Rāmānuja's Commentary on the Bhagavadgītā
Bhagavadgītābhāṣya
Bहगवद्गीताभाष्य
SKपरं ब्रह्म परं धाम पवित्रं परमं भवान् |
SKअपर्याप्तं तद् अस्माकं बलं भीष्म-अभिरक्षितम् | पर्याप्तं त्व् इदम् एतेषां बलं भीम-अभिरक्षितम् ||
SKपरं ब्रह्म परं धाम पवित्रं परमं भवान् |
SKपरं ब्रह्म परं धाम परमं पवित्रं इति यं श्रुतयो वदन्ति, स हि भवान् / ᳚यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्मेति᳚, ᳚ब्रह्मविद् आप्नोति परम्᳚, ᳚स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति᳚ इति / तथा परं धाम; धामशब्दो ज्योतिर्वचनः; परं ज्योतिः ᳚अथ यद् अतः परो दिवो ज्योतिर् दीप्यते᳚, ᳚परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते᳚, ᳚तं देवा ज्योतिषां ज्योतिः᳚ इति / तथा च परमं पवित्रम् परमं पावनम्; स्मर्तुर् अशेषकल्मषाश्लेषकरम्, विनाशकरं च / ᳚यथा पुष्करपलाश आपो न श्लिष्यन्ते एवम् एवंविदि पापं कर्म न श्लिष्यते᳚, ᳚तद् यथेषीकातूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते᳚, ᳚नारायण परं ब्रह्म तत्त्वं नगरायणः परः / नारायण परो ज्योतिर् आत्मा नारायणः परः᳚ इति हि श्रुतयो वदन्ति ||
SKपरं ब्रह्म परं धाम परमं पवित्रं इति यं श्रुतयो वदन्ति, स हि भवान् / ᳚यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्म इति᳚, ᳚ब्रह्म-विद् आप्नोति परम्᳚, ᳚स यो ह वै तत् परमं ब्रह्म वेद ब्रह्म एव भवति᳚ इति / तथा परं धाम; धाम-शब्दो ज्योतिर्-वचनः; परं ज्योतिः ᳚अथ यद् अतः परो दिवो ज्योतिर् दीप्यते᳚, ᳚परं ज्योतिर् उपसंपद्य स्वेन रूपेण अभिनिष्पद्यते᳚, ᳚तं देवा ज्योतिषां ज्योतिः᳚ इति / तथा च परमं पवित्रम् परमं पावनम्; स्मर्तुर् अशेष-कल्मष-आश्लेष-करम्, विनाश-करं च / ᳚यथा पुष्कर-पलाश आपो न श्लिष्यन्ते एवम् एवं-विदि पापं कर्म न श्लिष्यते᳚, ᳚तद् यथ ईषीका-तूलम् अग्नौ प्रोतं प्रदूयेत एवं ह अस्य सर्वे पाप्मानः प्रदूयन्ते᳚, ᳚नारायण परं ब्रह्म तत्त्वं नगरायणः परः / नारायण परो ज्योतिर् आत्मा नारायणः परः᳚ इति हि श्रुतयो वदन्ति ||