Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 10

SK
भूय एव महाबाहो शृणु मे परमं वचः | यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ||
SK
भूय एव महा-बाहो शृणु मे परमं वचः | यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हित-काम्यया ||
SK
मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनया भूयो मन्माहात्म्यप्रपञ्चविषयम् एव परमं वचो यद् वक्ष्यामि; तद् अवहितमनाश् शृणु //
SK
मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्-भक्त्य्-उत्पत्ति-विवृद्धि-रूप-हित-कामनया भूयो मन्-माहात्म्य-प्रपञ्च-विषयम् एव परमं वचो यद् वक्ष्यामि; तद् अवहित-मनाश् शृणु //
SK
न मे विदुः सुरगणाः प्रभवं न महर्षयः | अहम् आदिर् हि देवानां महर्षीणां च सर्वशः ||
SK
न मे विदुः सुर-गणाः प्रभवं न मह-र्षयः | अहम् आदिर् हि देवानां मह-र्षीणां च सर्वशः ||
SK
सुरगणा महर्षयश् चातीन्द्रियार्थदर्शिनो ऽधिकतरज्ञाना अपि मे प्रभवं प्रभावं न विदुः मम नामकर्मस्वरूपस्वभावादिकं न जानन्ति; यतस् तेषां देवानां महर्षीणां च सर्वशो ऽहम् आदिः तेषां स्वरूपस्य ज्ञानशक्त्यादेश् चाहम् आदिः; तेषां देवत्वमहर्षित्वादिहेतुभूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्; अतस् ते परिमितज्ञाना मत्स्वरूपादिकं यथावन् न जानन्ति //
SK
सुर-गणा मह-र्षयश् च अतीन्द्रिय-अर्थ-दर्शिनो ऽधिकतर-ज्ञाना अपि मे प्रभवं प्रभावं न विदुः मम नाम-कर्म-स्व-रूप-स्व-भाव-आदिकं न जानन्ति; यतस् तेषां देवानां मह-र्षीणां च सर्वशो ऽहम् आदिः तेषां स्व-रूपस्य ज्ञान-शक्त्य्-आदेश् च अहम् आदिः; तेषां देवत्व-मह-र्षित्व-आदि-हेतु-भूत-पुण्य-अनुगुणं मया दत्तं ज्ञानं परिमितम्; अतस् ते परिमित-ज्ञाना मत्-स्व-रूप-आदिकं यथावन् न जानन्ति //
SK
तद् एतद् देवाद्यचिन्त्यस्वयाथात्म्यविषयज्ञानं भक्त्युत्पत्तिविरोधिपापविमोचनोपायम् आह --
SK
तद् एतद् देव-आद्य्-अचिन्त्य-स्व-याथात्म्य-विषय-ज्ञानं भक्त्य्-उत्पत्ति-विरोधि-पाप-विमोचन-उपायम् आह ---
SK
यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् | असंमूढस् स मर्त्येषु सर्वपापैः प्रमुच्यते ||
SK
यो माम् अजम् अनादिं च वेत्ति लोक-महा-ईश्वरम् | असंमूढस् स मर्त्येषु सर्व-पापैः प्रमुच्यते ||
SK
न जायत इत्य् अजः, अनेन विकारिद्रव्याद् अचेतनात् तत्संसृष्टात् संसारिचेतनाच् च विसजातीयत्वम् उक्तम् / संसारिचेतनस्य हि कर्मकृताचित्संसर्गो जन्म / अनादिम् इत्य् अनेन पदेन आदिमतो ऽजान् मुक्तात्मनो विसजातीयत्वम् उक्तम् / मुक्तात्मनो ह्य् अजत्वम् आदिमत्; तस्य हेयसंबन्धस्य पूर्ववृत्तत्वात् तदर्हतास्ति / अतो ऽनादिम् इत्य् अनेन तदनर्हतया तत्प्रत्यनीकतोच्यते; ᳚निरवद्यम्᳚ इत्यादिश्रुत्या च / एवं हेयसंबन्धप्रत्यनीकस्वरूपतया तदनर्हं मां लोकमहेश्वरम् लोकेश्वराणाम् अपीश्वरं मर्त्येष्व् असंमूढो यो वेत्ति; इतरसजातीयतयैकीकृत्य मोहः संमोहः, तद्रहितो ऽसंमूढः स मद्भक्त्युत्पत्तिविरोधिभिस् सर्वैः पापैः प्रमुच्यते / एतद् उक्तं भवति -- लोके मनुष्याणां राजा इतरमनुष्यसजातीयः केनचित् कर्मणा तदाधिपत्यं प्राप्तः; तथा देवानाम् अधिपतिर् अपि; तथाण्डाधिपतिर् अपीतरसंसारिसजातीयः; तस्यापि भावनात्रयान्तर्गतत्वात् / ᳚यो ब्रह्माणं विदधाति᳚ इति श्रुतेश् च / तथान्ये ऽपि ये केचनाणिमाद्यैश्वर्यं प्राप्ताः / अयं तु लोकमहेश्वरः कार्यकारणावस्थाद् अचेतनाद् बद्धान् मुक्ताच् च चेतनाद् इशितव्यात् सर्वस्मान् निखिलहेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगुणैकतानतया नियमनैकस्वभावतया च विसजातीय इतीत्रसजातीयतामोहरहितो यो मां वेत्ति, स सर्वैः पापैः प्रमुच्यते इति //
SK
न जायत इत्य् अजः, अनेन विकारि-द्रव्याद् अचेतनात् तत्-संसृष्टात् संसारि-चेतनाच् च विसजातीयत्वम् उक्तम् / संसारि-चेतनस्य हि कर्म-कृत-अचित्-संसर्गो जन्म / अनादिम् इत्य् अनेन पदेन आदिमतो ऽजान् मुक्त-आत्मनो विसजातीयत्वम् उक्तम् / मुक्त-आत्मनो ह्य् अजत्वम् आदिमत्; तस्य हेय-संबन्धस्य पूर्व-वृत्तत्वात् तद्-अर्हत आस्ति / अतो ऽनादिम् इत्य् अनेन तद्-अनर्हतया तत्-प्रत्यनीकत ऊच्यते; ᳚निरवद्यम्᳚ इत्य्-आदि-श्रुत्या च / एवं हेय-संबन्ध-प्रत्यनीक-स्व-रूपतया तद्-अनर्हं मां लोक-महा-ईश्वरम् लोक-ईश्वराणाम् अपी इश्वरं मर्त्येष्व् असंमूढो यो वेत्ति; इतर-सजातीयतय ऐकीकृत्य मोहः संमोहः, तद्-रहितो ऽसंमूढः स मद्-भक्त्य्-उत्पत्ति-विरोधिभिस् सर्वैः पापैः प्रमुच्यते / एतद् उक्तं भवति --- लोके मनुष्याणां राजा इतर-मनुष्य-सजातीयः केनचित् कर्मणा तद्-आधिपत्यं प्राप्तः; तथा देवानाम् अधिपतिर् अपि; तथ आण्ड-अधिपतिर् अपि इतर-संसारि-सजातीयः; तस्य अपि भावना-त्रय-अन्तर्गतत्वात् / ᳚यो ब्रह्माणं विदधाति᳚ इति श्रुतेश् च / तथ आन्ये ऽपि ये केचन अणिम-आद्य्-ऐश्वर्यं प्राप्ताः / अयं तु लोक-महा-ईश्वरः कार्य-कारण-अवस्थाद् अचेतनाद् बद्धान् मुक्ताच् च चेतनाद् इशितव्यात् सर्वस्मान् निखिल-हेय-प्रत्यनीक-अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-एकतानतया नियमन-एक-स्व-भावतया च विसजातीय इति इत्र-सजातीयता-मोह-रहितो यो मां वेत्ति, स सर्वैः पापैः प्रमुच्यते इति //
SK
एवं स्वस्वभावानुसन्धानेन भक्त्युत्पत्तिविरोधिपापनिरसनम्, विरोधिनिरसना देवार्थतो भक्त्युत्पत्तिं च प्रतिपाद्य स्वाइश्वर्यस्वकल्याणगुणगणप्रपञ्चानुसन्धानेन भक्तिविवृद्धिप्रकारम् आह --
SK
एवं स्व-स्व-भाव-अनुसन्धानेन भक्त्य्-उत्पत्ति-विरोधि-पाप-निरसनम्, विरोधि-निरसना देव-अर्थतो भक्त्य्-उत्पत्तिं च प्रतिपाद्य स्व-ऐश्वर्य-स्व-कल्याण-गुण-गण-प्रपञ्च-अनुसन्धानेन भक्ति-विवृद्धि-प्रकारम् आह ---
SK
बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः | सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च ||
SK
बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः | सुखं दुःखं भवो ऽभावो भयं च अभयम् एव च ||
SK
अहिंसा समता तुष्ठिस् तपो दानं यशो ऽयशः | भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ||
SK
अहिंसा समता तुष्ठिस् तपो दानं यशो ऽयशः | भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ||
SK
बुद्धिः मनसो निरूपणसामर्थ्यम्, ज्ञानम् चिदचिद्वस्तुविशेषविषयो निश्चयः, असंमोहः पूर्वगृहीताद् रजतादेर् विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिः; क्षमा मनोविकारहेतौ सत्य् अप्य् अविकृतमनस्त्वम्; सत्यम् यथादृष्टविषयं भूतहितरूपं वचनम् / तदनुगुणा मनोवृत्तिर् इहाभिप्रेता, मनोवृत्तिप्रकरणात् / दमः बाह्यकरणानाम् अनर्थविषयेभ्यो नियमनम्; शमः अन्तःकरणस्य तथा नियमनम्; सुखम् आत्मानुकूलानुभवः; दुःखम् प्रतिकूलानुभवः; भवः भवनम्; अनुकूलानुभवहेतुकं मनसो भवनम्; अभावः प्रतिकूलानुभवहेतुको मनसो ऽवसादः; भयम् आगामिनो दुःखस्य हेतुदर्शनजं दुःखम्; तन्निवृत्तिः अभयम्; अहिंसा परदुःखाहेतुत्वम्; समता आत्मनि सुकृत्सु विपक्षेषु चार्थानर्थयोस् सममतित्वम्; तुष्टिः सर्वेष्व् आत्मसु दृष्टेषु तोषस्वभावत्वम्; तपः शास्त्रीयो भोगसङ्कोचरूपः कायक्लेशः; दानम् स्वकीयभोग्यानं परस्मै प्रतिपादनम्; यशः गुणवत्ताप्रथा; अयशः नैर्गुण्यप्रथा / एतच् चोभयं तदनुगुणमनोवृत्तिद्वयं मन्तव्यम्, तत्प्रकरणात् / तपोदाने च तथा / एवम् आद्याः सर्वेषां भूतानां भावाः प्रवृत्तिनिवृत्तिहेतवो मनोवृत्तयो मत्त एव मत्सङ्कल्पायत्ता भवन्ति //
SK
बुद्धिः मनसो निरूपण-सामर्थ्यम्, ज्ञानम् चिद्-अचिद्-वस्तु-विशेष-विषयो निश्चयः, असंमोहः पूर्व-गृहीताद् रजत-आदेर् विसजातीये शुक्तिका-आदि-वस्तुनि सजातीयता-बुद्धि-निवृत्तिः; क्षमा मनो-विकार-हेतौ सत्य् अप्य् अविकृत-मनस्त्वम्; सत्यम् यथा-दृष्ट-विषयं भूत-हित-रूपं वचनम् / तद्-अनुगुणा मनो-वृत्तिर् इह अभिप्रेता, मनो-वृत्ति-प्रकरणात् / दमः बाह्य-करणानाम् अनर्थ-विषयेभ्यो नियमनम्; शमः अन्तःकरणस्य तथा नियमनम्; सुखम् आत्म-अनुकूल-अनुभवः; दुःखम् प्रतिकूल-अनुभवः; भवः भवनम्; अनुकूल-अनुभव-हेतुकं मनसो भवनम्; अभावः प्रतिकूल-अनुभव-हेतुको मनसो ऽवसादः; भयम् आगामिनो दुःखस्य हेतु-दर्शन-जं दुःखम्; तन्-निवृत्तिः अभयम्; अहिंसा पर-दुःख-अहेतुत्वम्; समता आत्मनि सुकृत्सु विपक्षेषु च अर्थ-अनर्थयोस् सम-मतित्वम्; तुष्टिः सर्वेष्व् आत्मसु दृष्टेषु तोष-स्व-भावत्वम्; तपः शास्त्रीयो भोग-सङ्कोच-रूपः काय-क्लेशः; दानम् स्वकीय-भोग्यानं परस्मै प्रतिपादनम्; यशः गुणवत्ता-प्रथा; अयशः नैर्गुण्य-प्रथा / एतच् च उभयं तद्-अनुगुण-मनो-वृत्ति-द्वयं मन्तव्यम्, तत्-प्रकरणात् / तपो-दाने च तथा / एवम् आद्याः सर्वेषां भूतानां भावाः प्रवृत्ति-निवृत्ति-हेतवो मनो-वृत्तयो मत्त एव मत्-सङ्कल्प-आयत्ता भवन्ति //
SK
सर्वस्य भूतजातस्य सृष्टिस्थित्योः प्रवर्तयितारश् च मत्संकल्पायत्तप्रवृत्तय इत्य् आह --
SK
सर्वस्य भूत-जातस्य सृष्टि-स्थित्योः प्रवर्तयितारश् च मत्-संकल्प-आयत्त-प्रवृत्तय इत्य् आह ---
SK
महर्षयस् सप्त पूर्वे चत्वारो मनवस् तथा | मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ||
SK
मह-र्षयस् सप्त पूर्वे चत्वारो मनवस् तथा | मद्-भावा मानसा जाता येषां लोक इमाः प्रजाः ||
SK
पूर्वे सप्त महर्षयः अतीतमन्वन्तरे ये भृग्वादयस् सप्त महर्षयो नित्यसृष्टिप्रवर्तनाय ब्रह्मणो मनस्संभवाः, नित्यस्थितिप्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनवः स्थिताः, येषां सन्तानमये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणम् आप्रलयाद् अपत्यानाम् उत्पादकाः पालकाश् च भवन्ति ते भृग्वादयो मनवश् च मद्भावाः मम यो भावः स एव येषां भावः ते मद्भावाः, मन्मते स्थिताः, मत्सङ्कल्पानुवर्तिन इत्यर्थः //
SK
पूर्वे सप्त मह-र्षयः अतीत-मन्व्-अन्तरे ये भृग्व्-आदयस् सप्त मह-र्षयो नित्य-सृष्टि-प्रवर्तनाय ब्रह्मणो मनस्-संभवाः, नित्य-स्थिति-प्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनवः स्थिताः, येषां सन्तान-मये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणम् आ-प्रलयाद् अपत्यानाम् उत्पादकाः पालकाश् च भवन्ति ते भृग्व्-आदयो मनवश् च मद्-भावाः मम यो भावः स एव येषां भावः ते मद्-भावाः, मन्-मते स्थिताः, मत्-सङ्कल्प-अनुवर्तिन इत्य्-अर्थः //
SK
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः | सो ऽविकम्पेन योगेन युज्यते नात्र संशयः ||
SK
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः | सो ऽविकम्पेन योगेन युज्यते न अत्र संशयः ||
SK
विभूतिः ऐश्वर्यम् / एतां सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तितारूपां विभूतिम्, मम हेयप्रत्यनीककल्याणगुणगणरूपं योगं च यस् तत्त्वतो वेत्ति, सो ऽविकम्पेन अप्रकम्प्येन भक्तियोगेन युज्यते / नात्र संशयः / मद्विभूतिविषयं कल्याणगुणविषयं च ज्ञानं भक्तियोगवर्धनम् इति स्वयम् एव द्रक्ष्यसीत्यभिप्रायः //
SK
विभूतिः ऐश्वर्यम् / एतां सर्वस्य मद्-आयत्त-उत्पत्ति-स्थिति-प्रवृत्तिता-रूपां विभूतिम्, मम हेय-प्रत्यनीक-कल्याण-गुण-गण-रूपं योगं च यस् तत्त्वतो वेत्ति, सो ऽविकम्पेन अप्रकम्प्येन भक्ति-योगेन युज्यते / न अत्र संशयः / मद्-विभूति-विषयं कल्याण-गुण-विषयं च ज्ञानं भक्ति-योग-वर्धनम् इति स्वयम् एव द्रक्ष्यसि इत्य्-अभिप्रायः //
SK
विभूतिज्ञानविपाकरूपां भक्तिवृद्धिं दर्शयति --
SK
विभूति-ज्ञान-विपाक-रूपां भक्ति-वृद्धिं दर्शयति ---
SK
अहं, सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते | इति मत्वा भजन्ते मां बुधा भावसमन्विताः ||
SK
अहं, सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते | इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ||
SK
अहं, सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभवः उत्पत्तिकारणम्, सर्वं मत्त एव प्रवर्तते इतीदं मम स्वाभाविकं निरंकुशाइश्वर्यं, सौशील्यसौन्दर्यवात्सल्यादिकल्याणगुणगणयोगं च मत्वा बुधा ज्ञानिनः भावसमन्विताः मां सर्वकल्याणगुणान्वितं भजन्ते / भावः मनोवृत्तिविशेषः / मयि स्पृहयालवो मां भजन्त इत्यर्थः //
SK
अहं, सर्वस्य विचित्र-चिद्-अचित्-प्रपञ्चस्य प्रभवः उत्पत्ति-कारणम्, सर्वं मत्त एव प्रवर्तते इति इदं मम स्वाभाविकं निरंकुश-ऐश्वर्यं, सौशील्य-सौन्दर्य-वात्सल्य-आदि-कल्याण-गुण-गण-योगं च मत्वा बुधा ज्ञानिनः भाव-समन्विताः मां सर्व-कल्याण-गुण-अन्वितं भजन्ते / भावः मनो-वृत्ति-विशेषः / मयि स्पृहयालवो मां भजन्त इत्य्-अर्थः //
SK
कथम्?
SK
कथम्?
SK
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् | कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ||
SK
मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् | कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ||
SK
मच्चित्ताः मयि निविष्टमनसः, मद्गतप्राणाः मद्गतजीविताः, मया विनात्मधारणम् अलभमाना इत्यर्थः; स्वैः स्वैर् अनुभूतान् मदीयान् गुणान् परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तः तुष्यन्ति च रमन्ति च -- वक्तारस् तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति; श्रोतारश् च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते //
SK
मच्-चित्ताः मयि निविष्ट-मनसः, मद्-गत-प्राणाः मद्-गत-जीविताः, मया विना आत्म-धारणम् अलभमाना इत्य्-अर्थः; स्वैः स्वैर् अनुभूतान् मदीयान् गुणान् परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तः तुष्यन्ति च रमन्ति च --- वक्तारस् तद्-वचनेन अनन्य-प्रयोजनेन तुष्यन्ति; श्रोतारश् च तच्-छ्रवणेन अनवधिक-अतिशय-प्रियेण रमन्ते //
SK
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् | ददामि बुद्धियोगं तं येन माम् उपयान्ति ते ||
SK
तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् | ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ||
SK
तेषां सततयुक्तानाम् मयि सततयोगम् आशंसमानानां मां भजमानानाम् अहं तम् एव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि; येन ते माम् उपयान्ति //
SK
तेषां सतत-युक्तानाम् मयि सतत-योगम् आशंसमानानां मां भजमानानाम् अहं तम् एव बुद्धि-योगं विपाक-दशा-आपन्नं प्रीति-पूर्वकं ददामि; येन ते माम् उपयान्ति //
SK
किञ् च,
SK
किञ् च,
SK
तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः | नश्याम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ||
SK
तेषाम् एव अनुकम्पा-अर्थम् अहम् अज्ञान-जं तमः | नश्याम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ||
SK
तेषाम् एवानुग्रहार्थम् अहम्, आत्मभावस्थः तेषां मनोवृत्तौ विषयतयावस्थितः मदीयान् कल्याणगुणगणांश् चाविष्कुर्वन् मद्विषयज्ञानाख्येन भास्वता दीपेन ज्ञानविरोधिप्राचीनकर्मरूपाज्ञानजं मद्व्यतिरिक्तपूर्वाभ्यस्तविषयप्रावण्यरूपं तमो नाशयामि //
SK
तेषाम् एव अनुग्रह-अर्थम् अहम्, आत्म-भाव-स्थः तेषां मनो-वृत्तौ विषयतय आवस्थितः मदीयान् कल्याण-गुण-गणांश् चा अविष्कुर्वन् मद्-विषय-ज्ञान-आख्येन भास्वता दीपेन ज्ञान-विरोधि-प्राचीन-कर्म-रूप-अज्ञान-जं मद्-व्यतिरिक्त-पूर्व-अभ्यस्त-विषय-प्रावण्य-रूपं तमो नाशयामि //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source
Bhagavadgītābhāṣya — Reader · Sutraya