13.2 SK देवमनुष्यादिसर्वक्षेत्रेषु वेदितृत्वाकारं क्षेत्रज्ञं च मां विद्धि -- मदात्मकं विद्धि; क्षेत्रज्ञं चापीति अपिशब्दात् क्षेत्रम् अपि मां विद्धीत्य् उक्तम् इति गम्यते / यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया तदपृथक्सिद्धेः तत्सामानाधिकरण्येनैव निर्देश्यम्, तथा क्षेत्रं क्षेत्रज्ञं च मद्विशेषणतैकस्वभावतया मदपृथक्सिद्धेः मत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि / पृथिव्यादिसंघातरूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्छरीरतैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति, ᳚यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः᳚ इत्य् आरभ्य, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः᳚ इत्य् आद्याः / इदम् एवान्तर्यामितया सर्वक्षेत्रज्ञानाम् आत्मत्वेनावस्थानं भगवतः तत्सामानाधिकरण्येन व्यपदेशहेतुः / ᳚अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः᳚, ᳚न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्᳚ ,᳚विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्᳚ इति पुरस्ताद् उपरिष्टाच् चाभिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, ᳚आदित्यानाम् अहं विष्णुः᳚ इत्यादिना / यद् इदं क्षेत्रक्षेत्रज्ञयोः विवेकविषयं तयोर् मदात्मकत्वविषयं च ज्ञानम् उक्तम्, तद् एवोपादेयं ज्ञानम् इति मम मतम् / केचिद् आहुः -- ᳚क्षेत्रज्ञं चापि मां विद्धि᳚ इति सामानाधिकरण्येनैकत्वम् अवगम्यते / ततश् चेश्वरस्यैव सतो ऽज्ञानात् क्षेत्रज्ञत्वम् इव भवतीत्य् अभ्युपगन्तव्यम् / तन्निवृत्त्यर्थश् चायम् एकत्वोपदेशः / अनेन च आप्ततमभगवदुपदेशेन, ᳚रज्जुर् एषा न सर्पः᳚ इत्य् आप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत् क्षेत्रज्ञत्वभ्रमो निवर्तते -- इति / ते प्रष्टव्याः -- अयम् उपदेष्टा भगवान् वासुदेवः परमेश्वरः किम् आत्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः उत नेति / निवृत्ताज्ञानश् चेत्, निर्विशेषचिन्मात्रैकस्वरूपे आत्मनि अन्यतद्रूपाध्यासासंभावनया कौन्तेयादिभेददर्शनं, तान् प्रत्य् उपदेशादिव्यापाराश् च न संभवन्ति / अथात्मसाक्षात्काराभावाद् अनिवृत्ताज्ञानः, न तर्ह्य् अज्ञत्वाद् एवात्मज्ञानोपदेशसंभवः; ᳚उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः᳚ इति ह्य् उक्तम् / अत एवम् आदिवादा अनाकलितश्रुतिस्मृतीतिहासपुराणन्यायस्ववाग्विरोधैर् अज्ञानिभिर् जगन्मोहनाय प्रवर्तिता इत्य् अनादरणीयाः / अत्रेदं तत्त्वम् -- अचिद्वस्तुनश् चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवेकम् आहुः काश्चन श्रुतयः, ᳚अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः᳚, ᳚मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं᳚, ᳚क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः᳚ -- अमृताक्षरं हरः इति भोक्ता निर्दिश्यते; प्रधानम् आत्मनो भोग्यत्वेन हरतीति हरः -- ᳚स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः᳚, ᳚प्रधानक्षेत्रज्ञपतिर् गुणेशः᳚, ᳚पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवम् अच्युतम्᳚, ᳚ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ᳚, ᳚नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्᳚, ᳚भोक्ता भोग्यं प्रेरितारं च मत्वा᳚, ᳚पृथगात्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति᳚, ᳚तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति᳚, ᳚अजाम् एकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् / अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः᳚ इत्याद्याः / अत्रापि, ᳚अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा / अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् / जीवभूतां᳚, ᳚सर्वभूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् / कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् // प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः / भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् // ..... मयाध्यक्षेण प्रकृतिस् सूयते सचराचरम् / हेतुनानेन कौन्तेय जगद् धि परिवर्तते //प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ᳚मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् / संभवस् सर्वभूतानां ततो भवति भारत᳚ इति / जगद्योनिभूतं महद् ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्मम् अचिद्वस्तु यत्, तस्मिन् चेतनाख्यं गर्भं संयोजयामि; ततो मत्सङ्कल्पकृताच् चिदचित्संसर्गाद् एव देवादिस्थावरान्तानाम् अचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थः / एवं भोक्तृभोग्यरूपेणावस्थितयोः सर्वावस्थावस्थितयोश् चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य चात्मत्वम् आहुः काश्चन श्रुतयः, ᳚यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति᳚ इत्य् आरभ्य, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृताः᳚ इति; तथा, ᳚यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद᳚ इत्य् आरभ्य, यो ऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरं शरीरं यम् अक्षरं न वेद᳚, ᳚यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युश् शरीरं यं मृत्युर् न वेद एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण᳚, -- अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थम् अचिद्वस्त्व् अभिधीयते, अस्याम् एवोपनिषदि, ᳚अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते᳚ इति वचनात् -- ᳚अन्तःप्रविष्टश् शास्ता जनानां सर्वात्मा᳚ इति च / एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीमम् अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावथं कारणावथं च जगत् स एवेत्य् आहुः, ᳚सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्᳚, ᳚तद् ऐक्षत बहु स्यां प्रजायेयेति / तत् तेजो ऽसृजत᳚ इत्य् आरभ्य, ᳚सन्मूलास् सोम्येमास् सर्वाः प्रजास् सदायतनास् सत्प्रतिष्ठा᳚, ᳚ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेतकेतो᳚ इति / तथा, ᳚सो ऽकामयत, बहु स्यां प्रजायेयेति / स तपो ऽतप्यत, स तपस् तप्त्वा, इदं सर्वम् असृजत᳚ इत्य् आरभ्य, ᳚सत्यं चामृतं च सत्यम् अभवत्᳚ इति / अत्रापि श्रुत्यन्तरसिद्धिश् चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः, ᳚हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि᳚, ᳚तत् सृष्ट्वा, तद् एवानुप्रविशत्, तदनुप्रविश्य, सच् च त्यच् चाभवत् ..... विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवत्᳚ इति च / एवंभूतम् एव नामरूपव्याकरणम्, ᳚तद् धेदं तर्ह्य् अव्याकृतम् आसीत्, तन्नामरूपाभ्यां व्याक्रियत᳚ इत्य् अत्राप्य् उक्तम् / अतः कार्यावस्थः कारणावस्थश् च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति, कारणात् कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं च समीहितम् उपपन्नतरम् / ᳚हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि᳚ इति, ᳚तिस्रो देवताः᳚ इति सर्वम् अचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात् सर्वे वाचकाः शब्दाः अचिज्जीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् / अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं कारणं चेति ब्रह्मोपादानं जगत् / सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणम् इति जगतो ब्रह्मोपादानत्वे ऽपि संघातस्योपादानत्वेन चिदचितोर् ब्रह्मणश् च स्वभावासङ्करो ऽप्य् उपपन्नतरः / यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वे ऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायाम् अपि न सर्वत्र वर्णसङ्करः -- तथा चिदचिदीश्वरसंघातोपादानत्वे ऽपि जगतः कार्यावस्थायाम् अपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्करः / तन्तूनां पृथक्स्थितियोग्यानाम् एव पुरुषेच्छया कदाचित् संहतानां कारणत्वं कार्यत्वं च; इह तु चिदचितोस् सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात् तत्प्रकारः परमपुरुष एव कराण कार्यं च; स एव सर्वदा सर्वशब्दवाच्य इति विशेषः / स्वभावभेदस् तदसङ्करश् च तत्र चात्र च तुल्यः / एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशे ऽपि स्वरूपान्यथाभावाभावाद् अविकृतत्वम् उपपन्नतरम् / स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुनः आत्मतयावस्थानात् कार्यत्वम् अप्य् उपपन्नम् / अवस्थान्तरापत्तिर् एव हि कार्यता / निर्गुणवादाश् च परस्य ब्रह्मणो हेयगुणसंबन्धाभावाद् उपपद्यन्ते / ᳚अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः᳚ इति हेयगुणान् प्रतिषिध्य, ᳚सत्यकामस् सत्यसङ्कल्पः᳚ इति कल्याणगुणगणान् विदधतीयं श्रुतिर् एव अन्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति / ज्ञानस्वरूप ब्रह्म इति वादश् च सर्वज्ञस्य सर्वशक्तेर् निखिलहेयप्रत्यनीककय्लाणगुणाकरस्य ब्रह्मणः स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं चेत्य् अभ्युपगमाद् उपपन्नतरः / ᳚यस् सर्वज्ञः सर्ववित्᳚, ᳚परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, ᳚विज्ञातारम् अरे केन विजानीयात्᳚ इत्यादिकाः ज्ञातृत्वम् आवेदयन्ति / ᳚सत्यं ज्ञानम्᳚ इत्यादिकाश् च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् / ᳚सो ऽकामयत बहु स्याम्᳚, ᳚तद् ऐक्षत बहु स्याम्᳚, ᳚तन् नामरूपाभ्याम् एव व्याक्रियत᳚ इति ब्रह्मैव स्वसङ्कल्पाद् विचित्रस्थिरत्रसरूपतया नानाप्रकारम् अवस्थितम् इति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वम् अतत्त्वम् इति प्रतिषिध्यते, ᳚मृत्युः स मृत्युम् आप्नोति य इह नानेव पश्यति ..... नेह नानास्ति किञ्चन᳚, ᳚यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति / यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत्᳚ इत्यादिना / न पुनः, ᳚बहु स्यां प्रजायेय᳚ इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वम् अपि निषिध्यते / ᳚यत्र त्व् अस्य सर्वम् आत्मैवाभूत्᳚ इति निषेधवाक्यारम्भे च तत् स्थापितम्, ᳚सर्वं तं परादाद् यो ऽन्यतरात्मनस् सर्वं वेद᳚, ᳚तस्य एतस्य महतो भूतस्य निश्श्वसितम् एतद् यद् ऋग्वेदः᳚ इत्यादिना / एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोर् अनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनाम् अविरोधः, चिदचितोः परमात्मनश् च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानर्हसूक्ष्मदशापत्तिं कार्यदशायां च तदर्हस्थूलदशापत्तिं वदन्तीभिः श्रुतिभिर् एव ज्ञायत इति ब्रह्माज्ञानवादस्याउपाधिकब्रह्मभेदवादस्य अन्यस्यापि अपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथंचिद् अप्य् अवकाशो दृश्यत इत्य् अलम् अतिविस्तरेण //