Rāmānuja's Commentary on the Bhagavadgītā Bhagavadgītābhāṣya
Bहगवद्गीताभाष्य
11.1 SK मदनुग्रहाय परमं गुह्यम् अध्यात्मसंज्ञितम् | यत् त्वयोक्तं वचस् तेन मोहो ऽयं विगतो मम ||
2 SK मद्-अनुग्रहाय परमं गुह्यम् अध्यात्म-संज्ञितम् | यत् त्वय ऊक्तं वचस् तेन मोहो ऽयं विगतो मम ||
11.1 SK देहात्माभिमानरूपमोहेन मोहितस्य ममानुग्रहैकप्रयोजनाय परमं गुह्यम् परमं रहस्यम् अध्यात्मसंज्ञितम् आत्मनि वक्तव्यं वचः, ᳚न त्व् एवाहं जातु नासम्᳚ इत्यादि, ᳚तस्माद् योगी भवार्जुन᳚ इत्य् एतदन्तं यत् त्वयोक्तम्, तेनायम् ममात्मविषयो मोहः सर्वो विगतः दूरतो निरस्तः //
4 SK देह-आत्म-अभिमान-रूप-मोहेन मोहितस्य मम अनुग्रह-एक-प्रयोजनाय परमं गुह्यम् परमं रहस्यम् अध्यात्म-संज्ञितम् आत्मनि वक्तव्यं वचः, ᳚न त्व् एव अहं जातु ना असम्᳚ इत्य्-आदि, ᳚तस्माद् योगी भव अर्जुन᳚ इत्य् एतद्-अन्तं यत् त्वय ऊक्तम्, तेन अयम् ममा अत्म-विषयो मोहः सर्वो विगतः दूरतो निरस्तः //
11.2 SK भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया | त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि चाव्ययम् ||
8 SK भव-अप्ययौ हि भूतानां श्रुतौ विस्तरशो मया | त्वत्तः कमल-पत्र-अक्ष माहात्म्यम् अपि च अव्ययम् ||
11.2 SK सप्तमप्रभृति दशमपर्यन्ते त्वद्व्यतिरिक्तानां सर्वेषां भूतानां त्वत्तः परमात्मनो भवाप्ययौ उत्पत्तिप्रलयौ विस्तरशो मया श्रुतौ हि / कमलपत्राक्ष, तव अव्ययं नित्यं सर्वचेतनाचेतनवस्तुशेषित्वं ज्ञानबलादिकल्याणगुणगणैस् तवैव परतरत्वं सर्वाधारत्वं चिन्तितनिमिषितादिसर्वप्रवृत्तिषु तवैव प्रवर्तयितृत्वम् इत्यादि अपरिमितं माहात्म्यं च श्रुतम् / हिशब्दो वक्ष्यमाणदिदृक्षाद्योतनार्थः //
10 SK सप्तम-प्रभृति दशम-पर्यन्ते त्वद्-व्यतिरिक्तानां सर्वेषां भूतानां त्वत्तः परम-आत्मनो भव अप्ययौ उत्पत्ति-प्रलयौ विस्तरशो मया श्रुतौ हि / कमल-पत्र-अक्ष, तव अव्ययं नित्यं सर्व-चेतन-अचेतन-वस्तु-शेषित्वं ज्ञान-बल-आदि-कल्याण-गुण-गणैस् तव एव परतरत्वं सर्व-आधारत्वं चिन्तित-निमिषित-आदि-सर्व-प्रवृत्तिषु तव एव प्रवर्तयितृत्वम् इत्य्-आदि अपरिमितं माहात्म्यं च श्रुतम् / हि-शब्दो वक्ष्यमाण-दिदृक्षा-द्योतन-अर्थः //
11.3 SK एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर | द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ||
12 SK एवम् एतद् यथा आत्थ त्वम् आत्मानं परम-ईश्वर | द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुष-उत्तम ||
11.3 SK हे परमेश्वर, एवम् एतद् इत्य् अवधृतम्, यथाथ त्वम् आत्मानं ब्रवीषि / पुरुषोत्तम आश्रितवात्सल्यजलधे तवाइश्वरं त्वदसाधारणं सर्वस्य प्रशासितृत्वे, पालयितृत्वे, स्रष्टृत्वे, संहर्तृत्वे भर्तृत्वे, कल्याणगुणाकरत्वे, परतरत्वे, सकलेतरविसजातीयत्वे ऽवस्थितं रूपं द्रष्टुं साक्षात्कर्तुम् इच्छामि //
14 SK हे परम-ईश्वर, एवम् एतद् इत्य् अवधृतम्, यथा आथ त्वम् आत्मानं ब्रवीषि / पुरुष-उत्तम आश्रित-वात्सल्य-जलधे तव ऐश्वरं त्वद्-असाधारणं सर्वस्य प्रशासितृत्वे, पालयितृत्वे, स्रष्टृत्वे, संहर्तृत्वे भर्तृत्वे, कल्याण-गुण-आकरत्वे, परतरत्वे, सकल-इतर-विसजातीयत्वे ऽवस्थितं रूपं द्रष्टुं साक्षात्कर्तुम् इच्छामि //
11.4 SK मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो | योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ||
16 SK मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो | योग-ईश्वर ततो मे त्वं दर्शया अत्मानम् अव्ययम् ||
11.4 SK तत् सर्वस्य स्रष्टृ, सर्वस्य प्रशासितृ, सर्वस्याधारभूतं त्वद्रूपं मया द्रष्टुं शक्यम् इति यदि मन्यसे, ततो योगेश्वर -- योगो ज्ञानादिकल्याणगुणयोगः, ᳚पश्य मे योगम् ऐश्वरम्᳚ इति हि वक्ष्यते -- त्वद्व्यतिरिक्तस्य कस्याप्य् असंभावितानां ज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधे! आत्मानं त्वाम् अव्ययं मे दर्शय / अव्ययम् इति क्रियाविशेषणम् / त्वां सकलं मे दर्शयेत्यर्थः //
18 SK तत् सर्वस्य स्रष्टृ, सर्वस्य प्रशासितृ, सर्वस्या अधार-भूतं त्वद्-रूपं मया द्रष्टुं शक्यम् इति यदि मन्यसे, ततो योग-ईश्वर --- योगो ज्ञान-आदि-कल्याण-गुण-योगः, ᳚पश्य मे योगम् ऐश्वरम्᳚ इति हि वक्ष्यते --- त्वद्-व्यतिरिक्तस्य कस्य अप्य् असंभावितानां ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेजसां निधे! आत्मानं त्वाम् अव्ययं मे दर्शय / अव्ययम् इति क्रिया-विशेषणम् / त्वां सकलं मे दर्शय इत्य्-अर्थः //
11.5 SK पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः | नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||
20 SK पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः | नाना-विधानि दिव्यानि नाना-वर्ण-आकृतीनि च ||
11.5 SK पश्य मे सर्वाश्रयाणि रूपाणि; अथ शतशः सहस्रशश् च नानाविधानि नानाप्रकाराणि, दिव्यानि अप्राकृतानि, नानावर्णाकृतीनि शुक्लकृष्णादिनानावर्णानि, नानाकाराणि च पश्य //
22 SK पश्य मे सर्व-आश्रयाणि रूपाणि; अथ शतशः सहस्रशश् च नाना-विधानि नाना-प्रकाराणि, दिव्यानि अप्राकृतानि, नाना-वर्ण-आकृतीनि शुक्ल-कृष्ण-आदि-नाना-वर्णानि, नाना-आकाराणि च पश्य //
11.6 SK पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा | बहून्य् अदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||
24 SK पश्या अदित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा | बहून्य् अदृष्ट-पूर्वाणि पश्या अश्चर्याणि भारत ||
11.6 SK ममैकस्मिन् रूपे पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतश् चैकोनपञ्चाशतम् / प्रदर्शनार्थम् इदम्, इह जगति प्रत्यक्षदृष्टानि शास्त्रदृष्टानि च यानि वस्तूनि, तानि सर्वाणि, अन्यान्य् अपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्व् अदृष्टपूर्वाणि बहून्य् आश्चर्याणि पश्य //
26 SK मम एकस्मिन् रूपे पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतश् च एकोन-पञ्चाशतम् / प्रदर्शन-अर्थम् इदम्, इह जगति प्रत्यक्ष-दृष्टानि शास्त्र-दृष्टानि च यानि वस्तूनि, तानि सर्वाणि, अन्यान्य् अपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्व् अदृष्ट-पूर्वाणि बहून्य् आश्चर्याणि पश्य //
11.7 SK इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् | मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि ||
28 SK इह एक-स्थं जगत् कृत्स्नं पश्य अद्य सचर-अचरम् | मम देहे गुडाकेश यच् च अन्यद् द्रष्टुम् इच्छसि ||
11.7 SK इह ममैकस्मिन् देहे, तत्रापि एकस्थम् एकदेशस्थं सचराचरं कृत्स्नं जगत् पश्य; यच् चान्यद् द्रष्टुम् इच्छसि, तद् अप्य् एकदेहैकदेश एव पश्य //
30 SK इह मम एकस्मिन् देहे, तत्र अपि एक-स्थम् एक-देश-स्थं सचर-अचरं कृत्स्नं जगत् पश्य; यच् च अन्यद् द्रष्टुम् इच्छसि, तद् अप्य् एक-देह-एक-देश एव पश्य //
11.8 SK न तु मां शक्ष्यसे द्रष्टुम् अनेनैव स्वचक्षुषा | दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ||
32 SK न तु मां शक्ष्यसे द्रष्टुम् अनेन एव स्व-चक्षुषा | दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ||
11.8 SK अहं मम देहैकदेशे सर्वं जगद् दर्शयिष्यामि; त्वं त्व् अनेन नियतपरिमितवस्तुग्राहिणा प्राकृतेन स्वचक्षुषा, मां तथाभूतं सकलेतरविसजातीयम् अपरिमेयं द्रष्टुं न शक्ष्यसे / तव दिव्यम् अप्राकृतं मद्दर्शनसाधनं चक्षुर् ददामि / पश्य मे योगम् ऐश्वरम् -- मदसाधारणं योगं पश्य; ममानन्तज्ञानादियोगम् अनन्तविभूतियोगं च पश्येत्यर्थः //
34 SK अहं मम देह-एक-देशे सर्वं जगद् दर्शयिष्यामि; त्वं त्व् अनेन नियत-परिमित-वस्तु-ग्राहिणा प्राकृतेन स्व-चक्षुषा, मां तथा-भूतं सकल-इतर-विसजातीयम् अपरिमेयं द्रष्टुं न शक्ष्यसे / तव दिव्यम् अप्राकृतं मद्-दर्शन-साधनं चक्षुर् ददामि / पश्य मे योगम् ऐश्वरम् --- मद्-असाधारणं योगं पश्य; मम अनन्त-ज्ञान-आदि-योगम् अनन्त-विभूति-योगं च पश्य इत्य्-अर्थः //
11.9 SK एवम् उक्त्वा ततो राजन् महायोगेश्वरो हरिः | दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ||
36 SK एवम् उक्त्वा ततो राजन् महा-योग-ईश्वरो हरिः | दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ||
BhGR_p266612 SK एवम् उक्त्वा सारथ्ये ऽवस्थितः पार्थमातुलजो महायोगेश्वरो हरिः महाश्चर्ययोगानाम् ईश्वरः परब्रह्मभूतो नारायणः परमम् ऐश्वरं स्वासाधारणं रूपं पार्थाय पितृष्वसुः पृथायाः पुत्राय दर्शयाम् आस / तद् विविधविचित्रनिखिलजगदाश्रयं विश्वस्य प्रशासितृ च रूपम्; तच् चेदृशम् --
38 SK एवम् उक्त्वा सारथ्ये ऽवस्थितः पार्थ-मातुल-जो महा-योग-ईश्वरो हरिः महा-आश्चर्य-योगानाम् ईश्वरः पर-ब्रह्म-भूतो नारायणः परमम् ऐश्वरं स्व-असाधारणं रूपं पार्थाय पितृ-ष्वसुः पृथायाः पुत्राय दर्शयाम् आस / तद् विविध-विचित्र-निखिल-जगद्-आश्रयं विश्वस्य प्रशासितृ च रूपम्; तच् चा इदृशम् ---
11.10 SK अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् | अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ||
40 SK अनेक-वक्त्र-नयनम् अनेक-अद्भुत-दर्शनम् | अनेक-दिव्य-आभरणं दिव्य-अनेक-उद्यत-आयुधम् ||
11.11 SK दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् | सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ||
42 SK दिव्य-माल्य-अम्बर-धरं दिव्य-गन्ध-अनुलेपनम् | सर्व-आश्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ||
11.11 SK देवं द्योतमानम्, अनन्तम् कालत्रयवर्ति; निखिलजगदाश्रयतया देशकालपरिच्छेदानर्हम्, विश्वतोमुखम् विश्वदिग्वर्तिमुखम्, स्वोचितदिव्याम्बरगन्धमाल्याभरणायुधान्वितम् //
44 SK देवं द्योतमानम्, अनन्तम् काल-त्रय-वर्ति; निखिल-जगद्-आश्रयतया देश-काल-परिच्छेद-अनर्हम्, विश्वतो-मुखम् विश्व-दिग्-वर्ति-मुखम्, स्व-उचित-दिव्य-अम्बर-गन्ध-माल्य-आभरण-आयुध-अन्वितम् //
BhGR_p267459 SK ताम् एव देवशब्दनिर्दिष्टां द्योतमानतां विशिनष्टि --
46 SK ताम् एव देव-शब्द-निर्दिष्टां द्योतमानतां विशिनष्टि ---
11.12 SK दिवि सूर्यसहस्रस्य भवेद् युगपद् उत्थिता | यदि भाः, सदृशी सा स्याद् भासस् तस्य महात्मनः ||
48 SK दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता | यदि भाः, सदृशी सा स्याद् भासस् तस्य महा-आत्मनः ||
11.12 SK तेजसो ऽपरिमितत्वदर्शनार्थम् इदम्; अक्षयतेजस्स्वरूपम् इत्यर्थः //
50 SK तेजसो ऽपरिमितत्व-दर्शन-अर्थम् इदम्; अक्षय-तेजस्-स्व-रूपम् इत्य्-अर्थः //
11.13 SK तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा | अपश्यद् देवदेवस्य शरीरे पाण्डवस् तदा ||
52 SK तत्र एक-स्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा | अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा ||
11.13 SK तत्र अनन्तायाम् अविस्तारे, अनन्तबाहूदरवक्त्रनेत्रे, अपरिमिततेजस्के, अपरिमितदिव्यायुधोपेते, स्वोचितापरिमितदिव्यभूषणे, दिव्यमाल्याम्बरधरे, दिव्यगन्धानुलेपने, अनन्ताश्चर्यमये, देवदेवस्य दिव्ये शरीरे अनेकधा प्रविभक्तं ब्रह्मादिविविधविचित्रदेवतिर्यङ्मनुष्यस्थावरादिभोक्तृवर्गपृथिव्यन्तरिक्षस्वर्गपातालातलवितलसुतलादिभोगस्थानभोग्यभोगोपकरणभेदभिन्नं प्रकृतिपुरुषात्मकं कृत्स्नं जगत्, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚, ᳚हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः᳚, ᳚अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः᳚, आदित्यानाम् अहं विष्णुः᳚ इत्यादिना, ᳚न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्᳚, ᳚विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्᳚ इत्यन्तेनोदितम्, एकस्थम् एकदेशस्थम्; पाण्डवो भगवत्प्रसादलब्धतद्दर्शनानुगुणदिव्यचक्षुर् अपश्यत् //
54 SK तत्र अनन्तायाम् अविस्तारे, अनन्त-बाहु-उदर-वक्त्र-नेत्रे, अपरिमित-तेजस्के, अपरिमित-दिव्य-आयुध-उपेते, स्व-उचित-अपरिमित-दिव्य-भूषणे, दिव्य-माल्य-अम्बर-धरे, दिव्य-गन्ध-अनुलेपने, अनन्त-आश्चर्य-मये, देव-देवस्य दिव्ये शरीरे अनेकधा प्रविभक्तं ब्रह्मा-आदि-विविध-विचित्र-देव-तिर्यङ्-मनुष्य-स्थावर-आदि-भोक्तृ-वर्ग-पृथिव्य्-अन्तरिक्ष-स्वर्ग-पाताल-अतल-वितल-सुतल-आदि-भोग-स्थान-भोग्य-भोग-उपकरण-भेद-भिन्नं प्रकृति-पुरुष-आत्मकं कृत्स्नं जगत्, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚, ᳚हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः᳚, ᳚अहम् आत्मा गुडाकेश सर्व-भूत-आशय-स्थितः᳚, आदित्यानाम् अहं विष्णुः᳚ इत्य्-आदिना, ᳚न तद् अस्ति विना यत् स्यान् मया भूतं चर-अचरम्᳚, ᳚विष्टभ्य अहम् इदं कृत्स्नम् एक-अंशेन स्थितो जगत्᳚ इत्य्-अन्तेन उदितम्, एक-स्थम् एक-देश-स्थम्; पाण्डवो भगवत्-प्रसाद-लब्ध-तद्-दर्शन-अनुगुण-दिव्य-चक्षुर् अपश्यत् //
11.14 SK ततस् स विस्मयाविष्टो हृष्टरोमा धनञ्जयः | प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत ||
56 SK ततस् स विस्मय-आविष्टो हृष्ट-रोमा धनञ्जयः | प्रणम्य शिरसा देवं कृत-अञ्जलिर् अभाषत ||
11.14 SK ततो धनञ्जयो महाश्चर्यस्य कृत्स्नस्य जगतः स्वदेहैकदेशेनाश्रयभूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमानन्तज्ञानादिकल्याणगुणगणं देवं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा शिरसा दण्डवत् प्रणम्य कृताञ्जलिर् अभाषत //
58 SK ततो धनञ्जयो महा-आश्चर्यस्य कृत्स्नस्य जगतः स्व-देह-एक-देशेना अश्रय-भूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतम-अनन्त-ज्ञान-आदि-कल्याण-गुण-गणं देवं दृष्ट्वा विस्मय-आविष्टो हृष्ट-रोमा शिरसा दण्डवत् प्रणम्य कृत-अञ्जलिर् अभाषत //
11.15 SK पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूतविशेषसङ्गान् | ब्रह्माणम् ईशं कमलासनस्थम् ऋषींश् च सर्वान् उरगांश् च दीप्तान् ||
60 SK पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूत-विशेष-सङ्गान् | ब्रह्माणम् ईशं कमल-आसन-स्थम् ऋषींश् च सर्वान् उरगांश् च दीप्तान् ||
11.15 SK देव; तव देहे सर्वान् देवान् पश्यामि; तथा सर्वान् प्राणिविशेषाणां संघान्, तथा ब्रह्माणं चतुर्मुखम् अण्डाधिपतिम्, तथेशं कमलासनस्थं -- कमलासने ब्रह्मणि स्थितम् ईशं तन्मते ऽवस्थितं तथा देवर्षिप्रमुखान् सर्वान् ऋषीन्, उरगांश् च वासुकितक्षकादीन् दीप्तान् //
62 SK देव; तव देहे सर्वान् देवान् पश्यामि; तथा सर्वान् प्राणि-विशेषाणां संघान्, तथा ब्रह्माणं चतुर्-मुखम् अण्ड-अधिपतिम्, तथा ईशं कमल-आसन-स्थं --- कमल-आसने ब्रह्मणि स्थितम् ईशं तन्-मते ऽवस्थितं तथा देव-र्षि-प्रमुखान् सर्वान् ऋषीन्, उरगांश् च वासुकि-तक्षक-आदीन् दीप्तान् //
11.16 SK अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतो ऽनन्तरूपम् | नान्तं न मध्यं न पुनस् तवादिं पश्यामि विश्वेश्वर विश्वरूप ||
64 SK अनेक-बाहु-उदर-वक्त्र-नेत्रं पश्यामि त्वां सर्वतो ऽनन्त-रूपम् | न अन्तं न मध्यं न पुनस् तवा अदिं पश्यामि विश्व-ईश्वर विश्व-रूप ||
11.16 SK अनेकबाहूदरवक्त्रनेत्रम् अनन्तरूपं त्वां सर्वतः पश्यामि; विश्वेश्वर -- विश्वस्य नियन्तः, विश्वरूप -- विश्वशरीर! यतस् त्वम् अनन्तः, अतस् तव नान्तं न मध्यं न पुनस् तवादिं च पश्यामि //
66 SK अनेक-बाहु-उदर-वक्त्र-नेत्रम् अनन्त-रूपं त्वां सर्वतः पश्यामि; विश्व-ईश्वर --- विश्वस्य नियन्तः, विश्व-रूप --- विश्व-शरीर! यतस् त्वम् अनन्तः, अतस् तव न अन्तं न मध्यं न पुनस् तवा अदिं च पश्यामि //
11.17 SK किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिम् अन्तम् | पश्यामि त्वा दुर्निरीक्षं समन्ताद् दीप्तानलार्कद्युतिम् अप्रमेयम् ||
68 SK किरीटिनं गदिनं चक्रिणं च तेजो-राशिं सर्वतो दीप्तिम् अन्तम् | पश्यामि त्वा दुर्निरीक्षं समन्ताद् दीप्त-अनल-अर्क-द्युतिम् अप्रमेयम् ||
11.17 SK तेजोराशिं सर्वतो दीप्तिमन्तं समन्ताद् दुर्निरीक्षं दीप्तानलार्कद्युतिम् अप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि //
70 SK तेजो-राशिं सर्वतो दीप्तिमन्तं समन्ताद् दुर्निरीक्षं दीप्त-अनल-अर्क-द्युतिम् अप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि //
11.18 SK त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् | त्वम् अव्ययः शाश्वतधर्मगोप्ता सनातनस् त्वं पुरुषो मतो मे ||
72 SK त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् | त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनस् त्वं पुरुषो मतो मे ||
11.18 SK उपनिषत्सु, ᳚द्वे विद्ये वेदितव्ये᳚ इत्यादिषु वेदितव्यतया निर्दिष्टं परमम् अक्षरं त्वम् एव; अस्य विश्वस्य परं निधानम् विश्वस्यास्य परमाधारभूतस् त्वम् एव; त्वम् अव्ययः व्ययरहितः; यत् स्वरूपो यद्गुणो यद्विभवश् च त्वम्, तेनैव रूपेण सर्वदावतिष्ठसे / शाश्वतधर्मगोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवम् आदिभिर् अवतारैस् त्वम् एव गोप्ता / सनातनस् त्वं पुरुषो मतो मे -- ᳚वेदाहम् एतं पुरुषं महान्तं᳚, ᳚परात् परं पुरुषम्᳚ इत्यादिषूदितः सनातनपुरुषस् त्वम् एवेति मे मतः ज्ञातः / यद् उकुलतिलकस् त्वम् एवंभूत इदानीं साक्षात्कृतो मयेत्यर्थः //
74 SK उपनिषत्सु, ᳚द्वे विद्ये वेदितव्ये᳚ इत्य्-आदिषु वेदितव्यतया निर्दिष्टं परमम् अक्षरं त्वम् एव; अस्य विश्वस्य परं निधानम् विश्वस्य अस्य परम-आधार-भूतस् त्वम् एव; त्वम् अव्ययः व्यय-रहितः; यत् स्व-रूपो यद्-गुणो यद्-विभवश् च त्वम्, तेन एव रूपेण सर्वद आवतिष्ठसे / शाश्वत-धर्म-गोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवम् आदिभिर् अवतारैस् त्वम् एव गोप्ता / सनातनस् त्वं पुरुषो मतो मे --- ᳚वेद अहम् एतं पुरुषं महा-अन्तं᳚, ᳚परात् परं पुरुषम्᳚ इत्य्-आदिषु उदितः सनातन-पुरुषस् त्वम् एव इति मे मतः ज्ञातः / यद् उकुल-तिलकस् त्वम् एवं-भूत इदानीं साक्षात्-कृतो मय ईत्य्-अर्थः //
11.19 SK अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् | पश्यामि त्वा दीप्तहुताशवक्त्रं स्वतेजसा विश्वम् इदं तपन्तम् ||
76 SK अन्-आदि-मध्य-अन्तम् अनन्त-वीर्यम् अनन्त-बाहुं शशि-सूर्य-नेत्रम् | पश्यामि त्वा दीप्त-हुत-आश-वक्त्रं स्व-तेजसा विश्वम् इदं तपन्तम् ||
11.19 SK अनादिमध्यान्तम् आदिमध्यान्तरहितम् / अनन्तवीर्यम् अनवधिकातिशयवीर्यम्; वीर्यशब्दः प्रदर्शनार्थः; अनवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधिम् इत्यर्थः / अनन्तबाहुम् असंख्येयबाहुम् / सो ऽपि प्रदर्शनार्थः; अनन्तबाहूदरपादवक्त्रादिकम् / शशिसूर्यनेत्रम् शशिवत् सूर्यवच् च प्रसादप्रतापयुक्तसर्वनेत्रम् / देवादीन् अनुकूलान् नमस्कारादि कुर्वाणान् प्रति प्रसादः, तद्विपरीतान् असुरराक्षसादीन् प्रति प्रतापः; ᳚रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः᳚ इति हि वक्ष्यते / दीप्तहुताशवक्त्रम् प्रदीप्तकालानलवत् संहारानुगुणवक्त्रम् / स्वतेजसा विश्वम् इदं तपन्तम् / तेजः पराभिभवनसामर्थ्यम्; स्वकीयेन तेजसा विश्वम् इदं तपन्तं त्वां पश्यामि -- एवम्भूतं सर्वस्य स्रष्टारं सर्वस्याधारभूतं सर्वस्य प्रशासितारं सर्वस्य संहर्तारं ज्ञानाद्यपरिमितगुणसागरम् आदिमध्यान्तरहितम् एवंभूतदिव्यदेहं त्वां यथोपदेशं साक्षात्करोमीत्यर्थः / एकस्मिन् दिव्यदेहे अनेकोदरादिकं कथम्? / इत्थम् उपपद्यते / एकस्मात् कटिप्रदेशाद् अनन्तपरिमाणाद् ऊर्ध्वम् उद्गता यथोदितोदरादयः, अधश् च यथोदितदिव्यपादाः; तत्रैकस्मिन् मुखे नेत्रद्वयम् इति च न विरोधः //
78 SK अन्-आदि-मध्य-अन्तम् आदि-मध्य-अन्त-रहितम् / अनन्त-वीर्यम् अनवधिक-अतिशय-वीर्यम्; वीर्य-शब्दः प्रदर्शन-अर्थः; अनवधिक-अतिशय-ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेजसां निधिम् इत्य्-अर्थः / अनन्त-बाहुम् असंख्येय-बाहुम् / सो ऽपि प्रदर्शन-अर्थः; अनन्त-बाहु-उदर-पाद-वक्त्र-आदिकम् / शशि-सूर्य-नेत्रम् शशिवत् सूर्यवच् च प्रसाद-प्रताप-युक्त-सर्व-नेत्रम् / देव-आदीन् अनुकूलान् नमस्कार-आदि कुर्वाणान् प्रति प्रसादः, तद्-विपरीतान् असुर-राक्षस-आदीन् प्रति प्रतापः; ᳚रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-संघाः᳚ इति हि वक्ष्यते / दीप्त-हुत-आश-वक्त्रम् प्रदीप्त-काल-अनलवत् संहार-अनुगुण-वक्त्रम् / स्व-तेजसा विश्वम् इदं तपन्तम् / तेजः पर-अभिभवन-सामर्थ्यम्; स्वकीयेन तेजसा विश्वम् इदं तपन्तं त्वां पश्यामि --- एवम्-भूतं सर्वस्य स्रष्टारं सर्वस्या अधार-भूतं सर्वस्य प्रशासितारं सर्वस्य संहर्तारं ज्ञान-आद्य्-अपरिमित-गुण-सागरम् आदि-मध्य-अन्त-रहितम् एवं-भूत-दिव्य-देहं त्वां यथ ऊपदेशं साक्षात्करोमि इत्य्-अर्थः / एकस्मिन् दिव्य-देहे अनेक-उदर-आदिकं कथम्? / इत्थम् उपपद्यते / एकस्मात् कटि-प्रदेशाद् अनन्त-परिमाणाद् ऊर्ध्वम् उद्गता यथा-उदित-उदर-आदयः, अधश् च यथा-उदित-दिव्य-पादाः; तत्र एकस्मिन् मुखे नेत्र-द्वयम् इति च न विरोधः //
BhGR_p272764 SK एवंभूतं त्वां दृष्ट्वा देवादयो ऽहं च प्रव्यथिता भवाम इत्य् आह --
80 SK एवं-भूतं त्वां दृष्ट्वा देव-आदयो ऽहं च प्रव्यथिता भवाम इत्य् आह ---
11.20 SK द्यावापृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वयैकेन दिशश् च सर्वाः | दृष्ट्वाद्भुतं रूपम् उग्रं तद् एवं लोकत्रयं प्रव्यथितं महात्मन् ||
82 SK द्यावा-पृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वय ऐकेन दिशश् च सर्वाः | दृष्ट्व आद्भुतं रूपम् उग्रं तद् एवं लोक-त्रयं प्रव्यथितं महा-आत्मन् ||
11.20 SK द्युशब्दः पृथिवीशब्दश् चोभौ उपरितनानाम् अधस्तनानां च लोकानां प्रदर्शनार्थौ / द्यावापृथिव्योः अन्तरम् अवकाशः / यस्मिन्न् अवकासे सर्वे लोकास् तिष्ठन्ति, सर्वो ऽयम् अवकाशो दिशश् च सर्वास् त्वयैकेन व्याप्ताः / दृष्ट्वाद्भुतं रूपम् उग्रं तवेदम् अनन्तायाम् अविस्तारम् अत्यद्भुतम् अत्युग्रं च रूपं दृष्ट्वा लोकत्रयं प्रव्यथितम् युद्धदिदृक्षया आगतेषु ब्रह्मादिदेवासुरपितृगणसिद्धगन्धर्वयक्षराक्षसेषु प्रतिकूलानुकूलमध्यस्थरूपं लोकत्रयं सर्वं प्रव्यथितम् अत्यन्तभीतम् / महात्मन् अपरिच्छेद्यमनोवृत्ते / एतेषाम् अप्य् अर्जुनस्यैव विश्वाश्रयरूपसाक्षात्कारसाधनं दिव्यं चक्षुर् भगवता दत्तम् / किम् अर्थम् इति चेत्, अर्जुनाय स्वाइश्वर्यं सर्वं प्रदर्शयितुम् / अत इदम् उच्यते, ᳚दृष्ट्वाद्भुतं रूपम् उग्रं तवेदं लोकत्रयं प्रव्यर्थितं महात्मन्᳚ इति //
84 SK द्यु-शब्दः पृथिवी-शब्दश् च उभौ उपरितनानाम् अधस्तनानां च लोकानां प्रदर्शन-अर्थौ / द्यावा-पृथिव्योः अन्तरम् अवकाशः / यस्मिन्न् अवकासे सर्वे लोकास् तिष्ठन्ति, सर्वो ऽयम् अवकाशो दिशश् च सर्वास् त्वय ऐकेन व्याप्ताः / दृष्ट्व आद्भुतं रूपम् उग्रं तव इदम् अनन्तायाम् अविस्तारम् अत्यद्भुतम् अत्युग्रं च रूपं दृष्ट्वा लोक-त्रयं प्रव्यथितम् युद्ध-दिदृक्षया आगतेषु ब्रह्मा-आदि-देव-असुर-पितृ-गण-सिद्ध-गन्धर्व-यक्ष-राक्षसेषु प्रतिकूल-अनुकूल-मध्य-स्थ-रूपं लोक-त्रयं सर्वं प्रव्यथितम् अत्यन्त-भीतम् / महा-आत्मन् अपरिच्छेद्य-मनो-वृत्ते / एतेषाम् अप्य् अर्जुनस्य एव विश्व-आश्रय-रूप-साक्षात्कार-साधनं दिव्यं चक्षुर् भगवता दत्तम् / किम् अर्थम् इति चेत्, अर्जुनाय स्व-ऐश्वर्यं सर्वं प्रदर्शयितुम् / अत इदम् उच्यते, ᳚दृष्ट्व आद्भुतं रूपम् उग्रं तव इदं लोक-त्रयं प्रव्यर्थितं महा-आत्मन्᳚ इति //
11.21 SK अमी हि त्वा सुरसङ्घा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति | स्वस्तीत्य् उक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||
86 SK अमी हि त्वा सुर-सङ्घा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति | स्वस्ति इत्य् उक्त्वा मह-र्षि-सिद्ध-सङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||
11.21 SK अमी सुरसंघाः उत्कृष्टास् त्वां विश्वाश्रयम् अवलोक्य हृष्टमनसः त्वन् समीपं विशन्ति / तेष्व् एव केचिद् अत्युग्रम् अत्यद्भुतं च तवाकारम् आलोक्य भीताः प्राञ्जलयः स्वज्ञानानुगुणं स्तुतिरूपाणि वाक्यानि गृणन्ति उच्चारयन्ति / अपरे महर्षिसंघाः सिद्धसंघाश् च परावरतत्त्वयाथात्म्यविदः स्वस्तीत्य् उक्त्वा पुष्कलाभिर् भवदनुरूपाभिः स्तुतिभिः स्तुवन्ति //
88 SK अमी सुर-संघाः उत्कृष्टास् त्वां विश्व-अश्रयम् अवलोक्य हृष्ट-मनसः त्वन् समीपं विशन्ति / तेष्व् एव केचिद् अत्युग्रम् अत्यद्भुतं च तवा अकारम् आलोक्य भीताः प्राञ्जलयः स्व-ज्ञान-अनुगुणं स्तुति-रूपाणि वाक्यानि गृणन्ति उच्चारयन्ति / अपरे मह-र्षि-संघाः सिद्ध-संघाश् च पर-अवर-तत्त्व-याथात्म्य-विदः स्वस्ति इत्य् उक्त्वा पुष्कलाभिर् भवद्-अनुरूपाभिः स्तुतिभिः स्तुवन्ति //
11.22 SK रुद्रादित्या वसवो ये च साध्या विश्वे ऽश्विनौ मरुतश् चोष्मपाश् च | गन्धर्वयक्षासुरसिद्धसङ्घा वीक्ष्यन्ते त्वां विस्मिताश् चैव सर्वे ||
90 SK रुद्र-आदित्या वसवो ये च साध्या विश्वे ऽश्विनौ मरुतश् चा उष्म-पाश् च | गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घा वीक्ष्यन्ते त्वां विस्मिताश् च एव सर्वे ||
11.22 SK ऊष्मपाः पितरः, ᳚ऊष्मभागा हि पितरः᳚ इति श्रुतेः / एते सर्वे विस्मयम् आपन्नास् त्वां वीक्षन्ते //
92 SK ऊष्म-पाः पितरः, ᳚ऊष्म-भागा हि पितरः᳚ इति श्रुतेः / एते सर्वे विस्मयम् आपन्नास् त्वां वीक्षन्ते //
11.23 SK रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् | बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ||
94 SK रूपं महत् ते बहु-वक्त्र-नेत्रं महाबाहो बहु-बाहु-उरु-पादम् | बहु-उदरं बहु-दंष्ट्रा-करालं दृष्ट्वा लोकाः प्रव्यथितास् तथ आहम् ||
11.23 SK बह्वीभिर् दंष्ट्राभिर् अतिभीषणाकारं लोकाः पूर्वोक्ताः प्रतिकूलानुकूलमध्यस्थास् त्रिविधाः सर्व एव अहं च तद् एवम् ईदृशं रूपं दृष्ट्वा अतीव व्यथिता भवामः //
96 SK बह्वीभिर् दंष्ट्राभिर् अतिभीषण-आकारं लोकाः पूर्व-उक्ताः प्रतिकूल-अनुकूल-मध्य-स्थास् त्रि-विधाः सर्व एव अहं च तद् एवम् ईदृशं रूपं दृष्ट्वा अतीव व्यथिता भवामः //
11.24 SK नभस्स्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् | दृस्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ||
98 SK नभस्-स्पृशं दीप्तम् अनेक-वर्णं व्यात्त-आननं दीप्त-विशाल-नेत्रम् | दृस्ट्वा हि त्वा प्रव्यथित-अन्तर्-आत्मा धृतिं न विन्दामि शमं च विष्णो ||
11.24 SK नमश्शब्दः ᳚तद् अक्षरे परमे व्योमन्᳚, ᳚आदित्यवर्णं तमसः परस्तात्᳚, ᳚क्षयन्तम् अस्य रजसः पराके᳚, ᳚यो अस्याध्यक्षः परमे व्योमन्᳚ इत्यादिश्रुतिसिद्धित्रिगुणप्रकृत्यतीतपरमव्योमवाची; सविकारस्य प्रकृतितत्त्वस्य, पुरुषस्य च सर्वावस्थस्य, कृत्स्नस्याश्रयतया नभस् स्पृशम् इति वचनात्; ᳚द्यावापृथिव्योर् इदम् अन्तरं हि व्याप्तम्᳚ इति पूर्वोक्तत्वाच् च / दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा प्रव्यथितान्तरात्मा अत्यन्तभीतमनाः धृतिं न विन्दामि देहस्य धारणं न लभे, मनसश् चेन्द्रियाणां च शमं न लभे / विष्णो व्यापिन्! / सर्वव्यापिनम् अतिमात्रम् अत्यद्भुतम् अतिघोरं च त्वां दृष्ट्वा प्रशिथिकसर्वावयवो व्याकुलेन्द्रियश् च भवामीत्यर्थः //
100 SK नमश्-शब्दः ᳚तद् अक्षरे परमे व्योमन्᳚, ᳚आदित्य-वर्णं तमसः परस्तात्᳚, ᳚क्षयन्तम् अस्य रजसः पराके᳚, ᳚यो अस्य अध्यक्षः परमे व्योमन्᳚ इत्य्-आदि-श्रुति-सिद्धि-त्रि-गुण-प्रकृत्य्-अतीत-परम-व्योम-वाची; सविकारस्य प्रकृति-तत्त्वस्य, पुरुषस्य च सर्व-अवस्थस्य, कृत्स्नस्या अश्रयतया नभस् स्पृशम् इति वचनात्; ᳚द्यावा-पृथिव्योर् इदम् अन्तरं हि व्याप्तम्᳚ इति पूर्व-उक्तत्वाच् च / दीप्तम् अनेक-वर्णं व्यात्त-आननं दीप्त-विशाल-नेत्रं त्वां दृष्ट्वा प्रव्यथित-अन्तर-आत्मा अत्यन्त-भीत-मनाः धृतिं न विन्दामि देहस्य धारणं न लभे, मनसश् च इन्द्रियाणां च शमं न लभे / विष्णो व्यापिन्! / सर्व-व्यापिनम् अतिमात्रम् अत्यद्भुतम् अतिघोरं च त्वां दृष्ट्वा प्रशिथिक-सर्व-अवयवो व्याकुल-इन्द्रियश् च भवामि इत्य्-अर्थः //
11.25 SK दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि | दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ||
102 SK दंष्ट्रा-करालानि च ते मुखानि दृष्ट्व ऐव काल-अनल-सन्निभानि | दिशो न जाने न लभे च शर्म प्रसीद देव-ईश जगन्-निवास ||
11.25 SK युगान्तकालानलवत् सर्वसंहारे प्रवृत्तानि अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने; सुखं च न लभे / जगतां निवास देवेश ब्रह्मादीनाम् ईश्वराणाम् अपि परममहेश्वर! मां प्रति प्रसन्नो भव / यथाहं प्रकृतिं गतो भवामि, तथा कुर्व् इत्यर्थः //
104 SK युग-अन्त-काल-अनलवत् सर्व-संहारे प्रवृत्तानि अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने; सुखं च न लभे / जगतां निवास देव-ईश ब्रह्म-आदीनाम् ईश्वराणाम् अपि परम-महा-ईश्वर! मां प्रति प्रसन्नो भव / यथ आहं प्रकृतिं गतो भवामि, तथा कुर्व् इत्य्-अर्थः //
BhGR_p276573 SK एवं सर्वस्य जगतः स्वायत्तस्थितिप्रवृत्तित्वं दर्शयन् पार्थसारथी राजवेषच्छद्मनावस्थितानां धार्तराष्ट्राणां यौधिष्ठिरेष्व् अनुप्रविष्टानां च असुरांशानां संहारेण भूभारावतरणं स्वमनीषितं स्वेनैव करिष्यमाणं पार्थाय दर्शयाम् आस / स च पार्थो भगवतः स्रष्ट्र्त्वादिकं सर्वाइश्वर्यं साक्षात्कृत्य तस्मिन्न् एव भगवति सर्वात्मनि धार्तराष्ट्रादीनाम् उपसंहारम् अनागतम् अपि तत्प्रसादलब्धेन दिव्येन चक्षुषा पश्यन्न् इदं चोवाच --
106 SK एवं सर्वस्य जगतः स्व-आयत्त-स्थिति-प्रवृत्तित्वं दर्शयन् पार्थ-सारथी राज-वेष-च्छद्मन आवस्थितानां धार्तराष्ट्राणां यौधिष्ठिरेष्व् अनुप्रविष्टानां च असुर-अंशानां संहारेण भूभार अवतरणं स्व-मनीषितं स्वेन एव करिष्यमाणं पार्थाय दर्शयाम् आस / स च पार्थो भगवतः स्रष्ट्र्त्व-आदिकं सर्व-ऐश्वर्यं साक्षात्कृत्य तस्मिन्न् एव भगवति सर्व-आत्मनि धार्तराष्ट्र-आदीनाम् उपसंहारम् अनागतम् अपि तत्-प्रसाद-लब्धेन दिव्येन चक्षुषा पश्यन्न् इदं च उवाच ---
11.26 SK अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वैः सहैवावनिपालसङ्घैः | भीष्मो द्रोणः सूतपुत्रस् तथासौ सहास्मदीयैर् अपि योधमुख्यैः ||
108 SK अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वैः सह एव अवनि-पाल-सङ्घैः | भीष्मो द्रोणः सूत-पुत्रस् तथ आसौ सह अस्मदीयैर् अपि योध-मुख्यैः ||
11.27 SK वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि | केचिद् विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैर् उत्तमाङ्गैः ||
110 SK वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्रा-करालानि भय-अनकानि | केचिद् विलग्ना दशन-अन्तरेषु संदृश्यन्ते चूर्णितैर् उत्तम-अङ्गैः ||
BhGR_11.26-27 SK अमी धृतराष्ट्रस्य पुत्राः दुर्योधनादयस् सर्वे भीष्मो द्रोणः सूतपुत्रः कर्णश् च तत्पक्षीयैर् अवनिपालसमूहैः सर्वैः, अस्मदीयैर् अपि कैश्चिद् योधमुख्यैस् सह त्वरमाणा दंष्ट्राकरालानि भयानकानि तव वक्त्राणि विनाशाय विशन्ति; तत्र केचिच् चूर्णितैर् उत्तमाङ्गैर् दशानान्तरेषु विलग्नास् संदृश्यन्ते //
112 SK अमी धृतराष्ट्रस्य पुत्राः दुर्योधन-आदयस् सर्वे भीष्मो द्रोणः सूत-पुत्रः कर्णश् च तत्-पक्षीयैर् अवनिपाल-समूहैः सर्वैः, अस्मदीयैर् अपि कैश्चिद् योध-मुख्यैस् सह त्वरमाणा दंष्ट्रा-करालानि भय-अनकानि तव वक्त्राणि विनाशाय विशन्ति; तत्र केचिच् चूर्णितैर् उत्तम-अङ्गैर् दशान-अन्तरेषु विलग्नास् संदृश्यन्ते //
11.28 SK यथा नदीनां बहवो ऽम्बुवेगाः समुद्रम् एवाभिमुखा द्रवन्ति | तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्य् अभिविज्वलन्ति ||
114 SK यथा नदीनां बहवो ऽम्बु-वेगाः समुद्रम् एव अभिमुखा द्रवन्ति | तथा तव अमी नर-लोक-वीरा विशन्ति वक्त्राण्य् अभिविज्वलन्ति ||
11.29 SK यथा प्रदीप्तज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः | तथैव नाशाय विशन्ति लोकास् तवापि वक्त्राणि समृद्धवेगाः ||
116 SK यथा प्रदीप्त-ज्वलनं पतङ्गा विशन्ति नाशाय समृद्ध-वेगाः | तथ ऐव नाशाय विशन्ति लोकास् तव अपि वक्त्राणि समृद्ध-वेगाः ||
BhGR_11.28-29 SK एते राजलोकाः, बहवो नदीनाम् अम्बुप्रवाहाः समुद्रम् इव, प्रदीप्तज्वलनम् इव च शलभाः, तव वक्त्राण्य् अभिविज्वलन्ति स्वयम् एव त्वरमाणा आत्मनाशाय विशन्ति //
118 SK एते राज-लोकाः, बहवो नदीनाम् अम्बु-प्रवाहाः समुद्रम् इव, प्रदीप्त-ज्वलनम् इव च शलभाः, तव वक्त्राण्य् अभिविज्वलन्ति स्वयम् एव त्वरमाणा आत्म-नाशाय विशन्ति //
11.30 SK लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर् ज्वलद्भिः | तेजोभिर् आपूर्य जगत् समग्रं भासस् तवोग्राः प्रतपन्ति विष्णो ||
120 SK लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर् ज्वलद्भिः | तेजोभिर् आपूर्य जगत् समग्रं भासस् तव उग्राः प्रतपन्ति विष्णो ||
11.30 SK राजलोकान् समग्रान् ज्वलद्भिर् वदनैर् ग्रसमानः कोपवेगेन तद्रुधिरावसिक्तमोष्ठपुटादिकं लेलिह्यसे पुनः पुनर् लेहनं करोषि / तवातिघोरा भासः रश्मयः तेजोभिः स्वकीयैः प्रकाशैः जगत् समग्रम् आपूर्य प्रतपन्ति //
122 SK राज-लोकान् समग्रान् ज्वलद्भिर् वदनैर् ग्रसमानः कोप-वेगेन तद्-रुधिर-अवसिक्त-मोष्ठ-पुट-आदिकं लेलिह्यसे पुनः पुनर् लेहनं करोषि / तव अतिघोरा भासः रश्मयः तेजोभिः स्वकीयैः प्रकाशैः जगत् समग्रम् आपूर्य प्रतपन्ति //
11.31 SK आख्याहि मे को भवान् उग्ररूपो नमो ऽस्तु ते देववर प्रसीद | विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ||
124 SK आख्याहि मे को भवान् उग्र-रूपो नमो ऽस्तु ते देव-वर प्रसीद | विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ||
BhGR_p278951 SK ᳚दर्शयात्मानम् अव्ययम्᳚ इति तवाइश्वर्यं निरङ्कुशं साक्षात्कर्तुं प्रार्थितेन भवता निरङ्कुशम् ऐश्वर्यं दर्शयता अतिघोररूपम् इदम् आविष्कृतम् / अतिघोररूपः को भवान्, किं कर्तुं प्रवृत्त इति भवन्तं ज्ञातुम् इच्छामि / तवाभिप्रेतां प्रवृत्तिं न जानामि / एतद् आख्याहि मे / नमो ऽस्तु ते देववर! प्रसीद -- नमस् ते ऽस्तु सर्वेश्वर; एवं कर्तुम्, अनेनाभिप्रायेणेदं संहर्तृरूपम् आविष्कृतम् इत्य् उक्त्वा प्रसन्नरूपश् च भव // Bह्GR_११.३१ //
126 SK ᳚दर्शया अत्मानम् अव्ययम्᳚ इति तव ऐश्वर्यं निरङ्कुशं साक्षात्कर्तुं प्रार्थितेन भवता निरङ्कुशम् ऐश्वर्यं दर्शयता अतिघोर-रूपम् इदम् आविष्कृतम् / अतिघोर-रूपः को भवान्, किं कर्तुं प्रवृत्त इति भवन्तं ज्ञातुम् इच्छामि / तव अभिप्रेतां प्रवृत्तिं न जानामि / एतद् आख्याहि मे / नमो ऽस्तु ते देव-वर! प्रसीद --- नमस् ते ऽस्तु सर्व-ईश्वर; एवं कर्तुम्, अनेन अभिप्रायेण इदं संहर्तृ-रूपम् आविष्कृतम् इत्य् उक्त्वा प्रसन्न-रूपश् च भव // Bह्GR_११.३१ //
BhGR_p279436 SK आश्रितवात्सल्यातिरेकेण विश्वाइश्वर्यं दर्शयतो भवतो घोररूपाविष्कारे को ऽभिप्राय इति पृष्टो भगवान् पार्थसारथिः स्वाभिप्रायम् आह, पार्थोद्योगेन विनापि धार्तराष्ट्रप्रमुखम् अशेषं राजलोकं निहन्तुम् अहम् एव प्रवृत्त इति ज्ञापनाय मम घोररूपाविष्कारः, तज्ज्ञापनं च पार्थम् उद्योजयितुम् इति /
128 SK आश्रित-वात्सल्य-अतिरेकेण विश्व-ऐश्वर्यं दर्शयतो भवतो घोर-रूप-आविष्कारे को ऽभिप्राय इति पृष्टो भगवान् पार्थ-सारथिः स्व-अभिप्रायम् आह, पार्थ-उद्योगेन विन आपि धार्तराष्ट्र-प्रमुखम् अशेषं राज-लोकं निहन्तुम् अहम् एव प्रवृत्त इति ज्ञापनाय मम घोर-रूप-आविष्कारः, तज्-ज्ञापनं च पार्थम् उद्योजयितुम् इति /
11.32 SK कालो ऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः | ऋते ऽपि त्वा न भविष्यन्ति सर्वे ये ऽवस्थिताः प्रत्यनीकेषु योधाः ||
130 SK कालो ऽस्मि लोक-क्षय-कृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः | ऋते ऽपि त्वा न भविष्यन्ति सर्वे ये ऽवस्थिताः प्रत्यनीकेषु योधाः ||
11.32 SK कलयति गणयतीति कालः; सर्वेषां धार्तराष्ट्रप्रमुखानां राजलोकानाम् आयुरवसानं गणयन्न् अहं तत्क्षयकृद् घोररूपेण प्रवृद्धो राजलोकान् समाहर्तुम् आभिमुख्येन संहर्तुम् इह प्रवृत्तो ऽस्मि / अतो मत्संकल्पाद् एव त्वाम् ऋते ऽपि -- त्वदुद्योगाद् र्ते ऽपि एते धार्तराष्ट्रप्रमुखास् तव प्रत्यनीकेषु ये ऽवस्थिता योधाः, ते सर्वे न भविष्यन्ति -- विनङ्क्ष्यन्ति //
132 SK कलयति गणयति इति कालः; सर्वेषां धार्तराष्ट्र-प्रमुखानां राज-लोकानाम् आयुर्-अवसानं गणयन्न् अहं तत्-क्षय-कृद् घोर-रूपेण प्रवृद्धो राज-लोकान् समाहर्तुम् आभिमुख्येन संहर्तुम् इह प्रवृत्तो ऽस्मि / अतो मत्-संकल्पाद् एव त्वाम् ऋते ऽपि --- त्वद्-उद्योगाद् र्ते ऽपि एते धार्तराष्ट्र-प्रमुखास् तव प्रत्यनीकेषु ये ऽवस्थिता योधाः, ते सर्वे न भविष्यन्ति --- विनङ्क्ष्यन्ति //
11.33 SK तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् | मयैवैते निहताः पूर्वम् एव निमित्तमात्रं भव सव्यसाचिन् ||
134 SK तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् | मय ऐव एते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्य-साचिन् ||
11.33 SK तस्मात् त्वं तान् प्रति युद्धायोत्तिष्ठ / तान् शत्रून् जित्वा यशो लभस्व; धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व / मयैवैते कृतापराधाः पूर्वम् एव निहताः हनने विनियुक्ताः / त्वं तु तेषां हनने निमित्तमात्रं भव / मया हन्यमानानां शत्रादिस्थानीयो भव / सव्यसाचिन् / षच समवाये; सव्येन शरसचनशीलः सव्यसाची; सव्येनापि करेण शरसमवायकरः; करद्वयेन योद्धुं समर्थ इत्यर्थः //
136 SK तस्मात् त्वं तान् प्रति युद्धाय उत्तिष्ठ / तान् शत्रून् जित्वा यशो लभस्व; धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व / मय ऐव एते कृत-अपराधाः पूर्वम् एव निहताः हनने विनियुक्ताः / त्वं तु तेषां हनने निमित्त-मात्रं भव / मया हन्यमानानां शत्र-आदि-स्थानीयो भव / सव्य-साचिन् / षच समवाये; सव्येन शर-सचन-शीलः सव्य-साची; सव्येन अपि करेण शर-समवाय-करः; कर-द्वयेन योद्धुं समर्थ इत्य्-अर्थः //
11.34 SK द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यान् अपि योधमुख्यान् | मया हतांस् त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ||
138 SK द्रोणं च भीष्मं च जयद्-रथं च कर्णं तथ आन्यान् अपि योध-मुख्यान् | मया हतांस् त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ||
11.34 SK द्रोणभीष्मकर्णादीन् कृतापराधतया मयैव हनने विनियुक्तान् त्वं जहि त्वं हन्याः / एतान् गुरून् बन्धूंश् च अन्यान् अपि भोगसक्तान् कथं हनिष्यामीति मा व्यथिष्ठाः -- तान् उद्दिश्य धर्माधर्मभयेन बन्धुस्नेहेन कारुण्येन च मा व्यथां कृथाः / यतस् ते कृतापराधा मयैव हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व / रणे सपत्नान् जेतासि जेष्यसि / नैतेषां वधे नृशंसतागन्धः; अपि तु जय एव लभ्यत इत्यर्थः //
140 SK द्रोण-भीष्म-कर्ण-आदीन् कृत-अपराधतया मय ऐव हनने विनियुक्तान् त्वं जहि त्वं हन्याः / एतान् गुरून् बन्धूंश् च अन्यान् अपि भोग-सक्तान् कथं हनिष्यामि इति मा व्यथिष्ठाः --- तान् उद्दिश्य धर्म-अधर्म-भयेन बन्धु-स्नेहेन कारुण्येन च मा व्यथां कृथाः / यतस् ते कृत-अपराधा मय ऐव हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व / रणे सपत्नान् जेतासि जेष्यसि / न एतेषां वधे नृ-शंसता-गन्धः; अपि तु जय एव लभ्यत इत्य्-अर्थः //
11.35 SK एतच् छ्रुत्वा वचनं केशवस्य कृताञ्जलिर् वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ||
142 SK एतच् छ्रुत्वा वचनं केशवस्य कृत-अञ्जलिर् वेपमानः किरीटी | नमस्कृत्वा भूय एवा अह कृष्णं स-गद्गदं भीत-भीतः प्रणम्य ||
11.35 SK एतद् अश्रितवात्सल्यजलधेः केशवस्य वचनं श्रुत्वा अर्जुनस् तस्मै नमस्कृत्य भीतभीतो भूयस् तं प्रणम्य कृताञ्जलिर् वेपमानः किरीटी सगद्गदम् आह //
144 SK एतद् अश्रित-वात्सल्य-जल-धेः केशवस्य वचनं श्रुत्वा अर्जुनस् तस्मै नमस्कृत्य भीत-भीतो भूयस् तं प्रणम्य कृत-अञ्जलिर् वेपमानः किरीटी स-गद्गदम् आह //
11.36 SK स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च | रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ||
146 SK स्थाने हृषी-केश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च | रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ||
11.36 SK स्थाने युक्तम् / यद् एतद् युद्धदिदृक्षयागतम् अशेषदेवगन्धर्वसिद्धयक्षविद्याधरकिन्नरकिंपुरुषादिकं जगत्, त्वत्प्रसादात् त्वां सर्वेश्वरम् अवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यति, अनुरज्यते च, यच् च त्वाम् अवलोक्य रक्षांसि भीतानि सर्वा दिशः प्रद्रवन्ति, सर्वे सिद्धसंघाः सिद्धाद्यनुकूलसंघाः नमस्यन्ति च -- तद् एतत् सर्वं युक्तम् इति पूर्वेण संबन्धः //
148 SK स्थाने युक्तम् / यद् एतद् युद्ध-दिदृक्षया आगतम् अशेष-देव-गन्धर्व-सिद्ध-यक्ष-विद्या-धर-किन्नर-किंपुरुष-आदिकं जगत्, त्वत्-प्रसादात् त्वां सर्व-ईश्वरम् अवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यति, अनुरज्यते च, यच् च त्वाम् अवलोक्य रक्षांसि भीतानि सर्वा दिशः प्रद्रवन्ति, सर्वे सिद्ध-संघाः सिद्ध-आद्य्-अनुकूल-संघाः नमस्यन्ति च --- तद् एतत् सर्वं युक्तम् इति पूर्वेण संबन्धः //
BhGR_p282739 SK युक्तताम् एवोपपादयति --
150 SK युक्तताम् एव उपपादयति ---
11.37ab SK कस्माच् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणो ऽप्य् आदिकर्त्रे |
152 SK कस्माच् च ते न नमेरन् महा-आत्मन् गरीयसे ब्रह्मणो ऽप्य् आदि-कर्त्रे |
153 SK त्वम् आदि-देवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् |
11.37ab SK महात्मन्, ते तुभ्यं गरीयसे ब्रह्मणः हिरण्यगर्भस्यापि आदिभूताय कर्त्रे हिरण्यगर्भादयः कस्माद् धेतोर् न नमस्कुर्युः //
155 SK महा-आत्मन्, ते तुभ्यं गरीयसे ब्रह्मणः हिरण्य-गर्भस्य अपि आदि-भूताय कर्त्रे हिरण्य-गर्भ-आदयः कस्माद् धेतोर् न नमस्कुर्युः //
11.37cd SK अनन्त देवेश जगन्निवास त्वम् अक्षरं सद् असत् तत् परं यत् ||
157 SK अनन्त देव-ईश जगन्-निवास त्वम् अक्षरं सद् असत् तत् परं यत् ||
11.37 SK अनन्त देवेश जगन्निवास त्वम् एवाक्षरम् / न क्षरतीत्य् अक्षरं जीवात्मतत्त्वम् / ᳚न जायते म्रियते वा विपश्चित्᳚ इत्य् आदिश्रुतिसिद्धो जीवात्मा हि न क्षरति / सद् असच् च त्वम् एव सदसच्छब्दनिर्दिष्टं कार्यकारणभावेनावस्थितं प्रकृतितत्त्वं, नामरूपविभागवत्तया कार्यावस्थं सच्छब्दनिर्दिष्टं तदनर्हतया कारणावस्थम् असच्छब्दनिर्दिष्टं च त्वम् एव / तत् परम् यत् तस्मात् प्रकृतेः प्रकृतिसंबन्धिनश् च जीवात्मनः परम् अन्यन् मुक्तात्मतत्त्वं यत्, तद् अपि त्वम् एव //
159 SK अनन्त देव-ईश जगन्-निवास त्वम् एव अक्षरम् / न क्षरति इत्य् अक्षरं जीव-आत्म-तत्त्वम् / ᳚न जायते म्रियते वा विपश्चित्᳚ इत्य् आदि-श्रुति-सिद्धो जीव-आत्मा हि न क्षरति / सद् असच् च त्वम् एव सद्-असच्-छब्द-निर्दिष्टं कार्य-कारण-भावेन अवस्थितं प्रकृति-तत्त्वं, नाम-रूप-विभागवत्तया कार्य-अवस्थं सच्-छब्द-निर्दिष्टं तद्-अनर्हतया कारण-अवस्थम् असच्-छब्द-निर्दिष्टं च त्वम् एव / तत् परम् यत् तस्मात् प्रकृतेः प्रकृति-संबन्धिनश् च जीव-आत्मनः परम् अन्यन् मुक्त-आत्म-तत्त्वं यत्, तद् अपि त्वम् एव //
11.37ab SK त्वम् आदिदेवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् |
161 SK कस्माच् च ते न नमेरन् महा-आत्मन् गरीयसे ब्रह्मणो ऽप्य् आदि-कर्त्रे |
162 SK त्वम् आदि-देवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् |
11.38a SK अतस् त्वम् आदिदेवः, पुरुषः पुराणः, त्वम् अस्य विश्वस्य परं निधानम् / निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परं निधानम्; विश्वस्य शरीरभूतस्यात्मतया परमाधारभूतस् त्वम् एवेत्यर्थः //
164 SK अतस् त्वम् आदि-देवः, पुरुषः पुराणः, त्वम् अस्य विश्वस्य परं निधानम् / निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परं निधानम्; विश्वस्य शरीर-भूतस्या अत्मतया परम-आधार-भूतस् त्वम् एव इत्य्-अर्थः //
11.38cd SK वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्तरूप ||
166 SK वेत्त आसि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्त-रूप ||
11.38 SK जगति सर्वो वेदिता वेद्यं च सर्वं त्वम् एव / एवं सर्वात्मतयावस्थितस् त्वम् एव परं च धाम स्थानम्; प्राप्यस्थानम् इत्यर्थः / त्वया ततं विश्वम् अनन्तरूप / त्वयात्मत्वेन विश्वं चिदचिन्मिश्रं जगत् ततं व्याप्तम् //
168 SK जगति सर्वो वेदिता वेद्यं च सर्वं त्वम् एव / एवं सर्व-आत्मतय आवस्थितस् त्वम् एव परं च धाम स्थानम्; प्राप्य-स्थानम् इत्य्-अर्थः / त्वया ततं विश्वम् अनन्त-रूप / त्वया आत्मत्वेन विश्वं चिद्-अचिन्-मिश्रं जगत् ततं व्याप्तम् //
BhGR_p284433 SK अतस् त्वम् एव वाय्वादिशब्दवाच्य इत्य् आह --
170 SK अतस् त्वम् एव वाय्व्-आदि-शब्द-वाच्य इत्य् आह ---
11.39ab SK वायुर् यमो ऽग्निर् वरुणश् शशाङ्कः प्रजापतिस् त्वं प्रपितामहश् च |
172 SK वायुर् यमो ऽग्निर् वरुणश् शश-अङ्कः प्रजापतिस् त्वं प्रपितामहश् च |
11.39ab SK सर्वेषां प्रपितामहस् त्वम् एव; पितामहादयश् च / सर्वसां प्रजानां पितरः प्रजापतयः, प्रजापतीनां पिता हिरण्यगर्भः प्रजानां पितामहः, हिरण्यगर्भस्यापि पिता त्वं प्रजानां प्रपितामहः / पितामहादीनाम् आत्मतया तत्तच्छब्दवाच्यस् त्वम् एवेत्यर्थः //
174 SK सर्वेषां प्रपितामहस् त्वम् एव; पितामह-आदयश् च / सर्वसां प्रजानां पितरः प्रजा-पतयः, प्रजापतीनां पिता हिरण्य-गर्भः प्रजानां पितामहः, हिरण्य-गर्भस्य अपि पिता त्वं प्रजानां प्रपितामहः / पितामह-आदीनाम् आत्मतया तत्-तच्-छब्द-वाच्यस् त्वम् एव इत्य्-अर्थः //
BhGR_p284922 SK अत्यद्भुताकारं भगवन्तं दृष्ट्वा हर्षोत्फुल्लनयनो ऽत्यन्तसाध्वसावनतः सर्वतो नमस्करोति //
176 SK अत्यद्भुत-आकारं भगवन्तं दृष्ट्वा हर्ष-उत्फुल्ल-नयनो ऽत्यन्त-साध्वस-अवनतः सर्वतो नमस्करोति //
11.39cd SK नमो नमस् ते ऽस्तु सहस्रकृत्वः पुनश् च भूयो ऽपि नमो नमस् ते ||
178 SK नमो नमस् ते ऽस्तु सहस्र-कृत्वः पुनश् च भूयो ऽपि नमो नमस् ते ||
11.40 SK नमः पुरस्ताद् अथ पृष्ठतस् ते नमो ऽस्तु ते सर्वत एव सर्व | अनन्तवीर्यामितविक्रमस् त्वं सर्वं समाप्नोषि ततो ऽसि सर्वः ||
180 SK नमः पुरस्ताद् अथ पृष्ठतस् ते नमो ऽस्तु ते सर्वत एव सर्व | अनन्त-वीर्य-अमित-विक्रमस् त्वं सर्वं समाप्नोषि ततो ऽसि सर्वः ||
11.40 SK अमितवीर्य, अपरिमितपराक्रमस् त्वं सर्वात्मतया समाप्नोषि; ततः सर्वो ऽसि / यतस् त्वं सर्वं चिदचिद्वस्तुजातम् आत्मतया समाप्नोषि, अतः सर्वस्य चिदचिद्वस्तुजातस्य त्वच्छरीरतया त्वत्प्रकारत्वात् सर्वप्रकारस् त्वम् एव सर्वशब्दवाच्यो ऽसीत्यर्थः / ᳚त्वम् अक्षरं सद् असत्᳚, ᳚वायुर् यमो ऽग्निः᳚ इत्यादिसर्वसामानाधिकरण्यनिर्देशस्यात्मतया व्याप्तिर् एव हेतुर् इति सुव्यक्तम् उक्तम्, ᳚त्वया ततं विश्वम् अनन्तरूप᳚, ᳚सर्वं समाप्नोषि ततो ऽसि सर्वः᳚ इति च //
182 SK अमित-वीर्य, अपरिमित-पराक्रमस् त्वं सर्व-आत्मतया समाप्नोषि; ततः सर्वो ऽसि / यतस् त्वं सर्वं चिद्-अचिद्-वस्तु-जातम् आत्मतया समाप्नोषि, अतः सर्वस्य चिद्-अचिद्-वस्तु-जातस्य त्वच्-छरीरतया त्वत्-प्रकारत्वात् सर्व-प्रकारस् त्वम् एव सर्व-शब्द-वाच्यो ऽसि इत्य्-अर्थः / ᳚त्वम् अक्षरं सद् असत्᳚, ᳚वायुर् यमो ऽग्निः᳚ इत्य्-आदि-सर्व-सामानाधिकरण्य-निर्देशस्या अत्मतया व्याप्तिर् एव हेतुर् इति सुव्यक्तम् उक्तम्, ᳚त्वया ततं विश्वम् अनन्त-रूप᳚, ᳚सर्वं समाप्नोषि ततो ऽसि सर्वः᳚ इति च //
11.41 SK सखेति मत्वा प्रसभं यद् उक्तं हे कृष्ण हे यादव हे सखेति | अजानता महिमानं तवेमं मया प्रमादात् प्रणयेन वापि ||
184 SK सख ईति मत्वा प्रसभं यद् उक्तं हे कृष्ण हे यादव हे सख ईति | अजानता महिमानं तव इमं मया प्रमादात् प्रणयेन व आपि ||
11.42 SK यश् चापहासार्थम् असत्कृतो ऽसि विहारशय्यासनभोजनेषु | एको ऽथ वाप्य् अच्युत तत्समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ||
186 SK यश् च अपहास-अर्थम् असत्-कृतो ऽसि विहार-शय्या-आसन-भोजनेषु | एको ऽथ व आप्य् अच्युत तत्-समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ||
BhGR_11.41-42 SK तवानन्तवीर्यत्वामितविक्रमत्वसर्वान्तरात्मत्वस्रष्टृत्वादिको यो महिमा, तम् इमम् अजानता मया प्रमादान् मोहात्, प्रणयेन चिरपरिचयेन वा सखेति मम वयस्यः इति मत्वा, हे कृष्ण, हे यादव, हे सखा इति त्वयि प्रसभम् विनयापेतं यद् उक्तं, यच् च प्रिहासार्थं सर्वदैव सत्कारार्हस् त्वम् असत्कृतो ऽसि, विहारशय्यासनभोजनेषु च सहकृतेषु एकान्ते वः समक्षं वा यद् असत्कृतो ऽसि; तत् सर्वं त्वाम् अप्रमेयम् अहं क्षामये //
188 SK तव अनन्त-वीर्यत्व-अमित-विक्रमत्व-सर्व-अन्तर-आत्मत्व-स्रष्टृत्व-आदिको यो महिमा, तम् इमम् अजानता मया प्रमादान् मोहात्, प्रणयेन चिर-परिचयेन वा सख ईति मम वयस्यः इति मत्वा, हे कृष्ण, हे यादव, हे सखा इति त्वयि प्रसभम् विनय-अपेतं यद् उक्तं, यच् च प्रिहास-अर्थं सर्वद ऐव सत्-कार-अर्हस् त्वम् असत्-कृतो ऽसि, विहार-शय्या-आसन-भोजनेषु च सह-कृतेषु एक-अन्ते वः समक्षं वा यद् असत्-कृतो ऽसि; तत् सर्वं त्वाम् अप्रमेयम् अहं क्षामये //
11.43 SK पितासि लोकस्य चराचरस्य त्वम् अस्य पूज्यश् च गुरु गरीयान् | न त्वत्समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोकत्रये ऽप्य् अप्रतिमप्रभाव ||
190 SK पित आसि लोकस्य चर-अचरस्य त्वम् अस्य पूज्यश् च गुरु गरीयान् | न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोक-त्रये ऽप्य् अप्रतिम-प्रभाव ||
11.43 SK अप्रतिमप्रभाव! त्वम् अस्य सर्वस्य चराचरस्य लोकस्य पितासि / अस्य लोकस्य गुरुश् चासि; अतस् त्वम् अस्य चराचरस्य लोकस्य गरीयान् पूज्यतमः / न त्वत्समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यः -- लोकत्रये ऽपि त्वदन्यः कारुण्यादिना केनापि गुणेन न त्वत्समो ऽस्ति / कुतो ऽभ्यधिकः? //
192 SK अप्रतिम-प्रभाव! त्वम् अस्य सर्वस्य चर-अचरस्य लोकस्य पित आसि / अस्य लोकस्य गुरुश् च असि; अतस् त्वम् अस्य चर-अचरस्य लोकस्य गरीयान् पूज्यतमः / न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यः --- लोक-त्रये ऽपि त्वद्-अन्यः कारुण्य-आदिना केन अपि गुणेन न त्वत्-समो ऽस्ति / कुतो ऽभ्यधिकः? //
11.44 SK तस्मात् प्रणम्य प्रणिधाय कार्यं प्रसादये त्वाम् अहम् ईशम् ईड्यम् | पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ||
194 SK तस्मात् प्रणम्य प्रणिधाय कार्यं प्रसादये त्वाम् अहम् ईशम् ईड्यम् | पित ईव पुत्रस्य सख ईव सख्युः प्रियः प्रियाय अर्हसि देव सोढुम् ||
11.44 SK यस्मात् त्वं सर्वस्य पिता पूज्यतमो गुरुश् च कारुण्यादिगुणैश् च सर्वाधिको ऽसि, तस्मात् त्वाम् ईशम् ईड्यं प्रणम्य प्रणिधाय च कायं, प्रसादये; यथा कृतापराधस्यापि पुत्रस्य, यथा च सख्युः, प्रणामपूर्वं प्रार्थितः पिता वा सखा वा प्रसीदति; तथा त्वं परमकारुणिकः प्रियाय मे सर्वं सोढुम् अर्हसि //
196 SK यस्मात् त्वं सर्वस्य पिता पूज्यतमो गुरुश् च कारुण्य-आदि-गुणैश् च सर्व-अधिको ऽसि, तस्मात् त्वाम् ईशम् ईड्यं प्रणम्य प्रणिधाय च कायं, प्रसादये; यथा कृत-अपराधस्य अपि पुत्रस्य, यथा च सख्युः, प्रणाम-पूर्वं प्रार्थितः पिता वा सखा वा प्रसीदति; तथा त्वं परम-कारुणिकः प्रियाय मे सर्वं सोढुम् अर्हसि //
11.45 SK अदृष्टपूर्वं हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे | तद् एव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ||
198 SK अदृष्ट-पूर्वं हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे | तद् एव मे दर्शय देव रूपं प्रसीद देव-ईश जगन्-निवास ||
11.45 SK अदृष्टपूर्वम् -- अत्यद्भुतम् अत्युग्रं च तव रूपं दृष्ट्वा हृषितो ऽस्मि प्रीतो ऽस्मि / भयेन प्रव्यथितं च मे मनः / अतस् तद् एव तव सुप्रसन्नं रूपं मे दर्शय / प्रसीद देवेश जगन्निवास -- मयि प्रसादं कुरु, देवानां ब्रह्मादीनाम् अपीश, निखिलजगदाश्रयभूत //
200 SK अदृष्ट-पूर्वम् --- अत्यद्भुतम् अत्युग्रं च तव रूपं दृष्ट्वा हृषितो ऽस्मि प्रीतो ऽस्मि / भयेन प्रव्यथितं च मे मनः / अतस् तद् एव तव सुप्रसन्नं रूपं मे दर्शय / प्रसीद देव-ईश जगन्-निवास --- मयि प्रसादं कुरु, देवानां ब्रह्म-आदीनाम् अपी इश, निखिल-जगद्-आश्रय-भूत //
11.46 SK किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुम् अहं तथैव | तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ||
202 SK किरीटिनं गदिनं चक्र-हस्तम् इच्छामि त्वां द्रष्टुम् अहं तथ ऐव | तेन एव रूपेण चतुर्-भुजेन सहस्र-बाहो भव विश्व-मूर्ते ||
11.46 SK तथैव पूर्ववत्, किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुम् इच्छामि / अतस् तेनैव पूर्वसिद्धेन चतुर्भुजेन रूपेण युक्तो भव / सहस्रबाहो विश्वमूर्ते इदानीं सहस्रबाहुत्वेन विश्वशरीरत्वेन दृश्यमानरूपस् त्वं तेनैव रूपेण युक्तो भवेत्यर्थः //
204 SK तथ ऐव पूर्ववत्, किरीटिनं गदिनं चक्र-हस्तं त्वां द्रष्टुम् इच्छामि / अतस् तेन एव पूर्व-सिद्धेन चतुर्-भुजेन रूपेण युक्तो भव / सहस्र-बाहो विश्व-मूर्ते इदानीं सहस्र-बाहुत्वेन विश्व-शरीरत्वेन दृश्यमान-रूपस् त्वं तेन एव रूपेण युक्तो भव इत्य्-अर्थः //
11.47 SK मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितम् आत्मयोगात् | तेजोमयं विश्वम् अनन्तम् आद्यं यन् मे त्वदन्येन न दृष्टपूर्वम् ||
206 SK मया प्रसन्नेन तव अर्जुन इदं रूपं परं दर्शितम् आत्म-योगात् | तेजो-मयं विश्वम् अनन्तम् आद्यं यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम् ||
11.47 SK यन् मे तेजोमयं तेजसां राशिः; विश्वं विश्वात्मभूतम्, अनन्तम् अन्तरहितम्; प्रदर्शनार्थम् इदम्; आदिमध्यान्तरहितम्; आद्यम् मद्व्यतिरिक्तस्य कृत्स्नस्यादिभूतम्, त्वदन्येन केनापि न दृष्टपूर्वं रूपम् -- तद् इदं प्रसन्नेन मया मद्भक्ताय ते दर्शितम्; आत्मयोगाद् अत्मनस् सत्यसंकल्पत्वयोगात् //
208 SK यन् मे तेजो-मयं तेजसां राशिः; विश्वं विश्व-आत्म-भूतम्, अनन्तम् अन्त-रहितम्; प्रदर्शन-अर्थम् इदम्; आदि-मध्य-अन्त-रहितम्; आद्यम् मद्-व्यतिरिक्तस्य कृत्स्नस्या अदि-भूतम्, त्वद्-अन्येन केन अपि न दृष्ट-पूर्वं रूपम् --- तद् इदं प्रसन्नेन मया मद्-भक्ताय ते दर्शितम्; आत्म-योगाद् अत्मनस् सत्य-संकल्पत्व-योगात् //
BhGR_p289266 SK अनन्यभक्तिव्यतिरिक्तैः सर्वैर् अप्य् उपायैर् यथावद् अवस्थितो ऽहं द्रष्टुं न शक्य इत्य् आह --
210 SK अनन्य-भक्ति-व्यतिरिक्तैः सर्वैर् अप्य् उपायैर् यथावद् अवस्थितो ऽहं द्रष्टुं न शक्य इत्य् आह ---
11.48 SK न वेदयज्ञाध्ययनैर् न दानैर् न च क्रियाभिर् न तपोभिर् उग्रैः | एवंरूपश् शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ||
212 SK न वेद-यज्ञ-अध्ययनैर् न दानैर् न च क्रियाभिर् न तपोभिर् उग्रैः | एवं-रूपश् शक्य अहं नृ-लोके द्रष्टुं त्वद्-अन्येन कुरु-प्रवीर ||
11.48 SK एवंरूपो यथावद् अवथितो ऽहं मयि भक्तिमतस् त्वत्तो ऽन्येन एकान्तभक्तिरहितेन केनापि पुरुषेण वेदयज्ञादिभिः केवलैर् द्रष्टुं न शक्यः //
214 SK एवं-रूपो यथावद् अवथितो ऽहं मयि भक्तिमतस् त्वत्तो ऽन्येन एक-अन्त-भक्ति-रहितेन केन अपि पुरुषेण वेद-यज्ञ-आदिभिः केवलैर् द्रष्टुं न शक्यः //
11.49 SK मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् | व्यपेतभीः प्रीतमनाः पुनस् त्वं तद् एव मे रूपम् इदं प्रपश्य ||
216 SK मा ते व्यथा मा च विमूढ-भावो दृष्ट्वा रूपं घोरम् ईदृङ् मम इदम् | व्यपेत-भीः प्रीत-मनाः पुनस् त्वं तद् एव मे रूपम् इदं प्रपश्य ||
11.49 SK ईदृशघोररूपदर्शनेन ते या व्यथा, यश् च विमूढभावो वर्तते, तदुभयं मा भूत्; त्वया अभ्यस्तपूर्वम् एव सौम्यं रूपं दर्शयामि, तद् एवेदं मम रूपं प्रपश्य //
218 SK ईदृश-घोर-रूप-दर्शनेन ते या व्यथा, यश् च विमूढ-भावो वर्तते, तद्-उभयं मा भूत्; त्वया अभ्यस्त-पूर्वम् एव सौम्यं रूपं दर्शयामि, तद् एव इदं मम रूपं प्रपश्य //
11.50 SK इत्य् अर्जुनं वासुदेवस् तथोक्त्वा स्वकं रूपं दर्शयाम् आस भूयः | आश्वासयाम् आस च भीतम् एनं भूत्वा पुनस् सौम्यवपुर् महात्मा ||
220 SK इत्य् अर्जुनं वासु-देवस् तथ ऊक्त्वा स्वकं रूपं दर्शयाम् आस भूयः | आश्वासयाम् आस च भीतम् एनं भूत्वा पुनस् सौम्य-वपुर् महा-आत्मा ||
11.50 SK एवं पाण्डुतनयं भगवान् वसुदेवसूनुर् उक्त्वा भूयः स्वकीयम् एव चतुर्भुजं रूपं दर्शयाम् आस; अपरिचितरुपदर्शनेन भीतम् एनं पुनर् अपि परिचितसौम्यवपुर् भूत्वा आश्वासयाम् आस च, महात्मा सत्यसङ्कल्पः / अस्य सर्वेश्वरस्य परमपुरुषस्य परस्य ब्रह्मणो जगदुपकृतिमर्त्यस्य वसुदेवसूनोश् चतुर्भुजम् एव स्वकीयं रूपम्; कंसाद् भीतवसुदेवप्रार्थनेन आकंसवधाद् भुजद्वयम् उपसंहृतं पश्चाद् आविष्कृतं च / ᳚जातो ऽसि देव देवेश शङ्खचक्रगदाधर / दिव्यं रूपम् इदं देव प्रसादेनोप्संहर // ..... उपसंहर विश्वात्मन् रूपम् एतच् चतुर्भुजम्᳚ इति हि प्रार्थितम् / शिशुपालस्यापि द्विषतो ऽनवरतभावनाविषयश् चतुर्भुजम् एव वसुदेवसूनो रूपम्, ᳚उदारपीवरचतुर्बाहुं शङ्खचक्रगदाधरम्᳚ इति / अतः पार्थेनात्र तेनैव रूपेण चतुर्भुजनेत्य् उच्यते //
222 SK एवं पाण्डु-तनयं भगवान् वसु-देव-सूनुर् उक्त्वा भूयः स्वकीयम् एव चतुर्-भुजं रूपं दर्शयाम् आस; अपरिचित-रुप-दर्शनेन भीतम् एनं पुनर् अपि परिचित-सौम्य-वपुर् भूत्वा आश्वासयाम् आस च, महा-आत्मा सत्य-सङ्कल्पः / अस्य सर्व-ईश्वरस्य परम-पुरुषस्य परस्य ब्रह्मणो जगद्-उपकृति-मर्त्यस्य वसु-देव-सूनोश् चतुर्-भुजम् एव स्वकीयं रूपम्; कंसाद् भीत-वसु-देव-प्रार्थनेन आकंस-वधाद् भुज-द्वयम् उपसंहृतं पश्चाद् आविष्कृतं च / ᳚जातो ऽसि देव देव-ईश शङ्ख-चक्र-गदा-धर / दिव्यं रूपम् इदं देव प्रसादेन उप्संहर // ..... उपसंहर विश्व-आत्मन् रूपम् एतच् चतुर्-भुजम्᳚ इति हि प्रार्थितम् / शिशु-पालस्य अपि द्विषतो ऽनवरत-भावना-विषयश् चतुर्-भुजम् एव वसु-देव-सूनो रूपम्, ᳚उदार-पीवर-चतुर्-बाहुं शङ्ख-चक्र-गदा-धरम्᳚ इति / अतः पार्थेन अत्र तेन एव रूपेण चतुर्-भुजन इत्य् उच्यते //
11.51 SK दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन | इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ||
224 SK दृष्ट्व ईदं मानुषं रूपं तव सौम्यं जन-अर्दन | इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ||
11.51 SK अनवधिकातिशयसौन्दर्यसौकुमार्यलावण्यादियुक्तं तवैवासाधारणं मनुष्यत्वसंस्थानसंस्थितम् अतिसौम्यम् इदं तव रूपं दृष्ट्वा इदानीं सचेतास् संवृत्तो ऽस्मि; प्रकृतिं गतश् च //
226 SK अनवधिक-अतिशय-सौन्दर्य-सौकुमार्य-लावण्य-आदि-युक्तं तव एव असाधारणं मनुष्यत्व-संस्थान-संस्थितम् अतिसौम्यम् इदं तव रूपं दृष्ट्वा इदानीं स-चेतास् संवृत्तो ऽस्मि; प्रकृतिं गतश् च //
11.52 SK सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम | देवा अप्य् अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ||
228 SK सु-दुर्-दर्शम् इदं रूपं दृष्टवान् असि यन् मम | देवा अप्य् अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ||
11.52 SK मम इदं सर्वस्य प्रशासने ऽवस्थितं सर्वास्रयं सर्वकारणभूतं रूपं यद् दृष्टवान् असि, तत् सुदुर्दर्शं न केनापि द्रष्टुं शक्यम् / अस्य रूपस्य देवा अपि नित्यं दर्शनकाङ्क्षिणः, न तु दृष्टवन्तः //
230 SK मम इदं सर्वस्य प्रशासने ऽवस्थितं सर्व-आस्रयं सर्व-कारण-भूतं रूपं यद् दृष्टवान् असि, तत् सुदुर्दर्शं न केन अपि द्रष्टुं शक्यम् / अस्य रूपस्य देवा अपि नित्यं दर्शन-काङ्क्षिणः, न तु दृष्टवन्तः //
BhGR_p292091 SK कुत इत्य् अत्र आह --
232 SK कुत इत्य् अत्र आह ---
11.53 SK नाहं वेदैर् न तपसा न दानेन न चेज्यया | शक्य एवंविधो द्रष्टुं दृष्टवान् असि माम् यथा ||
234 SK न अहं वेदैर् न तपसा न दानेन न च इज्यया | शक्य एवं-विधो द्रष्टुं दृष्टवान् असि माम् यथा ||
11.54 SK भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन | ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||
236 SK भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन | ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्-तप ||
BhGR_11.53-54 SK वेदैर् अध्यापनप्रवचनाध्ययनश्रवणजपविषयैः, यागदानहोमतपोभिश् च मद्भक्तिविरहितैः केवलैः यथावद् अवस्थितो ऽहं द्रष्टुम् अशक्यः / अनन्यया तु भक्त्या तत्त्वतश् शास्त्रैर् ज्ञातुं तत्त्वतस् साक्षात्कर्तुं, तत्त्वतः प्रवेष्टुं च शक्यः / तथा च श्रुतिः, ᳚नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन / यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम्᳚ इति //
238 SK वेदैर् अध्यापन-प्रवचन-अध्ययन-श्रवण-जप-विषयैः, याग-दान-होम-तपोभिश् च मद्-भक्ति-विरहितैः केवलैः यथावद् अवस्थितो ऽहं द्रष्टुम् अशक्यः / अनन्यया तु भक्त्या तत्त्वतश् शास्त्रैर् ज्ञातुं तत्त्वतस् साक्षात्कर्तुं, तत्त्वतः प्रवेष्टुं च शक्यः / तथा च श्रुतिः, ᳚न अयम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन / यम् एव एष वृणुते तेन लभ्यस् तस्य एष आत्मा विवृणुते तनूं स्वाम्᳚ इति //
11.55 SK मत्कर्मकृन् मत्परमो मद्भक्तस् सङ्गवर्जितः | निर्वैरस् सर्वभूतेषु यः स माम् एति पाण्डव ||
240 SK मत्-कर्म-कृन् मत्-परमो मद्-भक्तस् सङ्ग-वर्जितः | निर्वैरस् सर्व-भूतेषु यः स माम् एति पाण्डव ||
11.55 SK वेदाध्ययनादीनि सर्वाणि कर्माणि मदाराधनरूपाणीति यः करोति, स मत्कर्मकृत् / मत्परमः -- सर्वेषाम् आरम्भाणाम् अहम् एव परमोद्देश्यो यस्य, स मत्परमः / मद्भक्तः -- अत्यर्थमत्प्रियत्वेन मत्कीर्तनस्तुतिध्यानार्चनप्रणामादिभिर् विना आत्मधारणम् अलभमानो मदेकप्रयोजनतया यः सततं तानि करोति, स मद्भक्तः / सङ्गवर्जितः मदेकप्रियत्वेनेतरसङ्गम् असहमानः / निर्वैरस् सर्वभूतेषु -- मत्संश्लेषवियोगैकसुखदुःखस्वभावत्वात् स्वदुःखस्य स्वापराधननिमित्तत्वानुसंधानाच् च सर्वभूतानां परमपुरुषपरतन्त्रत्वानुसंधानाच् च सर्वभूतेषु वैरनिमित्ताभावात् तेषु निर्वैरः / य एवं भूतः, स माम् इति मां यथावद् अवस्थितं प्राप्नोति; निरस्ताविद्याद्यशेषदोषगन्धो मदेकानुभवो भवतीत्यर्थः //
242 SK वेद-अध्ययन-आदीनि सर्वाणि कर्माणि मद्-आराधन-रूपाणि इति यः करोति, स मत्-कर्म-कृत् / मत्-परमः --- सर्वेषाम् आरम्भाणाम् अहम् एव परम-उद्देश्यो यस्य, स मत्-परमः / मद्-भक्तः --- अत्यर्थ-मत्-प्रियत्वेन मत्-कीर्तन-स्तुति-ध्यान-अर्चन-प्रणाम-आदिभिर् विना आत्म-धारणम् अलभमानो मद्-एक-प्रयोजनतया यः सततं तानि करोति, स मद्-भक्तः / सङ्ग-वर्जितः मद्-एक-प्रियत्वेन इतर-सङ्गम् असहमानः / निर्वैरस् सर्व-भूतेषु --- मत्-संश्लेष-वियोग-एक-सुख-दुःख-स्व-भावत्वात् स्व-दुःखस्य स्व-अपराधन-निमित्तत्व-अनुसंधानाच् च सर्व-भूतानां परम-पुरुष-पर-तन्त्रत्व-अनुसंधानाच् च सर्व-भूतेषु वैर-निमित्त-अभावात् तेषु निर्वैरः / य एवं भूतः, स माम् इति मां यथावद् अवस्थितं प्राप्नोति; निरस्त-अविद्या-आद्य्-अशेष-दोष-गन्धो मद्-एक-अनुभवो भवति इत्य्-अर्थः //
12 SK भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशाइश्वर्यं साक्षात्कर्तुकामायार्जुनाय अनवधिकातिशयकारुण्याउदार्यसौशील्यादिगुणसागरेण सत्यसंकल्पेन भगवता स्वाइश्वर्यं यथावद् अवस्थितं दर्शितम्; उक्तं च तत्त्वतो भगवज्ज्ञानदर्शनप्राप्तीनाम् ऐकान्तिकात्यन्तिकभगवद्भक्त्येकलभ्यत्वम् / अननतरम् आत्मप्राप्तिसाधनभूताद् अत्मोपासनाद् भक्तिरूपस्य भगवदुपासनस्य स्वसाध्यनिष्पादने शैघ्र्यात् सुसुखोपादानत्वाच् च श्रैष्ठ्यम्, भगवदुपासनोपायश् च, तदशक्तस्याक्षरनिष्ठता, तदपेक्षिताश् चोच्यन्ते / भगवदुपासनस्य प्राप्यभूतोपास्यश्रैष्ठ्याच् श्रैष्ठ्यं तु, ᳚योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना / श्रद्धावान् भजते यो माम् स मे युक्ततमो मतः // इत्य् अत्रोक्तम्
244 SK भक्ति-योग-निष्ठानां प्राप्य-भूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुश-ऐश्वर्यं साक्षात्कर्तु-कामाय अर्जुनाय अनवधिक-अतिशय-कारुण्य-औदार्य-सौशील्य-आदि-गुण-सागरेण सत्य-संकल्पेन भगवता स्व-ऐश्वर्यं यथावद् अवस्थितं दर्शितम्; उक्तं च तत्त्वतो भगवज्-ज्ञान-दर्शन-प्राप्तीनाम् ऐकान्तिक-आत्यन्तिक-भगवद्-भक्त्य्-एक-लभ्यत्वम् / अननतरम् आत्म-प्राप्ति-साधन-भूताद् अत्म-उपासनाद् भक्ति-रूपस्य भगवद्-उपासनस्य स्व-साध्य-निष्पादने शैघ्र्यात् सु-सुख-उपादानत्वाच् च श्रैष्ठ्यम्, भगवद्-उपासन-उपायश् च, तद्-अशक्तस्य अक्षर-निष्ठता, तद्-अपेक्षिताश् च उच्यन्ते / भगवद्-उपासनस्य प्राप्य-भूत-उपास्य-श्रैष्ठ्याच् श्रैष्ठ्यं तु, ᳚योगिनाम् अपि सर्वेषां मद्-गतेन अन्तरात्मना / श्रद्धावान् भजते यो माम् स मे युक्ततमो मतः // इत्य् अत्र उक्तम्
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).
Source