Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 18

SK
संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् | त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ||
SK
संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् | त्यागस्य च हृषीकेश पृथक् केशि-निषूदन ||
SK
त्यागसंन्यासौ हि मोक्षसाधनतया विहितौ, ᳚न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः -- वेदान्तविज्ञानसुनिश्चितार्थास् संन्यासयोगाद् यतयश् शुद्धसत्त्वाः / ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे᳚ इत्यादिषु / अस्य संन्यासस्य त्यागस्य च तत्त्वम् याथात्म्यं पृथक् वेदितुम् इच्छामि / अयम् अभिप्रायः -- किम् एतौ संन्यासत्यागशब्दौ पृथगर्थौ, उतैकार्थव् एव यदा पृथगर्थौ, तदा अनयोः पृथक्त्वेन स्वरूपं वेदितुम् इच्छामि; एकत्वे ऽपि तस्य स्वरूपं वक्तव्यम् इति //
SK
त्याग-संन्यासौ हि मोक्ष-साधनतया विहितौ, ᳚न कर्मणा न प्रजया धनेन त्यागेन एके अमृतत्वम् आनशुः --- वेद-अन्त-विज्ञान-सुनिश्चित-अर्थास् संन्यास-योगाद् यतयश् शुद्ध-सत्त्वाः / ते ब्रह्म-लोके तु पर-अन्त-काले परा-मृतात् परिमुच्यन्ति सर्वे᳚ इत्य्-आदिषु / अस्य संन्यासस्य त्यागस्य च तत्त्वम् याथात्म्यं पृथक् वेदितुम् इच्छामि / अयम् अभिप्रायः --- किम् एतौ संन्यास-त्याग-शब्दौ पृथग्-अर्थौ, उत एक-अर्थव् एव यदा पृथग्-अर्थौ, तदा अनयोः पृथक्त्वेन स्व-रूपं वेदितुम् इच्छामि; एकत्वे ऽपि तस्य स्व-रूपं वक्तव्यम् इति //
SK
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः | सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः ||
SK
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः | सर्व-कर्म-फल-त्यागं प्राहुस् त्यागं विचक्षणाः ||
SK
केचन विद्वांसः काम्यानां कर्मणां न्यासं स्वरूपत्यागं संन्यासं विदुः / केचिच् च विचक्षणाः नित्यानां नैमित्तिकानां च काम्यानां सर्वेषां कर्मणां फलत्याग एव मोक्षशास्त्रेषु त्यागशब्दार्थ इति प्राहुः / तत्र शास्त्रीयत्यागः काम्यकर्मस्वरूपविषयः; सर्वकर्मफलविषय इति विवादं प्रदर्शयन् एकत्र संन्यासशब्दम् इतरत्र त्यागशब्दं प्रयुक्तवान् / अतस् त्यागसंन्यासशब्दयोर् एकार्थत्वम् अङ्गीकृतम् इति ज्ञायते / तथा ᳚निश्चयं शृणु मे तत्र त्यागे भरतसत्तम᳚ इति त्यागशब्देनैव निर्णयवचनात्, ᳚नियतस्य तु संन्यासः कर्मणो नोपपद्यते / मोहात् तस्य परित्यागः तामसः परिकीर्तितः // Bह्GR_१८.᳚, ᳚अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् / भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्᳚ इति परस्परपर्यायतादर्शनाच् च तयोर् एकार्थत्वम् अङ्गीकृतम् इति निश्चीयते //
SK
केचन विद्वांसः काम्यानां कर्मणां न्यासं स्व-रूप-त्यागं संन्यासं विदुः / केचिच् च विचक्षणाः नित्यानां नैमित्तिकानां च काम्यानां सर्वेषां कर्मणां फल-त्याग एव मोक्ष-शास्त्रेषु त्याग-शब्द-अर्थ इति प्राहुः / तत्र शास्त्रीय-त्यागः काम्य-कर्म-स्व-रूप-विषयः; सर्व-कर्म-फल-विषय इति विवादं प्रदर्शयन् एकत्र संन्यास-शब्दम् इतरत्र त्याग-शब्दं प्रयुक्तवान् / अतस् त्याग-संन्यास-शब्दयोर् एक-अर्थत्वम् अङ्गीकृतम् इति ज्ञायते / तथा ᳚निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम᳚ इति त्याग-शब्देन एव निर्णय-वचनात्, ᳚नियतस्य तु संन्यासः कर्मणो न उपपद्यते / मोहात् तस्य परित्यागः तामसः परिकीर्तितः // Bह्GR_१८.᳚, ᳚अनिष्टम् इष्टं मिश्रं च त्रि-विधं कर्मणः फलम् / भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्᳚ इति परस्पर-पर्यायता-दर्शनाच् च तयोर् एक-अर्थत्वम् अङ्गीकृतम् इति निश्चीयते //
SK
त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः | यज्ञदानतपःकर्म न त्याज्यम् इति चापरे ||
SK
त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः | यज्ञ-दान-तपः-कर्म न त्याज्यम् इति च अपरे ||
SK
एके मनीषिणः कापिलाः वैदिकाश् च तन्मतानुसारिणः रागादिदोषवद् बन्धकत्वात् सर्वं यज्ञादिकं कर्म मुमुक्षुणा त्याज्यम् इति प्राहुः; अपरे पण्डिताः यज्ञादिकं कर्म न त्याज्यम् इति प्राहुः //
SK
एके मनीषिणः कापिलाः वैदिकाश् च तन्-मत-अनुसारिणः राग-आदि-दोषवद् बन्धकत्वात् सर्वं यज्ञ-आदिकं कर्म मुमुक्षुणा त्याज्यम् इति प्राहुः; अपरे पण्डिताः यज्ञ-आदिकं कर्म न त्याज्यम् इति प्राहुः //
SK
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम | त्यागो हि पुरुषव्याघ्र त्रिविधस् संप्रकीर्तितः ||
SK
निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम | त्यागो हि पुरुष-व्याघ्र त्रि-विधस् संप्रकीर्तितः ||
SK
तत्र एवं वादिविप्रतिपन्ने त्यागे त्यागविषयं निश्चयं मत्तश् शृणु; त्यागः क्रियमाणेष्व् एव वैदिकेषु कर्मसु फलविषयतया, कर्मविषयतया, कर्तृत्वविषयतया च पूर्वम् एव हि मया त्रिविधस् संप्रकीर्तितः, ᳚मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा / निराशीर् निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः᳚ इति / कर्मजन्यं स्वर्गादिकं फलं मम न स्याद् इति फलत्यागः; मदीयफलसाधनतया मदीयम् इदं कर्मेति कर्मणि ममतायाः परित्यागः कर्मविषयस् त्यागः; सर्वेश्वरे कर्तृत्वानुसंधानेनात्मनः कर्तृतात्यागः कर्तृत्वविषयस् त्यागः //
SK
तत्र एवं वादि-विप्रतिपन्ने त्यागे त्याग-विषयं निश्चयं मत्तश् शृणु; त्यागः क्रियमाणेष्व् एव वैदिकेषु कर्मसु फल-विषयतया, कर्म-विषयतया, कर्तृत्व-विषयतया च पूर्वम् एव हि मया त्रि-विधस् संप्रकीर्तितः, ᳚मयि सर्वाणि कर्माणि संन्यस्य अध्यात्म-चेतसा / निराशीर् निर्ममो भूत्वा युद्ध्यस्व विगत-ज्वरः᳚ इति / कर्म-जन्यं स्वर्ग-आदिकं फलं मम न स्याद् इति फल-त्यागः; मदीय-फल-साधनतया मदीयम् इदं कर्म इति कर्मणि ममतायाः परित्यागः कर्म-विषयस् त्यागः; सर्व-ईश्वरे कर्तृत्व-अनुसंधानेना अत्मनः कर्तृता-त्यागः कर्तृत्व-विषयस् त्यागः //
SK
यज्ञ-दान-तपः-प्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिद् अपि त्याज्यम्, अपि तु आ प्रयाणाद् अहर्-अहः कार्यम् एव //
SK
यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् |
SK
यज्ञ-दान-तपः-कर्म न त्याज्यं कार्यम् एव तत् |
SK
यज्ञदानतपःप्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिद् अपि त्याज्यम्, अपि तु आ प्रयाणाद् अहरहः कार्यम् एव //
SK
तत्र एवं वादि-विप्रतिपन्ने त्यागे त्याग-विषयं निश्चयं मत्तश् शृणु; त्यागः क्रियमाणेष्व् एव वैदिकेषु कर्मसु फल-विषयतया, कर्म-विषयतया, कर्तृत्व-विषयतया च पूर्वम् एव हि मया त्रि-विधस् संप्रकीर्तितः, ᳚मयि सर्वाणि कर्माणि संन्यस्य अध्यात्म-चेतसा / निराशीर् निर्ममो भूत्वा युद्ध्यस्व विगत-ज्वरः᳚ इति / कर्म-जन्यं स्वर्ग-आदिकं फलं मम न स्याद् इति फल-त्यागः; मदीय-फल-साधनतया मदीयम् इदं कर्म इति कर्मणि ममतायाः परित्यागः कर्म-विषयस् त्यागः; सर्व-ईश्वरे कर्तृत्व-अनुसंधानेना अत्मनः कर्तृता-त्यागः कर्तृत्व-विषयस् त्यागः //
SK
यज्ञ-दान-तपः-प्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिद् अपि त्याज्यम्, अपि तु आ प्रयाणाद् अहर्-अहः कार्यम् एव //
SK
कुतः ?
SK
कुतः ?
SK
यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ||
SK
यज्ञो दानं तपश् च एव पावनानि मनीषिणाम् ||
SK
यज्ञदानतपःप्रभृतीनि वर्णाश्रमसंबन्धीनि कर्माणि मनीषिणां मननशीलानां पावनानि / मननम् उपासनम्; मुमुक्षूणां यावज्जीवम् उपासनं कुर्वताम् उपासननिष्पत्तिविरोधिप्राचीनकर्मविनाशनानीत्यर्थः //
SK
यज्ञ-दान-तपः-प्रभृतीनि वर्ण-आश्रम-संबन्धीनि कर्माणि मनीषिणां मनन-शीलानां पावनानि / मननम् उपासनम्; मुमुक्षूणां यावज्-जीवम् उपासनं कुर्वताम् उपासन-निष्पत्ति-विरोधि-प्राचीन-कर्म-विनाशनानि इत्य्-अर्थः //
SK
एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च | कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ||
SK
एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च | कर्तव्यानि इति मे पार्थ निश्चितं मतम् उत्तमम् ||
SK
यस्मान् मनीषिणां यज्ञदानतपःप्रभृतीनि पावनानि, तस्माद् उपासनवद् एतान्य् अपि यज्ञादिकर्माणि मदाराधनरूपाणि, सङ्गम् -- कर्मणि ममतां फलानि च त्यक्त्वा अहरहर् आप्रयाणाद् उपासननिवृत्तये मुमुक्षुणा कर्तव्यानीति मम निश्चितम् उत्तमं मतम् //
SK
यस्मान् मनीषिणां यज्ञ-दान-तपः-प्रभृतीनि पावनानि, तस्माद् उपासनवद् एतान्य् अपि यज्ञ-आदि-कर्माणि मद्-आराधन-रूपाणि, सङ्गम् --- कर्मणि ममतां फलानि च त्यक्त्वा अहर्-अहर् आप्रयाणाद् उपासन-निवृत्तये मुमुक्षुणा कर्तव्यानि इति मम निश्चितम् उत्तमं मतम् //
SK
नियतस्य तु संन्यासः कर्मणो नोपपद्यते | मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ||
SK
नियतस्य तु संन्यासः कर्मणो न उपपद्यते | मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ||
SK
नियतस्य नित्यनैमित्तिकस्य महायज्ञादेः कर्मणः संन्यासः त्यागो नोपपद्यते, ᳚शरीरयात्रापि च तेन प्रसिद्ध्येद् अकर्मणः᳚ इति शरीरयात्राया एवासिद्धेः, शरीरयात्रा हि यज्ञशिष्टाशनेन निर्वर्त्यमाना सम्यग्ज्ञानाय प्रभवति; अन्यथा, ᳚ते त्व् अघं भुञ्जते पापाः᳚ इत्य् अयज्ञशिष्टाघरूपाशनाप्यायनं मनसो विपरीतज्ञानाय भवति / ᳚अन्नमयं हि सोम्य मनः᳚ इत्य् अन्नेन हि मन आप्यायते / ᳚आहारशुद्धौ सत्त्वशुद्धिस् सत्त्वशुद्धौ ध्रुवा स्मृतिः / स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः // Bह्GR_१८.᳚ इति ब्रह्मसाक्षात्काररूपं ज्ञानम् आहारशुद्ध्यायत्तं श्रूयते / तस्मान् महायज्ञादिनित्यनैमित्तिकं कर्म आ प्रयाणाद् ब्रह्मज्ञानायैवोपादेयम् इति तस्य त्यागो नोपपद्यते / एवं ज्ञानोत्पादिनः कर्मणो बन्धकत्वमोहात् परित्यागस् तामसः परिकीर्तितः / तमोमूलस् त्यागस् तामसः / तमःकार्याज्ञानमूलत्वेन त्यागस्य तमोमूलत्वम् / तमो ह्य् अज्ञानस्य मूलं, ᳚प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च᳚ इत्य् अत्रोक्तम् / अज्ञानं तु ज्ञानविरोधि विपरीतज्ञानम्; तथा च वक्ष्यते, ᳚अधर्मं धर्मम् इति या मन्यते तमसावृता / सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी᳚ इति / अतो नित्यनैमित्तिकादेः कर्मणस् त्यागो विपरीतज्ञानमूल एवेत्यर्थः //
SK
नियतस्य नित्य-नैमित्तिकस्य महा-यज्ञ-आदेः कर्मणः संन्यासः त्यागो न उपपद्यते, ᳚शरीर-यात्र आपि च तेन प्रसिद्ध्येद् अकर्मणः᳚ इति शरीर-यात्राया एव असिद्धेः, शरीर-यात्रा हि यज्ञ-शिष्ट-आशनेन निर्वर्त्यमाना सम्यग्-ज्ञानाय प्रभवति; अन्यथा, ᳚ते त्व् अघं भुञ्जते पापाः᳚ इत्य् अयज्ञ-शिष्ट-अघ-रूप-आशन-आप्यायनं मनसो विपरीत-ज्ञानाय भवति / ᳚अन्न-मयं हि सोम्य मनः᳚ इत्य् अन्नेन हि मन आप्यायते / ᳚आहार-शुद्धौ सत्त्व-शुद्धिस् सत्त्व-शुद्धौ ध्रुवा स्मृतिः / स्मृति-लम्भे सर्व-ग्रन्थीनां विप्रमोक्षः // Bह्GR_१८.᳚ इति ब्रह्म-साक्षात्-कार-रूपं ज्ञानम् आहार-शुद्ध्य्-आयत्तं श्रूयते / तस्मान् महा-यज्ञ-आदि-नित्य-नैमित्तिकं कर्म आ प्रयाणाद् ब्रह्म-ज्ञानाय एव उपादेयम् इति तस्य त्यागो न उपपद्यते / एवं ज्ञान-उत्पादिनः कर्मणो बन्धकत्व-मोहात् परित्यागस् तामसः परिकीर्तितः / तमो-मूलस् त्यागस् तामसः / तमः-कार्य-अज्ञान-मूलत्वेन त्यागस्य तमो-मूलत्वम् / तमो ह्य् अज्ञानस्य मूलं, ᳚प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च᳚ इत्य् अत्र उक्तम् / अज्ञानं तु ज्ञान-विरोधि विपरीत-ज्ञानम्; तथा च वक्ष्यते, ᳚अधर्मं धर्मम् इति या मन्यते तमसा आवृता / सर्व-अर्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी᳚ इति / अतो नित्य-नैमित्तिक-आदेः कर्मणस् त्यागो विपरीत-ज्ञान-मूल एव इत्य्-अर्थः //
SK
दुःखम् इत्य् एव यः कर्म कायक्लेशभयात् त्यजेत् | स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ||
SK
दुःखम् इत्य् एव यः कर्म काय-क्लेश-भयात् त्यजेत् | स कृत्वा राजसं त्यागं न एव त्याग-फलं लभेत् ||
SK
यद्य् अपि परंपरया मोक्षसाधनभूतं कर्म, तथापि दुःखात्मकद्रव्यार्जनसाध्यत्वाद् बह्वायासरूपतया कायक्लेशकरत्वाच् च मनसो ऽवसादकरम् इति तद्भीत्या योगनिष्पत्तये ज्ञानाभ्यास एव यतनीय इति / यो महायज्ञाद्याश्रमकर्म परित्यजेत्, स राजसं रजोमूलं त्यागं कृत्वा तद् अयथावस्थितशास्त्रार्थरूपम् इति ज्ञानोत्पत्तिरूपं त्यागफलं न लभते; ᳚अयथावत् प्रजानाति बुद्धिस् सा पार्थ राजसी᳚ इति हि वक्ष्यते / न हि कर्म दृष्टद्वारेण मनःप्रसादहेतुः, अपि तु भवगत्प्रसादद्वारेण //
SK
यद्य् अपि परंपरया मोक्ष-साधन-भूतं कर्म, तथ आपि दुःख-आत्मक-द्रव्य-अर्जन-साध्यत्वाद् बह्व्-आयास-रूपतया काय-क्लेश-करत्वाच् च मनसो ऽवसाद-करम् इति तद्-भीत्या योग-निष्पत्तये ज्ञान-अभ्यास एव यतनीय इति / यो महा-यज्ञ-आद्य्-आश्रम-कर्म परित्यजेत्, स राजसं रजो-मूलं त्यागं कृत्वा तद् अयथा-अवस्थित-शास्त्र-अर्थ-रूपम् इति ज्ञान-उत्पत्ति-रूपं त्याग-फलं न लभते; ᳚अयथावत् प्रजानाति बुद्धिस् सा पार्थ राजसी᳚ इति हि वक्ष्यते / न हि कर्म दृष्ट-द्वारेण मनः-प्रसाद-हेतुः, अपि तु भवगत्-प्रसाद-द्वारेण //
SK
कार्यम् इत्य् एव यत् कर्म नियतं क्रियते ऽर्जुन | सङ्गं त्यक्त्वा फलं चैव, स त्यागः सात्त्विको मतः ||
SK
कार्यम् इत्य् एव यत् कर्म नियतं क्रियते ऽर्जुन | सङ्गं त्यक्त्वा फलं च एव, स त्यागः सात्त्विको मतः ||
SK
नित्यनैमित्तिकमहायज्ञादिवर्णाश्रमविहितं कर्म मदाराधनरूपतया कार्यं स्वयंप्रयोजनम् इति मत्वा सङ्गम् कर्मणि ममतां फलं च त्यक्त्वा यत् क्रियते, स त्यागः सात्त्विको मतः, स सत्त्वमूलः, यथावस्थितशास्त्रार्थज्ञानमूल इत्यर्थः / सत्त्वं हि यथावस्थितवस्तुज्ञानम् उत्पादयतीत्य् उक्तम्, ᳚सत्त्वात् संजायते ज्ञानम्᳚ इति / वक्ष्यते च, ᳚प्रवृत्तिं च निवृत्तिं च कार्याकार्यं भयाभये / बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी// ᳚ इति //
SK
नित्य-नैमित्तिक-महा-यज्ञ-आदि-वर्ण-आश्रम-विहितं कर्म मद्-आराधन-रूपतया कार्यं स्वयं-प्रयोजनम् इति मत्वा सङ्गम् कर्मणि ममतां फलं च त्यक्त्वा यत् क्रियते, स त्यागः सात्त्विको मतः, स सत्त्व-मूलः, यथा-अवस्थित-शास्त्र-अर्थ-ज्ञान-मूल इत्य्-अर्थः / सत्त्वं हि यथा-अवस्थित-वस्तु-ज्ञानम् उत्पादयति इत्य् उक्तम्, ᳚सत्त्वात् संजायते ज्ञानम्᳚ इति / वक्ष्यते च, ᳚प्रवृत्तिं च निवृत्तिं च कार्य-अकार्यं भय-अभये / बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी// ᳚ इति //
SK
न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते | त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ||
SK
न द्वेष्ट्य् अकुशलं कर्म कुशले न अनुषज्जते | त्यागी सत्त्व-समाविष्टो मेधावी च्छिन्न-संशयः ||
SK
एवं सत्त्वसमाविष्टो मेधावी यथावस्थिततत्त्वज्ञानः, तत एव च्छिन्नसंशयः, कर्मणि सङ्गफलकर्तृत्वत्यागी, न द्वेष्ट्य् अकुशलं कर्म; शुकले च कर्मणि नानुषज्जते / अकुशलं कर्म अनिष्टफलम्, कुशलं च कर्म इष्टरूपस्वर्गपुत्रपश्वन्नाद्यादिफलम् / सर्वस्मिन् कर्मणि ममतारहितत्वात्, त्यक्तब्रह्मव्यतिरिक्तसर्वफलत्वात्, त्यक्तकर्तृत्वाच् च तयोः क्रियमाणयोः प्रीतिद्वेषौ न करोति / अनिष्टफलं पापं कर्मात्र प्रामादिकम् अभिप्रेतम्; ᳚नाविरतो दुश्चरितान् नाशान्तो नासमाहितः / नाशान्तमानसो वापि प्रज्ञानेनैनम् आप्नुयात् // Bह्GR_१८.᳚ इति दुश्चरिताविरतेर् ज्ञानोत्पत्तिविरोधित्वश्रवणात् / अतः कर्मणि कर्तृत्वसङ्गफलानां त्यागः शास्त्रीयत्यागः, न कर्मस्वरूपत्यागः //
SK
एवं सत्त्व-समाविष्टो मेधावी यथा-अवस्थित-तत्त्व-ज्ञानः, तत एव च्छिन्न-संशयः, कर्मणि सङ्ग-फल-कर्तृत्व-त्यागी, न द्वेष्ट्य् अकुशलं कर्म; शुकले च कर्मणि न अनुषज्जते / अकुशलं कर्म अनिष्ट-फलम्, कुशलं च कर्म इष्ट-रूप-स्वर्ग-पुत्र-पश्व्-अन्न-अद्य-आदि-फलम् / सर्वस्मिन् कर्मणि ममता-रहितत्वात्, त्यक्त-ब्रह्म-व्यतिरिक्त-सर्व-फलत्वात्, त्यक्त-कर्तृत्वाच् च तयोः क्रियमाणयोः प्रीति-द्वेषौ न करोति / अनिष्ट-फलं पापं कर्म अत्र प्रामादिकम् अभिप्रेतम्; ᳚न अविरतो दुश्चरितान् न अशान्तो न असमाहितः / न अशान्त-मानसो व आपि प्रज्ञानेन एनम् आप्नुयात् // Bह्GR_१८.᳚ इति दुश्चरित-अविरतेर् ज्ञान-उत्पत्ति-विरोधित्व-श्रवणात् / अतः कर्मणि कर्तृत्व-सङ्ग-फलानां त्यागः शास्त्रीय-त्यागः, न कर्म-स्व-रूप-त्यागः //
SK
तद् आह --
SK
तद् आह ---
SK
न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः | यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते ||
SK
न हि देह-भृता शक्यं त्यक्तुं कर्माण्य् अशेषतः | यस् तु कर्म-फल-त्यागी स त्यागि ईत्य् अभिधीयते ||
SK
न हि देहभृता ध्रियमाणशरीरेण कर्माण्य् अशेषतस् त्यक्तुं शक्यम्; देहधारणार्थानाम् अशनपानादीनां तदनुबन्धिनां च कर्मणाम् अवर्जनीयत्वात् / तद् अर्थं च महायज्ञाद्यनुष्ठानम् अवर्जनीयम् / यस् तु तेषु महायज्ञादिकर्मसु फलत्यागी स एव, ᳚त्यागेनैके अमृतत्वम् आनशुः᳚ इत्यादिशास्त्रेषु त्यागीत्य् अभिधीयते / फलत्यागीति प्रदर्शनार्थं फलकर्तृत्वकर्मसङ्गानां त्यागीति; ᳚त्रिविधः संप्रकीर्तितः᳚ इति प्रक्रमात् //
SK
न हि देह-भृता ध्रियमाण-शरीरेण कर्माण्य् अशेषतस् त्यक्तुं शक्यम्; देह-धारण-अर्थानाम् अशन-पान-आदीनां तद्-अनुबन्धिनां च कर्मणाम् अवर्जनीयत्वात् / तद् अर्थं च महा-यज्ञ-आद्य्-अनुष्ठानम् अवर्जनीयम् / यस् तु तेषु महा-यज्ञ-आदि-कर्मसु फल-त्यागी स एव, ᳚त्यागेन एके अमृतत्वम् आनशुः᳚ इत्य्-आदि-शास्त्रेषु त्यागि ईत्य् अभिधीयते / फल-त्यागि ईति प्रदर्शन-अर्थं फल-कर्तृत्व-कर्म-सङ्गानां त्यागि ईति; ᳚त्रि-विधः संप्रकीर्तितः᳚ इति प्रक्रमात् //
SK
ननु कर्माण्य् अग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादीनि, महायज्ञादीनि च स्वर्गादिफलसंबन्धितया शास्त्रैर् विधीयन्ते; नित्यनैमित्तिकानाम् अपि ᳚प्राजापत्यं गृहस्थानाम्᳚ इत्यादिफलसंबन्धितयैव हि चोदना / अतः तत्तत्फलसाधनस्वभावतयावगतानां कर्मणाम् अनुष्ठाने, बीजावापादीनाम् इव, अनभिसंहितफलस्यापि इष्टानिष्टरूपफलसंबन्धः अवर्जनीयः / अतो मोक्षविरोधिफलत्वेन मुमुक्षुणा न कर्मानुष्ठेयम् इत्य् अत उत्तरम् आह --
SK
ननु कर्माण्य् अग्नि-होत्र-दर्श-पूर्ण-मास-ज्योतिष्टोम-आदीनि, महा-यज्ञ-आदीनि च स्वर्ग-आदि-फल-संबन्धितया शास्त्रैर् विधीयन्ते; नित्य-नैमित्तिकानाम् अपि ᳚प्राजापत्यं गृह-स्थानाम्᳚ इत्य्-आदि-फल-संबन्धितय ऐव हि चोदना / अतः तत्-तत्-फल-साधन-स्व-भावतय आवगतानां कर्मणाम् अनुष्ठाने, बीज-आवाप-आदीनाम् इव, अनभिसंहित-फलस्य अपि इष्ट-अनिष्ट-रूप-फल-संबन्धः अवर्जनीयः / अतो मोक्ष-विरोधि-फलत्वेन मुमुक्षुणा न कर्म-अनुष्ठेयम् इत्य् अत उत्तरम् आह ---
SK
अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् | भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ||
SK
अनिष्टम् इष्टं मिश्रं च त्रि-विधं कर्मणः फलम् | भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ||
SK
अनिष्टम् नरकादिफलम्, इष्टम् स्वर्गादि, मिश्रम् अनिष्टसंभिन्नं पुत्रपश्वन्नाद्यादि; एतत् त्रिविधं कर्मणः फलम्, अत्यागिनाम् कर्तृत्वममताफलत्यागरहितानां प्रेत्य भवति / प्रेत्य कर्मानुष्ठानोत्तरकालम् इत्यर्थः / न तु संन्यासिनां क्वचित् -- न तु कर्तृत्वादिपरित्यागिनां क्वचिद् अपि मोक्षविरोधि फलं भवति / एतद् उक्तं भवति -- यद्य् अप्य् अग्निहोत्रमहायज्ञादीनि तान्य् एव, तथापि जीवनाधिकारकामाधिकारयोर् इव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियते / मोक्षविनियोगश् च, ᳚तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन᳚ इत्यादिभिर् इति / तद् एवं क्रियमाणेष्व् एव कर्मसु कर्तृत्वादिपरित्यागः शास्त्रसिद्धिः संन्यासः; स एव च त्याग इत्य् उक्तः //
SK
अनिष्टम् नरक-आदि-फलम्, इष्टम् स्वर्ग-आदि, मिश्रम् अनिष्ट-संभिन्नं पुत्र-पश्व्-अन्न-अद्य-आदि; एतत् त्रि-विधं कर्मणः फलम्, अत्यागिनाम् कर्तृत्व-ममता-फल-त्याग-रहितानां प्रेत्य भवति / प्रेत्य कर्म-अनुष्ठान-उत्तर-कालम् इत्य्-अर्थः / न तु संन्यासिनां क्वचित् --- न तु कर्तृत्व-आदि-परित्यागिनां क्वचिद् अपि मोक्ष-विरोधि फलं भवति / एतद् उक्तं भवति --- यद्य् अप्य् अग्नि-होत्र-महा-यज्ञ-आदीनि तान्य् एव, तथ आपि जीवन-अधिकार-काम-अधिकारयोर् इव मोक्ष-अधिकारे च विनियोग-पृथक्त्वेन परिह्रियते / मोक्ष-विनियोगश् च, ᳚तम् एतं वेद-अनुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपस आनाशकेन᳚ इत्य्-आदिभिर् इति / तद् एवं क्रियमाणेष्व् एव कर्मसु कर्तृत्व-आदि-परित्यागः शास्त्र-सिद्धिः संन्यासः; स एव च त्याग इत्य् उक्तः //
SK
इदानीं भगवति पुरुषोत्तमे अन्तर्यामिणि कर्तृत्वानुसंधानेन आत्मनि अकर्तृत्वानुसंधानप्रकारम् आह, तत एव फलकर्मणोर् अपि ममतापरित्यागो भवतीति / परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैश् च करणकलेवरप्राणैः स्वलीलाप्रयोजनाय कर्माण्य् आरभते / अतो जीवात्मगतं क्षुन्निवृत्त्यादिकम् अपि फलम्, तत्साधनभूतं च कर्म परमपुरुषस्यैव /
SK
इदानीं भगवति पुरुष-उत्तमे अन्तर्यामिणि कर्तृत्व-अनुसंधानेन आत्मनि अकर्तृत्व-अनुसंधान-प्रकारम् आह, तत एव फल-कर्मणोर् अपि ममता-परित्यागो भवति इति / परम-पुरुषो हि स्वकीयेन जीव-आत्मना स्वकीयैश् च करण-कलेवर-प्राणैः स्व-लीला-प्रयोजनाय कर्माण्य् आरभते / अतो जीव-आत्म-गतं क्षुन्-निवृत्त्य्-आदिकम् अपि फलम्, तत्-साधन-भूतं च कर्म परम-पुरुषस्य एव /
SK
पञ्चैतानि महाबाहो कारणानि निबोधे मे / सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ||
SK
पञ्च एतानि महा-बाहो कारणानि निबोधे मे / सांख्ये कृत-अन्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ||
SK
सांख्या बुद्धिः, सांख्ये कृतान्ते यथावस्थिततत्त्वविषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्वकर्मणां सिद्धये उत्पत्तये, प्रोक्तानि पञ्चैतानि कारणानि निबोधे मे -- मम सकाशाद् अनुसंधत्स्व / वैदिकी हि बुद्धिः शरीरेन्द्रियप्राणजीवात्मोपकरणं परमात्मानम् एव कर्तारम् अवधारयति, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः᳚, ᳚अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा᳚ इत्यादिषु //
SK
सांख्या बुद्धिः, सांख्ये कृत-अन्ते यथा-अवस्थित-तत्त्व-विषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्व-कर्मणां सिद्धये उत्पत्तये, प्रोक्तानि पञ्च एतानि कारणानि निबोधे मे --- मम सकाशाद् अनुसंधत्स्व / वैदिकी हि बुद्धिः शरीर-इन्द्रिय-प्राण-जीव-आत्म-उपकरणं परम-आत्मानम् एव कर्तारम् अवधारयति, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या अत्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्म आन्तर्याम्य् अमृतः᳚, ᳚अन्तः-प्रविष्टः शास्ता जनानां सर्व-आत्मा᳚ इत्य्-आदिषु //
SK
तद् इदम् आह --
SK
तद् इदम् आह ---
SK
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् / विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् //
SK
अधिष्ठानं तथा कर्ता करणं च पृथग्-विधम् / विविधा च पृथक्-चेष्टा दैवं च एव अत्र पञ्चमम् //
SK
शरीरवाङ्मनोभिर् यत् कर्म प्रारभते नरः / न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः //
SK
शरीर-वाङ्-मनोभिर् यत् कर्म प्रारभते नरः / न्याय्यं वा विपरीतं वा पञ्च एते तस्य हेतवः //
SK
न्याय्ये शास्त्रसिद्धे, विपरीते प्रतिषिद्धे वा सर्वस्मिन् कर्मणि शरीरे, वाचिके, मानसे च पञ्चैते हेतवः / अधिष्ठानम् शरीरम्; अधिष्ठीयते जीवात्मनेति महाभूतसंघातरूपं शरीरम् अधिष्ठानम् / तथा कर्ता जीवात्मा; अस्य जीवात्मनो ज्ञातृत्वं कर्तृत्वं च, ᳚ज्ञो ऽत एव᳚, ᳚कर्ता शास्त्रार्थवत्त्वात् ᳚ इति च सूत्रोपपादितम् / करणं च पृथग्विधम् -- वाक्पाणिपादादिपञ्चकं समनस्कं कर्मेन्द्रियं पृथग्विधम् कर्मनिष्पत्तौ पृथग्व्यापारम् / विविधा च पृथक्चेष्टा / चेष्टाशब्देन पञ्चात्मा वायुर् अभिधीयते तद्वृत्तिवाचिना; शरीरेन्द्रियधारणस्य प्राणापानादिभेदभिन्नस्य वायोः पञ्चात्मनो विविधा च चेष्टा विविधा वृत्तिः / दैवं चैवात्र पञ्चमम् -- अत्र कर्महेतुकलापे दैवं पञ्चमम् -- परमात्मा अन्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुर् इत्यर्थः / उक्तं हि, ᳚सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च᳚ इति / वक्ष्यति च, ᳚ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति / भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया᳚ इति / परमात्मायत्तं च जीवात्मनः कर्तृत्वम्, ᳚परात् तु तच्छ्रुतेः᳚ इत्याद्युपपादितम् / नन्व् एवं परमात्मायत्ते जीवात्मनः कर्तृत्वे जीवात्मा कर्मण्य् अनियोज्यो भवतीति विधिनिषेधशास्त्राण्य् अनर्थकानि स्युः // इदम् अपि चोद्यं सूत्रकारेण परिहृतम्, ᳚कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयार्थ्यादिभ्यः᳚ इति / एतद् उक्तं भवति -- परमात्मना दत्तैस् तदाधारैश् च करणकलेबरादिभिस् तदाहितशक्तिभिः स्वयं च जीवात्मा तदाधारस् तदाहितशक्तिस् सन् कर्मनिष्पत्तये स्वेच्छया करणाद्यधिष्ठानाकारं प्रयत्नं चारभते; तदन्तरवस्थितः परमात्मा स्वानुमतिदानेन तं प्रवर्तयतीति जीवस्यापि स्वबुद्ध्यैव प्रवृत्तिहेतुत्वम् अस्ति; यथा गुरुतरशिलामहीरुहादिचलनादिफलप्रवृत्तिषु बहुपुरुषसाध्यासु बहूनां हेतुत्वं विधिनिषेधभाक्त्वं चेति //
SK
न्याय्ये शास्त्र-सिद्धे, विपरीते प्रतिषिद्धे वा सर्वस्मिन् कर्मणि शरीरे, वाचिके, मानसे च पञ्च एते हेतवः / अधिष्ठानम् शरीरम्; अधिष्ठीयते जीव-आत्मन ईति महा-भूत-संघात-रूपं शरीरम् अधिष्ठानम् / तथा कर्ता जीव-आत्मा; अस्य जीव-आत्मनो ज्ञातृत्वं कर्तृत्वं च, ᳚ज्ञो ऽत एव᳚, ᳚कर्ता शास्त्र-अर्थवत्त्वात् ᳚ इति च सूत्र-उपपादितम् / करणं च पृथग्-विधम् --- वाक्-पाणि-पाद-आदि-पञ्चकं समनस्कं कर्म-इन्द्रियं पृथग्-विधम् कर्म-निष्पत्तौ पृथग्-व्यापारम् / विविधा च पृथक्-चेष्टा / चेष्टा-शब्देन पञ्च-आत्मा वायुर् अभिधीयते तद्-वृत्ति-वाचिना; शरीर-इन्द्रिय-धारणस्य प्राण-अपान-आदि-भेद-भिन्नस्य वायोः पञ्च-आत्मनो विविधा च चेष्टा विविधा वृत्तिः / दैवं च एव अत्र पञ्चमम् --- अत्र कर्म-हेतु-कलापे दैवं पञ्चमम् --- परम-आत्मा अन्तर्यामी कर्म-निष्पत्तौ प्रधान-हेतुर् इत्य्-अर्थः / उक्तं हि, ᳚सर्वस्य च अहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च᳚ इति / वक्ष्यति च, ᳚ईश्वरः सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति / भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया᳚ इति / परम-आत्म-आयत्तं च जीव-आत्मनः कर्तृत्वम्, ᳚परात् तु तच्-छ्रुतेः᳚ इत्य्-आद्य्-उपपादितम् / नन्व् एवं परम-आत्म-आयत्ते जीव-आत्मनः कर्तृत्वे जीव-आत्मा कर्मण्य् अनियोज्यो भवति इति विधि-निषेध-शास्त्राण्य् अनर्थकानि स्युः // इदम् अपि चोद्यं सूत्र-कारेण परिहृतम्, ᳚कृत-प्रयत्न-अपेक्षस् तु विहित-प्रतिषिद्ध-अवैयार्थ्य-आदिभ्यः᳚ इति / एतद् उक्तं भवति --- परम-आत्मना दत्तैस् तद्-आधारैश् च करण-कलेबर-आदिभिस् तद्-आहित-शक्तिभिः स्वयं च जीव-आत्मा तद्-आधारस् तद्-आहित-शक्तिस् सन् कर्म-निष्पत्तये स्व-इच्छया करण-आद्य्-अधिष्ठान-आकारं प्रयत्नं चा अरभते; तद्-अन्तर्-अवस्थितः परम-आत्मा स्व-अनुमति-दानेन तं प्रवर्तयति इति जीवस्य अपि स्व-बुद्ध्य ऐव प्रवृत्ति-हेतुत्वम् अस्ति; यथा गुरुतर-शिला-मही-रुह-आदि-चलन-आदि-फल-प्रवृत्तिषु बहु-पुरुष-साध्यासु बहूनां हेतुत्वं विधि-निषेध-भाक्त्वं च इति //
SK
तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः / पश्यत्य् अकृतबुद्धित्वान् न स पश्यति दुर्मतिः //
SK
तत्र एवं सति कर्तारम् आत्मानं केवलं तु यः / पश्यत्य् अकृत-बुद्धित्वान् न स पश्यति दुर्मतिः //
SK
एवं वस्तुतः परमात्मानुमतिपूर्वके जीवात्मनः कर्तृत्वे सति, तत्र कर्मणि केवलम् आत्मानम् एव कर्तारं यः पश्यति, स दुर्मतिः विपरीतमतिः अकृतबुद्धित्वाद् अनिष्पन्नयथावस्थितवस्तुबुद्धित्वान् न पश्यति न यथावस्थितं कर्तारं पश्यति //
SK
एवं वस्तुतः परम-आत्म-अनुमति-पूर्वके जीव-आत्मनः कर्तृत्वे सति, तत्र कर्मणि केवलम् आत्मानम् एव कर्तारं यः पश्यति, स दुर्मतिः विपरीत-मतिः अकृत-बुद्धित्वाद् अनिष्पन्न-यथा-अवस्थित-वस्तु-बुद्धित्वान् न पश्यति न यथा-अवस्थितं कर्तारं पश्यति //
SK
यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते / हत्वापि स इमांल् लोकान् न हन्ति न निबध्यते //
SK
यस्य न अहं-कृतो भावो बुद्धिर् यस्य न लिप्यते / हत्व आपि स इमांल् लोकान् न हन्ति न निबध्यते //
SK
परमपुरुषकर्तृत्वानुसंधानेन यस्य भावः कर्तृत्वविषयो मनोवृत्तिविशेषः नाहंकृतः नाहमभिमानकृतः / अहं करोमीति ज्ञानं यस्य न विद्यत इत्यर्थः / बुद्धिर् यस्य न लिप्यते अस्मिन् कर्मणि मम कर्तृत्वाभावाद् एतत्फलं न मया संबध्यते, न च मदीयं कर्मेति यस्य बुद्धिर् जायत इत्यर्थः / स इमान् लोकान् युद्धे हत्वापि तान् न निहन्ति; न केवलं भीष्मादीन् इत्यर्थः / ततस् तेन युद्धाख्येन कर्मणा न निबध्यते / तत्फलं नानुभवतीत्यर्थः //
SK
परम-पुरुष-कर्तृत्व-अनुसंधानेन यस्य भावः कर्तृत्व-विषयो मनो-वृत्ति-विशेषः न अहं-कृतः न अहम्-अभिमान-कृतः / अहं करोमि इति ज्ञानं यस्य न विद्यत इत्य्-अर्थः / बुद्धिर् यस्य न लिप्यते अस्मिन् कर्मणि मम कर्तृत्व-अभावाद् एतत्-फलं न मया संबध्यते, न च मदीयं कर्म इति यस्य बुद्धिर् जायत इत्य्-अर्थः / स इमान् लोकान् युद्धे हत्व आपि तान् न निहन्ति; न केवलं भीष्म-आदीन् इत्य्-अर्थः / ततस् तेन युद्ध-आख्येन कर्मणा न निबध्यते / तत्-फलं न अनुभवति इत्य्-अर्थः //
SK
सर्वम् इदम् अकर्तृत्वाद्यनुसन्धानं सत्त्वगुणवृद्ध्यैव भवतीति सत्त्वस्योपादेयताज्ञापनाय कर्मणि सत्त्वादिगुणकृतं वैषम्यं प्रपञ्चयिष्यन् कर्मचोदनाप्रकारं तावद् आह --
SK
सर्वम् इदम् अकर्तृत्व-आद्य्-अनुसन्धानं सत्त्व-गुण-वृद्ध्य ऐव भवति इति सत्त्वस्य उपादेयता-ज्ञापनाय कर्मणि सत्त्व-आदि-गुण-कृतं वैषम्यं प्रपञ्चयिष्यन् कर्म-चोदना-प्रकारं तावद् आह ---
SK
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना / कारणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः //
SK
ज्ञानं ज्ञेयं परिज्ञाता त्रि-विधा कर्म-चोदना / कारणं कर्म कर्त ईति त्रि-विधः कर्म-संग्रहः //
SK
ज्ञानम् कर्तव्यकर्मविषयं ज्ञानम्, ज्ञेयं च कर्तव्यं कर्म, परिज्ञाता तस्य बोद्धेति त्रिविधा कर्मचोदना / बोधबोद्धव्यबोद्धृयुक्तो ज्योतिष्टोमादिकर्मविधिर् इत्यर्थः / तत्र बोद्धव्यरूपं कर्म त्रिविधं संगृह्यते करणं कर्म कर्तेति / करणम् साधनभूतं द्रव्यादिकम्; कर्म यागादिकम्; कर्ता अनुष्ठातेति //
SK
ज्ञानम् कर्तव्य-कर्म-विषयं ज्ञानम्, ज्ञेयं च कर्तव्यं कर्म, परिज्ञाता तस्य बोद्ध ईति त्रि-विधा कर्म-चोदना / बोध-बोद्धव्य-बोद्धृ-युक्तो ज्योतिष्टोम-आदि-कर्म-विधिर् इत्य्-अर्थः / तत्र बोद्धव्य-रूपं कर्म त्रि-विधं संगृह्यते करणं कर्म कर्त ईति / करणम् साधन-भूतं द्रव्य-आदिकम्; कर्म याग-आदिकम्; कर्ता अनुष्ठात ईति //
SK
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः / प्रोच्यते गुणसंख्याने यथावच् छृणु तान्य् अपि //
SK
ज्ञानं कर्म च कर्ता च त्रिध ऐव गुण-भेदतः / प्रोच्यते गुण-संख्याने यथावच् छृणु तान्य् अपि //
SK
कर्तव्यकर्मविषयं ज्ञानम्, अनुष्ठीयमानं च कर्म, तस्यानुष्ठाता च सत्त्वादिगुणभेदतस् त्रिविधैव प्रोच्यते गुणसंख्याने गुणकार्यगणने / यथावच् छृणु तान्य् अपि तानि गुणतो भिन्नानि ज्ञानादीनि यथावच् छृणु //
SK
कर्तव्य-कर्म-विषयं ज्ञानम्, अनुष्ठीयमानं च कर्म, तस्य अनुष्ठाता च सत्त्व-आदि-गुण-भेदतस् त्रि-विध ऐव प्रोच्यते गुण-संख्याने गुण-कार्य-गणने / यथावच् छृणु तान्य् अपि तानि गुणतो भिन्नानि ज्ञान-आदीनि यथावच् छृणु //
SK
सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते / अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् //
SK
सर्व-भूतेषु येन एकं भावम् अव्ययम् ईक्षते / अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् //
SK
ब्राह्मणक्षत्रियब्रह्मचारिगृहस्थादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेनैकम् आत्माख्यं भावं, तत्राप्य् अविभक्तम् ब्राह्मणत्वाद्यनेकाकारेष्व् अपि भूतेषु सितदीर्घादिविभागवत्सु ज्ञानाकारे आत्मनि विभागरहितम्, अव्ययं व्ययस्वभावेष्व् अपि ब्राह्मणादिशरीरेषु अव्ययम् अविकृतं फलादिसङ्गानर्हं च कर्माधिकारवेलायाम् ईक्षते, तज् ज्ञानं सात्त्विकं विद्धि //
SK
ब्राह्मण-क्षत्रिय-ब्रह्म-चारि-गृह-स्थ-आदि-रूपेण विभक्तेषु सर्वेषु भूतेषु कर्म-अधिकारिषु येन ज्ञानेन एकम् आत्म-आख्यं भावं, तत्र अप्य् अविभक्तम् ब्राह्मणत्व-आद्य्-अनेक-आकारेष्व् अपि भूतेषु सित-दीर्घ-आदि-विभाग-वत्सु ज्ञान-आकारे आत्मनि विभाग-रहितम्, अव्ययं व्यय-स्व-भावेष्व् अपि ब्राह्मण-आदि-शरीरेषु अव्ययम् अविकृतं फल-आदि-सङ्ग-अनर्हं च कर्म-अधिकार-वेलायाम् ईक्षते, तज् ज्ञानं सात्त्विकं विद्धि //
SK
पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्विधान् / वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् //
SK
पृथक्त्वेन तु यज् ज्ञानं नाना-भावान् पृथग्-विधान् / वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् //
SK
सर्वेषु भूतेषु ब्राह्मणादिषु ब्राह्मणाद्याकारपृथक्त्वेनात्माख्यान् अपि भावान् नानाभूतान् सितदीर्घादिपृथक्त्वेन च पृथग्विधान् फलादिसंयोगयोग्यान् कर्माधिकारवेलायां यज् ज्ञानं वेत्ति, तज् ज्ञानं राजसं विद्धि //
SK
सर्वेषु भूतेषु ब्राह्मण-आदिषु ब्राह्मण-आद्य्-आकार-पृथक्त्वेना अत्म-आख्यान् अपि भावान् नाना-भूतान् सित-दीर्घ-आदि-पृथक्त्वेन च पृथग्-विधान् फल-आदि-संयोग-योग्यान् कर्म-अधिकार-वेलायां यज् ज्ञानं वेत्ति, तज् ज्ञानं राजसं विद्धि //
SK
यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहेतुकम् / अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् //
SK
यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहेतुकम् / अतत्त्व-अर्थवद् अल्पं च तत् तामसम् उदाहृतम् //
SK
यत् तु ज्ञानम्, एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेतभूतगणाद्याराधनरूपे अत्यल्पफले कृत्स्नफलवत् सक्तम्, अहेतुकम् वस्तुतस् त्व् अकृत्स्नफलवत्तया तथाविधसङ्गहेतुरहितम् अतत्त्वार्थवत् पूर्ववद् एवात्मनि पृथक्त्वादियुक्ततया मिथ्याभूतार्थविषयम्, अत्यल्पफलं च प्रेतभूताद्याराधनविषयत्वाद् अल्पं च, तज् ज्ञानं तामसम् उदाहृतम् //
SK
यत् तु ज्ञानम्, एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेत-भूत-गण-आद्य्-आराधन-रूपे अत्यल्प-फले कृत्स्न-फलवत् सक्तम्, अहेतुकम् वस्तुतस् त्व् अकृत्स्न-फलवत्तया तथा-विध-सङ्ग-हेतु-रहितम् अतत्त्व-अर्थवत् पूर्ववद् एवा अत्मनि पृथक्त्व-आदि-युक्ततया मिथ्या-भूत-अर्थ-विषयम्, अत्यल्प-फलं च प्रेत-भूत-आद्य्-आराधन-विषयत्वाद् अल्पं च, तज् ज्ञानं तामसम् उदाहृतम् //
SK
एवं कर्तव्यकर्मविषयज्ञानस्याधिकारवेलायाम् अधिकार्यंशेन गुणतस् त्रैविध्यम् उक्त्वा अनुष्ठेयस्य कर्मणो गुणतस् त्रैविध्यम् आह --
SK
एवं कर्तव्य-कर्म-विषय-ज्ञानस्य अधिकार-वेलायाम् अधिकार्य्-अंशेन गुणतस् त्रैविध्यम् उक्त्वा अनुष्ठेयस्य कर्मणो गुणतस् त्रैविध्यम् आह ---
SK
नियतं सङ्गरहितम् अरागद्वेषतः कृतम् / अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते //
SK
नियतं सङ्ग-रहितम् अराग-द्वेषतः कृतम् / अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते //
SK
नियतम् स्ववर्णाश्रमोचितम्, सङ्गरहितम् कर्तृत्वादिसङ्गरहितम्, अरागद्वेषतः कृतम् कीर्तिरागाद् अकीर्तिद्वेषाच् च न कृतम्; अदम्भेन कृतम् इत्यर्थः; अफलप्रेप्सुना अफलाभिसन्धिना कार्यम् इत्य् एव कृतं यत् कर्म, तत् सात्त्विकम् उच्यते //
SK
नियतम् स्व-वर्ण-आश्रम-उचितम्, सङ्ग-रहितम् कर्तृत्व-आदि-सङ्ग-रहितम्, अराग-द्वेषतः कृतम् कीर्ति-रागाद् अकीर्ति-द्वेषाच् च न कृतम्; अदम्भेन कृतम् इत्य्-अर्थः; अफल-प्रेप्सुना अफल-अभिसन्धिना कार्यम् इत्य् एव कृतं यत् कर्म, तत् सात्त्विकम् उच्यते //
SK
यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः / क्रियते बहुलायासं तद् राजसम् उदाहृतम् //
SK
यत् तु काम-ईप्सुना कर्म स-अहङ्-कारेण वा पुनः / क्रियते बहुल-आयासं तद् राजसम् उदाहृतम् //
SK
यत् तु पुनः कामेप्सुना फलप्रेप्सुना साहंकारेण वा वाशब्दश् चार्थे कर्तृत्वाभिमानयुक्तेन च, बहुलायासं यत् कर्म क्रियते, तद् राजसम् बहुलायासम् इदं कर्म मयैव क्रियत इत्य् एवंरूपाभिमानयुक्तेन यत् कर्म क्रियते, तद् राजसम् इत्यर्थः //
SK
यत् तु पुनः काम-ईप्सुना फल-प्रेप्सुना स-अहं-कारेण वा वा-शब्दश् च अर्थे कर्तृत्व-अभिमान-युक्तेन च, बहुल-आयासं यत् कर्म क्रियते, तद् राजसम् बहुल-आयासम् इदं कर्म मय ऐव क्रियत इत्य् एवं-रूप-अभिमान-युक्तेन यत् कर्म क्रियते, तद् राजसम् इत्य्-अर्थः //
SK
अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् / मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते //
SK
अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् / मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते //
SK
कृते कर्मण्य् अनुबध्यमानं दुःखम् अनुबन्धः; क्षयः कर्मणि क्रियमाणे अर्थविनाशः; हिंसा तत्र प्राणिपीडा; पौरुषम् आत्मनः कर्मसमापनसामर्थ्यम्; एतानि अनवेक्ष्य अविमृश्य, मोहात् परमपुरुषकर्तृत्वाज्ञानाद् यत् कर्मारभ्यते, तत् तामसम् उच्यते //
SK
कृते कर्मण्य् अनुबध्यमानं दुःखम् अनुबन्धः; क्षयः कर्मणि क्रियमाणे अर्थ-विनाशः; हिंसा तत्र प्राणि-पीडा; पौरुषम् आत्मनः कर्म-समापन-सामर्थ्यम्; एतानि अनवेक्ष्य अविमृश्य, मोहात् परम-पुरुष-कर्तृत्व-अज्ञानाद् यत् कर्मा अरभ्यते, तत् तामसम् उच्यते //
SK
मुक्तसङ्गो ऽनहंवादी धृत्युत्साहसमन्वितः / सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते //
SK
मुक्त-सङ्गो ऽनहंवादी धृत्य्-उत्साह-समन्वितः / सिद्ध्य्-असिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते //
SK
मुक्तसङ्गः फलसङ्गरहितः अनहंवादी कर्तृत्वाभिमानरहितः, धृत्युत्साहसमन्वितः आरब्धे कर्मणि यावत्कर्मसमाप्त्यवर्जनीयदुःखधारणं धृतिः; उत्साहः उद्युक्तचेतस्त्वम्; ताभ्यां समन्वितः, सिद्ध्यसिद्ध्योर् निर्विकारः युद्धादौ कर्मणि तदुपकरणभूतद्रव्यार्जनादिषु च सिद्ध्यसिद्ध्योर् अविकृतचित्तः कर्ता सात्त्विक उच्यते //
SK
मुक्त-सङ्गः फल-सङ्ग-रहितः अनहंवादी कर्तृत्व-अभिमान-रहितः, धृत्य्-उत्साह-समन्वितः आरब्धे कर्मणि यावत्-कर्म-समाप्त्य्-अवर्जनीय-दुःख-धारणं धृतिः; उत्साहः उद्युक्त-चेतस्त्वम्; ताभ्यां समन्वितः, सिद्ध्य्-असिद्ध्योर् निर्विकारः युद्ध-आदौ कर्मणि तद्-उपकरण-भूत-द्रव्य-अर्जन-आदिषु च सिद्ध्य्-असिद्ध्योर् अविकृत-चित्तः कर्ता सात्त्विक उच्यते //
SK
रगी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मको ऽशुचिः / हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः //
SK
रगी कर्म-फल-प्रेप्सुर् लुब्धो हिंसा-आत्मको ऽशुचिः / हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः //
SK
रागी यशोऽर्थी, कर्मफलप्रेप्सुः कर्मफलार्थी; लुब्धः कर्मापेक्षितद्रव्यव्ययस्वभावरहितः, हिंसात्मकः परान् पीडयित्वा तैः कर्म कुर्वाणः, अशुचिः कर्मापेक्षितशुद्धिरहितः, हर्षशोकान्वितः युद्धादौ कर्मणि जयादिसिद्ध्यसिद्ध्योर् हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः //
SK
रागी यशो-ऽर्थी, कर्म-फल-प्रेप्सुः कर्म-फल-अर्थी; लुब्धः कर्म-अपेक्षित-द्रव्य-व्यय-स्व-भाव-रहितः, हिंसा-आत्मकः परान् पीडयित्वा तैः कर्म कुर्वाणः, अशुचिः कर्म-अपेक्षित-शुद्धि-रहितः, हर्ष-शोक-अन्वितः युद्ध-आदौ कर्मणि जय-आदि-सिद्ध्य्-असिद्ध्योर् हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः //
SK
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको ऽलसः / विषादी दीर्घसूत्री च कर्ता तामस उच्यते //
SK
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको ऽलसः / विषादी दीर्घ-सूत्री च कर्ता तामस उच्यते //
SK
अयुक्तः शास्त्रीयकर्मायोग्यः, विकर्मस्थः, प्राकृतः अनधिगतविद्यः, स्तब्धः अनारम्भशीलः, शठः अभिचारादिकर्मरुचिः, नैकृतिकः वञ्चनपरः, अलसः आरब्धेष्व् अपि कर्मसु मन्दप्रवृत्तिः, विषादी अतिमात्रावसादशीलः दीर्घसूत्री अभिचारादिकर्म कुर्वन् परेषु दीर्घकालवर्त्यनर्थपर्यालोचनशीलः, एवंभूतो यः कर्ता, स तामसः //
SK
अयुक्तः शास्त्रीय-कर्म-अयोग्यः, विकर्म-स्थः, प्राकृतः अनधिगत-विद्यः, स्तब्धः अनारम्भ-शीलः, शठः अभिचार-आदि-कर्म-रुचिः, नैकृतिकः वञ्चन-परः, अलसः आरब्धेष्व् अपि कर्मसु मन्द-प्रवृत्तिः, विषादी अतिमात्र-अवसाद-शीलः दीर्घ-सूत्री अभिचार-आदि-कर्म कुर्वन् परेषु दीर्घ-काल-वर्त्य्-अनर्थ-पर्यालोचन-शीलः, एवं-भूतो यः कर्ता, स तामसः //
SK
एवं कर्तव्यकर्मविषयज्ञाने कर्तव्ये च कर्मणि अनुष्ठातरि च गुणतस् त्रैविध्यम् उक्तम्; इदानीं सर्वतत्त्वसर्वपुरुषार्थनिश्चयरूपाया बुद्धेर् धृतेश् च गुणतस् त्रैविध्यम् आह --
SK
एवं कर्तव्य-कर्म-विषय-ज्ञाने कर्तव्ये च कर्मणि अनुष्ठातरि च गुणतस् त्रैविध्यम् उक्तम्; इदानीं सर्व-तत्त्व-सर्व-पुरुष-अर्थ-निश्चय-रूपाया बुद्धेर् धृतेश् च गुणतस् त्रैविध्यम् आह ---
SK
बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रिविधं शृणु / प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय //
SK
बुद्धेर् भेदं धृतेश् च एव गुणतस् त्रि-विधं शृणु / प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय //
SK
बुद्धिः विवेकपूर्वकं निश्चयरूपं ज्ञानम्; धृतिः आरब्धायाः क्रियाया विघ्नोपनिपाते ऽपि धारणम्, तयोस् सत्त्वादिगुणतस् त्रिविधं भेदं पृथक्त्वेन प्रोच्यमानं यथावच् छृणु //
SK
बुद्धिः विवेक-पूर्वकं निश्चय-रूपं ज्ञानम्; धृतिः आरब्धायाः क्रियाया विघ्न-उपनिपाते ऽपि धारणम्, तयोस् सत्त्व-आदि-गुणतस् त्रि-विधं भेदं पृथक्त्वेन प्रोच्यमानं यथावच् छृणु //
SK
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये / बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी //
SK
प्रवृत्तिं च निवृत्तिं च कार्य-अकार्ये भय-अभये / बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी //
SK
प्रवृत्तिः अभ्युदयसाधनभूतो धर्मः, निवृत्तिः मोक्षसाधनभूतः, तव् उभौ यथावस्थितौ या बुद्धिर् वेत्ति; कार्याकार्ये सर्ववर्णानां प्रवृत्तिनिवृत्तिधर्मयोर् अन्यतरनिष्ठानां देशकालावस्थाविशेषेषु ᳚इदं कार्यम्, इदम् अकार्यम्᳚ इति या वेत्ति; भयाभये -- शास्त्रातिवृत्तिर् भयस्थानं तदनुवृत्तिर् अभयस्थानम्, बन्धं मोक्षं च संसारयाथात्म्यं तद्विगमयाथात्म्यं च या वेत्ति; सा सात्त्विकी बुद्धिः //
SK
प्रवृत्तिः अभ्युदय-साधन-भूतो धर्मः, निवृत्तिः मोक्ष-साधन-भूतः, तव् उभौ यथा-अवस्थितौ या बुद्धिर् वेत्ति; कार्य-अकार्ये सर्व-वर्णानां प्रवृत्ति-निवृत्ति-धर्मयोर् अन्यतर-निष्ठानां देश-काल-अवस्था-विशेषेषु ᳚इदं कार्यम्, इदम् अकार्यम्᳚ इति या वेत्ति; भय-अभये --- शास्त्र-अतिवृत्तिर् भय-स्थानं तद्-अनुवृत्तिर् अभय-स्थानम्, बन्धं मोक्षं च संसार-याथात्म्यं तद्-विगम-याथात्म्यं च या वेत्ति; सा सात्त्विकी बुद्धिः //
SK
यथा धर्मम् अधर्मं च कार्यं चाकार्यम् एव च / अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी //
SK
यथा धर्मम् अधर्मं च कार्यं च अकार्यम् एव च / अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी //
SK
यथा पूर्वोक्तं द्विविधं धर्मं तद्विपरीतं च तन्निष्ठानां देशकालावस्थादिषु कार्यं चाकार्यं च यथावन् न जानाति, सा राजसी बुद्धिः //
SK
यथा पूर्व-उक्तं द्वि-विधं धर्मं तद्-विपरीतं च तन्-निष्ठानां देश-काल-अवस्था-आदिषु कार्यं च अकार्यं च यथावन् न जानाति, सा राजसी बुद्धिः //
SK
अधर्मं धर्मम् इति या मन्यते तमसावृता / सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी //
SK
अधर्मं धर्मम् इति या मन्यते तमसा आवृता / सर्व-अर्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी //
SK
तामसी तु बुद्धिः तमसावृता सती सर्वार्थान् विपरीतान् मन्यते / अधर्मं धर्मं, धर्मं चाधर्मं, सन्तं चार्थम् असन्तम्, असन्तम् चार्थं सन्तं, परं च तत्त्वम् अपरम्, अपरं च तत्त्वं परम् / एवं सर्वं विपरीतं मन्यत इत्यर्थः //
SK
तामसी तु बुद्धिः तमसा आवृता सती सर्व-अर्थान् विपरीतान् मन्यते / अधर्मं धर्मं, धर्मं च अधर्मं, सन्तं च अर्थम् असन्तम्, असन्तम् च अर्थं सन्तं, परं च तत्त्वम् अपरम्, अपरं च तत्त्वं परम् / एवं सर्वं विपरीतं मन्यत इत्य्-अर्थः //
SK
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः / योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी //
SK
धृत्या यया धारयते मनः-प्राण-इन्द्रिय-क्रियाः / योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी //
SK
यया धृत्या योगेनाव्यभिचारिण्या मनःप्राणेन्द्रियाणां क्रियाः पुरुषो धारयते; योगः मोक्षसाधनभूतं भगवदुपासनम्; योगेन प्रयोजनभूतेनाव्यभिचारिण्या योगोद्देशेन प्रवृत्तास् तत्साधनभूता मनःप्रभृतीनां क्रियाः यया धृत्या धारयते, सा सात्त्विकीत्यर्थः //
SK
यया धृत्या योगेन अव्यभिचारिण्या मनः-प्राण-इन्द्रियाणां क्रियाः पुरुषो धारयते; योगः मोक्ष-साधन-भूतं भगवद्-उपासनम्; योगेन प्रयोजन-भूतेन अव्यभिचारिण्या योग-उद्देशेन प्रवृत्तास् तत्-साधन-भूता मनः-प्रभृतीनां क्रियाः यया धृत्या धारयते, सा सात्त्विकि ईत्य्-अर्थः //
SK
यया तु धर्मकामार्थान् धृत्या धारयते ऽर्जुन / प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी //
SK
यया तु धर्म-काम-अर्थान् धृत्या धारयते ऽर्जुन / प्रसङ्गेन फल-आकाङ्क्षी धृतिः सा पार्थ राजसी //
SK
फलाकाङ्क्षी पुरुषः प्रकृष्टसङ्गेन धर्मकामार्थान् यया धृत्या धारयते, सा राजसी / धर्मकामार्थशब्देन तत्साधनभूता मनःप्राणेन्द्रियक्रिया लक्ष्यन्ते / फलाकाङ्क्षीत्य् अत्रापि फलशब्देन राजसत्वाद् धर्मकामार्था एव विवक्षिताः / अतो धर्मकामार्थापेक्षया मनःप्रभृतीनां क्रिया यया धृत्या धारयते, सा राजसीत्य् उक्तं भवति //
SK
फल-आकाङ्क्षी पुरुषः प्रकृष्ट-सङ्गेन धर्म-काम-अर्थान् यया धृत्या धारयते, सा राजसी / धर्म-काम-अर्थ-शब्देन तत्-साधन-भूता मनः-प्राण-इन्द्रिय-क्रिया लक्ष्यन्ते / फल-आकाङ्क्षि ईत्य् अत्र अपि फल-शब्देन राजसत्वाद् धर्म-काम-अर्था एव विवक्षिताः / अतो धर्म-काम-अर्थ-अपेक्षया मनः-प्रभृतीनां क्रिया यया धृत्या धारयते, सा राजसि ईत्य् उक्तं भवति //
SK
यया स्वप्नं भयं शोकं विषादं मदम् एव च / न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी //
SK
यया स्वप्नं भयं शोकं विषादं मदम् एव च / न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी //
SK
यया धृत्या /स्वप्नं निद्राम् / मदं विषयानुभवजनितं मदम् / स्वप्नमदव् उद्दिश्य प्रवृत्ता मनःप्राणादीनां क्रियाः दुर्मेधा न विमुञ्चति धारयति / भयशोकविषादशब्दाश् च भयशोकादिदायिविषयपराः; तत्साधनभूताश् च मनःप्राणादिक्रिया यया धारयते, सा धृतिस् तामसी //
SK
यया धृत्या /स्वप्नं निद्राम् / मदं विषय-अनुभव-जनितं मदम् / स्वप्न-मदव् उद्दिश्य प्रवृत्ता मनः-प्राण-आदीनां क्रियाः दुर्मेधा न विमुञ्चति धारयति / भय-शोक-विषाद-शब्दाश् च भय-शोक-आदि-दायि-विषय-पराः; तत्-साधन-भूताश् च मनः-प्राण-आदि-क्रिया यया धारयते, सा धृतिस् तामसी //
SK
सुखं त्व् इदानीं त्रिविधं शृणु मे भरतर्षभ /
SK
सुखं त्व् इदानीं त्रि-विधं शृणु मे भरत-र्षभ /
SK
पूर्वोक्ताः सर्वे ज्ञानकर्मकर्त्रादयो यच् छेषभूताः, तच् च सुखं गुणतस् त्रिविधम् इदानीं शृणु //
SK
पूर्व-उक्ताः सर्वे ज्ञान-कर्म-कर्त्र्-आदयो यच् छेष-भूताः, तच् च सुखं गुणतस् त्रि-विधम् इदानीं शृणु //
SK
अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति //
SK
अभ्यासाद् रमते यत्र दुःख-अन्तं च निगच्छति //
SK
यत् तद् अग्रे विषम् इव परिणामे ऽमृतोपमम् / तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् //
SK
यत् तद् अग्रे विषम् इव परिणामे ऽमृत-उपमम् / तत् सुखं सात्त्विकं प्रोक्तम् आत्म-बुद्धि-प्रसाद-जम् //
SK
यस्मिन् सुखे चिरकालाभ्यासात् क्रमेण निरतिशयां रतिं प्राप्नोति, दुःखान्तं च निगच्छति निखिलस्य सांसारिकस्य दुःखस्यान्तं निगच्छति // तद् एव विशिनष्टि -- यत् तत् सुखम्, अग्रे योगोपक्रमवेलायां बह्वायाससाध्यत्वाद् विविक्तस्वरूपस्याननुभूतत्वाच् च विषम् इव दुःखम् इव भवति, परिणामे ऽमृतोपमम् / परिणामे विपाके अभ्यासबलेन विविक्तात्मस्वरूपाविर्भावे अमृतोपमं भवति, तच् च आत्मबुद्धिप्रसादजम् आत्मविषया बुद्धिः आत्मबुद्धिः, तस्याः निवृत्तसकलेतरविषयत्वं प्रसादः, निवृत्तसकलेतरविषयबुद्ध्या विविक्तस्वभावात्मानुभवजनितं सुखम् अमृतोपमं भवति; तत् सुखं सात्त्विकं प्रोक्तम् //
SK
यस्मिन् सुखे चिर-काल-अभ्यासात् क्रमेण निरतिशयां रतिं प्राप्नोति, दुःख-अन्तं च निगच्छति निखिलस्य सांसारिकस्य दुःखस्य अन्तं निगच्छति // तद् एव विशिनष्टि --- यत् तत् सुखम्, अग्रे योग-उपक्रम-वेलायां बह्व्-आयास-साध्यत्वाद् विविक्त-स्व-रूपस्य अननुभूतत्वाच् च विषम् इव दुःखम् इव भवति, परिणामे ऽमृत-उपमम् / परिणामे विपाके अभ्यास-बलेन विविक्त-आत्म-स्व-रूप-आविर्भावे अमृत-उपमं भवति, तच् च आत्म-बुद्धि-प्रसाद-जम् आत्म-विषया बुद्धिः आत्म-बुद्धिः, तस्याः निवृत्त-सकल-इतर-विषयत्वं प्रसादः, निवृत्त-सकल-इतर-विषय-बुद्ध्या विविक्त-स्व-भाव-आत्म-अनुभव-जनितं सुखम् अमृत-उपमं भवति; तत् सुखं सात्त्विकं प्रोक्तम् //
SK
विषयेन्द्रियसंयोगाद् यत् तद् अग्रे ऽमृतोपमम् / परिणामे विषम् इव तत् सुखं राजसं स्मृतम् //
SK
विषय-इन्द्रिय-संयोगाद् यत् तद् अग्रे ऽमृत-उपमम् / परिणामे विषम् इव तत् सुखं राजसं स्मृतम् //
SK
अग्रे अनुभववेलायां विषयेन्द्रियसंयोगाद् यत् तद् अमृतम् इव भवति, परिणामे विपाके विषयाणां सुखतानिमित्तक्षुदादौ निवृत्ते तस्य च सुखस्य निरयादिनिमित्तत्वाद् विषम् इव पीतं भवति, तत् सुखं राजसं स्मृतम् //
SK
अग्रे अनुभव-वेलायां विषय-इन्द्रिय-संयोगाद् यत् तद् अमृतम् इव भवति, परिणामे विपाके विषयाणां सुखता-निमित्त-क्षुद्-आदौ निवृत्ते तस्य च सुखस्य निरय-आदि-निमित्तत्वाद् विषम् इव पीतं भवति, तत् सुखं राजसं स्मृतम् //
SK
यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः / निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् //
SK
यद् अग्रे च अनुबन्धे च सुखं मोहनम् आत्मनः / निद्रा-आलस्य-प्रमाद-उत्थं तत् तामसम् उदाहृतम् //
SK
यत् सुखम् अग्रे चानुबन्धे च अनुभववेलायां विपाके च आत्मनो मोहनं मोहहेतुर् भवति; मोहो ऽत्र यथावस्थितवस्त्वप्रकाशो ऽभिप्रेतः; निद्रालस्यप्रमादोत्थम् निद्रालस्यप्रमादजनितम्, निद्रादयो ह्य् अनुभववेलायाम् अपि मोहहेतवः / निद्राया मोहहेतुत्वं स्पृष्टम् / आलस्यम् इन्द्रियव्यापारम् आन्द्यम् / इन्द्रियव्यापारम् आन्द्ये च ज्ञानम् आन्द्यं भवत्य् एव / प्रमादः कृत्यानवधानरूप इति तत्रापि ज्ञानम् आन्द्यं भवति / ततश् च तयोर् अपि मोहहेतुत्वम् / तत् सुखं तामसम् उदाहृतम् / अतो मुमुक्षुणा रजस्तमसी अभिभूय सत्त्वम् एवोपादेयम् इत्य् उक्तं भवति //
SK
यत् सुखम् अग्रे च अनुबन्धे च अनुभव-वेलायां विपाके च आत्मनो मोहनं मोह-हेतुर् भवति; मोहो ऽत्र यथा-अवस्थित-वस्त्व्-अप्रकाशो ऽभिप्रेतः; निद्रा-आलस्य-प्रमाद-उत्थम् निद्रा-आलस्य-प्रमाद-जनितम्, निद्रा-आदयो ह्य् अनुभव-वेलायाम् अपि मोह-हेतवः / निद्राया मोह-हेतुत्वं स्पृष्टम् / आलस्यम् इन्द्रिय-व्यापारम् आन्द्यम् / इन्द्रिय-व्यापारम् आन्द्ये च ज्ञानम् आन्द्यं भवत्य् एव / प्रमादः कृत्य-अनवधान-रूप इति तत्र अपि ज्ञानम् आन्द्यं भवति / ततश् च तयोर् अपि मोह-हेतुत्वम् / तत् सुखं तामसम् उदाहृतम् / अतो मुमुक्षुणा रजस्-तमसी अभिभूय सत्त्वम् एव उपादेयम् इत्य् उक्तं भवति //
SK
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः / सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः //
SK
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः / सत्त्वं प्रकृति-जैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः //
SK
पृथिव्यां मनुष्यादिषु दिवि देवेषु वा प्रकृतिसंसृष्टेषु ब्रह्मादिषु स्थावरान्तेषु प्रकृतिजैर् एभिस् त्रिभिर् गुणैर् मुक्तं यत् सत्त्वं प्राणिजातम्, न तद् अस्ति //
SK
पृथिव्यां मनुष्य-आदिषु दिवि देवेषु वा प्रकृति-संसृष्टेषु ब्रह्मा-आदिषु स्थावर-अन्तेषु प्रकृति-जैर् एभिस् त्रिभिर् गुणैर् मुक्तं यत् सत्त्वं प्राणि-जातम्, न तद् अस्ति //
SK
᳚त्यागेनैके अमृतत्वम् आनशुः᳚ इत्यादिषु मोक्षसाधनतया निर्दिष्टस् त्यागः संन्यासशब्दार्थाद् अनन्यः; स च क्रियमाणेष्व् एव कर्मसु कर्तृत्वत्यागमूलः फलकर्मणोस् त्यागः; कर्तृत्वत्यागश् च परमपुरुषे कर्तृत्वानुसंधानेनेत्य् उक्तम् / एतत् सर्वं सत्त्वगुणवृद्धिकार्यम् इति सत्त्वोपादेयताज्ञापनाय सत्त्वरजस्तमसां कार्यभेदाः प्रपञ्चिताः / इदानीम् एवंभूतस्य मोक्षसाधनतया क्रियमाणस्य कर्मणः परमपुरुषाराधनवेषतां तथानुष्ठितस्य च कर्मणस् तत्प्राप्तिलक्षणं फलं प्रतिपादयितुं ब्राह्मणाद्यधिकारिणां स्वभावानुबन्धिसत्त्वादिगुणभेदभिन्नं वृत्त्या सह कर्तव्यकर्मस्वरूपम् आह --
SK
᳚त्यागेन एके अमृतत्वम् आनशुः᳚ इत्य्-आदिषु मोक्ष-साधनतया निर्दिष्टस् त्यागः संन्यास-शब्द-अर्थाद् अनन्यः; स च क्रियमाणेष्व् एव कर्मसु कर्तृत्व-त्याग-मूलः फल-कर्मणोस् त्यागः; कर्तृत्व-त्यागश् च परम-पुरुषे कर्तृत्व-अनुसंधानेन इत्य् उक्तम् / एतत् सर्वं सत्त्व-गुण-वृद्धि-कार्यम् इति सत्त्व-उपादेयता-ज्ञापनाय सत्त्व-रजस्-तमसां कार्य-भेदाः प्रपञ्चिताः / इदानीम् एवं-भूतस्य मोक्ष-साधनतया क्रियमाणस्य कर्मणः परम-पुरुष-आराधन-वेषतां तथा-अनुष्ठितस्य च कर्मणस् तत्-प्राप्ति-लक्षणं फलं प्रतिपादयितुं ब्राह्मण-आद्य्-अधिकारिणां स्व-भाव-अनुबन्धि-सत्त्व-आदि-गुण-भेद-भिन्नं वृत्त्या सह कर्तव्य-कर्म-स्व-रूपम् आह ---
SK
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप / कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः //
SK
ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परंतप / कर्माणि प्रविभक्तानि स्व-भाव-प्रभवैर् गुणैः //
SK
ब्राह्मणक्षत्रियविशां स्वकीयो भावः स्वभावः ब्राह्मणादिजन्महेतुभूतं प्राचीनकर्मेत्य् अर्थः; तत्प्रभवाः सत्त्वादयो गुणाः / ब्राह्मणस्य स्वभावप्रभवो रजस्तमोऽभिभवेनोद्भूतः सत्त्वगुणः; क्षत्रियस्य स्वभावप्रभवः तमस्सत्त्वाभिभवेनोद्भूतो रजोगुणः; वैश्यस्य स्वभावप्रभवः सत्त्वरजोऽभिभवेनाल्पोद्रिक्तस् तमोगुणः; शूद्रस्य स्वभावप्रभवस् तु रजस्सत्त्वाभिभवेनात्युद्रिक्तस् तमोगुणः / एभिः स्वभावप्रभवैर् गुणैः सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादितानि / ब्राह्मणादय एवंगुणकाः, तेषां चैतानि कर्माणि, वृत्तयश् चैता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि //
SK
ब्राह्मण-क्षत्रिय-विशां स्वकीयो भावः स्व-भावः ब्राह्मण-आदि-जन्म-हेतु-भूतं प्राचीन-कर्म इत्य् अर्थः; तत्-प्रभवाः सत्त्व-आदयो गुणाः / ब्राह्मणस्य स्व-भाव-प्रभवो रजस्-तमो-ऽभिभवेन उद्भूतः सत्त्व-गुणः; क्षत्रियस्य स्व-भाव-प्रभवः तमस्-सत्त्व-अभिभवेन उद्भूतो रजो-गुणः; वैश्यस्य स्व-भाव-प्रभवः सत्त्व-रजो-ऽभिभवेन अल्प-उद्रिक्तस् तमो-गुणः; शूद्रस्य स्व-भाव-प्रभवस् तु रजस्-सत्त्व-अभिभवेन अत्युद्रिक्तस् तमो-गुणः / एभिः स्व-भाव-प्रभवैर् गुणैः सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादितानि / ब्राह्मण-आदय एवं-गुणकाः, तेषां च एतानि कर्माणि, वृत्तयश् च एता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि //
SK
शमो दमस् तपश् शौचं क्षान्तिर् आर्जवम् एव च / ज्ञानं विज्ञानम् आस्तिक्यं ब्राह्मं कर्म स्वभावजम् //
SK
शमो दमस् तपश् शौचं क्षान्तिर् आर्जवम् एव च / ज्ञानं विज्ञानम् आस्तिक्यं ब्राह्मं कर्म स्व-भाव-जम् //
SK
शमः बाह्येन्द्रियनियमनम्; दमः अन्तःकरणनियमनम्; तपः भोगनियमनरूपः शास्त्रसिद्धः कायक्लेशः; शौचं शास्त्रीयकर्मयोग्यता; क्षान्तिः परैः पीड्यमानस्याप्य् अविकृतचित्तता; आर्जवं परेषु मनोऽनुरूपं बाह्यचेष्टाप्रकाशनम्; ज्ञानं परावरतत्त्वयाथात्म्यज्ञानम्; विज्ञानं परतत्त्वगतासाधारणविशेषविषयं ज्ञानम्; आस्तिक्यं वैदिकस्य कृत्स्नस्य सत्यतानिश्चयः प्रकृष्टः; केनापि हेतुना चालयितुम् अशक्य इत्यर्थः / भगवान् पुरुषोत्तमो वासुदेवः परब्रह्मशब्दाभिदेयो निरस्तनिखिलदोषगन्धः स्वाभाविकानवधिकातिशयज्ञानशक्त्याद्यसङ्ख्येयकल्याणगुणगणो निखिलवेदवेदान्तवेद्यः; स एव निखिलजगदेककारणं निखिलजगदाधारभूतः; निखिलस्य स एव प्रवर्तयिता; तदाराधनभूतं च वैदिकं कृत्स्नं कर्म; तैस् तैर् आराधितो धर्मार्थकाममोक्षाख्यं फलं प्रयच्छतीत्य् अस्यार्थस्य सत्यतानिश्चय आस्तिक्यम्; ᳚वेदैश् च सर्वैर् अहम् एव वेद्यः᳚, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते ᳚, ᳚मयि सर्वम् इदं प्रोतम्᳚, ᳚भोक्तारं यज्ञतपसां ..... ज्ञात्वा मां शान्तिम् ऋच्छति᳚, ᳚मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय᳚, ᳚यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् / स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः᳚, ᳚यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम्᳚ इति ह्य् उच्यते / तद् एतद् ब्राह्मणस्य स्वभावजं कर्म //
SK
शमः बाह्य-इन्द्रिय-नियमनम्; दमः अन्तःकरण-नियमनम्; तपः भोग-नियमन-रूपः शास्त्र-सिद्धः काय-क्लेशः; शौचं शास्त्रीय-कर्म-योग्यता; क्षान्तिः परैः पीड्यमानस्य अप्य् अविकृत-चित्तता; आर्जवं परेषु मनो-ऽनुरूपं बाह्य-चेष्टा-प्रकाशनम्; ज्ञानं पर-अवर-तत्त्व-याथात्म्य-ज्ञानम्; विज्ञानं पर-तत्त्व-गत-असाधारण-विशेष-विषयं ज्ञानम्; आस्तिक्यं वैदिकस्य कृत्स्नस्य सत्यता-निश्चयः प्रकृष्टः; केन अपि हेतुना चालयितुम् अशक्य इत्य्-अर्थः / भगवान् पुरुष-उत्तमो वासुदेवः पर-ब्रह्म-शब्द-अभिदेयो निरस्त-निखिल-दोष-गन्धः स्वाभाविक-अनवधिक-अतिशय-ज्ञान-शक्त्य्-आद्य्-असङ्ख्येय-कल्याण-गुण-गणो निखिल-वेद-वेद-अन्त-वेद्यः; स एव निखिल-जगद्-एक-कारणं निखिल-जगद्-आधार-भूतः; निखिलस्य स एव प्रवर्तयिता; तद्-आराधन-भूतं च वैदिकं कृत्स्नं कर्म; तैस् तैर् आराधितो धर्म-अर्थ-काम-मोक्ष-आख्यं फलं प्रयच्छति इत्य् अस्य अर्थस्य सत्यता-निश्चय आस्तिक्यम्; ᳚वेदैश् च सर्वैर् अहम् एव वेद्यः᳚, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते ᳚, ᳚मयि सर्वम् इदं प्रोतम्᳚, ᳚भोक्तारं यज्ञ-तपसां ..... ज्ञात्वा मां शान्तिम् ऋच्छति᳚, ᳚मत्तः परतरं न अन्यत् किञ्चिद् अस्ति धनञ्जय᳚, ᳚यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् / स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः᳚, ᳚यो माम् अजम् अनादिं च वेत्ति लोक-महा-ईश्वरम्᳚ इति ह्य् उच्यते / तद् एतद् ब्राह्मणस्य स्व-भाव-जं कर्म //
SK
शैर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् / दानम् ईश्वरभावश् च क्षात्रं कर्म स्वभावजम् //
SK
शैर्यं तेजो धृतिर् दाक्ष्यं युद्धे च अप्य् अपलायनम् / दानम् ईश्वर-भावश् च क्षात्रं कर्म स्व-भाव-जम् //
SK
शैर्यं युद्धे निर्भयप्रवेशसामर्थ्यम्, तेजः परैर् अनभिभवनीयता, धृतिः आरब्धे कर्मणि विघ्नोपनिपाते ऽपि तत्समापनसामर्थ्यम्, दाक्ष्यं सर्वक्रियानिर्वृत्तिसामर्थ्यम्, युद्धे चाप्य् अपलायनम् युद्धे चात्ममरणनिश्चये ऽप्य् अनिर्वर्तनम्; दानं आत्मीयस्य धनस्य परस्वत्वापादनपर्यन्तस् त्यागः ईश्वरभावः स्वव्यतिरिक्तसकलजननियमनसामर्थ्यम्; एतत् क्षत्रियस्य स्वभावजं कर्म //
SK
शैर्यं युद्धे निर्भय-प्रवेश-सामर्थ्यम्, तेजः परैर् अनभिभवनीयता, धृतिः आरब्धे कर्मणि विघ्न-उपनिपाते ऽपि तत्-समापन-सामर्थ्यम्, दाक्ष्यं सर्व-क्रिया-निर्वृत्ति-सामर्थ्यम्, युद्धे च अप्य् अपलायनम् युद्धे चा अत्म-मरण-निश्चये ऽप्य् अनिर्वर्तनम्; दानं आत्मीयस्य धनस्य पर-स्वत्व-आपादन-पर्यन्तस् त्यागः ईश्वर-भावः स्व-व्यतिरिक्त-सकल-जन-नियमन-सामर्थ्यम्; एतत् क्षत्रियस्य स्व-भाव-जं कर्म //
SK
कृषिगोरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजम् /
SK
कृषि-गोरक्ष्य-वाणिज्यं वैश्यं कर्म स्व-भाव-जम् /
SK
कृषिः सत्योत्पादनं कर्षणम् / गोरक्ष्यम् पशुपालनम् इत्यर्थः / वाणिज्यम् धनसञ्चयहेतुभूतं क्रयविक्रयात्मकं कर्म / एतद् वैश्यस्य स्वभावजं कर्म //
SK
कृषिः सत्य-उत्पादनं कर्षणम् / गोरक्ष्यम् पशु-पालनम् इत्य्-अर्थः / वाणिज्यम् धन-सञ्चय-हेतु-भूतं क्रय-विक्रय-आत्मकं कर्म / एतद् वैश्यस्य स्व-भाव-जं कर्म //
SK
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् //
SK
परिचर्या-आत्मकं कर्म शूद्रस्य अपि स्व-भाव-जम् //
SK
पूर्ववर्णत्रयपरिचर्यारूपं शूद्रस्य स्वभावजं कर्म / तद् एतच् चतुर्णा वर्णानां वृत्तिभिस् सह कर्तव्यानां शास्त्रविहितानां यज्ञादिकर्मणां प्रदर्शनार्थम् उक्तम् / यज्ञादयो हि त्रयाणां वर्णानां साधारणाः / शमादयो ऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः / ब्राह्मणस्य तु सत्त्वोद्रेकस्य स्वाभाविकत्वेन शमदमादयः सुखोपादाना इति कृत्वा तस्य शमादय स्वभावजं कर्मेत्य् उक्तम् / क्षत्रियवैश्ययोस् तु स्वतो रजस्तमःप्रधानत्वेन शमदमादयो दुःखोपादाना इति कृत्वा न तत् कर्मेत्य् उक्तम् / ब्राह्मणस्य वृत्तिर् याजनाध्यापनप्रतिग्रहाः; क्षत्रियस्य जनपदपरिपालनम्; वैश्यस्य च कृष्यादयो यथोक्ताः; शूद्रस्य तु कर्तव्यं वृत्तिश् च पूर्ववर्णत्रयपरिचर्यैव //
SK
पूर्व-वर्ण-त्रय-परिचर्या-रूपं शूद्रस्य स्व-भाव-जं कर्म / तद् एतच् चतुर्णा वर्णानां वृत्तिभिस् सह कर्तव्यानां शास्त्र-विहितानां यज्ञ-आदि-कर्मणां प्रदर्शन-अर्थम् उक्तम् / यज्ञ-आदयो हि त्रयाणां वर्णानां साधारणाः / शम-आदयो ऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः / ब्राह्मणस्य तु सत्त्व-उद्रेकस्य स्वाभाविकत्वेन शम-दम-आदयः सुख-उपादाना इति कृत्वा तस्य शम-आदय स्व-भाव-जं कर्म इत्य् उक्तम् / क्षत्रिय-वैश्ययोस् तु स्वतो रजस्-तमः-प्रधानत्वेन शम-दम-आदयो दुःख-उपादाना इति कृत्वा न तत् कर्म इत्य् उक्तम् / ब्राह्मणस्य वृत्तिर् याजन-अध्यापन-प्रतिग्रहाः; क्षत्रियस्य जन-पद-परिपालनम्; वैश्यस्य च कृष्य्-आदयो यथा-उक्ताः; शूद्रस्य तु कर्तव्यं वृत्तिश् च पूर्व-वर्ण-त्रय-परिचर्य ऐव //
SK
स्वे स्वे कर्मण्य् अभिरतस् संसिद्धिं लभते नरः / स्वकर्मनिरतस् सिद्धिं यथा विन्दति तच् छृणु //
SK
स्वे स्वे कर्मण्य् अभिरतस् संसिद्धिं लभते नरः / स्व-कर्म-निरतस् सिद्धिं यथा विन्दति तच् छृणु //
SK
स्वे स्वे यथोदिते कर्मण्य् अभिरतो नरः संसिद्धिं परमपदप्राप्तिं लभते / स्वकर्मनिरतो यथा सिद्धिं विन्दति परमपदं प्राप्नोति, तथा शृणु //
SK
स्वे स्वे यथा-उदिते कर्मण्य् अभिरतो नरः संसिद्धिं परम-पद-प्राप्तिं लभते / स्व-कर्म-निरतो यथा सिद्धिं विन्दति परम-पदं प्राप्नोति, तथा शृणु //
SK
यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् / स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः //
SK
यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् / स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः //
SK
यतो भूतानाम् उत्पत्त्यादिका प्रवृत्तिः, येन च सर्वम् इदं ततम्, स्वकर्मणा तं माम् इन्द्राद्यन्तरात्मतयावस्थितम् अभ्यर्च्य मत्प्रसादान् मत्प्राप्तिरूपां सिद्धिं विन्दति मानवः / मत्त एव सर्वम् उत्पद्यते, मया च सर्वम् इदं ततम् इति पूर्वम् एवोक्तम्, ᳚अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा / मत्तः परतरं नान्यत् किंचिद् अस्ति धनञ्जय᳚, ᳚मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना᳚, ᳚मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्᳚, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚ इत्यादिषु //
SK
यतो भूतानाम् उत्पत्त्य्-आदिका प्रवृत्तिः, येन च सर्वम् इदं ततम्, स्व-कर्मणा तं माम् इन्द्र-आद्य्-अन्तर-आत्मतय आवस्थितम् अभ्यर्च्य मत्-प्रसादान् मत्-प्राप्ति-रूपां सिद्धिं विन्दति मानवः / मत्त एव सर्वम् उत्पद्यते, मया च सर्वम् इदं ततम् इति पूर्वम् एव उक्तम्, ᳚अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा / मत्तः परतरं न अन्यत् किंचिद् अस्ति धनञ्जय᳚, ᳚मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना᳚, ᳚मय आध्यक्षेण प्रकृतिः सूयते सचर-अचरम्᳚, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚ इत्य्-आदिषु //
SK
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् /
SK
श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्व्-अनुष्ठितात् /
SK
एवं त्यक्तकर्तृत्वादिको मदाराधनरूपः स्वधर्मः / स्वेनैवोपादातुं योग्यो धर्मः; प्रकृतिसंसृष्टेन हि पुरुषेणेन्द्रियव्यापाररूपः कर्मयोगात्मको धर्मः सुकरो भवति / अतः कर्मयोगाख्यः स्वधर्मो विगुणो ऽपि परधर्मात् -- इन्द्रियजयनिपुणपुरुषधर्माज् ज्ञानयोगात् सकलेन्द्रियनियमनरूपतया सप्रमादात् कदाचित् स्वनुष्ठिताच् श्रेयान् / तद् एवोपपादयति --
SK
एवं त्यक्त-कर्तृत्व-आदिको मद्-आराधन-रूपः स्व-धर्मः / स्वेन एव उपादातुं योग्यो धर्मः; प्रकृति-संसृष्टेन हि पुरुषेण इन्द्रिय-व्यापार-रूपः कर्म-योग-आत्मको धर्मः सुकरो भवति / अतः कर्म-योग-आख्यः स्व-धर्मो विगुणो ऽपि पर-धर्मात् --- इन्द्रिय-जय-निपुण-पुरुष-धर्माज् ज्ञान-योगात् सकल-इन्द्रिय-नियमन-रूपतया स-प्रमादात् कदाचित् स्व्-अनुष्ठिताच् श्रेयान् / तद् एव उपपादयति ---
SK
स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम् //
SK
स्व-भाव-नियतं कर्म कुर्वन् ना अप्नोति किल्बिषम् //
SK
प्रकृति-संसृष्टस्य पुरुषस्य इन्द्रिय-व्यापार-रूपतया स्व-भावत एव नियतत्वात् कर्मणः, कर्म कुर्वन् किल्बिषं संसारं न प्राप्नोति; अप्रमादत्वात् कर्मणः / ज्ञान-योगस्य सकल-इन्द्रिय-नियमन-साध्यतया स-प्रमादत्वात् तन्-निष्ठस् तु प्रमादात् किल्बिषं प्रतिपद्येत अपि //
SK
प्रकृतिसंसृष्टस्य पुरुषस्य इन्द्रियव्यापाररूपतया स्वभावत एव नियतत्वात् कर्मणः, कर्म कुर्वन् किल्बिषं संसारं न प्राप्नोति; अप्रमादत्वात् कर्मणः / ज्ञानयोगस्य सकलेन्द्रियनियमनसाध्यतया सप्रमादत्वात् तन्निष्ठस् तु प्रमादात् किल्बिषं प्रतिपद्येतापि //
SK
स्व-भाव-नियतं कर्म कुर्वन् ना अप्नोति किल्बिषम् //
SK
प्रकृति-संसृष्टस्य पुरुषस्य इन्द्रिय-व्यापार-रूपतया स्व-भावत एव नियतत्वात् कर्मणः, कर्म कुर्वन् किल्बिषं संसारं न प्राप्नोति; अप्रमादत्वात् कर्मणः / ज्ञान-योगस्य सकल-इन्द्रिय-नियमन-साध्यतया स-प्रमादत्वात् तन्-निष्ठस् तु प्रमादात् किल्बिषं प्रतिपद्येत अपि //
SK
अतः कर्मनिष्ठैव ज्यायसीति तृतीयाध्यायोक्तं स्मारयति --
SK
अतः कर्म-निष्ठ ऐव ज्यायसि ईति तृतीय-अध्याय-उक्तं स्मारयति ---
SK
सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् / सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः //
SK
सह-जं कर्म कौन्तेय स-दोषम् अपि न त्यजेत् / सर्व-आरम्भा हि दोषेण धूमेन अग्निर् इवा अवृताः //
SK
अतः सहजत्वेन सुकरम् अप्रमादं च कर्म सदोषं सदुःखम् अपि न त्यजेत्; ज्ञानयोगयोग्यो ऽपि कर्मयोगम् एव कुर्वीतेत्यर्थः / सर्वारम्भाः, -- कर्मारम्भाः ज्ञानारम्भाश् च हि दोषेण दुःखेन धूमेनाग्निर् इवावृताः / इयांस् तु विशेषः -- कर्मयोगः सुकरो ऽप्रमादश् च, ज्ञानयोगस् तद्विपरीतः इति //
SK
अतः सहजत्वेन सुकरम् अप्रमादं च कर्म स-दोषं स-दुःखम् अपि न त्यजेत्; ज्ञान-योग-योग्यो ऽपि कर्म-योगम् एव कुर्वीत इत्य्-अर्थः / सर्व-आरम्भाः, --- कर्म-आरम्भाः ज्ञान-आरम्भाश् च हि दोषेण दुःखेन धूमेन अग्निर् इवा अवृताः / इयांस् तु विशेषः --- कर्म-योगः सुकरो ऽप्रमादश् च, ज्ञान-योगस् तद्-विपरीतः इति //
SK
असक्तबुद्धिस् सर्वत्र जितात्मा विगतस्पृहः / नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति //
SK
असक्त-बुद्धिस् सर्वत्र जित-आत्मा विगत-स्पृहः / नैष्कर्म्य-सिद्धिं परमां संन्यासेन अधिगच्छति //
SK
सर्वत्र फलादिषु असक्तबुद्धिः, जितात्मा -- जितमनाः, परमपुरुषकर्तृत्वानुसंधानेनात्मकर्तृत्वे विगतस्पृहः, एवं त्यागाद् अनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन् परमां नैष्कर्म्यसिद्धिम् अधिगच्छति -- परमां ध्याननिष्ठां ज्ञानयोगस्यापि फलभूतम् अधिगच्छतीत्यर्थः / वक्ष्यमाणध्यानयोगावाप्तिं सर्वेन्द्रियकर्मोपरतिरूपाम् अधिगच्छति //
SK
सर्वत्र फल-आदिषु असक्त-बुद्धिः, जित-आत्मा --- जित-मनाः, परम-पुरुष-कर्तृत्व-अनुसंधानेना अत्म-कर्तृत्वे विगत-स्पृहः, एवं त्यागाद् अनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन् परमां नैष्कर्म्य-सिद्धिम् अधिगच्छति --- परमां ध्यान-निष्ठां ज्ञान-योगस्य अपि फल-भूतम् अधिगच्छति इत्य्-अर्थः / वक्ष्यमाण-ध्यान-योग-अवाप्तिं सर्व-इन्द्रिय-कर्म-उपरति-रूपाम् अधिगच्छति //
SK
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे / समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा //
SK
सिद्धिं प्राप्तो यथा ब्रह्म तथा आप्नोति निबोध मे / समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा //
SK
सिद्धिं प्राप्तः आप्रयाणादहरहरनुष्ठीयमानकर्मयोगनिष्पाद्यध्यानसिद्द्धिं प्राप्तः, यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति, तथा समासेन मे निबोध / तद् एव ब्रह्म विशेष्यते निष्ठा ज्ञानस्य या परेति / ज्ञानस्य ध्यानात्मकस्य या परा निष्ठा -- परमप्राप्यम् इत्यर्थः //
SK
सिद्धिं प्राप्तः आ-प्रयाणाद्-अहर्-अहर्-अनुष्ठीयमान-कर्म-योग-निष्पाद्य-ध्यान-सिद्द्धिं प्राप्तः, यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति, तथा समासेन मे निबोध / तद् एव ब्रह्म विशेष्यते निष्ठा ज्ञानस्य या पर ईति / ज्ञानस्य ध्यान-आत्मकस्य या परा निष्ठा --- परम-प्राप्यम् इत्य्-अर्थः //
SK
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च / शब्दादीन् विषयांस् त्यक्त्वा रागद्वेषौ व्युदस्य च //
SK
बुद्ध्या विशुद्धया युक्तो धृत्या आत्मानं नियम्य च / शब्द-आदीन् विषयांस् त्यक्त्वा राग-द्वेषौ व्युदस्य च //
SK
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः / ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः //
SK
विविक्त-सेवी लघ्व्-आशी यत-वाक्-काय-मानसः / ध्यान-योग-परो नित्यं वैराग्यं समुपाश्रितः //
SK
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् / विमुच्य निर्ममश् शान्तो ब्रह्मभूयाय कल्पते //
SK
अहङ्-कारं बलं दर्पं कामं क्रोधं परिग्रहम् / विमुच्य निर्ममश् शान्तो ब्रह्म-भूयाय कल्पते //
SK
बुद्ध्या विशुद्धया यथावस्थितात्मतत्त्वविषयया युक्तः, धृत्या आत्मानं नियम्य च विषयविमुखीकरणेन योगयोग्यं मनः कृत्वा, शब्दादीन् विषयान् त्यक्त्वा -- असन्निहितान् कृत्वा, तन्निमित्तौ च रागद्वेषौ व्युदस्य, विविक्तसेवी -- सर्वैर् ध्यानविरोधिभिर् विविक्ते देशे वर्तमानः, लघ्वाशी -- अत्यशनानशनरहितः, यतवाक्कायमानसः -- ध्यानाभिमुखीकृतकायवाङ्मनोवृत्तिः, ध्यानयोगपरो नित्यम् -- एवंभूतस् सन् आ प्रायाणाद् अहरहर्ध्यानयोगपरः, वैराग्यं समुपाश्रितः -- ध्येयतत्त्वव्यतिरिक्तविषयदोषावमर्शेन तत्र तत्र विरागतां वर्धयन्, अहंकारम् -- अनात्मनि आत्माभिमानं, बलं -- तद्वृद्धिहेतुभूतवासनबलं, तन्निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्ममः सर्वेष्व् अनात्मीयेष्व् आत्मीयबुद्धिरहितः, शान्तः -- आत्मानुभवैकसुखः, एवंभूतो ध्यानयोगं कुर्वन् ब्रह्मभूयाय कल्पते -- सर्वबन्धविनिर्मुक्तो यथावस्थितम् आत्मानम् अनुभवतीत्यर्थः //
SK
बुद्ध्या विशुद्धया यथा-अवस्थित-आत्म-तत्त्व-विषयया युक्तः, धृत्या आत्मानं नियम्य च विषय-विमुखीकरणेन योग-योग्यं मनः कृत्वा, शब्द-आदीन् विषयान् त्यक्त्वा --- असन्निहितान् कृत्वा, तन्-निमित्तौ च राग-द्वेषौ व्युदस्य, विविक्त-सेवी --- सर्वैर् ध्यान-विरोधिभिर् विविक्ते देशे वर्तमानः, लघ्व्-आशी --- अत्यशन-अनशन-रहितः, यत-वाक्-काय-मानसः --- ध्यान-अभिमुखीकृत-काय-वाङ्-मनो-वृत्तिः, ध्यान-योग-परो नित्यम् --- एवं-भूतस् सन् आ प्रायाणाद् अहर्-अहर्-ध्यान-योग-परः, वैराग्यं समुपाश्रितः --- ध्येय-तत्त्व-व्यतिरिक्त-विषय-दोष-अवमर्शेन तत्र तत्र विरागतां वर्धयन्, अहं-कारम् --- अनात्मनि आत्म-अभिमानं, बलं --- तद्-वृद्धि-हेतु-भूत-वासन-बलं, तन्-निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्ममः सर्वेष्व् अनात्मीयेष्व् आत्मीय-बुद्धि-रहितः, शान्तः --- आत्म-अनुभव-एक-सुखः, एवं-भूतो ध्यान-योगं कुर्वन् ब्रह्म-भूयाय कल्पते --- सर्व-बन्ध-विनिर्मुक्तो यथा-अवस्थितम् आत्मानम् अनुभवति इत्य्-अर्थः //
SK
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति / समस् सर्वेषु भूतेषु मद्भक्तिं लभते पराम् //
SK
ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न काङ्क्षति / समस् सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् //
SK
ब्रह्मभूतः -- आविर्भूतापरिच्छिन्नज्ञानैकाकारमच्छेषतैकस्वभावात्मस्वरूपः, ᳚इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्᳚ इति हि स्वशेषतोक्ता / प्रसन्नात्मा -- क्लेशकर्मादिभिर् अकलुषस्वरूपो मद्व्यतिरिक्तं न कंचन भूतविशेषं प्रति शोचति; न किंचन काङ्क्षति; अपि तु मद्व्यतिरिक्तेषु सर्वेषु भूतेषु अनादरणीयतायां समो निखिलं वस्तुजातं तृणवन् मन्यमानो मद्भक्तिं लभते पराम् मयि सर्वेश्वरे निखिलजगदुद्भवस्थितिप्रलयलीले निरस्तसमस्तहेयगन्धे ऽनवधिकातिशयासंख्येयकल्याणगुणगणैकताने लावण्यामृतसागरे श्रीमति पुण्डरीकनयने स्वस्वामिनि अत्यर्थप्रियानुभवरूपां परां भक्तिं लभते //
SK
ब्रह्म-भूतः --- आविर्भूत-अपरिच्छिन्न-ज्ञान-एक-आकार-मच्-छेषता-एक-स्व-भाव-आत्म-स्व-रूपः, ᳚इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्᳚ इति हि स्व-शेषत ऊक्ता / प्रसन्न-आत्मा --- क्लेश-कर्म-आदिभिर् अकलुष-स्व-रूपो मद्-व्यतिरिक्तं न कंचन भूत-विशेषं प्रति शोचति; न किंचन काङ्क्षति; अपि तु मद्-व्यतिरिक्तेषु सर्वेषु भूतेषु अनादरणीयतायां समो निखिलं वस्तु-जातं तृणवन् मन्यमानो मद्-भक्तिं लभते पराम् मयि सर्व-ईश्वरे निखिल-जगद्-उद्भव-स्थिति-प्रलय-लीले निरस्त-समस्त-हेय-गन्धे ऽनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गण-एक-ताने लावण्य-अमृत-सागरे श्रीमति पुण्डरीक-नयने स्व-स्वामिनि अत्यर्थ-प्रिय-अनुभव-रूपां परां भक्तिं लभते //
SK
तत्फलम् आह --
SK
तत्-फलम् आह ---
SK
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः / ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् //
SK
भक्त्या माम् अभिजानाति यावान् यश् च अस्मि तत्त्वतः / ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् //
SK
स्वरूपतः स्वभावतश् च यो ऽहम्; गुणतो विभूतितो ऽपि यावांश् चाहम्, तं माम् एवंरूपया भक्त्या तत्त्वतो ऽभिजानाति; मां तत्त्वतो ज्ञात्वा तदनन्तरम् -- तत्त्वज्ञानानन्तरं ततः भक्तितः मां विशते प्रविशति / तत्त्वतस् स्वरूपस्वभावगुणविभूतिदर्शनोत्तरकालभाविन्या अनवधिकातिशयभक्त्या मां प्राप्नोतीत्यर्थः / अत्र तत इति प्राप्तिहेतुतया, निर्दिष्टा भक्तिर् एवाभिधीयते; ᳚भक्त्या त्व् अनन्यया शक्यः᳚ इति तस्य एव तत्त्वतः प्रवेशहेतुत्वाभिधानात् //
SK
स्व-रूपतः स्व-भावतश् च यो ऽहम्; गुणतो विभूतितो ऽपि यावांश् च अहम्, तं माम् एवं-रूपया भक्त्या तत्त्वतो ऽभिजानाति; मां तत्त्वतो ज्ञात्वा तद्-अनन्तरम् --- तत्त्व-ज्ञान-अनन्तरं ततः भक्तितः मां विशते प्रविशति / तत्त्वतस् स्व-रूप-स्व-भाव-गुण-विभूति-दर्शन-उत्तर-काल-भाविन्या अनवधिक-अतिशय-भक्त्या मां प्राप्नोति इत्य्-अर्थः / अत्र तत इति प्राप्ति-हेतुतया, निर्दिष्टा भक्तिर् एव अभिधीयते; ᳚भक्त्या त्व् अनन्यया शक्यः᳚ इति तस्य एव तत्त्वतः प्रवेश-हेतुत्व-अभिधानात् //
SK
एवं वर्णाश्रमोचितनित्यनैमित्तिककर्मणां परित्यक्तफलादिकानां परमपुरुषाराधनरूपेणानुष्ठितानां विपाक उक्तः / इदानीं काम्यानाम् अपि कर्मणाम् उक्तेनैव प्रकारेणानुष्ठितानां स एव विपाक इत्य् आह --
SK
एवं वर्ण-आश्रम-उचित-नित्य-नैमित्तिक-कर्मणां परित्यक्त-फल-आदिकानां परम-पुरुष-आराधन-रूपेण अनुष्ठितानां विपाक उक्तः / इदानीं काम्यानाम् अपि कर्मणाम् उक्तेन एव प्रकारेण अनुष्ठितानां स एव विपाक इत्य् आह ---
SK
सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्यपाश्रयः / मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् //
SK
सर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्यपाश्रयः / मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् //
SK
न केवलं नित्यनैमित्तिकानि कर्माणि, अपि तु सर्वाणि काम्यान्य् अपि कर्माणि, मद्व्याश्रयः मयि संन्यस्तकर्तृत्वादिकः कुर्वाणो मत्प्रसादाच् छाश्वतं पदम् अव्ययम् अविकलं प्राप्नोति / पद्यते गम्यत इति पदम्; मां प्राप्नोतीत्यर्थः //
SK
न केवलं नित्य-नैमित्तिकानि कर्माणि, अपि तु सर्वाणि काम्यान्य् अपि कर्माणि, मद्-व्याश्रयः मयि संन्यस्त-कर्तृत्व-आदिकः कुर्वाणो मत्-प्रसादाच् छाश्वतं पदम् अव्ययम् अविकलं प्राप्नोति / पद्यते गम्यत इति पदम्; मां प्राप्नोति इत्य्-अर्थः //
SK
यस्माद् एवम्, तस्मात् --
SK
यस्माद् एवम्, तस्मात् ---
SK
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः / बुद्धियोगम् उपाश्रित्य मच्चित्तस् सततं भव //
SK
चेतसा सर्व-कर्माणि मयि संन्यस्य मत्-परः / बुद्धि-योगम् उपाश्रित्य मच्-चित्तस् सततं भव //
SK
चेतसा - आत्मनो मदीयत्वमन्नियाम्यत्वबुद्ध्या / उक्तं हि, ᳚मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा᳚ इति / सर्वकर्माणि सकर्तृकाणि साराध्यानि मयि संन्यस्य, मत्परः -- अहम् एव फलतया प्राप्य इत्य् अनुसंधानः, कर्माणि कुर्वन् इमम् एव बुद्धियोगम् उपाश्रित्य सततं मच्चित्तो भव //
SK
चेतसा -- आत्मनो मदीयत्व-मन्-नियाम्यत्व-बुद्ध्या / उक्तं हि, ᳚मयि सर्वाणि कर्माणि संन्यस्य अध्यात्म-चेतसा᳚ इति / सर्व-कर्माणि स-कर्तृकाणि स-आराध्यानि मयि संन्यस्य, मत्-परः --- अहम् एव फलतया प्राप्य इत्य् अनुसंधानः, कर्माणि कुर्वन् इमम् एव बुद्धि-योगम् उपाश्रित्य सततं मच्-चित्तो भव //
SK
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि / अथ चेत् त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि //
SK
मच्-चित्तः सर्व-दुर्गाणि मत्-प्रसादात् तरिष्यसि / अथ चेत् त्वम् अहं-कारान् न श्रोष्यसि विनङ्क्ष्यसि //
SK
एवं मच्चित्तः सर्वकर्माणि कुर्वन् सर्वाणि सांसारिकाणि दुर्गाणि मत्प्रसादाद् एव तरिष्यसि / अथ त्वम् अहंकाराद् अहम् एव कृत्याकृत्यविषयं सर्वं जानामीति भावान् मदुक्तं न श्रोष्यसि चेत्, विनङ्क्ष्यसि -- विनष्टो भविष्यसि / न हि कश्चिन् मद्व्यतिरिक्तः कृत्स्नस्य प्राणिजातस्य कृत्याकृत्ययोर् ज्ञाता प्रशासिता वास्ति //
SK
एवं मच्-चित्तः सर्व-कर्माणि कुर्वन् सर्वाणि सांसारिकाणि दुर्गाणि मत्-प्रसादाद् एव तरिष्यसि / अथ त्वम् अहं-काराद् अहम् एव कृत्य-अकृत्य-विषयं सर्वं जानामि इति भावान् मद्-उक्तं न श्रोष्यसि चेत्, विनङ्क्ष्यसि --- विनष्टो भविष्यसि / न हि कश्चिन् मद्-व्यतिरिक्तः कृत्स्नस्य प्राणि-जातस्य कृत्य-अकृत्ययोर् ज्ञाता प्रशासिता व आस्ति //
SK
यद्य् अहङ्कारम् आश्रित्य न योत्स्य इति मन्यसे / मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति //
SK
यद्य् अहङ्-कारम् आश्रित्य न योत्स्य इति मन्यसे / मिथ्य ऐष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति //
SK
यदि अहंकारम् आत्मनि हिताहितज्ञाने स्वातन्त्र्याभिमानम् आश्रित्य मन्नियोगम् अनादृत्य न योत्स्य इति मन्यसे, एष ते स्वातन्त्र्यव्यवसायो मिथ्या भविष्यति; यतः प्रकृतिस् त्वां युद्धे नियोक्ष्यति मत्स्वातन्त्र्योद्विग्नं त्वाम् अज्ञं प्रकृतिर् नियोक्षति //
SK
यदि अहं-कारम् आत्मनि हित-अहित-ज्ञाने स्वातन्त्र्य-अभिमानम् आश्रित्य मन्-नियोगम् अनादृत्य न योत्स्य इति मन्यसे, एष ते स्वातन्त्र्य-व्यवसायो मिथ्या भविष्यति; यतः प्रकृतिस् त्वां युद्धे नियोक्ष्यति मत्-स्वातन्त्र्य-उद्विग्नं त्वाम् अज्ञं प्रकृतिर् नियोक्षति //
SK
तद् उपपादयति --
SK
तद् उपपादयति ---
SK
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा / कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशो ऽपि तत् //
SK
स्व-भाव-जेन कौन्तेय निबद्धः स्वेन कर्मणा / कर्तुं न इच्छसि यन् मोहात् करिष्यस्य् अवशो ऽपि तत् //
SK
स्वभावजं हि क्षत्रियस्य कर्म शौर्यम् / स्वभावजेन शौर्याख्येन स्वेन कर्मणा निबद्धः, तद् एवावशः, परैर् धर्षणम् असहमानस् त्वम् एव तद् युद्धं करिष्यसि, यद् इदानीं मोहाद् अज्ञानात् कर्तुं नेच्छसि //
SK
स्व-भाव-जं हि क्षत्रियस्य कर्म शौर्यम् / स्व-भाव-जेन शौर्य-आख्येन स्वेन कर्मणा निबद्धः, तद् एव अवशः, परैर् धर्षणम् अ-सहमानस् त्वम् एव तद् युद्धं करिष्यसि, यद् इदानीं मोहाद् अज्ञानात् कर्तुं न इच्छसि //
SK
सर्वं हि भूतजातं सर्वेश्वरेण मया पूर्वकर्मानुगुण्येन प्रकृत्यनुवर्तने नियमितम्; तच् छृणु /
SK
सर्वं हि भूत-जातं सर्व-ईश्वरेण मया पूर्व-कर्म-अनुगुण्येन प्रकृत्य्-अनुवर्तने नियमितम्; तच् छृणु /
SK
ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति / भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया //
SK
ईश्वरः सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति / भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया //
SK
ईश्वरः सर्वनियमनशीलो वासुदेवः सर्वभूतानां हृद्देशे सकलप्रवृत्तिमूलज्ञानोदयप्रदेशे तिष्ठति / कथं किं कुर्वंस् तिष्ठति ? यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् / स्वेनैव निर्मितं देहेन्द्रियावस्थं प्रकृत्याख्यं यन्त्रम् आरूढानि सर्वभूतानि स्वकीयया सत्त्वादिगुणमय्या मायया गुणानुगुणं प्रवर्तयंस् तिष्ठतीत्यर्थः / पूर्वम् अप्य् एतद् उक्तम्, ᳚सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च᳚ इति; ᳚मत्तस् सर्वं प्रवर्तते᳚ इति च / ᳚य आत्मनि तिष्ठन्᳚ इत्यादिका श्रुतिश् च //
SK
ईश्वरः सर्व-नियमन-शीलो वासुदेवः सर्व-भूतानां हृद्-देशे सकल-प्रवृत्ति-मूल-ज्ञान-उदय-प्रदेशे तिष्ठति / कथं किं कुर्वंस् तिष्ठति ? यन्त्र-आरूढानि सर्व-भूतानि मायया भ्रामयन् / स्वेन एव निर्मितं देह-इन्द्रिय-अवस्थं प्रकृत्य्-आख्यं यन्त्रम् आरूढानि सर्व-भूतानि स्वकीयया सत्त्व-आदि-गुण-मय्या मायया गुण-अनुगुणं प्रवर्तयंस् तिष्ठति इत्य्-अर्थः / पूर्वम् अप्य् एतद् उक्तम्, ᳚सर्वस्य च अहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च᳚ इति; ᳚मत्तस् सर्वं प्रवर्तते᳚ इति च / ᳚य आत्मनि तिष्ठन्᳚ इत्य्-आदिका श्रुतिश् च //
SK
एतन् मायानिवृत्तिहेतुम् आह --
SK
एतन् माया-निवृत्ति-हेतुम् आह ---
SK
तम् एव शरणं गच्छ सर्वभावेन भारत / तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् //
SK
तम् एव शरणं गच्छ सर्व-भावेन भारत / तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् //
SK
यस्माद् एवम्, तस्मात् तम् एव सर्वस्य प्रशासितारम्, आश्रितवात्सल्येन त्वत्सारथ्ये ऽवस्थितम्, ᳚इत्थं कुरु ᳚ इति च शासितारं सर्वभावेन सर्वात्मना शरणं गच्छ / सर्वात्मनानुवर्तस्व / अन्यथापि तन्मायाप्रेरितेनाज्ञेन त्वया युद्धादिकरणम् अवर्जनीयम् / तथा सति नष्टो भविष्यसि / अतस् तदुक्तप्रकारेण युद्धादिकं कुर्व् इत्यर्थः / एवं कुर्वाणस् तत्प्रसादात् परां शान्तिं सर्वकर्मबन्धोपशमं शाश्वतं च स्थानम् प्राप्स्यसि / यद् अभिधीयते श्रुतिशतैः, ᳚तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, ᳚ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः᳚, ᳚यत्र ऋषयः प्रथमजा ये पुराणाः᳚, ᳚परेण नाकं निहितं गुहायाम्᳚, ᳚यो ऽस्याध्यक्षः परमे व्योमन्᳚, ᳚अथ यद् अतः परो दिवो ज्योतिर् दीप्यते᳚, ᳚सो ऽध्वनः पारम् आप्नोति तद्विष्णोः परमं पदम्᳚ इत्यादिभिः //
SK
यस्माद् एवम्, तस्मात् तम् एव सर्वस्य प्रशासितारम्, आश्रित-वात्सल्येन त्वत्-सारथ्ये ऽवस्थितम्, ᳚इत्थं कुरु ᳚ इति च शासितारं सर्व-भावेन सर्व-आत्मना शरणं गच्छ / सर्व-आत्मन आनुवर्तस्व / अन्यथ आपि तन्-माया-प्रेरितेन अज्ञेन त्वया युद्ध-आदि-करणम् अवर्जनीयम् / तथा सति नष्टो भविष्यसि / अतस् तद्-उक्त-प्रकारेण युद्ध-आदिकं कुर्व् इत्य्-अर्थः / एवं कुर्वाणस् तत्-प्रसादात् परां शान्तिं सर्व-कर्म-बन्ध-उपशमं शाश्वतं च स्थानम् प्राप्स्यसि / यद् अभिधीयते श्रुति-शतैः, ᳚तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरयः, ᳚ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः᳚, ᳚यत्र ऋषयः प्रथम-जा ये पुराणाः᳚, ᳚परेण नाकं निहितं गुहायाम्᳚, ᳚यो ऽस्य अध्यक्षः परमे व्योमन्᳚, ᳚अथ यद् अतः परो दिवो ज्योतिर् दीप्यते᳚, ᳚सो ऽध्वनः पारम् आप्नोति तद्-विष्णोः परमं पदम्᳚ इत्य्-आदिभिः //
SK
इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया / विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु //
SK
इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया / विमृश्य एतद् अशेषेण यथ ईच्छसि तथा कुरु //
SK
इति -- एवं ते मुमुक्षुभिर् अधिगन्तव्यं ज्ञानं सर्वस्माद् गुह्याद् गुह्यतरं कर्मयोगविषयं ज्ञानयोगविषयं भक्तियोगविषयं च सर्वम् आख्यातम् / एतदशेषेण विमृश्य स्वाधिकारानुरूपं यथेच्छसि, तथा कुरु कर्मयोगं ज्ञानयोगं भक्तियोगं वा यथेष्टम् आतिष्ठेत्यर्थः //
SK
इति --- एवं ते मुमुक्षुभिर् अधिगन्तव्यं ज्ञानं सर्वस्माद् गुह्याद् गुह्यतरं कर्म-योग-विषयं ज्ञान-योग-विषयं भक्ति-योग-विषयं च सर्वम् आख्यातम् / एतद्-अशेषेण विमृश्य स्व-अधिकार-अनुरूपं यथ ईच्छसि, तथा कुरु कर्म-योगं ज्ञान-योगं भक्ति-योगं वा यथ ईष्टम् आतिष्ठ इत्य्-अर्थः //
SK
सर्वगुह्यतमं भूयः शृणु मे परमं वचः / इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् //
SK
सर्व-गुह्यतमं भूयः शृणु मे परमं वचः / इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् //
SK
सर्वेष्व् एतेषु गुह्येषु भक्तियोगस्य श्रैष्ठ्याद् गुह्यतमम् इति पूर्वम् एवोक्तम् ᳚इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे᳚ इत्यादौ / भूयो ऽपि तद्विषयं परमं मे वचः शृणु / इष्टो ऽसि मे दृढम् इति ततस् ते हितं वक्ष्यामि //
SK
सर्वेष्व् एतेषु गुह्येषु भक्ति-योगस्य श्रैष्ठ्याद् गुह्यतमम् इति पूर्वम् एव उक्तम् ᳚इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे᳚ इत्य्-आदौ / भूयो ऽपि तद्-विषयं परमं मे वचः शृणु / इष्टो ऽसि मे दृढम् इति ततस् ते हितं वक्ष्यामि //
SK
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु / माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे //
SK
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु / माम् एव एष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे //
SK
वेदान्तेषु, ᳚वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् / तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था विद्यते ऽयनाय᳚ इत्यादिषु विहितं वेदनं ध्यानोपासनादिशब्दवाच्यं दर्शनसमानाकारं स्मृतिसंतानम् अत्यर्थप्रियम् इह मन्मना भवेति विधीयते / मद्भक्तः अत्यर्थमत्प्रियः / अत्यर्थमत्प्रियत्वेन निरतिशयप्रियां स्मृतिसंततिं कुरुष्वेत्यर्थः / मद्याजी / तत्रापि मद्भक्त इत्य् अनुषज्यते / यजनं पूजनम् / अत्यर्थप्रियमदाराधनपरो भव / आराधनं हि परिपूर्णशेषवृत्तिः / मां नमस्कुरु / नमः -- नमनम् / मय्य् अतिमात्रप्रह्वीभावम् अत्यर्थप्रियं कुर्व् इत्यर्थः / एवं वर्तमानो माम् एवैष्यसि / एतत् सत्यं ते प्रतिजाने -- तव प्रतिज्ञां करोमि; नोपच्छन्दनमात्रम्; यतस् त्वं प्रियो ऽसि मे / ᳚प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः᳚ इति पूर्वम् एवोक्तम् / यस्य मय्य् अतिमात्रता प्रीतिर् वर्तते, ममापि तस्मिन् अतिमात्रा प्रीतिर् भवतीति तद्वियोगम् असहमानो ऽहं तं मां प्रापयामि / अतः सत्यम् एव प्रतिज्ञातम्, माम् एवैष्यसीति //
SK
वेद-अन्तेषु, ᳚वेद अहम् एतं पुरुषं महा-अन्तम् आदित्य-वर्णं तमसः परस्तात् / तम् एवं विद्वान् अमृत इह भवति न अन्यः पन्था विद्यते ऽयनाय᳚ इत्य्-आदिषु विहितं वेदनं ध्यान-उपासन-आदि-शब्द-वाच्यं दर्शन-समान-आकारं स्मृति-संतानम् अत्यर्थ-प्रियम् इह मन्-मना भव इति विधीयते / मद्-भक्तः अत्यर्थ-मत्-प्रियः / अत्यर्थ-मत्-प्रियत्वेन निरतिशय-प्रियां स्मृति-संततिं कुरुष्व इत्य्-अर्थः / मद्-याजी / तत्र अपि मद्-भक्त इत्य् अनुषज्यते / यजनं पूजनम् / अत्यर्थ-प्रिय-मद्-आराधन-परो भव / आराधनं हि परिपूर्ण-शेष-वृत्तिः / मां नमस्कुरु / नमः --- नमनम् / मय्य् अतिमात्र-प्रह्वीभावम् अत्यर्थ-प्रियं कुर्व् इत्य्-अर्थः / एवं वर्तमानो माम् एव एष्यसि / एतत् सत्यं ते प्रतिजाने --- तव प्रतिज्ञां करोमि; न उपच्छन्दन-मात्रम्; यतस् त्वं प्रियो ऽसि मे / ᳚प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः᳚ इति पूर्वम् एव उक्तम् / यस्य मय्य् अतिमात्रता प्रीतिर् वर्तते, मम अपि तस्मिन् अतिमात्रा प्रीतिर् भवति इति तद्-वियोगम् असहमानो ऽहं तं मां प्रापयामि / अतः सत्यम् एव प्रतिज्ञातम्, माम् एव एष्यसि इति //
SK
सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज / अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः //
SK
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज / अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः //
SK
कर्मयोगज्ञानयोगभक्तियोगरूपान् सर्वान् धर्मान् परमनिश्श्रेयससाधनभूतान्, मदाराधनत्वेन अतिमात्रप्रीत्या यथाधिकारं कुर्वाण एव, उक्तरीत्या फलकर्मकर्तृत्वादिपरित्यागेन परित्यज्य, माम् एकम् एव कर्तारम् आराध्यं प्राप्यम् उपायं चानुसंधत्स्व / एष एव सर्वधर्माणां शस्त्रीयः परित्याग इति, ᳚निश्चयं शृणु मे तत्र त्यागे भरतसत्तम / त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः // Bह्GR_१८.᳚ इत्यारभ्य, ᳚सङ्गं त्यक्त्वा फलं चैव स त्यागस् सात्तिविको मतः // ... न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः / यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते // Bह्GR_१८.᳚ इति अध्यायादौ सुदृढम् उपपादितम् / अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि -- एवं वर्तमानं त्वाम् मत्प्राप्तिविरोधिभ्यो ऽनादिकालसंचितानन्ताकृत्यकरणकृत्याकरणरूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि / मा शुचः -- शोकं मा कृथाः / अथ वा, सर्वपापविनिर्मुक्तात्यर्थभगवत्प्रियपुरुषनिर्वर्त्यत्वाद् भक्तियोगस्य, तदारम्भविरोधिपापानाम् आनन्त्यात् तत्प्रायश्चित्तरूपैर् धर्मैः परिमितकालकृतैस् तेषां दुस्तरतया आत्मनो भक्तियोगारम्भानर्हताम् आलोच्य शोचतो ऽर्जुनस्य शोकम् अपनुदन् श्रीभगवान् उवाच -- सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रजेति / भक्तियोगारम्भविरोध्यनादिकालसंचितनानाविधानन्तपापानुगुणान् तत्तत्प्रायश्चित्तरूपान् कृच्छ्रचान्द्रायणकूश्माण्डवैश्वानरव्रातपतिपवित्रेष्टित्रिवृदग्निष्टोमादिकान् नानाविधान् अनन्तांस् त्वया परिमितकालवर्तिना दूरनुष्ठानान् सर्वान् धर्मान् परित्यज्य भक्तियोगारम्भसिद्धये माम् एकं परमकारुणिकम् अनालोचितविशेषाशेषलोकशरण्यम् आश्रितवात्सल्यजलधिं शरणं प्रपद्यस्व / अहं त्वा सर्वपापेभ्यः यथोदितस्वरूपभक्त्यारम्भविरोधिभ्यः सर्वेभ्यः पापेभ्यः मोक्षयिष्यामि; मा शुचः //
SK
कर्म-योग-ज्ञान-योग-भक्ति-योग-रूपान् सर्वान् धर्मान् परम-निश्श्रेयस-साधन-भूतान्, मद्-आराधनत्वेन अतिमात्र-प्रीत्या यथा-अधिकारं कुर्वाण एव, उक्त-रीत्या फल-कर्म-कर्तृत्व-आदि-परित्यागेन परित्यज्य, माम् एकम् एव कर्तारम् आराध्यं प्राप्यम् उपायं च अनुसंधत्स्व / एष एव सर्व-धर्माणां शस्त्रीयः परित्याग इति, ᳚निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम / त्यागो हि पुरुष-व्याघ्र त्रि-विधः संप्रकीर्तितः // Bह्GR_१८.᳚ इत्य्-आरभ्य, ᳚सङ्गं त्यक्त्वा फलं च एव स त्यागस् सात्तिविको मतः // ... न हि देह-भृता शक्यं त्यक्तुं कर्माण्य् अशेषतः / यस् तु कर्म-फल-त्यागी स त्यागि ईत्य् अभिधीयते // Bह्GR_१८.᳚ इति अध्याय-आदौ सुदृढम् उपपादितम् / अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि --- एवं वर्तमानं त्वाम् मत्-प्राप्ति-विरोधिभ्यो ऽनादि-काल-संचित-अनन्त-अकृत्य-करण-कृत्य-अकरण-रूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि / मा शुचः --- शोकं मा कृथाः / अथ वा, सर्व-पाप-विनिर्मुक्त-अत्यर्थ-भगवत्-प्रिय-पुरुष-निर्वर्त्यत्वाद् भक्ति-योगस्य, तद्-आरम्भ-विरोधि-पापानाम् आनन्त्यात् तत्-प्रायश्चित्त-रूपैर् धर्मैः परिमित-काल-कृतैस् तेषां दुस्तरतया आत्मनो भक्ति-योग-आरम्भ-अनर्हताम् आलोच्य शोचतो ऽर्जुनस्य शोकम् अपनुदन् श्री-भगवान् उवाच --- सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज इति / भक्ति-योग-आरम्भ-विरोध्य्-अनादि-काल-संचित-नाना-विध-अनन्त-पाप-अनुगुणान् तत्-तत्-प्रायश्चित्त-रूपान् कृच्छ्र-चान्द्रायण-कूश्माण्ड-वैश्वानर-व्रात-पति-पवित्र-इष्टि-त्रि-वृद्-अग्निष्टोम-आदिकान् नाना-विधान् अनन्तांस् त्वया परिमित-काल-वर्तिना दूरनुष्ठानान् सर्वान् धर्मान् परित्यज्य भक्ति-योग-आरम्भ-सिद्धये माम् एकं परम-कारुणिकम् अनालोचित-विशेष-अशेष-लोक-शरण्यम् आश्रित-वात्सल्य-जल-धिं शरणं प्रपद्यस्व / अहं त्वा सर्व-पापेभ्यः यथा-उदित-स्व-रूप-भक्त्य्-आरम्भ-विरोधिभ्यः सर्वेभ्यः पापेभ्यः मोक्षयिष्यामि; मा शुचः //
SK
इदं ते नातपस्काय नाभक्ताय कदाचन / न चाशुश्रूषवे वाच्यं न च मां यो ऽभ्यसूयति //
SK
इदं ते न अतपस्काय न अभक्ताय कदाचन / न च अशुश्रूषवे वाच्यं न च मां यो ऽभ्यसूयति //
SK
इदं ते परमं गुह्यं शास्त्रं मयाख्यातम् अतपस्काय अतप्ततपसे त्वया न वाच्यम्; त्वयि वक्तरि, मयि चाभक्ताय कदाचन न वाच्यम् / तप्ततपसे चाभक्ताय न वाच्यम् इत्यर्थः / न चाशुश्रूषवे / भक्तायाप्य् अशुश्रूषवे न वाच्यम् / न च मां यो ऽभ्यसूयति / मत्स्वरूपे मदैश्वर्ये मद्गुणेषु च कथितेषु यो दोषम् आविष्करोति, न तस्मै वाच्यम् / असमानविभक्तिनिर्देशः तस्यात्यन्तपरिहरणीयताज्ञापनाय //
SK
इदं ते परमं गुह्यं शास्त्रं मया आख्यातम् अतपस्काय अतप्त-तपसे त्वया न वाच्यम्; त्वयि वक्तरि, मयि च अभक्ताय कदाचन न वाच्यम् / तप्त-तपसे च अभक्ताय न वाच्यम् इत्य्-अर्थः / न च अशुश्रूषवे / भक्ताय अप्य् अशुश्रूषवे न वाच्यम् / न च मां यो ऽभ्यसूयति / मत्-स्व-रूपे मद्-ऐश्वर्ये मद्-गुणेषु च कथितेषु यो दोषम् आविष्करोति, न तस्मै वाच्यम् / असमान-विभक्ति-निर्देशः तस्य अत्यन्त-परिहरणीयता-ज्ञापनाय //
SK
य इदं परमं गुह्यं मद्भक्तेष्व् अभिधास्यति / भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः //
SK
य इदं परमं गुह्यं मद्-भक्तेष्व् अभिधास्यति / भक्तिं मयि परां कृत्वा माम् एव एष्यत्य् असंशयः //
SK
इदं परमं गुह्यं मद्भक्तेषु यः अभिधास्यति व्याख्यास्यति, सः मयि परमां भक्तिं कृत्वा माम् एवैष्यति; न तत्र संशयः //
SK
इदं परमं गुह्यं मद्-भक्तेषु यः अभिधास्यति व्याख्यास्यति, सः मयि परमां भक्तिं कृत्वा माम् एव एष्यति; न तत्र संशयः //
SK
न च तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तमः / भविता न च मे तस्माद् अन्यः प्रियतरो भुवि //
SK
न च तस्मान् मनुष्येषु कश्चिन् मे प्रिय-कृत्-तमः / भविता न च मे तस्माद् अन्यः प्रियतरो भुवि //
SK
सर्वेषु मनुष्येष्व् इतः पूर्वं तस्माद् अन्यो मनुष्यो मे न कश्चित् प्रियकृत्तमो ऽभूत्; इत उत्तरं च न भविता / अयोग्यानां प्रथमम् उपादानं योग्यानाम् अकथनाद् अपि तत्कथनस्यानिष्टतमत्वात् //
SK
सर्वेषु मनुष्येष्व् इतः पूर्वं तस्माद् अन्यो मनुष्यो मे न कश्चित् प्रिय-कृत्-तमो ऽभूत्; इत उत्तरं च न भविता / अयोग्यानां प्रथमम् उपादानं योग्यानाम् अकथनाद् अपि तत्-कथनस्य अनिष्ट-तमत्वात् //
SK
अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः / ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः //
SK
अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः / ज्ञान-यज्ञेन तेन अहम् इष्टः स्याम् इति मे मतिः //
SK
य इमम् आवयोर् धर्म्यं संवादम् अध्येष्यते, तेन ज्ञानयज्ञेनाहम् इष्टस् स्याम् इति मे मतिः -- अस्मिन् यो ज्ञानयज्ञो ऽभिधीयते, तेनाहम् एतद् अध्ययनमात्रेणेष्टः स्याम् इत्यर्थः //
SK
य इमम् आवयोर् धर्म्यं संवादम् अध्येष्यते, तेन ज्ञान-यज्ञेन अहम् इष्टस् स्याम् इति मे मतिः --- अस्मिन् यो ज्ञान-यज्ञो ऽभिधीयते, तेन अहम् एतद् अध्ययन-मात्रेण इष्टः स्याम् इत्य्-अर्थः //
SK
श्रद्धावान् अनसूयुश् च शृणुयाद् अपि यो नरः / सो ऽपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्यकर्मणाम् //
SK
श्रद्धावान् अनसूयुश् च शृणुयाद् अपि यो नरः / सो ऽपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्य-कर्मणाम् //
SK
श्रद्धावान् अनसूयुश् च यो नरः शृणुयाद् अपि, तेन श्रवणमात्रेण सो ऽपि भक्तिविरोधिपापेभ्यो मुक्तः पुण्यकर्मणां मद्भक्तानां लोकान् समूहन् प्राप्नुयात् //
SK
श्रद्धावान् अनसूयुश् च यो नरः शृणुयाद् अपि, तेन श्रवण-मात्रेण सो ऽपि भक्ति-विरोधि-पापेभ्यो मुक्तः पुण्य-कर्मणां मद्-भक्तानां लोकान् समूहन् प्राप्नुयात् //
SK
कश्चिद् एतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा / कच्चिद् अज्ञानसंमोहः प्रनष्टस् ते धनञ्जय //
SK
कश्चिद् एतच्-छ्रुतं पार्थ त्वय ऐक-अग्रेण चेतसा / कच्चिद् अज्ञान-संमोहः प्रनष्टस् ते धनञ्जय //
SK
मया कथितम् एतत् पार्थ त्वया अवहितेन चेतसा कच्चिच् श्रुतम्, तवाज्ञानसंमोहः कच्चित् प्रनष्टः, येनाज्ञानेन मूढो न योत्स्यामीत्युक्तवान् //
SK
मया कथितम् एतत् पार्थ त्वया अवहितेन चेतसा कच्चिच् श्रुतम्, तव अज्ञान-संमोहः कच्चित् प्रनष्टः, येन अज्ञानेन मूढो न योत्स्यामि इत्य्-उक्तवान् //
SK
नष्टो मोहः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत / स्थितो ऽस्मि गतसंदेहः करिष्ये वचनं तव //
SK
नष्टो मोहः स्मृतिर् लब्धा त्वत्-प्रसादान् मय आच्युत / स्थितो ऽस्मि गत-संदेहः करिष्ये वचनं तव //
SK
मोहः विपरीतज्ञानम् / त्वत्प्रसादान् मम तद् विनष्टम् / स्मृतिः यथावस्थिततत्त्वज्ञानम् / त्वत्प्रसादाद् एव तच् च लब्धम् / अनात्मनि प्रकृतौ आत्माभिमानरूपो मोहः, परमपुरुषशरीरतया तदात्मकस्य कृत्स्नस्य चिदचिद्वस्तुनः अतदात्माभिमानरूपश् च, नित्यनैमित्तिकरूपस्य कर्मणः परमपुरुषाराधनतया तत्प्राप्त्युपायभूतस्य बन्धकत्वबुद्धिरूपश् च सर्वो विनष्टः / आत्मनः प्रकृतिविलक्षणत्वतत्स्वभावरहितताज्ञातृत्वैकस्वभावतापरमपुरुषशेषतातन्नियाम्यत्वैकस्वरूपताज्ञानम्, निखिलजगदुद्भवस्थितिप्रलयलीलाशेषदोषप्रत्यनीककल्याणैकस्वरूपस्वाभाविकानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृतिसमस्तकल्याणगुणगणमहार्णवपरब्रह्मशब्दाभिधेयपरमपुरुषयाथात्म्यज्ञानं च, एवंरूपपरावरतत्त्वयाथात्म्यविज्ञानतदभ्यासपूर्वकाहरहरुपचीयमानपरमपुरुषप्रीत्येकफलनित्यनैमित्तिककर्मनिषिद्धपरिहारशमदमाद्यात्मगुणनिवर्त्यभक्तिरूपतापन्नपरमपुरुषोपासनैकलभ्यो वेदान्तवेद्यः परमपुरुषो वासुदेवस् त्वम् इति ज्ञानं च लब्धम् / ततश् च बन्धस्नेहकारुण्यप्रवृद्धविपरीतज्ञानमूलात् सर्वस्माद् अवसादाद् विमुक्तो गतसंदेहः स्वस्थः स्थितो ऽस्मि / इदानीम् एव युद्धादिकर्तव्यताविषयम् तव वचनं करिष्यति -- यथोक्तं युद्धादिकं करिष्यति इत्यर्थः //
SK
मोहः विपरीत-ज्ञानम् / त्वत्-प्रसादान् मम तद् विनष्टम् / स्मृतिः यथा-अवस्थित-तत्त्व-ज्ञानम् / त्वत्-प्रसादाद् एव तच् च लब्धम् / अनात्मनि प्रकृतौ आत्म-अभिमान-रूपो मोहः, परम-पुरुष-शरीरतया तद्-आत्मकस्य कृत्स्नस्य चिद्-अचिद्-वस्तुनः अतद्-आत्म-अभिमान-रूपश् च, नित्य-नैमित्तिक-रूपस्य कर्मणः परम-पुरुष-आराधनतया तत्-प्राप्त्य्-उपाय-भूतस्य बन्धकत्व-बुद्धि-रूपश् च सर्वो विनष्टः / आत्मनः प्रकृति-विलक्षणत्व-तत्-स्व-भाव-रहितता-ज्ञातृत्व-एक-स्व-भावता-परम-पुरुष-शेषता-तन्-नियाम्यत्व-एक-स्व-रूपता-ज्ञानम्, निखिल-जगद्-उद्भव-स्थिति-प्रलय-लील-अशेष-दोष-प्रत्यनीक-कल्याण-एक-स्व-रूप-स्वाभाविक-अनवधिक-अतिशय-ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेजः-प्रभृति-समस्त-कल्याण-गुण-गण-महा-अर्णव-पर-ब्रह्म-शब्द-अभिधेय-परम-पुरुष-याथात्म्य-ज्ञानं च, एवं-रूप-पर-अवर-तत्त्व-याथात्म्य-विज्ञान-तद्-अभ्यास-पूर्वक-अहर्-अहर्-उपचीयमान-परम-पुरुष-प्रीत्य्-एक-फल-नित्य-नैमित्तिक-कर्म-निषिद्ध-परिहार-शम-दम-आद्य्-आत्म-गुण-निवर्त्य-भक्ति-रूपता-आपन्न-परम-पुरुष-उपासन-एक-लभ्यो वेद-अन्त-वेद्यः परम-पुरुषो वासुदेवस् त्वम् इति ज्ञानं च लब्धम् / ततश् च बन्ध-स्नेह-कारुण्य-प्रवृद्ध-विपरीत-ज्ञान-मूलात् सर्वस्माद् अवसादाद् विमुक्तो गत-संदेहः स्व-स्थः स्थितो ऽस्मि / इदानीम् एव युद्ध-आदि-कर्तव्यता-विषयम् तव वचनं करिष्यति --- यथा-उक्तं युद्ध-आदिकं करिष्यति इत्य्-अर्थः //
SK
धृतराष्ट्राय स्वपुत्राः पाण्डवाश् च युद्धे किं करिष्यन्तीति पृच्छते
SK
धृतराष्ट्राय स्व-पुत्राः पाण्डवाश् च युद्धे किं करिष्यन्ति इति पृच्छते
SK
इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः / संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् //
SK
इत्य् अहं वासुदेवस्य पार्थस्य च महा-आत्मनः / संवादम् इमम् अश्रौषम् अद्भुतं रोम-हर्षणम् //
SK
इति एवं वासुदेवस्य वसुदेवसूनोः, पार्थस्य च तत्पितृष्वसुः पुत्रस्य च महात्मनः महाबुद्धेस् तत्पदद्वन्द्वम् आश्रितस्येमं रोमहर्षणम् अद्भुतं संवादम् अहं यथोक्तम् अश्रौषम् श्रुतवान् अहम् //
SK
इति एवं वासुदेवस्य वसु-देव-सूनोः, पार्थस्य च तत्-पितृ-ष्वसुः पुत्रस्य च महा-आत्मनः महा-बुद्धेस् तत्-पद-द्वन्द्वम् आश्रितस्य इमं रोम-हर्षणम् अद्भुतं संवादम् अहं यथा-उक्तम् अश्रौषम् श्रुतवान् अहम् //
SK
व्यासप्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् / योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् //
SK
व्यास-प्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् / योगं योग-ईश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् //
SK
व्यासप्रसादाद् व्यासानुग्रहेण दिव्यचक्षुश्श्रोत्रलाभाद् एतत् परं योगाख्यं गुह्यं योगेश्वराज् ज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधेर् भगवतः कृष्णात् स्वयम् एव कथयतः साक्षाच् श्रुतवान् अहम् //
SK
व्यास-प्रसादाद् व्यास-अनुग्रहेण दिव्य-चक्षुश्-श्रोत्र-लाभाद् एतत् परं योग-आख्यं गुह्यं योग-ईश्वराज् ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेजसां निधेर् भगवतः कृष्णात् स्वयम् एव कथयतः साक्षाच् श्रुतवान् अहम् //
SK
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् / केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः //
SK
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् / केशव-अर्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः //
SK
केशवार्जुनयोर् इमं पुण्यम् अद्भुतं संवादं साक्षाच् छ्रुतं स्मृत्वा मुहुर् मुहुर् हृष्यामि //
SK
केशव-अर्जुनयोर् इमं पुण्यम् अद्भुतं संवादं साक्षाच् छ्रुतं स्मृत्वा मुहुर् मुहुर् हृष्यामि //
SK
तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः / विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः //
SK
तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः / विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः //
SK
तच् चार्जुनाय प्रकाशितम् ऐश्वरं हरेर् अत्यद्भुतं रूपं मया साक्षात्कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान् विस्मयो जायते; पुनः पुनश् च हृष्यामि //
SK
तच् च अर्जुनाय प्रकाशितम् ऐश्वरं हरेर् अत्यद्भुतं रूपं मया साक्षात्-कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान् विस्मयो जायते; पुनः पुनश् च हृष्यामि //
SK
किम् अत्र बहुनोक्तेन ?
SK
किम् अत्र बहुन ऊक्तेन ?
SK
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः / तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम //
SK
यत्र योग-ईश्वरः कृष्णो यत्र पार्थो धनुर्-धरः / तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम //
SK
यत्र योगेश्वरः कृत्स्नस्योच्चावचरूपेणावस्थितस्य चेतनस्याचेतनस्य च वस्तुनो ये ये स्वभावयोगाः, तेषां सर्वेषां योगानाम् ईश्वरः, स्वसंकल्पायत्तस्वेतरसमस्तवस्तुस्वरूपस्थितिप्रवृत्तिभेदः, कृष्णः वसुदेवसूनुः, यत्र च पार्थो धनुर्धरः तत्पितृष्वसुः पुत्रः तत्पदद्वन्द्वैकाश्रयः, तत्र श्रीर् विजयो भूतिर् नीतिश् च ध्रुवा निश्चला इति मतिर् ममेति //
SK
यत्र योग-ईश्वरः कृत्स्नस्य उच्च-अवच-रूपेण अवस्थितस्य चेतनस्य अचेतनस्य च वस्तुनो ये ये स्व-भाव-योगाः, तेषां सर्वेषां योगानाम् ईश्वरः, स्व-संकल्प-आयत्त-स्व-इतर-समस्त-वस्तु-स्व-रूप-स्थिति-प्रवृत्ति-भेदः, कृष्णः वसु-देव-सूनुः, यत्र च पार्थो धनुर्-धरः तत्-पितृ-ष्वसुः पुत्रः तत्-पद-द्वन्द्व-एक-आश्रयः, तत्र श्रीर् विजयो भूतिर् नीतिश् च ध्रुवा निश्चला इति मतिर् मम इति //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source