Rāmānuja's Commentary on the Bhagavadgītā Bhagavadgītābhāṣya
Bहगवद्गीताभाष्य
12.1 SK एवं सततयुक्ता ये भक्तास् त्वां पर्युपासते | ये चाप्य् अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ||
2 SK एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते | ये च अप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ||
12.1 SK एवम् -- ᳚मत्कर्मकृत्᳚ इत्यादिनोक्तेन प्रकारेण, सततयुक्ताः भगवन्तं त्वाम् एव परं प्राप्यं मन्वानाः ये भक्ताः, त्वाम् सकलविभूतियुक्तम् अनवधिकातिशयसौन्दर्यसौशील्यसार्वज्ञ्यसत्यसंकल्पत्वाद्यनन्तगुणसागरं परिपूर्णम् उपासते, ये चाप्य् अक्षरं प्रत्यगात्मस्वरूपम् तद् एव च अव्यक्तं चक्षुरादिकरणानभिव्यक्तस्वरूपम् उपासते; तेषाम् उभयेषां के योगवित्तमाः -- के स्वसाध्यं प्रति शीघ्रगामिन इत्यर्थः, ᳚भवामि न चिरात् पार्थ᳚ इति उत्तरत्र योगवित्तमत्वं शैघ्र्यविषयम् इति हि व्यञ्जयिष्यते //
4 SK एवम् --- ᳚मत्-कर्म-कृत्᳚ इत्य्-आदिन ऊक्तेन प्रकारेण, सतत-युक्ताः भगवन्तं त्वाम् एव परं प्राप्यं मन्वानाः ये भक्ताः, त्वाम् सकल-विभूति-युक्तम् अनवधिक-अतिशय-सौन्दर्य-सौशील्य-सार्वज्ञ्य-सत्य-संकल्पत्व-आद्य्-अनन्त-गुण-सागरं परिपूर्णम् उपासते, ये च अप्य् अक्षरं प्रत्यग्-आत्म-स्व-रूपम् तद् एव च अव्यक्तं चक्षुर्-आदि-करण-अनभिव्यक्त-स्व-रूपम् उपासते; तेषाम् उभयेषां के योग-वित्तमाः --- के स्व-साध्यं प्रति शीघ्र-गामिन इत्य्-अर्थः, ᳚भवामि न चिरात् पार्थ᳚ इति उत्तरत्र योग-वित्तमत्वं शैघ्र्य-विषयम् इति हि व्यञ्जयिष्यते //
12.2 SK मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते | श्रद्धया परयोपेतास् ते मे युक्ततमाः मताः ||
6 SK मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते | श्रद्धया परय ऊपेतास् ते मे युक्ततमाः मताः ||
12.2 SK अत्यर्थमत्प्रियत्वेन मनो मय्य् आवेश्य श्रद्धया परयोपेताः नित्ययुक्ताः नित्ययोगं काङ्क्षमाणाः ये माम् उपासते -- प्राप्यविषयं मनो मय्य् आवेश्य ये माम् उपासत इत्यर्थः -- ते युक्ततमाः -- मां सुखेनाचिरात् प्राप्नुवन्तीत्यर्थः //
8 SK अत्यर्थ-मत्-प्रियत्वेन मनो मय्य् आवेश्य श्रद्धया परय ऊपेताः नित्य-युक्ताः नित्य-योगं काङ्क्षमाणाः ये माम् उपासते --- प्राप्य-विषयं मनो मय्य् आवेश्य ये माम् उपासत इत्य्-अर्थः --- ते युक्ततमाः --- मां सुखेन अचिरात् प्राप्नुवन्ति इत्य्-अर्थः //
12.3 SK ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते | सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ||
10 SK ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते | सर्वत्र-गम् अचिन्त्यं च कूट-स्थम् अचलं ध्रुवम् ||
12.4 SK सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः | ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ||
12 SK सन्नियम्य इन्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः | ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ||
12.5 SK क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् | अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ||
14 SK क्लेशो ऽधिकतरस् तेषाम् अव्यक्त-असक्त-चेतसाम् | अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ||
BhGR_12.3-5 SK ये तु अक्षरम् प्रत्यगात्मस्वरूपम्, अनिर्देश्यम् देहाद् अन्यतया देवादिशब्दानिर्देश्यम् तत एव चक्षुरादिकरणानभिव्यक्तम्, सर्वत्रगम् अचिन्त्यं च -- सर्वत्र देवादिदेहेषु वर्तमानम् अपि तद्विसजातीयतया तेन तेन रूपेण चिन्तयितुम् अनर्हम्, तत एव कूटस्थम् सर्वसाधारणम् -- तत् तद् देवाद्यसाधारणाकारासंबद्धम् इत्यर्थः -- अपरिणामित्वेन स्वासाधारणाकारान् न चलति न च्यवत इत्य् अचलम्, तत एव ध्रुवम्, नित्यम् / सन्नियाम्येन्द्रियग्रामम् चक्षुरादिकम् इन्द्रियग्रामं सर्वं स्वव्यापारेभ्यस् सम्यङ्नियम्य, सर्वत्र समबुद्धयः सर्वत्र देवादिविषमाकारेषु देहेष्व् अवस्थितेष्व् आत्मसु ज्ञानैकाकारतया समबुद्धयः, तत एव सर्वभूतहिते रताः सर्वभूताहितरहितत्वान् निवृत्ताः / सर्वभूताहितरहितत्वं ह्य् आत्मनो देवादिविषमाकाराभिमाननिमित्तम् / य एवम् अक्षरम् उपासते, ते ऽपि मां प्राप्नुवन्त्य् एव -- मत्समानाकारम् असंसारिणम् आत्मानं प्राप्नुवन्त्य् एवेत्यर्थः / ᳚मम साधर्म्यम् आगताः᳚ इति हि वक्ष्यते / श्रूयते च, ᳚निरञ्जनः परमं साम्यम् उपैति᳚ इति / तथा अक्षरशब्दनिर्दिष्टात् कूटस्थाद् अन्यत्वं परस्य ब्रह्मणो वक्ष्यते, ᳚कूटस्थो ऽक्षर उच्यते / उत्तमः पुरुषस् त्व् अन्यः᳚ इति / ᳚अथ परा यया तद् अक्षरम् अधिक्गम्यते᳚ इत्य् अक्षरविद्यायां तु अक्षरशब्दनिर्दिष्टं परम् एव ब्रह्म, भूतयोनित्वादेः /तेषाम् अव्यक्तासक्तचेतसां क्लेशस् त्व् अधिकतरः / अव्यक्ता हि गतिः अव्यक्तविषया मनोवृत्तिः देहवद्भिः देहात्माभिमानयुक्तैः दुःखेनावाप्यते / देहवन्तो हि देहम् एव आत्मानं मन्यन्ते //
16 SK ये तु अक्षरम् प्रत्यग्-आत्म-स्व-रूपम्, अनिर्देश्यम् देहाद् अन्यतया देव-आदि-शब्द-अनिर्देश्यम् तत एव चक्षुर्-आदि-करण-अनभिव्यक्तम्, सर्वत्र-गम् अचिन्त्यं च --- सर्वत्र देव-आदि-देहेषु वर्तमानम् अपि तद्-विसजातीयतया तेन तेन रूपेण चिन्तयितुम् अनर्हम्, तत एव कूट-स्थम् सर्व-साधारणम् --- तत् तद् देव-आद्य्-असाधारण-आकार-असंबद्धम् इत्य्-अर्थः --- अपरिणामित्वेन स्व-असाधारण-आकारान् न चलति न च्यवत इत्य् अचलम्, तत एव ध्रुवम्, नित्यम् / सन्नियाम्य-इन्द्रिय-ग्रामम् चक्षुर्-आदिकम् इन्द्रिय-ग्रामं सर्वं स्व-व्यापारेभ्यस् सम्यङ्-नियम्य, सर्वत्र सम-बुद्धयः सर्वत्र देव-आदि-विषम-आकारेषु देहेष्व् अवस्थितेष्व् आत्मसु ज्ञान-एक-आकारतया सम-बुद्धयः, तत एव सर्व-भूत-हिते रताः सर्व-भूत-अहित-रहितत्वान् निवृत्ताः / सर्व-भूत-अहित-रहितत्वं ह्य् आत्मनो देव-आदि-विषम-आकार-अभिमान-निमित्तम् / य एवम् अक्षरम् उपासते, ते ऽपि मां प्राप्नुवन्त्य् एव --- मत्-समान-आकारम् असंसारिणम् आत्मानं प्राप्नुवन्त्य् एव इत्य्-अर्थः / ᳚मम साधर्म्यम् आगताः᳚ इति हि वक्ष्यते / श्रूयते च, ᳚निरञ्जनः परमं साम्यम् उपैति᳚ इति / तथा अक्षर-शब्द-निर्दिष्टात् कूट-स्थाद् अन्यत्वं परस्य ब्रह्मणो वक्ष्यते, ᳚कूट-स्थो ऽक्षर उच्यते / उत्तमः पुरुषस् त्व् अन्यः᳚ इति / ᳚अथ परा यया तद् अक्षरम् अधिक्गम्यते᳚ इत्य् अक्षर-विद्यायां तु अक्षर-शब्द-निर्दिष्टं परम् एव ब्रह्म, भूत-योनित्व-आदेः /तेषाम् अव्यक्त-असक्त-चेतसां क्लेशस् त्व् अधिकतरः / अव्यक्ता हि गतिः अव्यक्त-विषया मनो-वृत्तिः देहवद्भिः देह-आत्म-अभिमान-युक्तैः दुःखेन अवाप्यते / देहवन्तो हि देहम् एव आत्मानं मन्यन्ते //
BhGR_p297773 SK भगवन्तम् उपासीनानां युक्ततमत्वं सुव्यक्तम् आह --
18 SK भगवन्तम् उपासीनानां युक्ततमत्वं सुव्यक्तम् आह ---
12.6 SK ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः | अनन्येनैव योगेन मां ध्यायन्त उपासते ||
20 SK ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः | अनन्येन एव योगेन मां ध्यायन्त उपासते ||
12.7 SK तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् | भवामि न चिरात् पार्थ मय्य् आवेशितचेतसाम् ||
22 SK तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् | भवामि न चिरात् पार्थ मय्य् आवेशित-चेतसाम् ||
BhGR_12.6-7 SK ये तु लौकिकानि देहयात्राशेषभूतानि, देहधारणार्थानि च अशनादीनि कर्माणि, वैदिकानि च यगदानहोमतपःप्रभृतीनि सर्वाणि सकारणानि सोद्देश्यानि अध्यात्मचेतसा मयि संन्यस्य, मत्पराः मदेकप्राप्याः, अनन्येनैव योगेन अनन्यप्रयोजनेन योगेन मां ध्यायन्त उपासते ध्यानार्चनप्रणामस्तुतिकीर्तनादीनि स्वयम् एवात्यर्थप्रियाणि प्राप्यसमानि कुर्वन्तो माम् उपासत इत्यर्थः / तेषां मत्प्राप्तिविरोधितया मृत्युभूतात् संसाराख्यात् सागराद् अहम् अचिरेणैव कालेन समुद्धर्ता भवामि //
24 SK ये तु लौकिकानि देह-यात्रा-अशेष-भूतानि, देह-धारण-अर्थानि च अशन-आदीनि कर्माणि, वैदिकानि च यग-दान-होम-तपः-प्रभृतीनि सर्वाणि सकारणानि स-उद्देश्यानि अध्यात्म-चेतसा मयि संन्यस्य, मत्-पराः मद्-एक-प्राप्याः, अनन्येन एव योगेन अनन्य-प्रयोजनेन योगेन मां ध्यायन्त उपासते ध्यान-अर्चन-प्रणाम-स्तुति-कीर्तन-आदीनि स्वयम् एव अत्यर्थ-प्रियाणि प्राप्य-समानि कुर्वन्तो माम् उपासत इत्य्-अर्थः / तेषां मत्-प्राप्ति-विरोधितया मृत्यु-भूतात् संसार-आख्यात् सागराद् अहम् अचिरेण एव कालेन समुद्धर्ता भवामि //
12.8 SK मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय | निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ||
26 SK मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय | निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ||
12.8 SK अतो ऽतिशयितपुरुषार्थत्वात् सुलभत्वाद् अचिरलभ्यत्वाच् च मय्य् एव मन आधत्स्व मयि मनस्समाधानं कुरु / मयि बुद्धिं निवेशय अहम् एव परमप्राप्य इत्य् अध्यवसायं कुरु / अत ऊर्ध्वं मय्य् एव निवसिष्यसि / अहम् एव परमप्राप्य इत्य् अध्यवसायपूर्वकमनोनिवेशनानन्तरम् एव मयि निवसिष्यसीत्यर्थः //
28 SK अतो ऽतिशयित-पुरुष-अर्थत्वात् सुलभत्वाद् अचिर-लभ्यत्वाच् च मय्य् एव मन आधत्स्व मयि मनस्-समाधानं कुरु / मयि बुद्धिं निवेशय अहम् एव परम-प्राप्य इत्य् अध्यवसायं कुरु / अत ऊर्ध्वं मय्य् एव निवसिष्यसि / अहम् एव परम-प्राप्य इत्य् अध्यवसाय-पूर्वक-मनो-निवेशन-अनन्तरम् एव मयि निवसिष्यसि इत्य्-अर्थः //
12.9 SK अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् | अभ्यासयोगेन ततो माम् इच्छाप्तुं धनञ्जय ||
30 SK अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् | अभ्यास-योगेन ततो माम् इच्छा आप्तुं धनञ्-जय ||
12.9 SK अथ सहसैव मयि स्थिरं चित्तं समाधातुं न शक्नोषि, ततो ऽभ्यासयोगेन माम् आप्तुम् इच्छ स्वाभाविकानवधिकातिशयसौन्दर्यसौशील्यसौहार्दवात्सल्यकारुण्यमाधुर्यगाम्भीर्याउदार्यशैर्यवीर्यपराक्रमसार्वज्ञ्यसत्यकामत्वसत्यसंकल्पत्वसर्वेश्वरत्वसकलकारणत्वाद्यसंख्येयगुणसागरे निखिलहेयप्रत्यनीके मयि निरतिशयप्रेमगर्भस्मृत्यभ्यासयोगेन स्थिरं चित्तसमाधानं लब्ध्वा मां प्राप्तुम् इच्छ //
32 SK अथ सहस ऐव मयि स्थिरं चित्तं समाधातुं न शक्नोषि, ततो ऽभ्यास-योगेन माम् आप्तुम् इच्छ स्वाभाविक-अनवधिक-अतिशय-सौन्दर्य-सौशील्य-सौहार्द-वात्सल्य-कारुण्य-माधुर्य-गाम्भीर्य-औदार्य-शैर्य-वीर्य-पराक्रम-सार्वज्ञ्य-सत्य-कामत्व-सत्य-संकल्पत्व-सर्व-ईश्वरत्व-सकल-कारणत्व-आद्य्-असंख्येय-गुण-सागरे निखिल-हेय-प्रत्यनीके मयि निरतिशय-प्रेम-गर्भ-स्मृत्य्-अभ्यास-योगेन स्थिरं चित्त-समाधानं लब्ध्वा मां प्राप्तुम् इच्छ //
12.10 SK अभ्यासे ऽप्य् असमर्थो ऽसि मत्कर्मपरमो भव | मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ||
34 SK अभ्यासे ऽप्य् असमर्थो ऽसि मत्-कर्म-परमो भव | मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ||
12.10 SK अथैवंविधस्मृत्यभ्यासे ऽप्य् असमर्थो ऽसि, मत्कर्मपरमो भव / मदीयानि कर्माण्य् आलयनिर्माणोद्योनकरणप्रदीपारोपणमार्जनाभ्युक्षणोपलेपनपुष्पाहरणपूजाप्रवर्तननामसंकीर्तनप्रदक्षिणस्तुतिनमस्कारादीनि; तानि अत्यर्थप्रियत्वेनाचर / अत्यर्थप्रियत्वेन मदर्थं कर्माणि कुर्वन्न् अपि अचिराद् अभ्यासयोगपूर्विकां मयि स्थिरां चित्तस्थितिं लब्ध्वा मत्प्राप्तिरूपां सिद्धिम् अवाप्स्यसि //
36 SK अथ एवं-विध-स्मृत्य्-अभ्यासे ऽप्य् असमर्थो ऽसि, मत्-कर्म-परमो भव / मदीयानि कर्माण्य् आलय-निर्माण-उद्योन-करण-प्रदीप-आरोपण-मार्जन-अभ्युक्षण-उपलेपन-पुष्प-आहरण-पूजा-प्रवर्तन-नाम-संकीर्तन-प्रदक्षिण-स्तुति-नमस्कार-आदीनि; तानि अत्यर्थ-प्रियत्वेना अचर / अत्यर्थ-प्रियत्वेन मद्-अर्थं कर्माणि कुर्वन्न् अपि अचिराद् अभ्यास-योग-पूर्विकां मयि स्थिरां चित्त-स्थितिं लब्ध्वा मत्-प्राप्ति-रूपां सिद्धिम् अवाप्स्यसि //
12.11 SK अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्योगम् आश्रितः | सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||
38 SK अथ एतद् अप्य् अशक्तो ऽसि कर्तुं मद्-योगम् आश्रितः | सर्व-कर्म-फल-त्यागं ततः कुरु यत-आत्मवान् ||
12.11 SK अथ मद्योगम् आश्रित्यैतद् अपि कर्तुं न शक्नोषि -- मद्गुणानुसन्धानकृतमदेकप्रियत्वाकारं भक्तियोगम् आश्रित्य भक्तियोगाङ्कुररूपम् एतन् मत्कर्मापि कर्तुं न शक्नोषि, ततो ऽक्षरयोगम् आत्मस्वभावानुसन्धानरूपं परभक्तिजननं पूर्वषट्कोदितम् आश्रित्य तदुपायतया सर्वकर्मफलत्यागं कुरु / मत्प्रियत्वेन मदेकप्राप्यताबुद्धिर् हि प्रक्षीणाशेषपापस्यैव जायते / यतात्मवान् यतमनस्कः / ततो ऽनभिसंहितफलेन मदाराधनरूपेणानुष्ठितेन कर्मणा सिद्धेनात्मध्यानेन निवृत्ताविद्यादिसर्वतिरोधाने मच्छेषतैकस्वरूपे प्रत्यगात्मनि साक्षात्कृते सति मयि परा भक्तिः स्वयम् एवोत्पद्यते / तथा च वक्ष्यते, ᳚स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः᳚ इत्य् आरभ्य, ᳚विमुच्य निर्ममश् शान्तो ब्रह्मभूयाय कलपते / ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति / समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्᳚ इति //
40 SK अथ मद्-योगम् आश्रित्य एतद् अपि कर्तुं न शक्नोषि --- मद्-गुण-अनुसन्धान-कृत-मद्-एक-प्रियत्व-आकारं भक्ति-योगम् आश्रित्य भक्ति-योग-अङ्कुर-रूपम् एतन् मत्-कर्म अपि कर्तुं न शक्नोषि, ततो ऽक्षर-योगम् आत्म-स्व-भाव-अनुसन्धान-रूपं पर-भक्ति-जननं पूर्व-षट्क-उदितम् आश्रित्य तद्-उपायतया सर्व-कर्म-फल-त्यागं कुरु / मत्-प्रियत्वेन मद्-एक-प्राप्यता-बुद्धिर् हि प्रक्षीण-अशेष-पापस्य एव जायते / यत-आत्मवान् यत-मनस्कः / ततो ऽनभिसंहित-फलेन मद्-आराधन-रूपेण अनुष्ठितेन कर्मणा सिद्धेना अत्म-ध्यानेन निवृत्त-अविद्या-आदि-सर्व-तिरोधाने मच्-छेषता-एक-स्व-रूपे प्रत्यग्-आत्मनि साक्षात्कृते सति मयि परा भक्तिः स्वयम् एव उत्पद्यते / तथा च वक्ष्यते, ᳚स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः᳚ इत्य् आरभ्य, ᳚विमुच्य निर्ममश् शान्तो ब्रह्म-भूयाय कलपते / ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न काङ्क्षति / समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम्᳚ इति //
12.12 SK श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते | ध्यानात् कर्मफलत्यागः त्यागाच् छान्तिर् अनन्तरम् ||
42 SK श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते | ध्यानात् कर्म-फल-त्यागः त्यागाच् छान्तिर् अनन्तरम् ||
12.12 SK अत्यर्थप्रीतिविरहितात् कर्कशरूपात् स्मृत्यभ्यासाद् अक्षरयाथात्म्यानुसन्धानपूर्वकं तदापरोक्ष्यज्ञानम् एव आत्महितत्वेन विशिष्यते / आत्मापरोक्ष्यज्ञानाद् अप्य् अनिष्पन्नरूपात् तदुपायभूतात्मध्यानम् एवात्महितत्वे विशिष्यते / तद्ध्यानाद् अप्य् अनिष्पन्नरूपात् तदुपायभूतं फलत्यागेनानुष्ठितं कर्मैव विशिष्यते / अनभिसंहितफलाद् अनुष्ठितात् कर्मणो ऽनन्तरम् एव निरस्तपापतया मनसश् शान्तिर् भविष्यति; शान्ते मनसि आत्मध्यानं संपत्स्यते; ध्यानाच् च तदापरोक्ष्यम्; तदापरोक्ष्यात् परा भक्तिः -- इति भक्तियोगाभ्यासाशक्तस्यात्मनिष्ठैव श्रेयसी / आत्मनिष्ठस्यापि अशान्तमनसो निष्ठाप्राप्तये अन्तर्गतात्मज्ञानानभिसंहितफलकर्मनिष्ठैव श्रेयसीत्यर्थः //
44 SK अत्यर्थ-प्रीति-विरहितात् कर्कश-रूपात् स्मृत्य्-अभ्यासाद् अक्षर-याथात्म्य-अनुसन्धान-पूर्वकं तद्-आपरोक्ष्य-ज्ञानम् एव आत्म-हितत्वेन विशिष्यते / आत्म-आपरोक्ष्य-ज्ञानाद् अप्य् अनिष्पन्न-रूपात् तद्-उपाय-भूत-आत्म-ध्यानम् एवा अत्म-हितत्वे विशिष्यते / तद्-ध्यानाद् अप्य् अनिष्पन्न-रूपात् तद्-उपाय-भूतं फल-त्यागेन अनुष्ठितं कर्म एव विशिष्यते / अनभिसंहित-फलाद् अनुष्ठितात् कर्मणो ऽनन्तरम् एव निरस्त-पापतया मनसश् शान्तिर् भविष्यति; शान्ते मनसि आत्म-ध्यानं संपत्स्यते; ध्यानाच् च तद्-आपरोक्ष्यम्; तद्-आपरोक्ष्यात् परा भक्तिः --- इति भक्ति-योग-अभ्यास-अशक्तस्या अत्म-निष्ठ ऐव श्रेयसी / आत्म-निष्ठस्य अपि अशान्त-मनसो निष्ठा-प्राप्तये अन्तर्गत-आत्म-ज्ञान-अनभिसंहित-फल-कर्म-निष्ठ ऐव श्रेयसि ईत्य्-अर्थः //
BhGR_p302344 SK अनभिसंहितफलकर्मनिष्ठस्योपादेयान् गुणान् आह --
46 SK अनभिसंहित-फल-कर्म-निष्ठस्य उपादेयान् गुणान् आह ---
12.13 SK अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च | निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||
48 SK अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च | निर्ममो निरहङ्कारः सम-दुःख-सुखः क्षमी ||
12.14 SK सन्तुष्टस् सततं योगी यतात्मा दृढनिश्चयः | मय्य् अर्पितमनोबुद्धिर् यो मद्भक्तः स मे प्रियः ||
50 SK सन्तुष्टस् सततं योगी यत-आत्मा दृढ-निश्चयः | मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः ||
BhGR_12.13-14 SK अद्वेष्टा सर्वभूतानाम् -- विद्विषताम् अपकुर्वताम् अपि सर्वेषां भूतानाम् अद्वेष्टा -- मदपराधानुगुणम् ईश्वरप्रेरितान्य् एतानि भूतानि द्विषन्त्य् अपकुर्वन्ति चेत्य् अनुसन्दधानः; तेषु द्विषत्सु अप्कुर्वत्सु च सर्वभूतेषु मैत्रीं मतिं कुर्वन् मैत्रः, तेष्व् एव दुःखितेषु करुणां कुर्वन् करुणः, निर्ममः देहेन्द्रियेषु तत्संबन्धिषु च निर्ममः, निरहङ्कारः देहात्माभिमानरहितः, तत एव समदुःखसुखः सुखदुःखागमयोः साङ्कल्पिकयोः हर्षोद्वेगरहितः, क्षमी स्पर्शप्रभवयोर् अवर्जनीययोर् अपि तयोर् विकाररहितः, संतुष्टः यदृच्छोपनतेन येन केनापि देहधारणद्रव्येण संतुष्टः, सततं योगी सततं प्रकृतिवियुक्तात्मानुसन्धानपरः, यतात्मा नियमितमनोवृत्तिः, दृढनिश्चयः अध्यात्मशास्त्रोदितेष्व् अर्थेषु दृढनिश्चयः, मय्य् अर्पितमनोबुद्धिः भगवान् वासेदेव एवानभिसंहितफलेनानुष्ठितेन कर्मणा आराध्यते, आराधितश् च मम आत्मापरोक्ष्यं साधयिष्यतीति मय्य् अर्पितमनोबुद्धिः, य एवंभूतो मद्भक्तः -- एवं कर्मयोगेन मां भजमानो यः, स मे प्रियः //
52 SK अद्वेष्टा सर्व-भूतानाम् --- विद्विषताम् अपकुर्वताम् अपि सर्वेषां भूतानाम् अद्वेष्टा --- मद्-अपराध-अनुगुणम् ईश्वर-प्रेरितान्य् एतानि भूतानि द्विषन्त्य् अपकुर्वन्ति च इत्य् अनुसन्दधानः; तेषु द्विषत्सु अप्कुर्वत्सु च सर्व-भूतेषु मैत्रीं मतिं कुर्वन् मैत्रः, तेष्व् एव दुःखितेषु करुणां कुर्वन् करुणः, निर्ममः देह-इन्द्रियेषु तत्-संबन्धिषु च निर्ममः, निरहङ्कारः देह-आत्म-अभिमान-रहितः, तत एव सम-दुःख-सुखः सुख-दुःख-आगमयोः साङ्कल्पिकयोः हर्ष-उद्वेग-रहितः, क्षमी स्पर्श-प्रभवयोर् अवर्जनीययोर् अपि तयोर् विकार-रहितः, संतुष्टः यदृच्छा-उपनतेन येन केन अपि देह-धारण-द्रव्येण संतुष्टः, सततं योगी सततं प्रकृति-वियुक्त-आत्म-अनुसन्धान-परः, यत-आत्मा नियमित-मनो-वृत्तिः, दृढ-निश्चयः अध्यात्म-शास्त्र-उदितेष्व् अर्थेषु दृढ-निश्चयः, मय्य् अर्पित-मनो-बुद्धिः भगवान् वासे-देव एव अनभिसंहित-फलेन अनुष्ठितेन कर्मणा आराध्यते, आराधितश् च मम आत्म-आपरोक्ष्यं साधयिष्यति इति मय्य् अर्पित-मनो-बुद्धिः, य एवं-भूतो मद्-भक्तः --- एवं कर्म-योगेन मां भजमानो यः, स मे प्रियः //
12.15 SK यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः | हर्षामर्षभयोद्वेगैर् मुक्तो यः स च मे प्रियः ||
54 SK यस्मान् न उद्विजते लोको लोकान् न उद्विजते च यः | हर्ष-अमर्ष-भय-उद्वेगैर् मुक्तो यः स च मे प्रियः ||
12.15 SK यस्मात् कर्मनिष्ठात् पुरुषान् निमित्तभूताल् लोको नोद्विजते -- यो लोकोद्वेगकरं कर्म किञ्चिद् अपि न करोतीत्यर्थः / लोकाच् च निमित्तभूताद् यो नोद्विजते -- यम् उद्दिश्य सर्वलोको नोद्वेगकरं कर्म करोति; सर्वाविरोधित्वनिश्चयात् / अत एव कञ्चन प्रति हर्षेण, कञ्चन प्रति अमर्षेण, कञ्चन प्रति भयेन, कञ्चन प्रति उद्वेगेन मुक्तह्; एवंभूतो यः, सो ऽपि मम प्रियः //
56 SK यस्मात् कर्म-निष्ठात् पुरुषान् निमित्त-भूताल् लोको न उद्विजते --- यो लोक-उद्वेग-करं कर्म किञ्चिद् अपि न करोति इत्य्-अर्थः / लोकाच् च निमित्त-भूताद् यो न उद्विजते --- यम् उद्दिश्य सर्व-लोको न उद्वेग-करं कर्म करोति; सर्व-अविरोधित्व-निश्चयात् / अत एव कञ्चन प्रति हर्षेण, कञ्चन प्रति अमर्षेण, कञ्चन प्रति भयेन, कञ्चन प्रति उद्वेगेन मुक्तह्; एवं-भूतो यः, सो ऽपि मम प्रियः //
12.16 SK अनपेक्षः शुचिर् दक्ष उदासीनो गतव्यथः | सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ||
58 SK अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः | सर्व-आरम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ||
12.16 SK अनपेक्षः आत्मव्यतिरिक्ते कृत्स्ने वस्तुन्य् अनपेक्षः, शुचिः शास्त्रविहितद्रव्यवर्धितकायः, दक्षः -- शास्त्रीयक्रियोपादानसमर्थः, अन्यत्रोदासीनः, गनव्यथः शास्त्रीयक्रियानिर्वृत्तौ अवर्जनीयशीतोष्णपुरुषस्पर्शादिदुःखेषु व्यथारहितः, सर्वारम्भपरित्यागी शास्त्रीयव्यतिरिक्तसर्वकर्मारम्भपरित्यागी, य एवंभूतो मद्भक्तः, स मे प्रियः //
60 SK अनपेक्षः आत्म-व्यतिरिक्ते कृत्स्ने वस्तुन्य् अनपेक्षः, शुचिः शास्त्र-विहित-द्रव्य-वर्धित-कायः, दक्षः --- शास्त्रीय-क्रिया-उपादान-समर्थः, अन्यत्र उदासीनः, गन-व्यथः शास्त्रीय-क्रिया-निर्वृत्तौ अवर्जनीय-शीत-उष्ण-पुरुष-स्पर्श-आदि-दुःखेषु व्यथा-रहितः, सर्व-आरम्भ-परित्यागी शास्त्रीय-व्यतिरिक्त-सर्व-कर्म-आरम्भ-परित्यागी, य एवं-भूतो मद्-भक्तः, स मे प्रियः //
12.17 SK यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति | शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ||
62 SK यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति | शुभ-अशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ||
12.17 SK यो न हृष्यति -- यन् मनुष्याणां हर्षनिमित्तं प्रियजातम्, तत् प्राप्य यः कर्मयोगी न हृष्यति; यच् चाप्रियम्, तत् प्राप्य न द्वेष्टि; यच् च मनुष्याणां शोकनिमित्तं भार्यापुत्रवित्तक्षयादिकम्, तत् प्राप्य न शोचति; तथाविधम् अप्राप्तं च न काङ्क्षति; शुभाशुभपरित्यागी पापवत् पुण्यस्यापि बन्धहेतुत्वाविशेषाद् उभयपरित्यागी / य एवंभूतो भक्तिमान्, स मे प्रियः //
64 SK यो न हृष्यति --- यन् मनुष्याणां हर्ष-निमित्तं प्रिय-जातम्, तत् प्राप्य यः कर्म-योगी न हृष्यति; यच् च अप्रियम्, तत् प्राप्य न द्वेष्टि; यच् च मनुष्याणां शोक-निमित्तं भार्या-पुत्र-वित्त-क्षय-आदिकम्, तत् प्राप्य न शोचति; तथा-विधम् अप्राप्तं च न काङ्क्षति; शुभ-अशुभ-परित्यागी पापवत् पुण्यस्य अपि बन्ध-हेतुत्व-अविशेषाद् उभय-परित्यागी / य एवं-भूतो भक्तिमान्, स मे प्रियः //
12.18 SK समश् शत्रौ च मित्रे च तथा मानावमानयोः | शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||
66 SK समश् शत्रौ च मित्रे च तथा मान-अवमानयोः | शीत-उष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ||
12.19 SK तुल्यनिन्दास्तुतिर् मौनी संतुष्टो येन केनचित् | अनिकेतः स्थिरमतिर् भक्तिमान् मे प्रियो नरः ||
68 SK तुल्य-निन्दा-स्तुतिर् मौनी संतुष्टो येन केनचित् | अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः ||
BhGR_p305739 SK ᳚अद्वेष्टा सर्वभूतानाम्᳚ इत्यादिना शत्रुमित्रादिषु द्वेषादिरहितत्वम् उक्तम्; अत्र तेषु सन्निहितेष्व् अपि समचित्तत्वं ततो ऽप्य् अतिरिक्तो विशेष उच्यते / आत्मनि स्थिरमतित्वेन निकेतनादिष्व् असक्त इत्य् अनिकेतः; तत एव मानावमानादिष्व् अपि समः; य एवंभूतो भक्तिमान्, स मे प्रियः // Bह्GR_१२.१८ //१९//
19 SK ᳚अद्वेष्टा सर्व-भूतानाम्᳚ इत्य्-आदिना शत्रु-मित्र-आदिषु द्वेष-आदि-रहितत्वम् उक्तम्; अत्र तेषु सन्निहितेष्व् अपि सम-चित्तत्वं ततो ऽप्य् अतिरिक्तो विशेष उच्यते / आत्मनि स्थिर-मतित्वेन निकेतन-आदिष्व् असक्त इत्य् अनिकेतः; तत एव मान-अवमान-आदिष्व् अपि समः; य एवं-भूतो भक्तिमान्, स मे प्रियः // Bह्GR_१२.१८
BhGR_p306078 SK अस्माद् आत्मनिष्ठाद् भक्तियोगनिष्ठस्य श्रैष्ठ्यं प्रतिपादयन् यथोपक्रमम् उपसंहरति --
72 SK अस्माद् आत्म-निष्ठाद् भक्ति-योग-निष्ठस्य श्रैष्ठ्यं प्रतिपादयन् यथा-उपक्रमम् उपसंहरति ---
12.20 SK ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते | श्रद्दधाना मत्परमा भक्तास् ते ऽतीव मे प्रियाः ||
74 SK ये तु धर्म्य-अमृतम् इदं यथा-उक्तं पर्युपासते | श्रद्दधाना मत्-परमा भक्तास् ते ऽतीव मे प्रियाः ||
12.20 SK धर्म्यं चामृतं चेति धर्म्यामृतम्, ये तु प्राप्यसमं प्रापकं भक्तियोगम्, यथोक्तम् -- ᳚मय्य् आवेश्य मनो ये माम्᳚इत्यादिनोक्तेन प्रकारेण उपासते; ते भक्ताः अतितरां मम प्रियाः //
76 SK धर्म्यं च अमृतं च इति धर्म्य-अमृतम्, ये तु प्राप्य-समं प्रापकं भक्ति-योगम्, यथा-उक्तम् --- ᳚मय्य् आवेश्य मनो ये माम्᳚इत्य्-आदिन ऊक्तेन प्रकारेण उपासते; ते भक्ताः अतितरां मम प्रियाः //
BhGR_p306575 SK पूर्वस्मिन् षट्के परमप्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूतभक्तिरूपभगवदुपासनाङ्गभूतं प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोगकर्मयोगलक्षणनिष्ठाद्वयसाध्यम् उक्तम् / मध्यमे च परमप्राप्यभूतभगवद्तत्त्वयाथात्म्यतन्माहात्म्यज्ञानपूर्वकाइकान्तिकात्यन्तिकभक्तियोगनिष्ठा प्रतिपादिता / अतिशयिताइश्वर्यापेक्षाणाम् आत्मकैवल्यमात्रापेक्षाणां च भक्तियोगस् तत्तदपेक्षितसाधनम् इति चोक्तम् / इदानीम् उपरितने षट्के प्रकृतिपुरुषतत्संसर्गरूपप्रपञ्चेश्वरतद्याथात्म्यकर्मज्ञानभक्तिस्वरूपतदुपादानप्रकाराश् च षट्कद्वयोदिता विशोध्यन्ते / तत्र तावत् त्रयोदशे देहात्मनोः स्वरूपम्, देहयाथात्म्यशोधनम्, देहवियुक्तात्मप्राप्त्युपायः, विविक्तात्मस्वरूपसंशोधनम्, तथाविधस्यात्मनश् चाचित्संबन्धहेतुः, ततो विवेकानुसन्धानप्रकारश् चोच्यते/
78 SK पूर्वस्मिन् षट्के परम-प्राप्यस्य परस्य ब्रह्मणो भगवतो वासु-देवस्य प्राप्त्य्-उपाय-भूत-भक्ति-रूप-भगवद्-उपासन-अङ्ग-भूतं प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दर्शनं ज्ञान-योग-कर्म-योग-लक्षण-निष्ठा-द्वय-साध्यम् उक्तम् / मध्यमे च परम-प्राप्य-भूत-भगवद्-तत्त्व-याथात्म्य-तन्-माहात्म्य-ज्ञान-पूर्वक-ऐकान्तिक-आत्यन्तिक-भक्ति-योग-निष्ठा प्रतिपादिता / अतिशयित-ऐश्वर्य-अपेक्षाणाम् आत्म-कैवल्य-मात्र-अपेक्षाणां च भक्ति-योगस् तत्-तद्-अपेक्षित-साधनम् इति च उक्तम् / इदानीम् उपरितने षट्के प्रकृति-पुरुष-तत्-संसर्ग-रूप-प्रपञ्च-ईश्वर-तद्-याथात्म्य-कर्म-ज्ञान-भक्ति-स्व-रूप-तद्-उपादान-प्रकाराश् च षट्क-द्वय-उदिता विशोध्यन्ते / तत्र तावत् त्रयो-दशे देह-आत्मनोः स्व-रूपम्, देह-याथात्म्य-शोधनम्, देह-वियुक्त-आत्म-प्राप्त्य्-उपायः, विविक्त-आत्म-स्व-रूप-संशोधनम्, तथा-विधस्या अत्मनश् च अचित्-संबन्ध-हेतुः, ततो विवेक-अनुसन्धान-प्रकारश् च उच्यते/
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).
Source