Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 1

SK
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः | मामकाः पाण्डवाश् चैव किम् अकुर्वत सञ्जय ||
SK
धर्म-क्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः | मामकाः पाण्डवाश् च एव किम् अकुर्वत सञ्जय ||
SK
एवं ज्ञात्वापि सर्वात्मनान्धो धृतराष्ट्रः सुयोधनविजयबुभुत्सया सञ्जयं पप्रच्छ /
SK
एवं ज्ञात्व आपि सर्व-आत्मन आन्धो धृतराष्ट्रः सुयोधन-विजय-बुभुत्सया सञ्जयं पप्रच्छ /
SK
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा | आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ||
SK
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा | आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ||
SK
पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् | व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||
SK
पश्य एतां पाण्डु-पुत्राणाम् आचार्य महतीं चमूम् | व्यूढां द्रुपद-पुत्रेण तव शिष्येण धीमता ||
SK
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि | युयुधानो विराटश् च द्रुपदश् च महारथः ||
SK
अत्र शूरा महा-ईष्वासा भीम-अर्जुन-समा युधि | युयुधानो विराटश् च द्रुपदश् च महा-रथः ||
SK
धृष्टकेतुश् चेकितानः काशीराजश् च वीर्यवान् | पुरुजित्कुन्तिभोजश् च शैब्यश् च नरपुङ्गवः ||
SK
धृष्टकेतुश् चेकितानः काशी-राजश् च वीर्यवान् | पुरु-जित्-कुन्ति-भोजश् च शैब्यश् च नर-पुङ्-गवः ||
SK
युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् | सौभद्रो द्रौपदेयाश् च सर्व एव महारथाः ||
SK
युधामन्युश् च विक्रान्त उत्तम-ओजाश् च वीर्यवान् | सौभद्रो द्रौपदेयाश् च सर्व एव महा-रथाः ||
SK
अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम | नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ||
SK
अस्माकं तु विशिष्टा ये तान् निबोध द्वि-ज-उत्तम | नायका मम सैन्यस्य संज्ञा-अर्थं तान् ब्रवीमि ते ||
SK
भवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्जयः | अश्वत्थामा विकर्णश् च सौमदत्तिस् तथैव च ||
SK
भवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्-जयः | अश्वत्थामा विकर्णश् च सौमदत्तिस् तथ ऐव च ||
SK
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः | नानाशस्त्रप्रहरणास् सर्वे युद्धविशारदाः ||
SK
अन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः | नाना-शस्त्र-प्रहरणास् सर्वे युद्ध-विशार-दाः ||
SK
अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् | पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ||
SK
अपर्याप्तं तद् अस्माकं बलं भीष्म-अभिरक्षितम् | पर्याप्तं त्व् इदम् एतेषां बलं भीम-अभिरक्षितम् ||
SK
परं ब्रह्म परं धाम पवित्रं परमं भवान् |
SK
अयनेषु च सर्वेषु यथाभागम् अवस्थिताः | भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ||
SK
अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः | भीष्मम् एव अभिरक्षन्तु भवन्तः सर्व एव हि ||
SK
दुर्योधनः स्वयम् एव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य, आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तर्विषण्णो ऽभवत् //
SK
दुर्योधनः स्वयम् एव भीम-अभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्म-अभिरक्षितं बलम् अवलोक्य, आत्म-विजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्-विजये च अपर्याप्तताम् आचार्याय निवेद्य अन्तर्विषण्णो ऽभवत् //
SK
तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः | सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||
SK
तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः | सिंह-नादं विनद्य उच्चैः शङ्खं दध्मौ प्रतापवान् ||
SK
ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः | सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ||
SK
ततः शङ्खाश् च भेर्यश् च पणव-आनक-गो-मुखाः | सहस ऐव अभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ||
SK
ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ | माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ||
SK
ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ | माधवः पाण्डवश् च एव दिव्यौ शङ्खौ प्रदध्मतुः ||
SK
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः | पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||
SK
पाञ्च-जन्यं हृषी-केशो देव-दत्तं धनञ्जयः | पौण्ड्रं दध्मौ महा-शङ्खं भीम-कर्मा वृक-उदरः ||
SK
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः | नकुलः सहदेवश् च सुघोषमणिपुष्पकौ ||
SK
अनन्त-विजयं राजा कुन्ती-पुत्रो युधिष्ठिरः | नकुलः सह-देवश् च सुघोष-मणि-पुष्पकौ ||
SK
काश्यश् च परमेष्वासः शिखण्डी च महारथः | धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ||
SK
काश्यश् च परम-ईष्वासः शिखण्डी च महा-रथः | धृष्ट-द्युम्नो विराटश् च सात्यकिश् च अपरा-जितः ||
SK
द्रुपदो द्रौपदेयाश् च सर्वतः पृथिवीपते | सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ||
SK
द्रुपदो द्रौपदेयाश् च सर्वतः पृथिवी-पते | सौभद्रश् च महा-बाहुः शङ्खान् दध्मुः पृथक् पृथक् ||
SK
तस्य विषादम् आलक्ष्य भीष्मस् तस्य हर्षं जनयितुं सिंहनादं शङ्खध्मानं च कृत्वा, शङ्खभेरीनिनादैश् च विजयाभिशंसिनं घोषं चाकारयत् // ततः -- तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयस् त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ
SK
तस्य विषादम् आलक्ष्य भीष्मस् तस्य हर्षं जनयितुं सिंह-नादं शङ्ख-ध्मानं च कृत्वा, शङ्ख-भेरी-निनादैश् च विजय-अभिशंसिनं घोषं च अकारयत् // ततः --- तं घोषम् आकर्ण्य सर्व-ईश्वर-ईश्वरः पार्थ-सारथी रथी च पाण्डु-तनयस् त्रैलोक्य-विजय-उपकरण-भूते महति स्यन्दने स्थितौ
SK
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश् च पृथिवीं चैव तुमुलो ऽप्य् अनुनादयन् ||
SK
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश् च पृथिवीं च एव तुमुलो ऽप्य् अनुनादयन् ||
SK
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः | प्रवृत्ते शस्त्रसंपाते धनुर् उद्यम्य पाण्डवः ||
SK
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः | प्रवृत्ते शस्त्र-संपाते धनुर् उद्यम्य पाण्डवः ||
SK
हृषीकेशं तदा वाक्यम् इदम् आह महीपते | अर्जुन उवाच -- सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ||
SK
हृषीकेशं तदा वाक्यम् इदम् आह महीपते | सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ||
SK
त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः //
SK
त्रैलोक्यं कम्पयन्तौ श्रीमत्-पाञ्चजन्य-देव-दत्तौ दिव्यौ शङ्खौ प्रदध्मतुः //
SK
ततो युधिष्ठिरो वृकोदरादयश् च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः / स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद / ᳚अद्यैव नष्टं कुरूणां बलम्᳚ इति धार्तराष्ट्रा मेनिरे / एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय सञ्जयो ऽकथयत् //
SK
ततो युधिष्ठिरो वृक-उदर-आदयश् च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः / स घोषो दुर्योधन-प्रमुखानां सर्वेषाम् एव भवत्-पुत्राणां हृदयानि बिभेद / ᳚अद्य एव नष्टं कुरूणां बलम्᳚ इति धार्तराष्ट्रा मेनिरे / एवं तद्-विजय-अभिकाङ्क्षिणे धृतराष्ट्राय सञ्जयो ऽकथयत् //
SK
अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो
SK
अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् दृष्ट्वा लङ्का-दहन-वानर-ध्वजः पाण्डु-तनयो
SK
यावद् एतान् निरीक्षे ऽहं योद्धुकामान् अवस्थितान् | कैर् मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ||
SK
यावद् एतान् निरीक्षे ऽहं योद्धु-कामान् अवस्थितान् | कैर् मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ||
SK
योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः | धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः ||
SK
योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः | धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रिय-चिकीर्षवः ||
SK
एवम् उक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् ||
SK
एवम् उक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोर् उभयोर् मध्ये स्थापयित्वा रथ-उत्तमम् ||
SK
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् | उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ||
SK
भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् | उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति ||
SK
तत्रापश्यत् स्थितान् पार्थः पित्Qन् अथ पितामहान् |
SK
तत्र अपश्यत् स्थितान् पार्थः पित्Qन् अथ पितामहान् |
SK
ज्ञानशक्तिबलाइश्वर्यवीर्यतेजसां निधिं स्वसङ्कल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तरबाह्यकरणानां सर्वप्रकारनियमने ऽवस्थितम् आश्रितवात्सल्यविवशतया स्वसारथ्ये ऽवस्थितम्, ᳚युयुत्सून् यथावद् अवेक्षितुं तद् ईक्षनक्षमे स्थाने रथं स्थापय᳚ इत्य् अचोदयत् //
SK
ज्ञान-शक्ति-बल-ऐश्वर्य-वीर्य-तेजसां निधिं स्व-सङ्कल्प-कृत-जगद्-उदय-विभव-लय-लीलं हृषीकेशं पर-अवर-निखिल-जन-अन्तर-बाह्य-करणानां सर्व-प्रकार-नियमने ऽवस्थितम् आश्रित-वात्सल्य-विवशतया स्व-सारथ्ये ऽवस्थितम्, ᳚युयुत्सून् यथावद् अवेक्षितुं तद् ईक्षन-क्षमे स्थाने रथं स्थापय᳚ इत्य् अचोदयत् //
SK
आचार्यान् मातुलान् भ्रात्Qन् पुत्रान् पौत्रान् सखींस् तथा ||
SK
आचार्यान् मातुलान् भ्रात्Qन् पुत्रान् पौत्रान् सखींस् तथा ||
SK
श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि | तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ||
SK
श्वशुरान् सुहृदश् च एव सेनयोर् उभयोर् अपि | तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ||
SK
कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् | अर्जुन उवाच -- दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||
SK
कृपया परया आविष्टो विषीदन्न् इदम् अब्रवीत् | दृष्ट्व ईमं स्व-जनं कृष्ण युयुत्सुं समुपस्थितम् ||
SK
सीदन्ति मम गात्राणि मुखं च परिशुष्यति | वेपथुश् च शरीरे मे रोमहर्षश् च जायते ||
SK
सीदन्ति मम गात्राणि मुखं च परिशुष्यति | वेपथुश् च शरीरे मे रोम-हर्षश् च जायते ||
SK
गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते | न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः ||
SK
गाण्डीवं स्रंसते हस्तात् त्वक् च एव परिदह्यते | न च शक्नोम्य् अवस्थातुं भ्रमति इव च मे मनः ||
SK
निमित्तानि च पश्यामि विपरीतानि केशव | न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे ||
SK
निमित्तानि च पश्यामि विपरीतानि केशव | न च श्रेयो ऽनुपश्यामि हत्वा स्व-जनम् आहवे ||
SK
न काङ्क्षे विजयं Kऋष्ण न च राज्यं सुखानि च | किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ||
SK
न काङ्क्षे विजयं Kऋष्ण न च राज्यं सुखानि च | किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ||
SK
येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च | त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ||
SK
येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च | त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ||
SK
आचार्याः पितरः पुत्रास् तथैव च पितामहाः | मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस् तथा ||
SK
आचार्याः पितरः पुत्रास् तथ ऐव च पितामहाः | मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस् तथा ||
SK
स च तेन चोदितस् तत्क्षणाद् एव Bहीष्मड्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत् / ईदृशी भवदीयानां विजयस्थितिर् इति चावोचत् //
SK
स च तेन चोदितस् तत्-क्षणाद् एव Bहीष्म-ड्रोण-आदीनां सर्वेषाम् एव महीक्षितां पश्यतां यथा-चोदितम् अकरोत् / ईदृशी भवदीयानां विजय-स्थितिर् इति च अवोचत् //
SK
स तु Pआर्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको
SK
स तु Pआर्थो महा-मनाः परम-कारुणिको दीर्घ-बन्धुः परम-धार्मिकः सभ्रातृको
SK
एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूधन | अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||
SK
एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधु-सूधन | अपि त्रैलोक्य-राज्यस्य हेतोः किं नु मही-कृते ||
SK
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन | पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः ||
SK
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन | पापम् एवा अश्रयेद् अस्मान् हत्व ऐतान् आततायिनः ||
SK
तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् | स्वजनं हि कथम् हत्वा सुखिनः स्याम माधव ||
SK
तस्मान् न अर्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् | स्व-जनं हि कथम् हत्वा सुखिनः स्याम माधव ||
SK
यद्य् अप्य् एते न पश्यन्ति लोभोपहतचेतसः | कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||
SK
यद्य् अप्य् एते न पश्यन्ति लोभ-उपहत-चेतसः | कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ||
SK
कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् | कुलक्षयकृतं दोषं प्रपश्यद्भिर् ञनार्दन ||
SK
कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् | कुल-क्षय-कृतं दोषं प्रपश्यद्भिर् ञनार्दन ||
SK
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः | धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ||
SK
कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः | धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ||
SK
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः | स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||
SK
अधर्म-अभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः | स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः ||
SK
सङ्करो नरकायैव कुलघ्नानां कुलस्य च | पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः ||
SK
सङ्करो नरकाय एव कुल-घ्नानां कुलस्य च | पतन्ति पितरो ह्य् एषां लुप्त-पिण्ड-उदक-क्रियाः ||
SK
दोषैर् एतैः कुलघ्नानां वर्णसङ्करकारकैः | उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ||
SK
दोषैर् एतैः कुल-घ्नानां वर्ण-सङ्कर-कारकैः | उत्साद्यन्ते जाति-धर्माः कुल-धर्माश् च शाश्वताः ||
SK
उत्सन्नकुलधर्माणां मनुष्याणां ञनार्दन | नरके नियतं वासो भवतीत्य् अनुशुश्रुम ||
SK
उत्सन्न-कुल-धर्माणां मनुष्याणां ञनार्दन | नरके नियतं वासो भवति इत्य् अनुशुश्रुम ||
SK
अहो बत महत् पापं कर्तुं व्यवसिता वयम् | यद् राज्यसुखलाभेन हन्तुं स्वजनम् उद्यताः ||
SK
अहो बत महत् पापं कर्तुं व्यवसिता वयम् | यद् राज्य-सुख-लाभेन हन्तुं स्व-जनम् उद्यताः ||
SK
यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः | धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ||
SK
यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः | धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ||
SK
भवद्भिर् अतिघोरैर् मारणैर् जतुगृहदाहादिभिर् असकृद्वञ्चितो ऽपि परमपुरुषसहायेनात्मना हनिष्य
SK
भवद्भिर् अतिघोरैर् मारणैर् जतु-गृह-दाह-आदिभिर् असकृद्-वञ्चितो ऽपि परम-पुरुष-सहायेना अत्मना हनिष्य-
SK
एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानसः ||
SK
एवम् उक्त्व आर्जुनः संख्ये रथ-उपस्थ उपाविशत् | विसृज्य सशरं चापं शोक-संविग्न-मानसः ||
SK
माणान् भवदीयान् विलोक्य बन्धुस्नेहेन परया कृपया धर्मभयेन चातिमात्रसन्नसर्वगात्रः सर्वथाहं न योत्स्यामीत्य् उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थ उपाविशत् //
SK
माणान् भवदीयान् विलोक्य बन्धु-स्नेहेन परया कृपया धर्म-भयेन च अतिमात्र-सन्न-सर्व-गात्रः सर्वथ आहं न योत्स्यामि इत्य् उक्त्वा बन्धु-विश्लेष-जनित-शोक-संविग्न-मानसः सशरं चापं विसृज्य रथ-उपस्थ उपाविशत् //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source