; ऊर्ध्वं च गन्धर्वयक्षदेवादिरूपेण प्रसृता भवन्ति / ताश् च गुणप्रवृद्धाः गुणैः सत्त्वादिभिः प्रवृद्धाः, विषयप्रवालाः शब्दादिविषयपल्लवाः / कथम् इत्य् अत्राह --
SKतस्य मनुष्य-आदि-शाखस्य वृक्षस्य तत्-तत्-कर्म-कृता अपराश् च अधः शाखाः पुनर् अपि मनुष्य-पश्व्-आदि-रूपेण प्रसृता भवन्ति; ऊर्ध्वं च गन्धर्व-यक्ष-देव-आदि-रूपेण प्रसृता भवन्ति / ताश् च गुण-प्रवृद्धाः गुणैः सत्त्व-आदिभिः प्रवृद्धाः, विषय-प्रवालाः शब्द-आदि-विषय-पल्लवाः / कथम् इत्य् अत्रा अह ---
SKअधश् च मूलान्य् अनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ||
SKअधश् चा उर्ध्वं च प्रसृतास् तस्य शाखा गुण-प्रवृद्धा विषय-प्रवालाः |
SKअधश् च मूलान्य् अनुसंततानि कर्म-अनुबन्धीनि मनुष्य-लोके ||
SKब्रह्मलोकमूलस्यास्य वृक्षस्य मनुष्याग्रस्य, अधो मनुष्यलोके मूलान्य् अनुसन्ततानि; तानि च कर्मानुबन्धीनि कर्माण्य् एवानुबन्धीनि मूलानि अधो मनुष्यलोके च भवन्तीत्यर्थः / मनुष्यत्वावस्थायां कृतैर् हि कर्मभिः अधो मनुष्यपश्वादयः, ऊर्ध्वं च देवादयो भवन्ति //
SKब्रह्म-लोक-मूलस्य अस्य वृक्षस्य मनुष्य-अग्रस्य, अधो मनुष्य-लोके मूलान्य् अनुसन्ततानि; तानि च कर्म-अनुबन्धीनि कर्माण्य् एव अनुबन्धीनि मूलानि अधो मनुष्य-लोके च भवन्ति इत्य्-अर्थः / मनुष्यत्व-अवस्थायां कृतैर् हि कर्मभिः अधो मनुष्य-पश्व्-आदयः, ऊर्ध्वं च देव-आदयो भवन्ति //
SKअस्य वृक्षस्य चतुर्-मुख-आदित्वेना उर्ध्व-मूलत्वम्, तत्-सन्तान-परम्परया मनुष्य-अग्रत्वेन अधश् शाखत्वम्, मनुष्यत्वे कृतैः कर्मभिर् मूल-भूतैः पुनर् अप्य् अधश् चा उर्ध्वं च प्रसृत-शाखत्वम् इति यथ ईदं रूपं निर्दिष्टम्, न तथा संसारिभिर् उपलभ्यते / मनुष्यो ऽहं देव-दत्तस्य पुत्रो यज्ञ-दत्तस्य पिता तद्-अनुरूप-प्रिग्रहश् च इत्य् एतावन्-मात्रम् उपलभ्यते / तथा अस्य वृक्षस्य अन्तः विनाशो ऽपि गुण-मय-भोगेष्व् असङ्ग-कृत इति न उपलभ्यते / तथा अस्य गुण-सङ्ग एवा अदिर् इति न उपलभ्यते / तस्य प्रतिष्ठा च अनात्मनि आत्म-अभिमान-रूपम् अज्ञानम् इति न उपलभ्यते; प्रतितिष्ठत्य् अस्मिन्न्+एव इति ह्य् अज्ञानम् एव अस्य प्रतिष्ठा //
SKन रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर् न च संप्रतिष्ठा |
SKन रूपम् अस्य इह तथ ऊपलभ्यते न अन्तो न चा अदिर् न च संप्रतिष्ठा |
SKअस्य वृक्षस्य चतुर्मुखादित्वेनोर्ध्वमूलत्वम्, तत्सन्तानपरम्परया मनुष्याग्रत्वेनाधश् शाखत्वम्, मनुष्यत्वे कृतैः कर्मभिर् मूलभूतैः पुनर् अप्य् अधश् चोर्ध्वं च प्रसृतशाखत्वम् इति यथेदं रूपं निर्दिष्टम्, न तथा संसारिभिर् उपलभ्यते / मनुष्यो ऽहं देवदत्तस्य पुत्रो यज्ञदत्तस्य पिता तदनुरूपप्रिग्रहश् चेत्य् एतावन्मात्रम् उपलभ्यते / तथा अस्य वृक्षस्य अन्तः विनाशो ऽपि गुणमयभोगेष्व् असङ्गकृत इति नोपलभ्यते / तथा अस्य गुणसङ्ग एवादिर् इति नोपलभ्यते / तस्य प्रतिष्ठा च अनात्मनि आत्माभिमानरूपम् अज्ञानम् इति नोपलभ्यते; प्रतितिष्ठत्य् अस्मिन्न्+एवेति ह्य् अज्ञानम् एवास्य प्रतिष्ठा //
SKब्रह्म-लोक-मूलस्य अस्य वृक्षस्य मनुष्य-अग्रस्य, अधो मनुष्य-लोके मूलान्य् अनुसन्ततानि; तानि च कर्म-अनुबन्धीनि कर्माण्य् एव अनुबन्धीनि मूलानि अधो मनुष्य-लोके च भवन्ति इत्य्-अर्थः / मनुष्यत्व-अवस्थायां कृतैर् हि कर्मभिः अधो मनुष्य-पश्व्-आदयः, ऊर्ध्वं च देव-आदयो भवन्ति //
SKअस्य वृक्षस्य चतुर्-मुख-आदित्वेना उर्ध्व-मूलत्वम्, तत्-सन्तान-परम्परया मनुष्य-अग्रत्वेन अधश् शाखत्वम्, मनुष्यत्वे कृतैः कर्मभिर् मूल-भूतैः पुनर् अप्य् अधश् चा उर्ध्वं च प्रसृत-शाखत्वम् इति यथ ईदं रूपं निर्दिष्टम्, न तथा संसारिभिर् उपलभ्यते / मनुष्यो ऽहं देव-दत्तस्य पुत्रो यज्ञ-दत्तस्य पिता तद्-अनुरूप-प्रिग्रहश् च इत्य् एतावन्-मात्रम् उपलभ्यते / तथा अस्य वृक्षस्य अन्तः विनाशो ऽपि गुण-मय-भोगेष्व् असङ्ग-कृत इति न उपलभ्यते / तथा अस्य गुण-सङ्ग एवा अदिर् इति न उपलभ्यते / तस्य प्रतिष्ठा च अनात्मनि आत्म-अभिमान-रूपम् अज्ञानम् इति न उपलभ्यते; प्रतितिष्ठत्य् अस्मिन्न्+एव इति ह्य् अज्ञानम् एव अस्य प्रतिष्ठा //
SKअश्वत्थम् एनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्वा ||
SKअश्वत्थम् एनं सु-विरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्वा ||
SKततः पदं तत् परिमार्गितव्यम् यस्मिन् गता न निवर्तन्ति भूयः |
SKततः पदं तत् परिमार्गितव्यम् यस्मिन् गता न निवर्तन्ति भूयः |
SKएनम् उक्तप्रकारं सुविरूढमूलम् सुष्ठु विविधं रूढमूलम् अश्वत्थं सम्यग्ज्ञानमूलेन दृढेन गुणमयभोगासंगाख्येन शस्त्रेण छित्वा, ततः विषयासंगाद् धेतोः तत् पदं परिमार्गितव्यम् अन्वेषणीयम्, यस्मिन् गता भूयो न निवर्तन्ते //
SKएनम् उक्त-प्रकारं सुविरूढ-मूलम् सुष्ठु विविधं रूढ-मूलम् अश्वत्थं सम्यग्ज्ञान-मूलेन दृढेन गुण-मय-भोग-असंग-आख्येन शस्त्रेण छित्वा, ततः विषय-असंगाद् धेतोः तत् पदं परिमार्गितव्यम् अन्वेषणीयम्, यस्मिन् गता भूयो न निवर्तन्ते //
SKकथम् अनादिकालप्रवृत्तो गुणमयभोगसंगः तन्मूलं च विपरीतज्ञानं निवर्तत इत्य् अत आह --
SKकथम् अनादि-काल-प्रवृत्तो गुण-मय-भोग-संगः तन्-मूलं च विपरीत-ज्ञानं निवर्तत इत्य् अत आह ---
SKतम् एव चाद्यं पुरुषं प्रपद्येद् यतः प्रवृत्तिः प्रसृता पुराणी ||
SKतम् एव चा अद्यं पुरुषं प्रपद्येद् यतः प्रवृत्तिः प्रसृता पुराणी ||
SKअज्ञानादिनिवृत्तये तम् एव च आद्यम् कृत्स्नस्यादिभूतम्, ᳚मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्᳚, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚, ᳚मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय᳚ इत्यादिषूक्तम् आद्यं पुरुषम् एव शरणं प्रपद्येत् तम् एव शरणं प्रपद्येत / यतः यस्मात् कृत्स्नस्य स्रष्टुर् इयं गुणमयभोगसङ्गप्रवृत्तिः, पुराणी पुरातनी प्रसृता / उक्तं हि मयैतत्पूर्वम् एव, ᳚दैवी ह्य् एषा गुणमयी मम् माया दूरत्यया / माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते᳚ इति / प्रपद्येयतः प्रवृत्तिर् इति वा पाठः; तम् एव चाद्यं पुरुषं प्र्पद्य शरणम् उपगम्य, इयतः अज्ञाननिवृत्त्यादेः कृस्त्नस्यैतस्य साधनभूता प्रवृत्तिः पुराणी पुरातनी प्रऋता / पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी / पुरातना हि मुमुक्षवो माम् एव शरणम् उपगम्य निर्मुक्तबन्धास् संजाता इत्यर्थः //
SKअज्ञान-आदि-निवृत्तये तम् एव च आद्यम् कृत्स्नस्या अदि-भूतम्, ᳚मय आध्यक्षेण प्रकृतिः सूयते सचर-अचरम्᳚, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚, ᳚मत्तः परतरं न अन्यत् किञ्चिद् अस्ति धनञ्जय᳚ इत्य्-आदिषु उक्तम् आद्यं पुरुषम् एव शरणं प्रपद्येत् तम् एव शरणं प्रपद्येत / यतः यस्मात् कृत्स्नस्य स्रष्टुर् इयं गुण-मय-भोग-सङ्ग-प्रवृत्तिः, पुराणी पुरातनी प्रसृता / उक्तं हि मय ऐतत्-पूर्वम् एव, ᳚दैवी ह्य् एषा गुण-मयी मम् माया दूरत्यया / माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते᳚ इति / प्रपद्येयतः प्रवृत्तिर् इति वा पाठः; तम् एव चा अद्यं पुरुषं प्र्पद्य शरणम् उपगम्य, इयतः अज्ञान-निवृत्त्य्-आदेः कृस्त्नस्य एतस्य साधन-भूता प्रवृत्तिः पुराणी पुरातनी प्रऋता / पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी / पुरातना हि मुमुक्षवो माम् एव शरणम् उपगम्य निर्मुक्त-बन्धास् संजाता इत्य्-अर्थः //
SKनिर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः | द्वन्द्वैर् विमुक्तास् सुखदुःखसंज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ||
SKनिर्मान-मोहा जित-सङ्ग-दोषा अध्यात्म-नित्या विनिवृत्त-कामाः | द्वन्द्वैर् विमुक्तास् सुख-दुःख-संज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ||
SKएवं मां शरणम् उपगम्य निर्मानमोहाः निर्गतानात्मात्माभिमानरूपमोहाः, जितसङ्गदोषा जितगुणमयभोगसङ्गाख्यदोषाः / अध्यात्मनित्याः आत्मनि यज् ज्ञानं तद् अध्यात्मम्, आत्मज्ञाननिरताः / विनिवृत्तकामाः विनिवृत्ततदितरकामाः सुखदुःखसज्ञैर् द्वन्द्वैश् च विमुक्ताः, अमूढाः आत्मानात्मस्वभवज्ञाः, तद् अव्ययं पदं गच्छन्ति अनवच्छिन्नज्ञानाकारम् आत्मानं यथावस्थितं प्राप्नुवन्ति; मां शरणम् उपगतानां मत्प्रसादादेर् एवैताः सर्वाः प्रवृत्तयः सुशकाः सिद्धिपर्यन्ता भवन्तीत्यर्थः //
SKएवं मां शरणम् उपगम्य निर्मान-मोहाः निर्गत-अनात्म-आत्म-अभिमान-रूप-मोहाः, जित-सङ्ग-दोषा जित-गुण-मय-भोग-सङ्ग-आख्य-दोषाः / अध्यात्म-नित्याः आत्मनि यज् ज्ञानं तद् अध्यात्मम्, आत्म-ज्ञान-निरताः / विनिवृत्त-कामाः विनिवृत्त-तद्-इतर-कामाः सुख-दुःख-सज्ञैर् द्वन्द्वैश् च विमुक्ताः, अमूढाः आत्म-अनात्म-स्व-भव-ज्ञाः, तद् अव्ययं पदं गच्छन्ति अनवच्छिन्न-ज्ञान-अकारम् आत्मानं यथा-अवस्थितं प्राप्नुवन्ति; मां शरणम् उपगतानां मत्-प्रसाद-आदेर् एव एताः सर्वाः प्रवृत्तयः सुशकाः सिद्धि-पर्यन्ता भवन्ति इत्य्-अर्थः //
SKन तद् भासयते सूर्यो न शशाङ्को न पावकः | यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ||
SKन तद् भासयते सूर्यो न शश-अङ्को न पावकः | यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ||
SKतद् अत्मज्योतिर् न सूर्यो भासयते, न शशाङ्कः, न पावकश् च / ज्ञानम् एव हि सर्वस्य प्रकाशकम्; बाह्यानि तु ज्योतींषि विषयेन्द्रियसंबन्धविरोधितमोनिरसनद्वारेणोपकारकाणि / अस्य च प्रकाशको योगः / तद्विरोधि चानादिकर्म / तन्निवर्तनं चोक्तं भगवत्प्रपत्तिमूलम् असङ्गादि / यद् गत्वा पुनर् न निवर्तन्ते, तत् परमं धाम परं ज्योतिः मम मदीयम्; मद्विभूतिभूतः ममांश इत्यर्थः / आदित्यादीनाम् अपि प्रकाशकत्वेन तस्य परमत्वम् / आदित्यादीनि हि ज्योतींषि न ज्ञानज्योतिषः प्रकाशकानि; ज्ञानम् एव सर्वस्य प्रकाशकम् //
SKतद् अत्म-ज्योतिर् न सूर्यो भासयते, न शश-अङ्कः, न पावकश् च / ज्ञानम् एव हि सर्वस्य प्रकाशकम्; बाह्यानि तु ज्योतींषि विषय-इन्द्रिय-संबन्ध-विरोधि-तमो-निरसन-द्वारेण उपकारकाणि / अस्य च प्रकाशको योगः / तद्-विरोधि च अनादि-कर्म / तन्-निवर्तनं च उक्तं भगवत्-प्रपत्ति-मूलम् असङ्ग-आदि / यद् गत्वा पुनर् न निवर्तन्ते, तत् परमं धाम परं ज्योतिः मम मदीयम्; मद्-विभूति-भूतः मम अंश इत्य्-अर्थः / आदित्य-आदीनाम् अपि प्रकाशकत्वेन तस्य परमत्वम् / आदित्य-आदीनि हि ज्योतींषि न ज्ञान-ज्योतिषः प्रकाशकानि; ज्ञानम् एव सर्वस्य प्रकाशकम् //
SKममैवांशो जीवलोके जीवभूतः सनातनः | मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थितानि कर्षति ||
SKमम एव अंशो जीव-लोके जीव-भूतः सनातनः | मनष्-षष्ठानि इन्द्रियाणि प्रकृति-स्थितानि कर्षति ||
SKइत्थम् उक्तस्वरूपः सनातनो ममांश एव सन् कश्चिद् अनादिकर्मरूपाविद्यावेष्टितो जीवभूतो जीवलोके वर्तमानो देवमनुष्यादिप्रकृतिपरिणामविशेषशरीरस्थानि मनष्षष्ठानीन्द्रियाणि कर्षति / कश्चिच् च पूर्वोक्तेन मार्गेणास्या अविद्यायाः मुक्तः स्वेन रूपेणावतिष्ठते / जीवभूतस् त्व् अतिसंकुचितज्ञानाइश्वर्यः कर्मलब्धप्रकृतिपरिणामविशेषरूपशरीरस्थानाम् इन्द्रियाणां मनष्षष्ठानाम् ईश्वरः तानि कर्मानुगुणम् इतस् ततः कर्षति //
SKइत्थम् उक्त-स्व-रूपः सनातनो मम अंश एव सन् कश्चिद् अनादि-कर्म-रूप-अविद्या-वेष्टितो जीव-भूतो जीव-लोके वर्तमानो देव-मनुष्य-आदि-प्रकृति-परिणाम-विशेष-शरीर-स्थानि मनष्-षष्ठानि इन्द्रियाणि कर्षति / कश्चिच् च पूर्व-उक्तेन मार्गेण अस्या अविद्यायाः मुक्तः स्वेन रूपेण अवतिष्ठते / जीव-भूतस् त्व् अतिसंकुचित-ज्ञान-ऐश्वर्यः कर्म-लब्ध-प्रकृति-परिणाम-विशेष-रूप-शरीर-स्थानाम् इन्द्रियाणां मनष्-षष्ठानाम् ईश्वरः तानि कर्म-अनुगुणम् इतस् ततः कर्षति //
SKशरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः | गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ||
SKशरीरं यद् अवाप्नोति यच् च अप्य् उत्क्रामती इश्वरः | गृहीत्व ऐतानि संयाति वायुर् गन्धान् इवा अशयात् ||
SKयच् शरीरम् अवाप्नोति, यमाच् छरीराद् उत्क्रामति, तत्रायम् इन्द्रियाणाम् ईश्वरः एतानि इन्द्रियाणि भूतसूक्ष्मैस् सह गृहीत्वा संयाति वायुर् गन्धान् इवाशयात् / यथा वायुः स्रक्चन्दनकस्तूरिकाद्याशयात् तत्स्थानात् सूक्ष्मावयवैस् सह गन्धान् गृहीत्वान्यत्र संयाति, तद्वद् इत्यर्थः //
SKयच् शरीरम् अवाप्नोति, यमाच् छरीराद् उत्क्रामति, तत्र अयम् इन्द्रियाणाम् ईश्वरः एतानि इन्द्रियाणि भूत-सूक्ष्मैस् सह गृहीत्वा संयाति वायुर् गन्धान् इवा अशयात् / यथा वायुः स्रक्-चन्दन-कस्तूरिक-आद्य्-आशयात् तत्-स्थानात् सूक्ष्म-अवयवैस् सह गन्धान् गृहीत्व आन्यत्र संयाति, तद्वद् इत्य्-अर्थः //
SKकानि पुनस् तानीन्द्रियाणीत्य् अत्राह --
SKकानि पुनस् तानि इन्द्रियाणि इत्य् अत्रा अह ---
SKश्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च | अधिष्ठाय मनश् चायं विषयान् उपसेवते ||
SKश्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च | अधिष्ठाय मनश् च अयं विषयान् उपसेवते ||
SKएतानि मनष्षष्ठानीन्द्रियाणि अधिष्ठाय स्वस्वविषयवृत्त्यनुगुणानि कृत्वा, तान् शब्दादीन् विषयान् उपसेवते उपभुङ्क्ते //
SKएतानि मनष्-षष्ठानि इन्द्रियाणि अधिष्ठाय स्व-स्व-विषय-वृत्त्य्-अनुगुणानि कृत्वा, तान् शब्द-आदीन् विषयान् उपसेवते उपभुङ्क्ते //
SKउत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् | विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||
SKउत्क्रामन्तं स्थितं व आपि भुञ्जानं वा गुण-अन्वितम् | विमूढा न अनुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ||
SKएवं गुणान्वितं सत्त्वादिगुणमयप्रकृतिपरिणामविशेषमनुष्यत्वादिसंस्थानपिण्डसंसृष्टम्, पिण्डविशेषाद् उत्क्रामन्तं पिण्डविशेषे ऽवथितं वा, गुणमयान् विषयान् भुञ्जानं वा कदाचिद् अपि प्रकृतिपरिणामविशेषमनुष्यत्वादिपिण्डाद् विलक्षणं ज्ञानैकाकारं विमूढा नानुपश्यन्ति / विमूढाः मनुष्यत्वादिपिण्डात्मत्वाभिमानिनः / ज्ञानचक्षुषस् तु पिण्डात्मविवेकविषयज्ञानवन्तः सर्वावस्थम् अप्य् एनं विविक्ताकारम् एव पश्यन्ति //
SKएवं गुण-अन्वितं सत्त्व-आदि-गुण-मय-प्रकृति-परिणाम-विशेष-मनुष्यत्व-आदि-संस्थान-पिण्ड-संसृष्टम्, पिण्ड-विशेषाद् उत्क्रामन्तं पिण्ड-विशेषे ऽवथितं वा, गुण-मयान् विषयान् भुञ्जानं वा कदाचिद् अपि प्रकृति-परिणाम-विशेष-मनुष्यत्व-आदि-पिण्डाद् विलक्षणं ज्ञान-एक-आकारं विमूढा न अनुपश्यन्ति / विमूढाः मनुष्यत्व-आदि-पिण्ड-आत्मत्व-अभिमानिनः / ज्ञान-चक्षुषस् तु पिण्ड-आत्म-विवेक-विषय-ज्ञानवन्तः सर्व-अवस्थम् अप्य् एनं विविक्त-आकारम् एव पश्यन्ति //
SKयतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् | यतन्तो ऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ||
SKयतन्तो योगिनश् च एनं पश्यन्त्य् आत्मन्य् अवस्थितम् | यतन्तो ऽप्य् अकृत-आत्मानो न एनं पश्यन्त्य् अचेतसः ||
SKमत्प्रपत्तिपूर्वकं कर्मयोगादिषु यतमानास् तैर् निर्मलान्तःकरणा योगिनो योगाख्येन चक्षुषा आत्मनि शरीरे ऽवस्थितम् अपि शरीराद् विविक्तं स्वेन रूपेणावस्थितम् एनं पश्यन्ति / यतमाना अप्य् अकृतात्मानः मत्प्रपत्तिविरहिणः तत एवासंस्कृतमनसः, तत एव अचेतसः आत्मावलोकनसमर्थचेतोरहिताः नैनं पश्यन्ति //
SKमत्-प्रपत्ति-पूर्वकं कर्म-योग-आदिषु यतमानास् तैर् निर्मल-अन्तःकरणा योगिनो योग-आख्येन चक्षुषा आत्मनि शरीरे ऽवस्थितम् अपि शरीराद् विविक्तं स्वेन रूपेण अवस्थितम् एनं पश्यन्ति / यतमाना अप्य् अकृत-आत्मानः मत्-प्रपत्ति-विरहिणः तत एव असंस्कृत-मनसः, तत एव अचेतसः आत्म-अवलोकन-समर्थ-चेतो-रहिताः न एनं पश्यन्ति //
SKएवं रविचन्द्राग्नीनाम् इन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमुखेनेन्द्रियानुग्राहकतया प्रकाशकानां ज्योतिष्मताम् अपि प्रकाशकज्ञानज्योतिर् आत्मा मुक्तावस्थो जीवावस्थश् च भगवद्विभूतिर् इत्य् उक्तम्, ᳚तद् धाम प्रमं मम᳚, ᳚ममैवांशो जीवलोके जीवभूतस् सनातनः᳚ इति / इदानीम् अचित्परिणामविशेषभूतम् आदित्यादीनां ज्योतिष्मतां ज्योतिर् अपि भगवद् विभूतिर् इत्य् आह --
SKएवं रवि-चन्द्र-अग्नीनाम् इन्द्रिय-सन्निकर्ष-विरोधि-संतमस-निरसन-मुखेन इन्द्रिय-अनुग्राहकतया प्रकाशकानां ज्योतिष्मताम् अपि प्रकाशक-ज्ञान-ज्योतिर् आत्मा मुक्त-अवस्थो जीव-अवस्थश् च भगवद्-विभूतिर् इत्य् उक्तम्, ᳚तद् धाम प्रमं मम᳚, ᳚मम एव अंशो जीव-लोके जीव-भूतस् सनातनः᳚ इति / इदानीम् अचित्-परिणाम-विशेष-भूतम् आदित्य-आदीनां ज्योतिष्मतां ज्योतिर् अपि भगवद् विभूतिर् इत्य् आह ---
SKयद् आदित्यगतं तेजो जगद् भासयते ऽखिलम् | यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ||
SKयद् आदित्य-गतं तेजो जगद् भासयते ऽखिलम् | यच् चन्द्र-मसि यच् च अग्नौ तत् तेजो विद्धि मामकम् ||
SKअखिलस्य जगतो भासकम् एतेषाम् आदित्यादीनां यत् तेजः, तन् मदीयं तेजः तैस् तैर् आराधितेन मया तेभ्यो दत्तम् इति विद्धि //
SKअखिलस्य जगतो भासकम् एतेषाम् आदित्य-आदीनां यत् तेजः, तन् मदीयं तेजः तैस् तैर् आराधितेन मया तेभ्यो दत्तम् इति विद्धि //
SKपृथिव्याश् च भूतधारिण्या धारकत्वशक्तिर् मदीयेत्य् आह --
SKपृथिव्याश् च भूत-धारिण्या धारकत्व-शक्तिर् मदीय ईत्य् आह ---
SKगाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा // पुष्णामि चौषधीः सर्वास् सोमो भूत्वा रसात्मकः ||
SKगाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा // पुष्णामि च ओषधीः सर्वास् सोमो भूत्वा रस-आत्मकः ||
SKअहं पृथिवीम् आविश्य सर्वाणि भूतानि ओजसा ममाप्रतिहतसामर्थ्येन धारयामि / तथाहम् अमृतरसमयस् सोमो भूत्वा सर्वौषधीः पुष्णामि //
SKअहं पृथिवीम् आविश्य सर्वाणि भूतानि ओजसा मम अप्रतिहत-सामर्थ्येन धारयामि / तथ आहम् अमृत-रस-मयस् सोमो भूत्वा सर्व-ओषधीः पुष्णामि //
SKअहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः / प्राणापानसमायुक्तः पचाम्य् अन्नं चतुर्विधम् //
SKअहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः / प्राण-अपान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् //
SKअहं वैश्वानरो जाठरानलो भूत्वा सर्वेषां प्राणिनां देहम् आश्रितः तैर् भुक्तं खाद्यचूष्यलेह्यपेयात्मकं चतुर्विधम् अन्नं प्राणापानवृत्तिभेदसमायुक्तः पचामि //
SKअहं वैश्वानरो जाठर-अनलो भूत्वा सर्वेषां प्राणिनां देहम् आश्रितः तैर् भुक्तं खाद्य-चूष्य-लेह्य-पेय-आत्मकं चतुर्-विधम् अन्नं प्राण-अपान-वृत्ति-भेद-समायुक्तः पचामि //
SKअत्र परमपुरुषविभूतिभूतौ सोमवैश्वानरौ अहं सोमो भूत्वा, वैश्वानरो भूत्वा इति तत्सामानाधिकरण्येन निर्दिष्टौ / तयोश् च सर्वस्य भूतजातस्य च परमपुरुषसामानाधिकरण्यनिर्देशहेतुम् आह --
SKअत्र परम-पुरुष-विभूति-भूतौ सोम-वैश्वानरौ अहं सोमो भूत्वा, वैश्वानरो भूत्वा इति तत्-सामानाधिकरण्येन निर्दिष्टौ / तयोश् च सर्वस्य भूत-जातस्य च परम-पुरुष-सामानाधिकरण्य-निर्देश-हेतुम् आह ---
SKसर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञानम् अपोहनं च / वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्तकृद् वेदविद् एव चाहम् //
SKसर्वस्य च अहं हृदि सन्निविष्टो मत्तः स्मृति-ज्ञानम् अपोहनं च / वेदैश् च सर्वैर् अहम् एव वेद्यो वेद-अन्त-कृद् वेद-विद् एव च अहम् //
SKतयोः सोमवैश्वानरयोः सर्वस्य च भूतजातस्य सकलप्रवृत्तिनिवृत्तिमूलज्ञानोदयदेशे हृदि सर्वं मत्संकल्पेन नियच्छन् अहम् आत्मतया सन्निविष्टः / तथाहुः श्रुतयः, ᳚अन्तः प्रविष्टश् शास्ता जनानां सर्वात्मा᳚, ᳚यः पृथिव्यां तिष्ठन्᳚, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो ..... यमयति᳚, ᳚पद्मकोशप्रतीकाशं हृदयं चाप्य् अधोमुखम्᳚, ᳚अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म᳚ इत्याद्याः / स्मृतयश् च, ᳚शास्ता विष्णुर् अशेषस्य जगतो यो जगन्मयः᳚, ᳚प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम्᳚, ᳚यमो वैवस्वतो राजा यस् तवैष हृदि स्थितः᳚ इत्याद्याः / अतो मत्त एव सर्वेषां स्मृतिर् जायते / स्मृतिः पूर्वानुभूतिविषयम् अनुभवसंस्कारमात्रजं ज्ञानम् / ज्ञानम् इन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः; सो ऽपि मत्तः / अपोहनं च / अपोहनम् -- ज्ञाननिवृत्तिः / अपोहनम् ऊहनं वा; ऊहनम् ऊहः; ऊहो नाम इदं प्रमाणम् इत्थं प्रवर्तितुम् अर्हतीति प्रमाणप्रवृत्त्यर्हताविषयं सामग्र्यादिनिरूपणजन्यं प्रमाणानुग्राहकं ज्ञानम्; स चोहो मत्त एव / वेदैश् च सर्वैर् अहम् एव वेद्यः / अतो ऽग्निसूर्यवायुसोमेन्द्रादीनां मदन्तर्यामिकत्वेन मदात्मकत्वात् तत्प्रतिपादनपरैर् अपि सर्वैर् वेदैर् अहम् एव वेद्यः, देवमनुष्यादिशब्दैर् जीवात्मैव / वेदान्तकृद् वेदानाम् -- ᳚इन्द्रं यजेत᳚, ᳚वरुणं यजेत᳚ इत्य् एवम् आदीनाम् अन्तः फलम्; फले हि ते सर्वे वेदाः पर्यवस्यन्ति; अन्तकृत् फलकृत्; वेदोदितफलस्य प्रदाता चाहम् एवेत्यर्थः / तद् उक्तं पूर्वम् एव, ᳚यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति᳚ इत्य् आरभ्य ᳚लभते च ततः कामान् मयैव विहितान् हि तान्᳚ इति, ᳚अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च᳚ इति च / वेदविद् एव चाहम् -- वेदविच् चाहम् एव / एवं मदभिधायिनं वेदम् अहम् एव वेद; इतो ऽन्यथा यो वेदार्थं ब्रूते न स वेदविद् इत्य् अभिप्रायः //
SKतयोः सोम-वैश्वानरयोः सर्वस्य च भूत-जातस्य सकल-प्रवृत्ति-निवृत्ति-मूल-ज्ञान-उदय-देशे हृदि सर्वं मत्-संकल्पेन नियच्छन् अहम् आत्मतया सन्निविष्टः / तथा आहुः श्रुतयः, ᳚अन्तः प्रविष्टश् शास्ता जनानां सर्व-आत्मा᳚, ᳚यः पृथिव्यां तिष्ठन्᳚, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो ..... यमयति᳚, ᳚पद्म-कोश-प्रतीकाशं हृदयं च अप्य् अधो-मुखम्᳚, ᳚अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म᳚ इत्य्-आद्याः / स्मृतयश् च, ᳚शास्ता विष्णुर् अशेषस्य जगतो यो जगन्-मयः᳚, ᳚प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम्᳚, ᳚यमो वैवस्वतो राजा यस् तव एष हृदि स्थितः᳚ इत्य्-आद्याः / अतो मत्त एव सर्वेषां स्मृतिर् जायते / स्मृतिः पूर्व-अनुभूति-विषयम् अनुभव-संस्कार-मात्र-जं ज्ञानम् / ज्ञानम् इन्द्रिय-लिङ्ग-आगम-योग-जो वस्तु-निश्चयः; सो ऽपि मत्तः / अपोहनं च / अपोहनम् --- ज्ञान-निवृत्तिः / अपोहनम् ऊहनं वा; ऊहनम् ऊहः; ऊहो नाम इदं प्रमाणम् इत्थं प्रवर्तितुम् अर्हति इति प्रमाण-प्रवृत्त्य्-अर्हता-विषयं सामग्र्य्-आदि-निरूपण-जन्यं प्रमाण-अनुग्राहकं ज्ञानम्; स चा उहो मत्त एव / वेदैश् च सर्वैर् अहम् एव वेद्यः / अतो ऽग्नि-सूर्य-वायु-सोम-इन्द्र-आदीनां मद्-अन्तर्यामिकत्वेन मद्-आत्मकत्वात् तत्-प्रतिपादन-परैर् अपि सर्वैर् वेदैर् अहम् एव वेद्यः, देव-मनुष्य-आदि-शब्दैर् जीव-आत्म ऐव / वेद-अन्त-कृद् वेदानाम् --- ᳚इन्द्रं यजेत᳚, ᳚वरुणं यजेत᳚ इत्य् एवम् आदीनाम् अन्तः फलम्; फले हि ते सर्वे वेदाः पर्यवस्यन्ति; अन्त-कृत् फल-कृत्; वेद-उदित-फलस्य प्रदाता च अहम् एव इत्य्-अर्थः / तद् उक्तं पूर्वम् एव, ᳚यो यो यां यां तनुं भक्तः श्रद्धय आर्चितुम् इच्छति᳚ इत्य् आरभ्य ᳚लभते च ततः कामान् मय ऐव विहितान् हि तान्᳚ इति, ᳚अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च᳚ इति च / वेद-विद् एव च अहम् --- वेद-विच् च अहम् एव / एवं मद्-अभिधायिनं वेदम् अहम् एव वेद; इतो ऽन्यथा यो वेद-अर्थं ब्रूते न स वेद-विद् इत्य् अभिप्रायः //
SKअतो मत्त एव सर्ववेदानां सारभूतम् अर्थम् शृणु --
SKअतो मत्त एव सर्व-वेदानां सार-भूतम् अर्थम् शृणु ---
SKद्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च / क्षरस् सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते //
SKद्वाव् इमौ पुरुषौ लोके क्षरश् च अक्षर एव च / क्षरस् सर्वाणि भूतानि कूट-स्थो ऽक्षर उच्यते //
SKक्षरश् चाक्षरश् चेति द्वाव् इमौ पुरुषौ लोके प्रथितौ / तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीवशब्दाभिलपनीयब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि / अत्राचित्संसर्गरूपैकोपाधिना पुरुष इत्य् एकत्वनिर्देशः / अक्षरशब्दनिर्दिष्टः कूटस्थः अचित्संसर्गवियुक्तः स्वेन रूपेणावस्थितो मुक्तात्मा / स त्व् अचित्संसर्गाभवाद् अचित्परिणामविशेषब्रह्मादिदेहासाधारणो न भवतीति कूटस्थ इत्य् उच्यते / अत्राप्य् एकत्वनिर्देशो ऽचिद्वियोगरूपैकोपाधिनाभिहितः / न हि इतः पूर्वम् अनादौ काले मुक्त एक एव / यथोक्तम्, ᳚बहवो ज्ञानतपसा पूता मद्भावम् आगताः᳚, ᳚सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च᳚ इति //
SKक्षरश् च अक्षरश् च इति द्वाव् इमौ पुरुषौ लोके प्रथितौ / तत्र क्षर-शब्द-निर्दिष्टः पुरुषो जीव-शब्द-अभिलपनीय-ब्रह्मा-आदि-स्तम्ब-पर्यन्त-क्षरण-स्व-भाव-अचित्-संसृष्ट-सर्व-भूतानि / अत्र अचित्-संसर्ग-रूप-एक-उपाधिना पुरुष इत्य् एकत्व-निर्देशः / अक्षर-शब्द-निर्दिष्टः कूट-स्थः अचित्-संसर्ग-वियुक्तः स्वेन रूपेण अवस्थितो मुक्त-आत्मा / स त्व् अचित्-संसर्ग-अभवाद् अचित्-परिणाम-विशेष-ब्रह्मा-आदि-देह-असाधारणो न भवति इति कूट-स्थ इत्य् उच्यते / अत्र अप्य् एकत्व-निर्देशो ऽचिद्-वियोग-रूप-एक-उपाधिन आभिहितः / न हि इतः पूर्वम् अनादौ काले मुक्त एक एव / यथ ऊक्तम्, ᳚बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः᳚, ᳚सर्गे ऽपि न उपजायन्ते प्रलये न व्यथन्ति च᳚ इति //
SKउत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः / यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः //
SKउत्तमः पुरुषस् त्व् अन्यः परम-आत्म ईत्य् उदाहृतः / यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः //
SKउत्तमः पुरुषस् तु ताभ्यां क्षराक्षरशब्दनिर्दिष्टाभ्यां बद्धमुक्तपुरुषाभ्याम् अन्यः अर्थान्तरभूतः परमात्मेत्य् उदाहृतः सर्वासु श्रुतिषु / परमात्मेति निर्देशाद् एव ह्य् उत्तमः पुरुषो बद्धमुक्तपुरुषाभ्यां अर्थान्तरभूत इत्य् अवगम्यते / कथम्? यो लोकत्रयम् आविश्य बिभर्ति / लोक्यत इति लोकः; तत्त्रयं लोकत्रयम् / अचेतनं तत्संसृष्टश् चेतनो मुक्तश् चेति प्रमाणावगम्यम् एतत् त्रयं य आत्मतया आविश्य बिभर्ति, स तस्माद् व्याप्याद् भर्तव्याच् चार्थान्तरभूतः / इतश् चोक्ताल् लोकत्रयाद् अर्थान्तरभूतः; यतः सो ऽव्ययः, ईश्वरश् च; अव्ययस्वभावो हि व्ययस्वभावाद् अचेतनात् तत्संबन्धेन तदनुसारिणश् च चेतनाद् अचित्संबन्धयोग्यतया पूर्वसंबन्धिनो मुक्ताच् चार्थान्तरभूत एव / तथैतस्य लोकत्रयस्येश्वरः, ईशितव्यात् तस्माद् अर्थान्तरभूतः //
SKउत्तमः पुरुषस् तु ताभ्यां क्षर-अक्षर-शब्द-निर्दिष्टाभ्यां बद्ध-मुक्त-पुरुषाभ्याम् अन्यः अर्थ-अन्तर-भूतः परम-आत्म ईत्य् उदाहृतः सर्वासु श्रुतिषु / परम-आत्म ईति निर्देशाद् एव ह्य् उत्तमः पुरुषो बद्ध-मुक्त-पुरुषाभ्यां अर्थ-अन्तर-भूत इत्य् अवगम्यते / कथम्? यो लोक-त्रयम् आविश्य बिभर्ति / लोक्यत इति लोकः; तत्-त्रयं लोक-त्रयम् / अचेतनं तत्-संसृष्टश् चेतनो मुक्तश् च इति प्रमाण-अवगम्यम् एतत् त्रयं य आत्मतया आविश्य बिभर्ति, स तस्माद् व्याप्याद् भर्तव्याच् च अर्थ-अन्तर-भूतः / इतश् च उक्ताल् लोक-त्रयाद् अर्थ-अन्तर-भूतः; यतः सो ऽव्ययः, ईश्वरश् च; अव्यय-स्व-भावो हि व्यय-स्व-भावाद् अचेतनात् तत्-संबन्धेन तद्-अनुसारिणश् च चेतनाद् अचित्-संबन्ध-योग्यतया पूर्व-संबन्धिनो मुक्ताच् च अर्थ-अन्तर-भूत एव / तथ ऐतस्य लोक-त्रयस्या इश्वरः, ईशितव्यात् तस्माद् अर्थ-अन्तर-भूतः //
SKयस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः / अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः //
SKयस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि च उत्तमः / अतो ऽस्मि लोके वेदे च प्रथितः पुरुष-उत्तमः //
SKयस्माद् एवम् उक्तैः स्वभावैः क्षरं पुरुषम् अतीतो ऽहम्, अक्षरान् मुक्ताद् अप्य् उक्तैर् हेतुभिर् उत्कृष्टतमः, अतो ऽहं लोके वेदे च पुरुषोत्तम इति प्रथितो ऽस्मि / वेदार्थावलोकनाल् लोक इति स्मृतिर् इहोच्यते / श्रुतौ स्मृतौ चेत्य् अर्थः / श्रुतौ तावत्, ᳚परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः᳚ इत्यादौ / स्मृतव् अपि, ᳚अंशावतारं पुरुषोत्तमस्य ह्य् अनादिमध्यान्तम् अजस्य विष्णोः᳚ इत्यादौ //
SKयस्माद् एवम् उक्तैः स्व-भावैः क्षरं पुरुषम् अतीतो ऽहम्, अक्षरान् मुक्ताद् अप्य् उक्तैर् हेतुभिर् उत्कृष्टतमः, अतो ऽहं लोके वेदे च पुरुष-उत्तम इति प्रथितो ऽस्मि / वेद-अर्थ-अवलोकनाल् लोक इति स्मृतिर् इह उच्यते / श्रुतौ स्मृतौ च इत्य् अर्थः / श्रुतौ तावत्, ᳚परं ज्योतिर् उपसंपद्य स्वेन रूपेण अभिनिष्पद्यते, स उत्तमः पुरुषः᳚ इत्य्-आदौ / स्मृतव् अपि, ᳚अंश-अवतारं पुरुष-उत्तमस्य ह्य् अनादि-मध्य-अन्तम् अजस्य विष्णोः᳚ इत्य्-आदौ //
SKयो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् / स सर्वविद् भजति मां सर्वभावेन भारत //
SKयो माम् एवम् असंमूढो जानाति पुरुष-उत्तमम् / स सर्व-विद् भजति मां सर्व-भावेन भारत //
SKय एवम् उक्तेन प्रकारेण पुरुषोत्तमं माम् असंमूढो जानाति क्षराक्षरपुरुषाभ्याम्, अव्ययस्वभावतया व्यापनभरणाइश्वर्यादियोगेन च विसजातीयं जानाति, स सर्वविन् मत्प्राप्त्युपायतया यद् वेदितव्यं तत् सर्वं वेद; भजति मां सर्वभावेन -- ये च मत्प्राप्त्युपायतया मद्भजनप्रकारा निर्दिष्टाः तैश् च सर्वैर् भजनप्रकारैर् मां भजते / सर्वैर् मद्विषयैर् वेदनैर् मम या प्रीतिः, या च मम सर्वैर् मद्विषयैर् भजनैः, उभयविधा सा प्रीतिर् अनेन वेदनेन मम जायते // इत्य् एतत् पुरुषोत्तमत्ववेदनं पूजयति --
SKय एवम् उक्तेन प्रकारेण पुरुष-उत्तमं माम् असंमूढो जानाति क्षर-अक्षर-पुरुषाभ्याम्, अव्यय-स्व-भावतया व्यापन-भरण-ऐश्वर्य-आदि-योगेन च विसजातीयं जानाति, स सर्व-विन् मत्-प्राप्त्य्-उपायतया यद् वेदितव्यं तत् सर्वं वेद; भजति मां सर्व-भावेन --- ये च मत्-प्राप्त्य्-उपायतया मद्-भजन-प्रकारा निर्दिष्टाः तैश् च सर्वैर् भजन-प्रकारैर् मां भजते / सर्वैर् मद्-विषयैर् वेदनैर् मम या प्रीतिः, या च मम सर्वैर् मद्-विषयैर् भजनैः, उभय-विधा सा प्रीतिर् अनेन वेदनेन मम जायते // इत्य् एतत् पुरुष-उत्तमत्व-वेदनं पूजयति ---
SKइति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ / एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश् च भारत //
SKइति गुह्यतमं शास्त्रम् इदम् उक्तं मय आनघ / एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत //
SKइत्थं मम पुरुषोत्तमत्वप्रतिपादनं सर्वेषां गुह्यानां गुह्यतमम् इदं शास्त्रम्, ᳚त्वम् अनघतया योग्यतमः᳚ इति कृत्वा मया तवोक्तम् / एतद् बुद्ध्वा बुद्धिमांस् स्यात् कृतकृत्यश् च -- मां प्रेप्सुना उपादेया या बुद्धिः सा सर्वा उपात्ता स्यात्: यच् च तेन कर्तव्यम्, तत् सर्वं कृतं स्याद् इत्यर्थः / अनेन श्लोकेन, अनन्तरोक्तं पुरुषोत्तमविषयं ज्ञानं शास्त्रजन्यम् एवैतत् सर्वं करोति, न तत्साक्षात्काररूपम् इत्य् उच्यते //
SKइत्थं मम पुरुष-उत्तमत्व-प्रतिपादनं सर्वेषां गुह्यानां गुह्यतमम् इदं शास्त्रम्, ᳚त्वम् अनघतया योग्यतमः᳚ इति कृत्वा मया तव उक्तम् / एतद् बुद्ध्वा बुद्धिमांस् स्यात् कृत-कृत्यश् च --- मां प्रेप्सुना उपादेया या बुद्धिः सा सर्वा उपात्ता स्यात्: यच् च तेन कर्तव्यम्, तत् सर्वं कृतं स्याद् इत्य्-अर्थः / अनेन श्लोकेन, अनन्तर-उक्तं पुरुष-उत्तम-विषयं ज्ञानं शास्त्र-जन्यम् एव एतत् सर्वं करोति, न तत्-साक्षात्-कार-रूपम् इत्य् उच्यते //
SKअतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर् विविक्तयोः संसृष्टयोश् च याथात्म्यं तत्संसर्गवियोगयोश् च गुणसङ्गतद्विपर्ययहेतुत्वम्, सर्वप्रकारेणावस्थितयोः प्रकृतिपुरुषयोर् भगवद्विभूतित्वम्, विभूतिमतो भगवतो विभूतिभूताद् अचिद्वस्तुनश् चिद्वस्तुनश् च बद्धमुक्तोभयरूपाद् अव्ययत्वव्यापनभरणस्वाम्यैर् अर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यञ् च वर्णितम् / अनन्तरम्, उक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्रवश्यतां वक्तुं शास्त्रवश्यतद्विपरीतयोर् देवासुरसर्गयोर् विभागं
SKअतीतेन अध्याय-त्रयेण प्रकृति-पुरुषयोर् विविक्तयोः संसृष्टयोश् च याथात्म्यं तत्-संसर्ग-वियोगयोश् च गुण-सङ्ग-तद्-विपर्यय-हेतुत्वम्, सर्व-प्रकारेण अवस्थितयोः प्रकृति-पुरुषयोर् भगवद्-विभूतित्वम्, विभूतिमतो भगवतो विभूति-भूताद् अचिद्-वस्तुनश् चिद्-वस्तुनश् च बद्ध-मुक्त-उभय-रूपाद् अव्ययत्व-व्यापन-भरण-स्वाम्यैर् अर्थ-अन्तरतया पुरुष-उत्तमत्वेन याथात्म्यञ् च वर्णितम् / अनन्तरम्, उक्तस्य कृत्स्नस्य अर्थस्य स्थेम्ने शास्त्र-वश्यतां वक्तुं शास्त्र-वश्य-तद्-विपरीतयोर् देव-असुर-सर्गयोर् विभागं