Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 5

SK
संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि | यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ||
SK
संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि | यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ||
SK
कर्मणां संन्यासं ज्ञानयोगम् पुनः कर्मयोगं च शंससि / एतद् उक्तं भवति -- द्वितीये ऽध्याये मुमुक्षोः प्रथमं कर्मयोग एव कार्यः, कर्मयोगेन मृदितान्तःकरणकषायस्य ज्ञानयोगेनात्मदर्शनं कार्यम् इति प्रतिपाद्य पुनस् तृतीयचतुर्थयोः ज्ञानयोगाधिकारदशापन्नस्यापि कर्मनिष्ठैव ज्यायसी, सैव ज्ञाननिष्ठानिरपेक्षा आत्मप्राप्तौ साधनम् इति कर्मनिष्ठां प्रशंशसि इति / तत्रैतयोर् ज्ञानयोगकर्मयोगयोर् आत्मप्राप्तिसाधनभावे यद् एकं सौकार्यच् छैघ्र्याच् च श्रेयः श्रेष्ठम् इति सुनिश्चितम्, तन् मे ब्रूहि //
SK
कर्मणां संन्यासं ज्ञान-योगम् पुनः कर्म-योगं च शंससि / एतद् उक्तं भवति --- द्वितीये ऽध्याये मुमुक्षोः प्रथमं कर्म-योग एव कार्यः, कर्म-योगेन मृदित-अन्तःकरण-कषायस्य ज्ञान-योगेना अत्म-दर्शनं कार्यम् इति प्रतिपाद्य पुनस् तृतीय-चतुर्थयोः ज्ञान-योग-अधिकार-दशा-आपन्नस्य अपि कर्म-निष्ठ ऐव ज्यायसी, स ऐव ज्ञान-निष्ठा-निरपेक्षा आत्म-प्राप्तौ साधनम् इति कर्म-निष्ठां प्रशंशसि इति / तत्र एतयोर् ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावे यद् एकं सौकार्यच् छैघ्र्याच् च श्रेयः श्रेष्ठम् इति सुनिश्चितम्, तन् मे ब्रूहि //
SK
संन्यासः कर्मयोगश् च निश्श्रेयसकराव् उभौ | तयोस् तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ||
SK
संन्यासः कर्म-योगश् च निश्श्रेयस-कराव् उभौ | तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ||
SK
संन्यासः ज्ञानयोगः, कर्मयोगश् च ज्ञानयोगशक्तस्याप्य् उभौ निरपेक्षौ निश्श्रेयसकरौ / तयोस् तु कर्मसंन्यासाज् ज्ञानयोगात् कर्मयोग एव विशिष्यते //
SK
संन्यासः ज्ञान-योगः, कर्म-योगश् च ज्ञान-योग-शक्तस्य अप्य् उभौ निरपेक्षौ निश्श्रेयस-करौ / तयोस् तु कर्म-संन्यासाज् ज्ञान-योगात् कर्म-योग एव विशिष्यते //
SK
कुत इत्य् अत्राह --
SK
कुत इत्य् अत्रा अह ---
SK
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति | निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ||
SK
ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति | निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ||
SK
यः कर्मयोगी तदन्तर्गतात्मानुभवतृप्तस् तद्व्यतिरिक्तं किम् अपि न काङ्क्षति, तत एव किम् अपि न द्वेष्टि, तत एव द्वन्द्वसहश् च; स नित्यसंन्यासी नित्यज्ञाननिष्ठ इति ज्ञेयः / स हि सुकरकर्मयोगनिष्ठतया सुखं बन्धात् प्रमुच्यते //
SK
यः कर्म-योगी तद्-अन्तर्गत-आत्म-अनुभव-तृप्तस् तद्-व्यतिरिक्तं किम् अपि न काङ्क्षति, तत एव किम् अपि न द्वेष्टि, तत एव द्वन्द्व-सहश् च; स नित्य-संन्यासी नित्य-ज्ञान-निष्ठ इति ज्ञेयः / स हि सुकर-कर्म-योग-निष्ठतया सुखं बन्धात् प्रमुच्यते //
SK
ज्ञानयोगकर्मयोगयोर् आत्मप्राप्तिसाधनभावे ऽन्योन्यनैरपेक्ष्यम् आह --
SK
ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावे ऽन्योन्य-नैरपेक्ष्यम् आह ---
SK
सांख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः | एकम् अप्य् आस्थितस् सम्यग् उभयोर् विन्दन्ते फलम् ||
SK
सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः | एकम् अप्य् आस्थितस् सम्यग् उभयोर् विन्दन्ते फलम् ||
SK
ज्ञानयोगकर्मयोगौ फलभेदात् पृथग् भूतौ ये प्रवदन्ति, ते बालाः अनिष्पन्नज्ञानाः न पण्डिताः अकृत्स्नविदः / कर्मयोगो ज्ञानयोगम् एव साधयति; ज्ञानयोगस् त्व् एक आत्मावलोकनं साधयतीति तयोः फलभेदेन पृथक्त्वं वदन्तो न पण्डिता इत्यर्थः / उभयोर् आत्मावलोकनैकफलयोर् एकफलत्वेन एकम् अप्य् आस्थितस् तद् एव फलं लभते //
SK
ज्ञान-योग-कर्म-योगौ फल-भेदात् पृथग् भूतौ ये प्रवदन्ति, ते बालाः अनिष्पन्न-ज्ञानाः न पण्डिताः अकृत्स्न-विदः / कर्म-योगो ज्ञान-योगम् एव साधयति; ज्ञान-योगस् त्व् एक आत्म-अवलोकनं साधयति इति तयोः फल-भेदेन पृथक्त्वं वदन्तो न पण्डिता इत्य्-अर्थः / उभयोर् आत्म-अवलोकन-एक-फलयोर् एक-फलत्वेन एकम् अप्य् आस्थितस् तद् एव फलं लभते //
SK
एतद् एव विवृणोति --
SK
एतद् एव विवृणोति ---
SK
यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते | एकं सांख्यं च योगं च यः पश्यति स पश्यति ||
SK
यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते | एकं सांख्यं च योगं च यः पश्यति स पश्यति ||
SK
सांख्यैः ज्ञाननिष्ठैः / यद् अत्मावलोकनरूपं फलं प्राप्यते, तद् एव कर्मयोगनिष्ठैर् अपि प्राप्यते / एवम् एकफलत्वेन एकं वैकल्पिकं सांख्यं योगं च यः पश्यति, स पश्यति स एव पण्डित इत्यर्थः //
SK
सांख्यैः ज्ञान-निष्ठैः / यद् अत्म-अवलोकन-रूपं फलं प्राप्यते, तद् एव कर्म-योग-निष्ठैर् अपि प्राप्यते / एवम् एक-फलत्वेन एकं वैकल्पिकं सांख्यं योगं च यः पश्यति, स पश्यति स एव पण्डित इत्य्-अर्थः //
SK
इयान् विशेष इत्य् आहा --
SK
इयान् विशेष इत्य् आहा ---
SK
संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः | योगयुक्तो मुनिर् ब्रह्म न चिरेणाधिगच्छति ||
SK
संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः | योग-युक्तो मुनिर् ब्रह्म न चिरेण अधिगच्छति ||
SK
संन्यासः ज्ञानयोगस् तु अयोगतः कर्मयोगाद् र्ते प्राप्तुम् अशक्यः; योगयुक्तः कर्मयोगयुक्तः स्वयम् एव मुनिः आत्ममननशीलः सुखेन कर्मयोगं साधयित्वा न चिरेण अल्पेनैव कालेन ब्रह्माधिगच्छति आत्मानं प्राप्नोति / ज्ञानयोगयुक्तस् तु महता दुःखेन ज्ञानयोगं साधयति; दुःखसाध्यत्वाद् आत्मानं चिरेण प्राप्नोतीत्यर्थः //
SK
संन्यासः ज्ञान-योगस् तु अयोगतः कर्म-योगाद् र्ते प्राप्तुम् अशक्यः; योग-युक्तः कर्म-योग-युक्तः स्वयम् एव मुनिः आत्म-मनन-शीलः सुखेन कर्म-योगं साधयित्वा न चिरेण अल्पेन एव कालेन ब्रह्म अधिगच्छति आत्मानं प्राप्नोति / ज्ञान-योग-युक्तस् तु महता दुःखेन ज्ञान-योगं साधयति; दुःख-साध्यत्वाद् आत्मानं चिरेण प्राप्नोति इत्य्-अर्थः //
SK
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः | सर्वभूतात्मभूतात्मा कुर्वन्न् अपि न लिप्यते ||
SK
योग-युक्तो विशुद्ध-अत्मा विजित-आत्मा जित-इन्द्रियः | सर्व-भूत-आत्म-भूत-आत्मा कुर्वन्न् अपि न लिप्यते ||
SK
कर्मयोगयुक्तस् तु शास्त्रीये परमपुरुषाराधनरूपे विशुद्धे कर्मणि वर्तमानः तेन विशुद्धमनाः विजितात्मा स्वाभ्यस्ते ते कर्मणि व्यापृतमनस्त्वेन सुखेन विजितमनाः , तत एव जितेन्दियः कर्तुर् आत्मनो याथात्म्यानुसन्धाननिष्ठतया सर्वभूतात्मभूतात्मा सर्वेषां देवादिभूतानाम् आत्मभूत आत्मा यस्यासौ सर्वभूतात्मभूतात्मा / आत्मयाथात्म्यम् अनुसन्धानस्य हि देवादीनां स्वस्य चैकाकार आत्मा; देवादिभेदानां प्रकृतिपरिणामविशेषरूपतयात्माकारत्वासंभवात् / प्रकृतिवियुक्तः सर्वत्र देवादिदेहेषु ज्ञानैकाकारतया समानाकार इति ᳚निर्दोषं हि समं ब्रह्म᳚ इति अनन्तरम् एव वक्ष्यते / स एवंभूतः कर्म कुर्वन्न् अपि अनात्मन्य् आत्माभिमानेन न लिप्यते -- न संबध्यते / अतो ऽचिरेणात्मानं प्राप्नोतीत्यर्थः //
SK
कर्म-योग-युक्तस् तु शास्त्रीये परम-पुरुष-आराधन-रूपे विशुद्धे कर्मणि वर्तमानः तेन विशुद्ध-मनाः विजित-आत्मा स्व-अभ्यस्ते ते कर्मणि व्यापृत-मनस्त्वेन सुखेन विजित-मनाः , तत एव जित-इन्दियः कर्तुर् आत्मनो याथात्म्य-अनुसन्धान-निष्ठतया सर्व-भूत-आत्म-भूत-आत्मा सर्वेषां देव-आदि-भूतानाम् आत्म-भूत आत्मा यस्य असौ सर्व-भूत-आत्म-भूत-आत्मा / आत्म-याथात्म्यम् अनुसन्धानस्य हि देव-आदीनां स्वस्य च एक-आकार आत्मा; देव-आदि-भेदानां प्रकृति-परिणाम-विशेष-रूपतया आत्म-आकारत्व-असंभवात् / प्रकृति-वियुक्तः सर्वत्र देव-आदि-देहेषु ज्ञान-एक-आकारतया समान-आकार इति ᳚निर्दोषं हि समं ब्रह्म᳚ इति अनन्तरम् एव वक्ष्यते / स एवं-भूतः कर्म कुर्वन्न् अपि अनात्मन्य् आत्म-अभिमानेन न लिप्यते --- न संबध्यते / अतो ऽचिरेणा अत्मानं प्राप्नोति इत्य्-अर्थः //
SK
यतः सौकर्याच् छैघ्र्याच् च कर्मयोग एव श्रेयान्, अतस् तदपेक्षितं शृणु --
SK
यतः सौकर्याच् छैघ्र्याच् च कर्म-योग एव श्रेयान्, अतस् तद्-अपेक्षितं शृणु ---
SK
नैष किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् | पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ||
SK
न एष किञ्चित् करोमि इति युक्तो मन्येत तत्त्व-वित् | पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ||
SK
प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्न् अपि | इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ||
SK
प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्न् अपि | इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्त इति धारयन् ||
SK
एवम् आत्मतत्त्वविच् श्रोत्रादीनि ज्ञानेन्द्रियाणि, वागादीनि च कर्मेन्द्रियाणि, प्रणाश् च स्वविषयेषु वर्तन्त इति धारयन् अनुसन्धानः नाहं किंचित् करोमीति मन्येत -- ज्ञानैकस्वभावस्य मम कर्ममूलेन्द्रियप्राणसंबन्धकृतम् ईदृशं कर्तृत्वम्; न स्वरूपप्रयुक्तम् इति मन्येतेत्यर्थः //
SK
एवम् आत्म-तत्त्व-विच् श्रोत्र-आदीनि ज्ञान-इन्द्रियाणि, वाग्-आदीनि च कर्म-इन्द्रियाणि, प्रणाश् च स्व-विषयेषु वर्तन्त इति धारयन् अनुसन्धानः न अहं किंचित् करोमि इति मन्येत --- ज्ञान-एक-स्व-भावस्य मम कर्म-मूल-इन्द्रिय-प्राण-संबन्ध-कृतम् ईदृशं कर्तृत्वम्; न स्व-रूप-प्रयुक्तम् इति मन्येत इत्य्-अर्थः //
SK
ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा ||
SK
ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्म-पत्रम् इव अम्भसा ||
SK
ब्रह्मशब्देन प्रकृतिर् इहोच्यते / ᳚मम योनिर् महद् ब्रह्म᳚ इति हि वक्ष्यते / इन्द्रियाणां प्रकृतिपरिणामविशेषरूपत्वेन इन्द्रियाकारेणावस्थितायां प्रकृतौ ᳚पश्यञ् छृण्वन्᳚ इत्याद्युक्तप्रकारेण कर्माण्य् आधाय, फलसङ्गं त्यक्त्वा, नैव किंचित् करोमीति यः कर्माणि करोति, स प्रकृतिसंसृष्टतया वर्तमानो ऽपि प्रकृत्यात्माभिमानरूपेण बन्धहेतुना पापेन न लिप्यते / पद्मपत्रम् इवाम्भसा -- यथा पद्मपत्रम् अम्भसा संसृष्टम् अपि न लिप्यते, तथा न लिप्यत इत्यर्थः //
SK
ब्रह्म-शब्देन प्रकृतिर् इह उच्यते / ᳚मम योनिर् महद् ब्रह्म᳚ इति हि वक्ष्यते / इन्द्रियाणां प्रकृति-परिणाम-विशेष-रूपत्वेन इन्द्रिय-आकारेण अवस्थितायां प्रकृतौ ᳚पश्यञ् छृण्वन्᳚ इत्य्-आद्य्-उक्त-प्रकारेण कर्माण्य् आधाय, फल-सङ्गं त्यक्त्वा, न एव किंचित् करोमि इति यः कर्माणि करोति, स प्रकृति-संसृष्टतया वर्तमानो ऽपि प्रकृत्य्-आत्म-अभिमान-रूपेण बन्ध-हेतुना पापेन न लिप्यते / पद्म-पत्रम् इव अम्भसा --- यथा पद्म-पत्रम् अम्भसा संसृष्टम् अपि न लिप्यते, तथा न लिप्यत इत्य्-अर्थः //
SK
कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि | योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ||
SK
कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि | योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा आत्म-शुद्धये ||
SK
कायमनोबुद्धीन्द्रियसाध्यं कर्म स्वर्गादिफलसङ्गं त्यक्त्वा योगिन आत्मविशुद्धये कुरन्ति; आत्मगतप्राचीनकर्मबन्धविनाशाय कुर्वन्तीत्यर्थः //
SK
काय-मनो-बुद्धि-इन्द्रिय-साध्यं कर्म स्वर्ग-आदि-फल-सङ्गं त्यक्त्वा योगिन आत्म-विशुद्धये कुरन्ति; आत्म-गत-प्राचीन-कर्म-बन्ध-विनाशाय कुर्वन्ति इत्य्-अर्थः //
SK
युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् | अयुक्तः कामकारेण फले सक्तो निबध्यते ||
SK
युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् | अयुक्तः काम-कारेण फले सक्तो निबध्यते ||
SK
युक्तः -- आत्मव्यतिरिक्तफलेष्व् अचपलः आत्मैकप्रवणः, कर्मफलं त्यक्त्वा केवलम् आत्मशुद्धये कर्मानुष्ठाय नैष्ठिकीं शान्तिम् आप्नोति -- स्थिराम् आत्मानुभवरूपां निर्वृतिम् आप्नोति / अयुक्तः -- आत्मव्यतिरिक्तफलेषु चपलः आत्मावलोकनविमुखः कामकारेण फले सक्तः कर्माणि कुर्वन् नित्यं कर्मभिर् बध्यते -- नित्यसंसारी भवति / अतः फलसङ्गरहितः इन्द्रियाकारेण परिणतायां प्रकृतौ कर्माणि संन्यस्य आत्मनो बन्धमोचनायैव कर्माणि कुर्वीतेत्युक्तं भवति //
SK
युक्तः --- आत्म-व्यतिरिक्त-फलेष्व् अचपलः आत्म-एक-प्रवणः, कर्म-फलं त्यक्त्वा केवलम् आत्म-शुद्धये कर्म-अनुष्ठाय नैष्ठिकीं शान्तिम् आप्नोति --- स्थिराम् आत्म-अनुभव-रूपां निर्वृतिम् आप्नोति / अयुक्तः --- आत्म-व्यतिरिक्त-फलेषु चपलः आत्म-अवलोकन-विमुखः काम-कारेण फले सक्तः कर्माणि कुर्वन् नित्यं कर्मभिर् बध्यते --- नित्य-संसारी भवति / अतः फल-सङ्ग-रहितः इन्द्रिय-आकारेण परिणतायां प्रकृतौ कर्माणि संन्यस्य आत्मनो बन्ध-मोचनाय एव कर्माणि कुर्वीत इत्य्-उक्तं भवति //
SK
अथ देहाकारेण परिणतायां प्रकृतौ कर्तृत्वसंन्यास उच्यते --
SK
अथ देह-आकारेण परिणतायां प्रकृतौ कर्तृत्व-संन्यास उच्यते ---
SK
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी / नवद्वारे पुरे देही नैव कुर्वन् न कारयन् //
SK
सर्व-कर्माणि मनसा संन्यस्या अस्ते सुखं वशी / नव-द्वारे पुरे देही न एव कुर्वन् न कारयन् //
SK
आत्मनः प्राचीनकर्ममूलदेहसंबन्धप्रयुक्तम् इदं कर्मणां कर्तृत्वम्; न स्वरूपप्रयुक्तम् इति विवेकविषयेण मनसा सर्वाणि कर्माणि नवद्वारे पुरे संन्यस्य देही स्वयं वशी देहाधिष्ठानप्रयत्नम् अकुर्वन् देहं च नैव कारयन् सुखम् आस्ते //
SK
आत्मनः प्राचीन-कर्म-मूल-देह-संबन्ध-प्रयुक्तम् इदं कर्मणां कर्तृत्वम्; न स्व-रूप-प्रयुक्तम् इति विवेक-विषयेण मनसा सर्वाणि कर्माणि नव-द्वारे पुरे संन्यस्य देही स्वयं वशी देह-अधिष्ठान-प्रयत्नम् अकुर्वन् देहं च न एव कारयन् सुखम् आस्ते //
SK
साक्षाद् आत्मनः स्वाभाविकं रूपम् आह --
SK
साक्षाद् आत्मनः स्वाभाविकं रूपम् आह ---
SK
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः | न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते ||
SK
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः | न कर्म-फल-संयोगं स्व-भावस् तु प्रवर्तते ||
SK
अस्य देवतिर्यङ्मनुष्यस्थावरात्मना प्रकृतिसंसर्गेण वर्तमानस्य लोकस्य देवाद्यसाधारणं कर्तृत्वं तत्तदसाधारणानि कर्माणि तत्तत्कर्मजन्यदेवादिफलसंयोगं च, अयं प्रभुः अकर्मवश्यः स्वाभाविकस्वरूपेणावस्थित आत्मा न सृजति नोत्पादयति / कस् तर्हि? स्वभावस् तु प्रवर्तते / स्वभावः प्रकृतिवासना / अनादिकालप्रवृत्तपूर्वपूर्वकर्मजनितदेवाद्याकारप्रकृतिसंसर्गकृततत्तदात्माभिमानजनितवासनाकृतम् ईदृशं कर्तृत्वादिकं सर्वम्; न स्वरूपप्रयुक्तम् इत्यर्थः //
SK
अस्य देव-तिर्यङ्-मनुष्य-स्थावर-आत्मना प्रकृति-संसर्गेण वर्तमानस्य लोकस्य देव-आद्य्-असाधारणं कर्तृत्वं तत्-तद्-असाधारणानि कर्माणि तत्-तत्-कर्म-जन्य-देव-आदि-फल-संयोगं च, अयं प्रभुः अकर्म-वश्यः स्वाभाविक-स्व-रूपेण अवस्थित आत्मा न सृजति न उत्पादयति / कस् तर्हि? स्व-भावस् तु प्रवर्तते / स्व-भावः प्रकृति-वासना / अनादि-काल-प्रवृत्त-पूर्व-पूर्व-कर्म-जनित-देव-आद्य्-आकार-प्रकृति-संसर्ग-कृत-तत्-तद्-आत्म-अभिमान-जनित-वासना-कृतम् ईदृशं कर्तृत्व-आदिकं सर्वम्; न स्व-रूप-प्रयुक्तम् इत्य्-अर्थः //
SK
नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः | अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||
SK
ना अदत्ते कस्यचित् पापं न च एव सुकृतं विभुः | अज्ञानेना अवृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||
SK
कस्यचित् स्वसंबन्धितयाभिमतस्य पुत्रादेः पापं दुःखं नादत्ते नापनुदति / कस्यचित् प्रतिकूलतयाभिमतस्य सुकृतं सुखं च नादत्ते नापनुदति / यतो ऽयं विभुः; न क्वाचित्कः, न देवादिदेहाद्यसाधारणदेशः, अत एव न कस्यचित् संबन्धी, न कस्यचित् प्रतिकूलश् च / सर्वम् इदं वासनाकृतम् / एवंस्वभावस्य कथम् इयं विपरीतवासना उत्पद्यते? अज्ञानेनावृतं ज्ञानम् ज्ञानविरोधिना पूर्वपूर्वकर्मणा स्वफलानुभवयोग्यत्वाय अस्य ज्ञानम् आवृतं संकुचितम् / तेन ज्ञानावरणरूपेण कर्मणा देवादिदेहसंयोगस् तत्तदात्माभिमानरूपमोहश् च जायते / ततश् च तथाविधात्माभिमानवासना, तदुचितकर्मवासना च; वासनातो विपरीतात्माभिमानः, कर्मारम्भश् चोपपद्यते //
SK
कस्यचित् स्व-संबन्धितय आभिमतस्य पुत्र-आदेः पापं दुःखं ना अदत्ते न अपनुदति / कस्यचित् प्रतिकूलतय आभिमतस्य सुकृतं सुखं च ना अदत्ते न अपनुदति / यतो ऽयं विभुः; न क्वाचित्कः, न देव-आदि-देह-आद्य्-असाधारण-देशः, अत एव न कस्यचित् संबन्धी, न कस्यचित् प्रतिकूलश् च / सर्वम् इदं वासना-कृतम् / एवं-स्व-भावस्य कथम् इयं विपरीत-वासना उत्पद्यते? अज्ञानेना अवृतं ज्ञानम् ज्ञान-विरोधिना पूर्व-पूर्व-कर्मणा स्व-फल-अनुभव-योग्यत्वाय अस्य ज्ञानम् आवृतं संकुचितम् / तेन ज्ञान-आवरण-रूपेण कर्मणा देव-आदि-देह-संयोगस् तत्-तद्-आत्म-अभिमान-रूप-मोहश् च जायते / ततश् च तथा-विध-आत्म-अभिमान-वासना, तद्-उचित-कर्म-वासना च; वासनातो विपरीत-आत्म-अभिमानः, कर्म-आरम्भश् च उपपद्यते //
SK
᳚सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यति᳚, ᳚ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा᳚, ᳚न हि ज्ञानेन सदृशं पवित्रम्᳚ इति पूर्वोक्तं स्वकाले संगमयति --
SK
᳚सर्वं ज्ञान-प्लवेन एव वृजिनं संतरिष्यति᳚, ᳚ज्ञान-अग्निः सर्व-कर्माणि भस्मसात्-कुरुते तथा᳚, ᳚न हि ज्ञानेन सदृशं पवित्रम्᳚ इति पूर्व-उक्तं स्व-काले संगमयति ---
SK
ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः | तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत् परम् ||
SK
ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः | तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत् परम् ||
SK
एवं वर्तमानेषु सर्वेष्व् आत्मसु येषाम् आत्मनाम् उक्तलक्षणेन आत्मयाथात्म्योपदेशजनितेन आत्मविषयेण अहरहरभ्यासाधेयातिशयेन निरतिशयपवित्रेण ज्ञानेन तत् -- ज्ञानावरणम् अनादिकालप्रवृत्तानन्तकर्मसंचयरूपम् अज्ञानं नाशितम्, तेषां तत् स्वाभाविकं परं ज्ञानम् अपरिमितम् असंकुचितम् आदित्यवत् सर्वं यथावस्थितं प्रकाशयति / तेषाम् इति विनष्टाज्ञानानां बहुत्वाभिमानाद् आत्मस्वरूपबहुत्वम्, ᳚न त्व् एवाहं जातु नासम्᳚ इत्युपक्रमावगतम् अत्र स्पष्टतरम् उक्तम् / न चेदं बहुत्वम् उपाधिकृतम्; विनष्टाज्ञानानाम् उपाधिगन्धाभावात् / ᳚तेषाम् आदित्यवज् ज्ञानम्᳚ इति व्यतिरेकनिर्देशाज् ज्ञानस्य स्वरूपानुबन्धिधर्मत्वम् उक्तम् / आदित्यदृष्टान्तेन च ज्ञातृज्ञानयोः प्रभाप्रभावतोर् इवावस्थानं च / तत एव संसारदशायां ज्ञानस्य कर्मणा संकोचो मोक्षदशायां विकासश् चोपपन्नः //
SK
एवं वर्तमानेषु सर्वेष्व् आत्मसु येषाम् आत्मनाम् उक्त-लक्षणेन आत्म-याथात्म्य-उपदेश-जनितेन आत्म-विषयेण अहर्-अहर्-अभ्यास-आधेय-अतिशयेन निरतिशय-पवित्रेण ज्ञानेन तत् --- ज्ञान-आवरणम् अनादि-काल-प्रवृत्त-अनन्त-कर्म-संचय-रूपम् अज्ञानं नाशितम्, तेषां तत् स्वाभाविकं परं ज्ञानम् अपरिमितम् असंकुचितम् आदित्यवत् सर्वं यथा-अवस्थितं प्रकाशयति / तेषाम् इति विनष्ट-अज्ञानानां बहुत्व-अभिमानाद् आत्म-स्व-रूप-बहुत्वम्, ᳚न त्व् एव अहं जातु नासम्᳚ इत्य्-उपक्रम-अवगतम् अत्र स्पष्टतरम् उक्तम् / न च इदं बहुत्वम् उपाधि-कृतम्; विनष्ट-अज्ञानानाम् उपाधि-गन्ध-अभावात् / ᳚तेषाम् आदित्यवज् ज्ञानम्᳚ इति व्यतिरेक-निर्देशाज् ज्ञानस्य स्व-रूप-अनुबन्धि-धर्मत्वम् उक्तम् / आदित्य-दृष्टान्तेन च ज्ञातृ-ज्ञानयोः प्रभा-प्रभावतोर् इव अवस्थानं च / तत एव संसार-दशायां ज्ञानस्य कर्मणा संकोचो मोक्ष-दशायां विकासश् च उपपन्नः //
SK
तद्बुद्धयस् तदात्मनस् तन्निष्ठास् तत्परायणाः | गच्छन्त्य् अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ||
SK
तद्-बुद्धयस् तद्-आत्मनस् तन्-निष्ठास् तत्-परायणाः | गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ||
SK
तद्बुद्धयः तथाविधात्मदर्शनाध्यवसायाः, तदात्मानः तद्विषयमनसः, तन्निष्ठाः तदभ्यासनिरताः, तत्परायणाः तद् एव परमप्रयोजनम् इति मन्वानाः, एवम् अभ्यस्यमानेन ज्ञानेन निर्धूतप्राचीनकल्मषाः तथाविधम् आत्मनम् अपुनरावृत्तिं गच्छन्ति / यद् अवस्थाद् आत्मनः पुनरावृत्तिर् न विद्यते, स आत्मा अपुनरावृत्तिः / स्वेन रूपेणावस्थितम् आत्मानं गच्छन्तीत्यर्थः //
SK
तद्-बुद्धयः तथा-विध-आत्म-दर्शन-अध्यवसायाः, तद्-आत्मानः तद्-विषय-मनसः, तन्-निष्ठाः तद्-अभ्यास-निरताः, तत्-परायणाः तद् एव परम-प्रयोजनम् इति मन्वानाः, एवम् अभ्यस्यमानेन ज्ञानेन निर्धूत-प्राचीन-कल्मषाः तथा-विधम् आत्मनम् अपुनर्-आवृत्तिं गच्छन्ति / यद् अवस्थाद् आत्मनः पुनर्-आवृत्तिर् न विद्यते, स आत्मा अपुनर्-आवृत्तिः / स्वेन रूपेण अवस्थितम् आत्मानं गच्छन्ति इत्य्-अर्थः //
SK
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ||
SK
विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि | शुनि च एव श्व-पाके च पण्डिताः सम-दर्शिनः ||
SK
विद्याविनयसंपन्ने, केवलब्राह्मणे, गोहस्तिश्वश्वपचादिषु अत्यन्तविषमाकारतया प्रतीयमानेषु आत्मसु पण्डिताः आत्मयाथात्म्यविदः, ज्ञानैकाकारतया सर्वत्र समदर्शिनः -- विषमाकारस् तु प्रकृतेः, नात्मनः; आत्मा तु सर्वत्र ज्ञानैकाकारतया सम इति पश्यन्तीत्यर्थः //
SK
विद्या-विनय-संपन्ने, केवल-ब्राह्मणे, गो-हस्ति-श्व-श्व-पच-आदिषु अत्यन्त-विषम-आकारतया प्रतीयमानेषु आत्मसु पण्डिताः आत्म-याथात्म्य-विदः, ज्ञान-एक-आकारतया सर्वत्र सम-दर्शिनः --- विषम-आकारस् तु प्रकृतेः, ना अत्मनः; आत्मा तु सर्वत्र ज्ञान-एक-आकारतया सम इति पश्यन्ति इत्य्-अर्थः //
SK
इहैव तैर् जितस् स्वर्गो येषां साम्ये स्थितं मनः | निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ||
SK
इह एव तैर् जितस् स्वर्गो येषां साम्ये स्थितं मनः | निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ||
SK
इहैव -- साधनानुष्ठानदशायाम् एव तैः सर्गो जितः संसारो जितः; येषाम् उक्तरीत्या सर्वेष्व् आत्मसु साम्ये स्थितं मनः / निर्दोषं हि समं ब्रह्म / प्रकृतिसंसर्गदोषवियुक्ततया समम् आत्मवस्तु हि ब्रम्ह / आत्मसाम्ये स्थिताश् चेद् ब्रह्मणि स्थिता एव ते; ब्रह्मणि स्थितिर् एव हि स्ंसारजयः / आत्मसु ज्ञानैकाकारतया साम्यम् एवानुसन्धाना मुक्ता एवेत्यर्थः //
SK
इह एव --- साधन-अनुष्ठान-दशायाम् एव तैः सर्गो जितः संसारो जितः; येषाम् उक्त-रीत्या सर्वेष्व् आत्मसु साम्ये स्थितं मनः / निर्दोषं हि समं ब्रह्म / प्रकृति-संसर्ग-दोष-वियुक्ततया समम् आत्म-वस्तु हि ब्रम्ह / आत्म-साम्ये स्थिताश् चेद् ब्रह्मणि स्थिता एव ते; ब्रह्मणि स्थितिर् एव हि स्ंसार-जयः / आत्मसु ज्ञान-एक-आकारतया साम्यम् एव अनुसन्धाना मुक्ता एव इत्य्-अर्थः //
SK
येन प्रकारेणावथितस्य कर्मयोगिनः समदर्शनरूपो ज्ञनविपाको भवति, तं प्रकारम् उपदिशति --
SK
येन प्रकारेण अवथितस्य कर्म-योगिनः सम-दर्शन-रूपो ज्ञन-विपाको भवति, तं प्रकारम् उपदिशति ---
SK
न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् | स्थिरबुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ||
SK
न प्रहृष्येत् प्रियं प्राप्य न उद्विजेत् प्राप्य च अप्रियम् | स्थिर-बुद्धिर् असंमूढो ब्रह्म-विद् ब्रह्मणि स्थितः ||
SK
यादृशदेहस्थस्य यदवस्थस्य प्राचीनकर्मवासनया यत् प्रियं भवति, यच् चाप्रियम्, तदुभयं प्राप्य हर्षोद्वेगौ न कुर्यात् / कथम्? स्थिरबुद्धिः -- स्थिरे आत्मनि बुद्धिर् यस्य सः स्थिरबुद्धिः, असंमूढो अस्थिएण शरीरेण स्थिरम् आत्मानम् एकीकृत्य मोहः संमोहः; तद्रहितः / तच् च कथम्? ब्रह्मविद् ब्रह्मणि स्थितः / उपदेशेन ब्रह्मवित् सन् तस्मिन् ब्रह्मण्य् अभ्यासयुक्तः / एतद् उक्तं भवति -- तत्त्वविदाम् उपदेशेन आत्मयाथात्म्यविद् भूत्वा तत्रैव यतमानो देहात्माभिमानं परित्यज्य स्थिररूपात्मावलोकनप्रियानुभवे व्यवस्थितः अस्थिरे प्राकृते प्रियाप्रिये प्राप्य हर्षोदेवेगौ न कुर्याद् इति //
SK
यादृश-देह-स्थस्य यद्-अवस्थस्य प्राचीन-कर्म-वासनया यत् प्रियं भवति, यच् च अप्रियम्, तद्-उभयं प्राप्य हर्ष-उद्वेगौ न कुर्यात् / कथम्? स्थिर-बुद्धिः --- स्थिरे आत्मनि बुद्धिर् यस्य सः स्थिर-बुद्धिः, असंमूढो अस्थिएण शरीरेण स्थिरम् आत्मानम् एकीकृत्य मोहः संमोहः; तद्-रहितः / तच् च कथम्? ब्रह्म-विद् ब्रह्मणि स्थितः / उपदेशेन ब्रह्म-वित् सन् तस्मिन् ब्रह्मण्य् अभ्यास-युक्तः / एतद् उक्तं भवति --- तत्त्व-विदाम् उपदेशेन आत्म-याथात्म्य-विद् भूत्वा तत्र एव यतमानो देह-आत्म-अभिमानं परित्यज्य स्थिर-रूप-आत्म-अवलोकन-प्रिय-अनुभवे व्यवस्थितः अस्थिरे प्राकृते प्रिय-अप्रिये प्राप्य हर्ष-उदेवेगौ न कुर्याद् इति //
SK
बाह्यस्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यः सुखम् | स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते ||
SK
बाह्य-स्पर्शेष्व् असक्त-आत्मा विन्दत्य् आत्मनि यः सुखम् | स ब्रह्म-योग-युक्त-आत्मा सुखम् अक्षयम् अश्नुते ||
SK
एवमुक्तेन प्रकारेण बाह्यस्पर्शेषु आत्मव्यतिरिक्तविषयानुभवेषु, असक्तात्मा असक्तमनाः अन्तरात्मन्य् एव यः सुखं विन्दति लभते, स प्रकृत्यभ्यासं विहाय ब्रह्मयोगयुक्तात्मा -- ब्रह्माभ्यासयुक्तमनाः ब्रह्मानुभवरूपम् अक्षयं सुखं प्राप्नोति //
SK
एवम्-उक्तेन प्रकारेण बाह्य-स्पर्शेषु आत्म-व्यतिरिक्त-विषय-अनुभवेषु, असक्त-आत्मा असक्त-मनाः अन्तर्-आत्मन्य् एव यः सुखं विन्दति लभते, स प्रकृत्य्-अभ्यासं विहाय ब्रह्म-योग-युक्त-आत्मा --- ब्रह्म-अभ्यास-युक्त-मनाः ब्रह्म-अनुभव-रूपम् अक्षयं सुखं प्राप्नोति //
SK
प्राकृतस्य भोगस्य सुत्यजताम् आह --
SK
प्राकृतस्य भोगस्य सु-त्यजताम् आह ---
SK
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते | आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ||
SK
ये हि संस्पर्श-जा भोगा दुःख-योनय एव ते | आद्य्-अन्तवन्तः कौन्तेय न तेषु रमते बुधः ||
SK
विषयेन्द्रियस्पर्शजाः ये भोगाः दुःखयोनयस् ते -- दुःखोदर्काः / आद्यन्तवन्तः अल्पकालवर्तिनो हि उपलभ्यन्ते / न तेषु तद्याथात्म्यविद् रमते //
SK
विषय-इन्द्रिय-स्पर्श-जाः ये भोगाः दुःख-योनयस् ते --- दुःख-उदर्काः / आद्य्-अन्तवन्तः अल्प-काल-वर्तिनो हि उपलभ्यन्ते / न तेषु तद्-याथात्म्य-विद् रमते //
SK
शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् | कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ||
SK
शक्नोति इह एव यः सोढुं प्राक् शरीर-विमोक्षणात् | काम-क्रोध-उद्भवं वेगं स युक्तः स सुखी नरः ||
SK
शरीरविमोक्षणात् प्राक् इह्+एव साधनानुष्ठानदशायम् एव आत्मानुभवप्रीत्या कामक्रोधोद्भवं वेगं सोढुं निरोद्धुं यः शक्नोति, स युक्तः आत्मानुभवायार्हः / स एव शरीरविमोक्षोत्तरकालम् आत्मानुभवैकसुखस् संपत्स्यते //
SK
शरीर-विमोक्षणात् प्राक् इह्+एव साधन-अनुष्ठान-दशायम् एव आत्म-अनुभव-प्रीत्या काम-क्रोध-उद्भवं वेगं सोढुं निरोद्धुं यः शक्नोति, स युक्तः आत्म-अनुभवाय अर्हः / स एव शरीर-विमोक्ष-उत्तर-कालम् आत्म-अनुभव-एक-सुखस् संपत्स्यते //
SK
यो ऽन्तस्सुखो ऽन्तरारामस् तथान्तर्ज्योतिर् एव यः | स योगी ब्रह्म निर्वाणं ब्रह्मभूतो ऽधिगच्छति ||
SK
यो ऽन्तस्-सुखो ऽन्तर्-आरामस् तथ आन्तर्-ज्योतिर् एव यः | स योगी ब्रह्म निर्वाणं ब्रह्म-भूतो ऽधिगच्छति ||
SK
यो बाह्यविषयानुभवं सर्वं विहाय अन्तस्सुखः आत्मानुभवैकसुखः, अन्तरारामः आत्मैकोद्यानः स्वगुणैर् आत्मैव सुखवर्धको यस्य स तथोक्तः, तथान्तर्ज्योतिः आत्मैकज्ञानो यो वर्तते, स ब्रह्मभूतो योगी ब्रह्मनिर्वाणम् आत्मानुभवसुखं प्राप्नोति //
SK
यो बाह्य-विषय-अनुभवं सर्वं विहाय अन्तस्-सुखः आत्म-अनुभव-एक-सुखः, अन्तर्-आरामः आत्म-एक-उद्यानः स्व-गुणैर् आत्म ऐव सुख-वर्धको यस्य स तथा-उक्तः, तथ आन्तर्-ज्योतिः आत्म-एक-ज्ञानो यो वर्तते, स ब्रह्म-भूतो योगी ब्रह्म-निर्वाणम् आत्म-अनुभव-सुखं प्राप्नोति //
SK
लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः | छिन्नद्वैधा यतात्मानस् सर्वभूतहिते रताः ||
SK
लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः | छिन्न-द्वैधा यत-आत्मानस् सर्व-भूत-हिते रताः ||
SK
च्छिन्नद्वैधाः शीतोष्णादिद्वन्द्वैर् विमुक्ताः, यतात्मानः आत्मन्य् एव नियमितमनसः, सर्वभूतहिते रताः आत्मवत् सर्वेषां भूतानां हितेष्व् एव निरताः, ऋषयः द्रष्टारः आत्मावलोकनपराः, य एवम्भूतास् ते क्षीणाशेषात्मप्राप्तिविरोधिकल्मषाः ब्रह्मनिर्वाणं लभन्ते //
SK
च्छिन्न-द्वैधाः शीत-उष्ण-आदि-द्वन्द्वैर् विमुक्ताः, यत-आत्मानः आत्मन्य् एव नियमित-मनसः, सर्व-भूत-हिते रताः आत्मवत् सर्वेषां भूतानां हितेष्व् एव निरताः, ऋषयः द्रष्टारः आत्म-अवलोकन-पराः, य एवम्-भूतास् ते क्षीण-अशेष-आत्म-प्राप्ति-विरोधि-कल्मषाः ब्रह्म-निर्वाणं लभन्ते //
SK
उक्तलक्षणानां ब्रह्म अत्यन्तसुलभम् इत्य् आह --
SK
उक्त-लक्षणानां ब्रह्म अत्यन्त-सुलभम् इत्य् आह ---
SK
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् | अभितो ब्रह्मनिर्वाणं वर्तते विजितात्मनाम् ||
SK
काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् | अभितो ब्रह्म-निर्वाणं वर्तते विजित-आत्मनाम् ||
SK
कामक्रोध्वियुक्तानां यतीनां यतनशीलानां यतचेतसां नियमितमनसां विजितात्मनां विजितमनसां, ब्रह्मनिर्वाणम् अभितो वर्तते / एवंभूतानां हस्तस्थं ब्रह्मनिर्वाणम् इत्यर्थः //
SK
काम-क्रोध्-वियुक्तानां यतीनां यतन-शीलानां यत-चेतसां नियमित-मनसां विजित-आत्मनां विजित-मनसां, ब्रह्म-निर्वाणम् अभितो वर्तते / एवं-भूतानां हस्त-स्थं ब्रह्म-निर्वाणम् इत्य्-अर्थः //
SK
उक्तं कर्मयोगं स्वलक्ष्यभूतयोगशिरस्कम् उपसंहरति --
SK
उक्तं कर्म-योगं स्व-लक्ष्य-भूत-योग-शिरस्कम् उपसंहरति ---
SK
स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः | प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ||
SK
स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् च एव अन्तरे भ्रुवोः | प्राण-अपानौ समौ कृत्वा नास-अभ्यन्तर-चारिणौ ||
SK
यतेन्द्रियमनोबुद्धिर् मुनिर् मोक्षपरायणः | विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ||
SK
यत-इन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः | विगत-इच्छा-भय-क्रोधो यः सदा मुक्त एव सः ||
SK
बाह्यान् विषयस्पर्शान् बहिः कृत्वा बाह्येन्द्रियव्यापारं सर्वम् उपसंहृत्य, योगयोग्यासने ऋजुकाय उपविश्य चक्षुषी भ्रुवोर् अन्तरे नासाग्रे विन्यस्य नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा उच्छ्वासनिश्वासौ समगती कृत्वा आत्मावलोकनाद् अन्यत्र प्रवृत्त्यनर्हेन्द्रियमनोबुद्धिः, तत एव विगतेच्छाभयक्रोधः, मोक्षपरायणः मोक्षैकप्रयोजनः, मुनिः आत्मावलोकनशीलः यः, सः सदा मुक्त एव साध्यदशायाम् इव साधनदशायाम् अपि मुक्त एवेत्यर्थः //
SK
बाह्यान् विषय-स्पर्शान् बहिः कृत्वा बाह्य-इन्द्रिय-व्यापारं सर्वम् उपसंहृत्य, योग-योग्य-आसने ऋजु-काय उपविश्य चक्षुषी भ्रुवोर् अन्तरे नास-अग्रे विन्यस्य नास-अभ्यन्तर-चारिणौ प्राण-अपानौ समौ कृत्वा उच्छ्वास-निश्वासौ सम-गती कृत्वा आत्म-अवलोकनाद् अन्यत्र प्रवृत्त्य्-अनर्ह-इन्द्रिय-मनो-बुद्धिः, तत एव विगत-इच्छा-भय-क्रोधः, मोक्ष-परायणः मोक्ष-एक-प्रयोजनः, मुनिः आत्म-अवलोकन-शीलः यः, सः सदा मुक्त एव साध्य-दशायाम् इव साधन-दशायाम् अपि मुक्त एव इत्य्-अर्थः //
SK
उक्तस्य नित्यनैमित्तिककर्मेतिकर्तव्यताकस्य कर्मयोगस्य योगशिरस्कस्य सुशकताम् आह --
SK
उक्तस्य नित्य-नैमित्तिक-कर्म-इतिकर्तव्यताकस्य कर्म-योगस्य योग-शिरस्कस्य सुशकताम् आह ---
SK
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् | सुहृदं सर्वभूतानां ज्ञात्वा माम् शान्तिम् ऋच्छति ||
SK
भोक्तारं यज्ञ-तपसां सर्व-लोक-महा-ईश्वरम् | सुहृदं सर्व-भूतानां ज्ञात्वा माम् शान्तिम् ऋच्छति ||
SK
यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति, कर्मयोगकरण एव सुखम् ऋच्छति / सर्वलोकमहेश्वरं सर्वेषां लोकेश्वराणाम् अपीश्वरम्; ᳚तम् ईश्वराणां परमं महेश्वरम्᳚ इति हि श्रूयते / मां सर्वलोकमहेश्वरं सर्वसुहृदं ज्ञात्वा मदाराधनरूपः कर्मयोग इति सुखेन तत्र प्रवर्तत इत्यर्थः; सुहृद आराधनाय हि सर्वे प्रवर्तन्ते //
SK
यज्ञ-तपसां भोक्तारं सर्व-लोक-महा-ईश्वरं सर्व-भूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति, कर्म-योग-करण एव सुखम् ऋच्छति / सर्व-लोक-महा-ईश्वरं सर्वेषां लोक-ईश्वराणाम् अपी इश्वरम्; ᳚तम् ईश्वराणां परमं महा-ईश्वरम्᳚ इति हि श्रूयते / मां सर्व-लोक-महा-ईश्वरं सर्व-सुहृदं ज्ञात्वा मद्-आराधन-रूपः कर्म-योग इति सुखेन तत्र प्रवर्तत इत्य्-अर्थः; सुहृद आराधनाय हि सर्वे प्रवर्तन्ते //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source