Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 13

SK
इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते | एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||
SK
इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते | एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञ इति तद्-विदः ||
SK
इदं शरीरम् देवो ऽहम्, मनुष्यो ऽहम्, स्थूलो ऽहम्, कृशो ऽहम् इति आत्मनो भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुर् आत्मनो ऽर्थान्तरभूतस्य भोगक्षेत्रम् इति शरीरयाथात्म्यविद्भिर् अभिधीयते / एतद् अवयवशः संघातरूपेण च, इदम् अहं वेद्मीति यो वेत्ति, तं वेद्यभूताद् अस्माद् वेदितृत्वेनार्थान्तरभूतम्, क्षेत्रज्ञ इति तद्विदः आत्मयाथात्म्यविदः प्राहुः / यद्य् अपि देहव्यतिरिक्तघटाद्यर्थानुसन्धानवेलायां ᳚देवो ऽहम्, मनुष्यो ऽहं घटादिकं जानामि᳚ इति देहसामानाधिकरण्येन ज्ञातारम् आत्मानम् अनुसन्धत्ते, तथापि देहानुभववेलायां देहम् अपि घटादिकम् इव ᳚इदम् अहं वेद्मि᳚ इति वेद्यतया वेदितानुभवतीति वेदितुर् आत्मनो वेद्यतया शरीरम् अपि घटादिवद् अर्थान्तरभूतम् / तथा घटादेर् इव वेद्यभूताच् छरीराद् अपि वेदिता क्षेत्रज्ञो ऽर्थान्तरभूतः / सामानाधिकरण्येन प्रतीतिस् तु वस्तुतश् शरीरस्य गोत्वादिवद् अत्मविशेषणतैकस्वभावतया तदपृथक्सिद्धेर् उपपन्ना / तत्र वेदितुर् असाधारणाकारस्य चक्षुरादिकरणाविषयत्वाद् योगसंस्कृतमनोविषयत्वाच् च प्रकृतिसन्निधानाद् एव मूढाः प्रकृत्याकारम् एव वेदितारं पश्यन्ति, तथा च वक्ष्यति, ᳚उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् / विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः᳚ इति //
SK
इदं शरीरम् देवो ऽहम्, मनुष्यो ऽहम्, स्थूलो ऽहम्, कृशो ऽहम् इति आत्मनो भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुर् आत्मनो ऽर्थ-अन्तर-भूतस्य भोग-क्षेत्रम् इति शरीर-याथात्म्य-विद्भिर् अभिधीयते / एतद् अवयवशः संघात-रूपेण च, इदम् अहं वेद्मि इति यो वेत्ति, तं वेद्य-भूताद् अस्माद् वेदितृत्वेन अर्थ-अन्तर-भूतम्, क्षेत्र-ज्ञ इति तद्-विदः आत्म-याथात्म्य-विदः प्राहुः / यद्य् अपि देह-व्यतिरिक्त-घट-आद्य्-अर्थ-अनुसन्धान-वेलायां ᳚देवो ऽहम्, मनुष्यो ऽहं घट-आदिकं जानामि᳚ इति देह-सामानाधिकरण्येन ज्ञातारम् आत्मानम् अनुसन्धत्ते, तथ आपि देह-अनुभव-वेलायां देहम् अपि घट-आदिकम् इव ᳚इदम् अहं वेद्मि᳚ इति वेद्यतया वेदित आनुभवति इति वेदितुर् आत्मनो वेद्यतया शरीरम् अपि घट-आदिवद् अर्थ-अन्तर-भूतम् / तथा घट-आदेर् इव वेद्य-भूताच् छरीराद् अपि वेदिता क्षेत्र-ज्ञो ऽर्थ-अन्तर-भूतः / सामानाधिकरण्येन प्रतीतिस् तु वस्तुतश् शरीरस्य गोत्व-आदिवद् अत्म-विशेषणत ऐक-स्व-भावतया तद्-अपृथक्-सिद्धेर् उपपन्ना / तत्र वेदितुर् असाधारण-आकारस्य चक्षुर्-आदि-करण-अविषयत्वाद् योग-संस्कृत-मनो-विषयत्वाच् च प्रकृति-सन्निधानाद् एव मूढाः प्रकृत्य्-आकारम् एव वेदितारं पश्यन्ति, तथा च वक्ष्यति, ᳚उत्क्रामन्तं स्थितं व आपि भुञ्जानं वा गुण-अन्वितम् / विमूढा न अनुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः᳚ इति //
SK
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत | क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ||
SK
क्षेत्र-ज्ञं च अपि मां विद्धि सर्व-क्षेत्रेषु भारत | क्षेत्र-क्षेत्र-ज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ||
SK
देवमनुष्यादिसर्वक्षेत्रेषु वेदितृत्वाकारं क्षेत्रज्ञं च मां विद्धि -- मदात्मकं विद्धि; क्षेत्रज्ञं चापीति अपिशब्दात् क्षेत्रम् अपि मां विद्धीत्य् उक्तम् इति गम्यते / यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया तदपृथक्सिद्धेः तत्सामानाधिकरण्येनैव निर्देश्यम्, तथा क्षेत्रं क्षेत्रज्ञं च मद्विशेषणतैकस्वभावतया मदपृथक्सिद्धेः मत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि / पृथिव्यादिसंघातरूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्छरीरतैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति, ᳚यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः᳚ इत्य् आरभ्य, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः᳚ इत्य् आद्याः / इदम् एवान्तर्यामितया सर्वक्षेत्रज्ञानाम् आत्मत्वेनावस्थानं भगवतः तत्सामानाधिकरण्येन व्यपदेशहेतुः / ᳚अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः᳚, ᳚न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्᳚ ,᳚विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्᳚ इति पुरस्ताद् उपरिष्टाच् चाभिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, ᳚आदित्यानाम् अहं विष्णुः᳚ इत्यादिना / यद् इदं क्षेत्रक्षेत्रज्ञयोः विवेकविषयं तयोर् मदात्मकत्वविषयं च ज्ञानम् उक्तम्, तद् एवोपादेयं ज्ञानम् इति मम मतम् / केचिद् आहुः -- ᳚क्षेत्रज्ञं चापि मां विद्धि᳚ इति सामानाधिकरण्येनैकत्वम् अवगम्यते / ततश् चेश्वरस्यैव सतो ऽज्ञानात् क्षेत्रज्ञत्वम् इव भवतीत्य् अभ्युपगन्तव्यम् / तन्निवृत्त्यर्थश् चायम् एकत्वोपदेशः / अनेन च आप्ततमभगवदुपदेशेन, ᳚रज्जुर् एषा न सर्पः᳚ इत्य् आप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत् क्षेत्रज्ञत्वभ्रमो निवर्तते -- इति / ते प्रष्टव्याः -- अयम् उपदेष्टा भगवान् वासुदेवः परमेश्वरः किम् आत्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः उत नेति / निवृत्ताज्ञानश् चेत्, निर्विशेषचिन्मात्रैकस्वरूपे आत्मनि अन्यतद्रूपाध्यासासंभावनया कौन्तेयादिभेददर्शनं, तान् प्रत्य् उपदेशादिव्यापाराश् च न संभवन्ति / अथात्मसाक्षात्काराभावाद् अनिवृत्ताज्ञानः, न तर्ह्य् अज्ञत्वाद् एवात्मज्ञानोपदेशसंभवः; ᳚उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः᳚ इति ह्य् उक्तम् / अत एवम् आदिवादा अनाकलितश्रुतिस्मृतीतिहासपुराणन्यायस्ववाग्विरोधैर् अज्ञानिभिर् जगन्मोहनाय प्रवर्तिता इत्य् अनादरणीयाः / अत्रेदं तत्त्वम् -- अचिद्वस्तुनश् चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवेकम् आहुः काश्चन श्रुतयः, ᳚अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः᳚, ᳚मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं᳚, ᳚क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः᳚ -- अमृताक्षरं हरः इति भोक्ता निर्दिश्यते; प्रधानम् आत्मनो भोग्यत्वेन हरतीति हरः -- ᳚स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः᳚, ᳚प्रधानक्षेत्रज्ञपतिर् गुणेशः᳚, ᳚पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवम् अच्युतम्᳚, ᳚ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ᳚, ᳚नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्᳚, ᳚भोक्ता भोग्यं प्रेरितारं च मत्वा᳚, ᳚पृथगात्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति᳚, ᳚तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति᳚, ᳚अजाम् एकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् / अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः᳚ इत्याद्याः / अत्रापि, ᳚अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा / अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् / जीवभूतां᳚, ᳚सर्वभूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् / कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् // प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः / भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् // ..... मयाध्यक्षेण प्रकृतिस् सूयते सचराचरम् / हेतुनानेन कौन्तेय जगद् धि परिवर्तते //प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ᳚मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् / संभवस् सर्वभूतानां ततो भवति भारत᳚ इति / जगद्योनिभूतं महद् ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्मम् अचिद्वस्तु यत्, तस्मिन् चेतनाख्यं गर्भं संयोजयामि; ततो मत्सङ्कल्पकृताच् चिदचित्संसर्गाद् एव देवादिस्थावरान्तानाम् अचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थः / एवं भोक्तृभोग्यरूपेणावस्थितयोः सर्वावस्थावस्थितयोश् चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य चात्मत्वम् आहुः काश्चन श्रुतयः, ᳚यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति᳚ इत्य् आरभ्य, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृताः᳚ इति; तथा, ᳚यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद᳚ इत्य् आरभ्य, यो ऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरं शरीरं यम् अक्षरं न वेद᳚, ᳚यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युश् शरीरं यं मृत्युर् न वेद एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण᳚, -- अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थम् अचिद्वस्त्व् अभिधीयते, अस्याम् एवोपनिषदि, ᳚अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते᳚ इति वचनात् -- ᳚अन्तःप्रविष्टश् शास्ता जनानां सर्वात्मा᳚ इति च / एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीमम् अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावथं कारणावथं च जगत् स एवेत्य् आहुः, ᳚सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्᳚, ᳚तद् ऐक्षत बहु स्यां प्रजायेयेति / तत् तेजो ऽसृजत᳚ इत्य् आरभ्य, ᳚सन्मूलास् सोम्येमास् सर्वाः प्रजास् सदायतनास् सत्प्रतिष्ठा᳚, ᳚ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेतकेतो᳚ इति / तथा, ᳚सो ऽकामयत, बहु स्यां प्रजायेयेति / स तपो ऽतप्यत, स तपस् तप्त्वा, इदं सर्वम् असृजत᳚ इत्य् आरभ्य, ᳚सत्यं चामृतं च सत्यम् अभवत्᳚ इति / अत्रापि श्रुत्यन्तरसिद्धिश् चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः, ᳚हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि᳚, ᳚तत् सृष्ट्वा, तद् एवानुप्रविशत्, तदनुप्रविश्य, सच् च त्यच् चाभवत् ..... विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवत्᳚ इति च / एवंभूतम् एव नामरूपव्याकरणम्, ᳚तद् धेदं तर्ह्य् अव्याकृतम् आसीत्, तन्नामरूपाभ्यां व्याक्रियत᳚ इत्य् अत्राप्य् उक्तम् / अतः कार्यावस्थः कारणावस्थश् च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति, कारणात् कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं च समीहितम् उपपन्नतरम् / ᳚हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि᳚ इति, ᳚तिस्रो देवताः᳚ इति सर्वम् अचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात् सर्वे वाचकाः शब्दाः अचिज्जीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् / अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं कारणं चेति ब्रह्मोपादानं जगत् / सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणम् इति जगतो ब्रह्मोपादानत्वे ऽपि संघातस्योपादानत्वेन चिदचितोर् ब्रह्मणश् च स्वभावासङ्करो ऽप्य् उपपन्नतरः / यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वे ऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायाम् अपि न सर्वत्र वर्णसङ्करः -- तथा चिदचिदीश्वरसंघातोपादानत्वे ऽपि जगतः कार्यावस्थायाम् अपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्करः / तन्तूनां पृथक्स्थितियोग्यानाम् एव पुरुषेच्छया कदाचित् संहतानां कारणत्वं कार्यत्वं च; इह तु चिदचितोस् सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात् तत्प्रकारः परमपुरुष एव कराण कार्यं च; स एव सर्वदा सर्वशब्दवाच्य इति विशेषः / स्वभावभेदस् तदसङ्करश् च तत्र चात्र च तुल्यः / एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशे ऽपि स्वरूपान्यथाभावाभावाद् अविकृतत्वम् उपपन्नतरम् / स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुनः आत्मतयावस्थानात् कार्यत्वम् अप्य् उपपन्नम् / अवस्थान्तरापत्तिर् एव हि कार्यता / निर्गुणवादाश् च परस्य ब्रह्मणो हेयगुणसंबन्धाभावाद् उपपद्यन्ते / ᳚अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः᳚ इति हेयगुणान् प्रतिषिध्य, ᳚सत्यकामस् सत्यसङ्कल्पः᳚ इति कल्याणगुणगणान् विदधतीयं श्रुतिर् एव अन्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति / ज्ञानस्वरूप ब्रह्म इति वादश् च सर्वज्ञस्य सर्वशक्तेर् निखिलहेयप्रत्यनीककय्लाणगुणाकरस्य ब्रह्मणः स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं चेत्य् अभ्युपगमाद् उपपन्नतरः / ᳚यस् सर्वज्ञः सर्ववित्᳚, ᳚परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, ᳚विज्ञातारम् अरे केन विजानीयात्᳚ इत्यादिकाः ज्ञातृत्वम् आवेदयन्ति / ᳚सत्यं ज्ञानम्᳚ इत्यादिकाश् च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् / ᳚सो ऽकामयत बहु स्याम्᳚, ᳚तद् ऐक्षत बहु स्याम्᳚, ᳚तन् नामरूपाभ्याम् एव व्याक्रियत᳚ इति ब्रह्मैव स्वसङ्कल्पाद् विचित्रस्थिरत्रसरूपतया नानाप्रकारम् अवस्थितम् इति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वम् अतत्त्वम् इति प्रतिषिध्यते, ᳚मृत्युः स मृत्युम् आप्नोति य इह नानेव पश्यति ..... नेह नानास्ति किञ्चन᳚, ᳚यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति / यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत्᳚ इत्यादिना / न पुनः, ᳚बहु स्यां प्रजायेय᳚ इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वम् अपि निषिध्यते / ᳚यत्र त्व् अस्य सर्वम् आत्मैवाभूत्᳚ इति निषेधवाक्यारम्भे च तत् स्थापितम्, ᳚सर्वं तं परादाद् यो ऽन्यतरात्मनस् सर्वं वेद᳚, ᳚तस्य एतस्य महतो भूतस्य निश्श्वसितम् एतद् यद् ऋग्वेदः᳚ इत्यादिना / एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोर् अनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनाम् अविरोधः, चिदचितोः परमात्मनश् च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानर्हसूक्ष्मदशापत्तिं कार्यदशायां च तदर्हस्थूलदशापत्तिं वदन्तीभिः श्रुतिभिर् एव ज्ञायत इति ब्रह्माज्ञानवादस्याउपाधिकब्रह्मभेदवादस्य अन्यस्यापि अपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथंचिद् अप्य् अवकाशो दृश्यत इत्य् अलम् अतिविस्तरेण //
SK
देव-मनुष्य-आदि-सर्व-क्षेत्रेषु वेदितृत्व-आकारं क्षेत्र-ज्ञं च मां विद्धि --- मद्-आत्मकं विद्धि; क्षेत्र-ज्ञं च अपि इति अपि-शब्दात् क्षेत्रम् अपि मां विद्धि इत्य् उक्तम् इति गम्यते / यथा क्षेत्रं क्षेत्र-ज्ञ-विशेषणता-एक-स्व-भावतया तद्-अपृथक्-सिद्धेः तत्-सामानाधिकरण्येन एव निर्देश्यम्, तथा क्षेत्रं क्षेत्र-ज्ञं च मद्-विशेषणता-एक-स्व-भावतया मद्-अपृथक्-सिद्धेः मत्-सामानाधिकरण्येन एव निर्देश्यौ विद्धि / पृथिव्य्-आदि-संघात-रूपस्य क्षेत्रस्य क्षेत्र-ज्ञस्य च भगवच्-छरीरता-एक-स्व-रूपतया भगवद्-आत्मकत्वं श्रुतयो वदन्ति, ᳚यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति स त आत्म आन्तर्याम्य् अमृतः᳚ इत्य् आरभ्य, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या अत्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्म आन्तर्याम्य् अमृतः᳚ इत्य् आद्याः / इदम् एव अन्तर्यामितया सर्व-क्षेत्र-ज्ञानाम् आत्मत्वेन अवस्थानं भगवतः तत्-सामानाधिकरण्येन व्यपदेश-हेतुः / ᳚अहम् आत्मा गुडाकेश सर्व-भूत-आशय-स्थितः᳚, ᳚न तद् अस्ति विना यत् स्यान् मया भूतं चर-अचरम्᳚ ,᳚विष्टभ्य अहम् इदं कृत्स्नम् एक-अंशेन स्थितो जगत्᳚ इति पुरस्ताद् उपरिष्टाच् च अभिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, ᳚आदित्यानाम् अहं विष्णुः᳚ इत्य्-आदिना / यद् इदं क्षेत्र-क्षेत्र-ज्ञयोः विवेक-विषयं तयोर् मद्-आत्मकत्व-विषयं च ज्ञानम् उक्तम्, तद् एव उपादेयं ज्ञानम् इति मम मतम् / केचिद् आहुः --- ᳚क्षेत्र-ज्ञं च अपि मां विद्धि᳚ इति सामानाधिकरण्येन एकत्वम् अवगम्यते / ततश् च इश्वरस्य एव सतो ऽज्ञानात् क्षेत्र-ज्ञत्वम् इव भवति इत्य् अभ्युपगन्तव्यम् / तन्-निवृत्त्य्-अर्थश् च अयम् एकत्व-उपदेशः / अनेन च आप्ततम-भगवद्-उपदेशेन, ᳚रज्जुर् एषा न सर्पः᳚ इत्य् आप्त-उपदेशेन सर्पत्व-भ्रम-निवृत्तिवत् क्षेत्र-ज्ञत्व-भ्रमो निवर्तते --- इति / ते प्रष्टव्याः --- अयम् उपदेष्टा भगवान् वासु-देवः परम-ईश्वरः किम् आत्म-याथात्म्य-साक्षात्कारेण निवृत्त-अज्ञानः उत न इति / निवृत्त-अज्ञानश् चेत्, निर्विशेष-चिन्-मात्र-एक-स्व-रूपे आत्मनि अन्य-तद्-रूप-अध्यास-असंभावनया कौन्तेय-आदि-भेद-दर्शनं, तान् प्रत्य् उपदेश-आदि-व्यापाराश् च न संभवन्ति / अथा अत्म-साक्षात्कार-अभावाद् अनिवृत्त-अज्ञानः, न तर्ह्य् अज्ञत्वाद् एवा अत्म-ज्ञान-उपदेश-संभवः; ᳚उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः᳚ इति ह्य् उक्तम् / अत एवम् आदि-वादा अनाकलित-श्रुति-स्मृति-इतिहास-पुराण-न्याय-स्व-वाग्-विरोधैर् अज्ञानिभिर् जगन्-मोहनाय प्रवर्तिता इत्य् अनादरणीयाः / अत्र इदं तत्त्वम् --- अचिद्-वस्तुनश् चिद्-वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चा इशितृत्वेन च स्व-रूप-विवेकम् आहुः काश्चन श्रुतयः, ᳚अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् च अन्यो मायया सन्निरुद्धः᳚, ᳚मायां तु प्रकृतिं विद्यान् मायिनं तु महा-ईश्वरं᳚, ᳚क्षरं प्रधानम् अमृत-अक्षरं हरः क्षर-आत्मानाव् ईशते देव एकः᳚ --- अमृत-अक्षरं हरः इति भोक्ता निर्दिश्यते; प्रधानम् आत्मनो भोग्यत्वेन हरति इति हरः --- ᳚स कारणं करण-अधिप-अधिपो न च अस्य कश्चिञ् जनिता न च अधिपः᳚, ᳚प्रधान-क्षेत्र-ज्ञ-पतिर् गुण-ईशः᳚, ᳚पतिं विश्वस्या अत्म-ईश्वरं शाश्वतं शिवम् अच्युतम्᳚, ᳚ज्ञ-अज्ञौ द्वाव् अजाव् ईश्-अनीशौ᳚, ᳚नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्᳚, ᳚भोक्ता भोग्यं प्रेरितारं च मत्वा᳚, ᳚पृथग्-आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेन अमृतत्वम् एति᳚, ᳚तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति᳚, ᳚अजाम् एकां लोहित-शुक्ल-कृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् / अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजो ऽन्यः᳚ इत्य्-आद्याः / अत्र अपि, ᳚अहङ्कार इति इयं मे भिन्ना प्रकृतिर् अष्टधा / अपर ईयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् / जीव-भूतां᳚, ᳚सर्व-भूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् / कल्प-क्षये पुनस् तानि कल्प-आदौ विसृजाम्य् अहम् // प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः / भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् // ..... मय आध्यक्षेण प्रकृतिस् सूयते सचर-अचरम् / हेतुन आनेन कौन्तेय जगद् धि परिवर्तते //प्रकृतिं पुरुषं च एव विद्ध्य् अनादी उभाव् अपि ᳚मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् / संभवस् सर्व-भूतानां ततो भवति भारत᳚ इति / जगद्-योनि-भूतं महद् ब्रह्म मदीयं प्रकृत्य्-आख्यं भूत-सूक्ष्मम् अचिद्-वस्तु यत्, तस्मिन् चेतन-आख्यं गर्भं संयोजयामि; ततो मत्-सङ्कल्प-कृताच् चिद्-अचित्-संसर्गाद् एव देव-आदि-स्थावर-अन्तानाम् अचिन्-मिश्राणां सर्व-भूतानां संभवो भवति इत्य्-अर्थः / एवं भोक्तृ-भोग्य-रूपेण अवस्थितयोः सर्व-अवस्थ-अवस्थितयोश् चिद्-अचितोः परम-पुरुष-शरीरतया तन्-नियाम्यत्वेन तद्-अपृथक्-स्थितिं परम-पुरुषस्य चा अत्मत्वम् आहुः काश्चन श्रुतयः, ᳚यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति᳚ इत्य् आरभ्य, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या अत्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्म आन्तर्याम्य्-अमृताः᳚ इति; तथा, ᳚यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद᳚ इत्य् आरभ्य, यो ऽक्षरम् अन्तरे सञ्चरन् यस्य अक्षरं शरीरं यम् अक्षरं न वेद᳚, ᳚यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युश् शरीरं यं मृत्युर् न वेद एष सर्व-भूत-अन्तर-आत्म आपहत-पाप्मा दिव्यो देव एको नारायण᳚, --- अत्र मृत्यु-शब्देन तमश्-शब्द-वाच्यं सूक्ष्म-अवस्थम् अचिद्-वस्त्व् अभिधीयते, अस्याम् एव उपनिषदि, ᳚अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते᳚ इति वचनात् --- ᳚अन्तः-प्रविष्टश् शास्ता जनानां सर्व-आत्मा᳚ इति च / एवं सर्व-अवस्था-अवस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत्-प्रकारः परम-पुरुष एव कार्य-अवस्थ-कारण-अवस्थ-जगद्-रूपेण अवस्थित इति इमम् अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्य-अवथं कारण-अवथं च जगत् स एव इत्य् आहुः, ᳚सद् एव सोम्य इदम् अग्र आसीद् एकम् एव अद्वितीयम्᳚, ᳚तद् ऐक्षत बहु स्यां प्रजायेय इति / तत् तेजो ऽसृजत᳚ इत्य् आरभ्य, ᳚सन्-मूलास् सोम्य इमास् सर्वाः प्रजास् सद्-आयतनास् सत्-प्रतिष्ठा᳚, ᳚ऐतद्-आत्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेत-केतो᳚ इति / तथा, ᳚सो ऽकामयत, बहु स्यां प्रजायेय इति / स तपो ऽतप्यत, स तपस् तप्त्वा, इदं सर्वम् असृजत᳚ इत्य् आरभ्य, ᳚सत्यं च अमृतं च सत्यम् अभवत्᳚ इति / अत्र अपि श्रुत्य्-अन्तर-सिद्धिश् चिद्-अचितोः परम-पुरुषस्य च स्व-रूप-विवेकः स्मारितः, ᳚हन्त अहम् इमास् तिस्रो देवता अनेन जीवेना अत्मन आनुप्रविश्य नाम-रूपे व्याकरवाणि᳚, ᳚तत् सृष्ट्वा, तद् एव अनुप्रविशत्, तद्-अनुप्रविश्य, सच् च त्यच् च अभवत् ..... विज्ञानं च अविज्ञानं च सत्यं च अनृतं च सत्यम् अभवत्᳚ इति च / एवं-भूतम् एव नाम-रूप-व्याकरणम्, ᳚तद् ध इदं तर्ह्य् अव्याकृतम् आसीत्, तन्-नाम-रूपाभ्यां व्याक्रियत᳚ इत्य् अत्र अप्य् उक्तम् / अतः कार्य-अवस्थः कारण-अवस्थश् च स्थूल-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः परम-पुरुष एव इति, कारणात् कार्यस्य अनन्यत्वेन कारण-विज्ञानेन कार्यस्य ज्ञाततय ऐक-विज्ञानेन सर्व-विज्ञानं च समीहितम् उपपन्नतरम् / ᳚हन्त अहम् इमास् तिस्रो देवता अनेन जीवेना अत्मन आनुप्रविश्य नाम-रूपे व्याकरवाणि᳚ इति, ᳚तिस्रो देवताः᳚ इति सर्वम् अचिद्-वस्तु निर्दिश्य तत्र स्व-आत्मक-जीव-अनुप्रवेशेन नाम-रूप-व्याकरण-वचनात् सर्वे वाचकाः शब्दाः अचिज्-जीव-विशिष्ट-परम-आत्मन एव वाचका इति कारण-अवस्थ-परम-आत्म-वाचिना शब्देन कार्य-वाचिनः शब्दस्य सामानाधिकरण्यं मुख्य-वृत्तम् / अतः स्थूल-सूक्ष्म-चिद्-अचित्-प्रकारं ब्रह्म एव कार्यं कारणं च इति ब्रह्म-उपादानं जगत् / सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म एव कारणम् इति जगतो ब्रह्म-उपादानत्वे ऽपि संघातस्य उपादानत्वेन चिद्-अचितोर् ब्रह्मणश् च स्व-भाव-असङ्करो ऽप्य् उपपन्नतरः / यथा शुक्ल-कृष्ण-रक्त-तन्तु-संघात-उपादानत्वे ऽपि चित्र-पटस्य तत्-तत्-तन्तु-प्रदेश एव शौक्ल्य-आदि-संबन्ध इति कार्य-अवस्थायाम् अपि न सर्वत्र वर्ण-सङ्करः --- तथा चिद्-अचिद्-ईश्वर-संघात-उपादानत्वे ऽपि जगतः कार्य-अवस्थायाम् अपि भोक्तृत्व-भोग्यत्व-नियन्तृत्व-आद्य्-असङ्करः / तन्तूनां पृथक्-स्थिति-योग्यानाम् एव पुरुष-इच्छया कदाचित् संहतानां कारणत्वं कार्यत्वं च; इह तु चिद्-अचितोस् सर्व-अवस्थयोः परम-पुरुष-शरीरत्वेन तत्-प्रकारतय ऐव पद-अर्थत्वात् तत्-प्रकारः परम-पुरुष एव कराण कार्यं च; स एव सर्वदा सर्व-शब्द-वाच्य इति विशेषः / स्व-भाव-भेदस् तद्-असङ्करश् च तत्र च अत्र च तुल्यः / एवं च सति परस्य ब्रह्मणः कार्य-अनुप्रवेशे ऽपि स्व-रूप-अन्यथा-भाव-अभावाद् अविकृतत्वम् उपपन्नतरम् / स्थूल-अवस्थस्य नाम-रूप-विभाग-विभक्तस्य चिद्-अचिद्-वस्तुनः आत्मतय आवस्थानात् कार्यत्वम् अप्य् उपपन्नम् / अवस्था-अन्तर-आपत्तिर् एव हि कार्यता / निर्गुण-वादाश् च परस्य ब्रह्मणो हेय-गुण-संबन्ध-अभावाद् उपपद्यन्ते / ᳚अपहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः᳚ इति हेय-गुणान् प्रतिषिध्य, ᳚सत्य-कामस् सत्य-सङ्कल्पः᳚ इति कल्याण-गुण-गणान् विदधति ईयं श्रुतिर् एव अन्यत्र सामान्येन अवगतं गुण-निषेधं हेय-गुण-विषयं व्यवस्थापयति / ज्ञान-स्व-रूप ब्रह्म इति वादश् च सर्व-ज्ञस्य सर्व-शक्तेर् निखिल-हेय-प्रत्यनीक-कय्लाण-गुण-आकरस्य ब्रह्मणः स्व-रूपं ज्ञान-एक-निरूपणीयं स्व-प्रकाशतया ज्ञान-स्व-रूपं च इत्य् अभ्युपगमाद् उपपन्नतरः / ᳚यस् सर्व-ज्ञः सर्व-वित्᳚, ᳚पर आस्य शक्तिर् विविध ऐव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च, ᳚विज्ञातारम् अरे केन विजानीयात्᳚ इत्य्-आदिकाः ज्ञातृत्वम् आवेदयन्ति / ᳚सत्यं ज्ञानम्᳚ इत्य्-आदिकाश् च ज्ञान-एक-निरूपणीयतया स्व-प्रकाशतया च ज्ञान-स्व-रूपताम् / ᳚सो ऽकामयत बहु स्याम्᳚, ᳚तद् ऐक्षत बहु स्याम्᳚, ᳚तन् नाम-रूपाभ्याम् एव व्याक्रियत᳚ इति ब्रह्म एव स्व-सङ्कल्पाद् विचित्र-स्थिर-त्रस-रूपतया नाना-प्रकारम् अवस्थितम् इति तत्-प्रत्यनीक-अब्रह्म-आत्मक-वस्तु-नानात्वम् अतत्त्वम् इति प्रतिषिध्यते, ᳚मृत्युः स मृत्युम् आप्नोति य इह नान ईव पश्यति ..... न इह नान आस्ति किञ्चन᳚, ᳚यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति / यत्र त्व् अस्य सर्वम् आत्म ऐव अभूत् तत् केन कं पश्येत्᳚ इत्य्-आदिना / न पुनः, ᳚बहु स्यां प्रजायेय᳚ इत्य्-आदि-श्रुति-सिद्धं स्व-सङ्कल्प-कृतं ब्रह्मणो नाना-नाम-रूप-भाक्त्वेन नाना-प्रकारत्वम् अपि निषिध्यते / ᳚यत्र त्व् अस्य सर्वम् आत्म ऐव अभूत्᳚ इति निषेध-वाक्य-आरम्भे च तत् स्थापितम्, ᳚सर्वं तं परा-दाद् यो ऽन्यतरा अत्मनस् सर्वं वेद᳚, ᳚तस्य एतस्य महतो भूतस्य निश्श्वसितम् एतद् यद् ऋग्-वेदः᳚ इत्य्-आदिना / एवं चिद्-अचिद्-ईश्वराणां स्व-रूप-भेदं स्व-भाव-भेदं च वदन्तीनां कार्य-कारण-भावं कार्य-कारणयोर् अनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनाम् अविरोधः, चिद्-अचितोः परम-आत्मनश् च सर्वदा शरीर-आत्म-भावं शरीर-भूतयोः कारण-दशायां नाम-रूप-विभाग-अनर्ह-सूक्ष्म-दशा-आपत्तिं कार्य-दशायां च तद्-अर्ह-स्थूल-दश-आपत्तिं वदन्तीभिः श्रुतिभिर् एव ज्ञायत इति ब्रह्म-अज्ञान-वादस्य औपाधिक-ब्रह्म-भेद-वादस्य अन्यस्य अपि अपन्याय-मूलस्य सकल-श्रुति-विरुद्धस्य न कथंचिद् अप्य् अवकाशो दृश्यत इत्य् अलम् अतिविस्तरेण //
SK
तत् क्षेत्रं यच् च यादृक् च यद्विकारि यतश् च यत् | स च यो यत्प्रभावश् च तत् समासेन मे शृणु ||
SK
तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् | स च यो यत्-प्रभावश् च तत् समासेन मे शृणु ||
SK
तत् क्षेत्रं यच् च -- यद् द्रव्यम्, यादृक् च येषाम् आश्रयभूतम्, यद्विकारि ये चास्य विकाराः, यतश् च -- यतो हेतोर् इदम् उत्पन्नम्; यस्मै प्रयोजनायोत्पन्नम् इत्यर्थः, यत् -- यत्स्वरूपं चेदम्, स च यः -- स च क्षेत्रज्ञो यः यत्स्वरूपः, यत्प्रभावश् च ये चास्य प्रभावाः, तत् सर्वम्, समासेन संक्षेपेण मत्तः शृणु //
SK
तत् क्षेत्रं यच् च --- यद् द्रव्यम्, यादृक् च येषाम् आश्रय-भूतम्, यद्-विकारि ये च अस्य विकाराः, यतश् च --- यतो हेतोर् इदम् उत्पन्नम्; यस्मै प्रयोजनाय उत्पन्नम् इत्य्-अर्थः, यत् --- यत्-स्व-रूपं च इदम्, स च यः --- स च क्षेत्र-ज्ञो यः यत्-स्व-रूपः, यत्-प्रभावश् च ये च अस्य प्रभावाः, तत् सर्वम्, समासेन संक्षेपेण मत्तः शृणु //
SK
ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् | ब्रह्मसूत्रपदैश् चैव हेतुमद्भिर् विनिश्चितैः ||
SK
ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् | ब्रह्म-सूत्र-पदैश् च एव हेतुमद्भिर् विनिश्चितैः ||
SK
तद् इदं क्षेत्रक्षेत्रज्ञयाथात्म्यम् ऋषिभिः पराशरादिभिः बहुधा बहुप्रकारं गीतम् -- ᳚अहं त्वम् च तथान्ये च भूतैर् उह्याम पार्थिव / गुणप्रवाहपतितो भूतवर्गो ऽपि यात्ययम् // कर्मवश्या गुणा ह्य् एते सत्त्वाद्याः पृथिवीपते / अविद्यासञ्चितं कर्म तच् चाशेषेषु जन्तुषु // आत्मा शुद्धो ऽक्षरश् शान्तो निर्गुणः प्रकृतेः परः // Bह्GR_१३.᳚; तथा, ᳚पिण्डः पृथक् यतः पुंसः शिरःपाण्यादिलक्षणः / ततो ऽहम् इति कुत्रैतां संज्ञां राजन् करोम्य् अहम्᳚; तथा च, ᳚किं त्वम् एतच्छिरः किं नु उरस्तव तथोदरम् / किम् उ पादादिकं त्वं वै तवैतत् किं महीपते // समस्तावयवेभ्यस् त्वं पृथक् भूय व्यवस्थितः / को ऽहम् इत्य् एव निपुणो भूत्वा चिन्तय पार्थिव // Bह्GR_१३.᳚ इति / एवं विविक्तयोर् द्वयोः वासुदेवात्मकत्वं चाहुः, ᳚इन्द्रियाणि मनो बुद्धिस् सत्त्वं तेजो बलं धृतिः / वासुदेवात्मकान्य् आहुः क्षेत्रं क्षेत्रज्ञम् एव च // Bह्GR_१३.᳚ इति / छन्दोभिर् विविधैः पृथक् -- पृथग्विधैश् छन्दोभिश् च ऋग्यजुस्सामाथर्वभिः देहात्मनोः स्वरूपं पृथग् गीतम् -- ᳚तस्माद् वा एतस्माद् आत्मन आकाशस् संभूतः / आकाशाद् वायुः / वायोर् अग्निः / अग्नेर् आपः / अद्भ्यः पृथिवी / पृथिव्या ओषधयः / ओषधीभ्यो ऽन्नम् / अन्नात् पुरुषः / स वा एष पुरुषो ऽन्नरसमयः᳚ इति शरीरस्वरूपम् अभिधाय तस्माद् अन्तरं प्राणमयं तस्माच् चान्तरं मनोमयम् अभिधाय, ᳚तस्माद् वा एतस्माद् मनोमयाद् अन्यो ऽन्तर आत्मा विज्ञानमयः᳚ इति क्षेत्रज्ञस्वरूपम् अभिधाय, ᳚तस्माद् वा एतस्माद् विज्ञानमयाद् अन्यो ऽन्तर आत्मानन्दमयः᳚ इति क्षेत्रज्ञस्याप्य् अन्तरात्मतया आनन्न्दमयः परमात्माभिहितः / एवम् ऋक्सामाथर्वसु च तत्र तत्र क्षेत्रक्षेत्रज्ञयोः पृथग्भावस् तयोर् ब्रह्मात्मकत्वं च सुस्पष्टं गीतम् / ब्रह्मसूत्रपदैश् चैव -- ब्रह्मप्रतिपादनसूत्राख्यैः पदैः शारीरकसूत्रैः, हेतुमद्भिः हेययुक्तैः, विनिश्चितैः निर्णयान्तैः; ᳚न वियद् अश्रुतेः᳚ इत्यारभ्य क्षेत्रप्रकारनिर्णय उक्तः / ᳚नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः᳚ इत्यारभ्य क्षेत्रज्ञयाथात्म्यनिर्णय उक्तः / ᳚परात् तु तच्छ्रुतेः᳚ इति भगवत्प्रवर्त्यत्वेन भगवदात्मकत्वम् उक्तम् / एवं बहुधा गीतं क्षेत्रक्षेत्रज्ञयाथात्म्यं मया संक्षेपेण सुस्पष्टम् उच्यमानं शृण्व् इत्यर्थः //
SK
तद् इदं क्षेत्र-क्षेत्र-ज्ञ-याथात्म्यम् ऋषिभिः पराशर-आदिभिः बहुधा बहु-प्रकारं गीतम् --- ᳚अहं त्वम् च तथ आन्ये च भूतैर् उह्याम पार्थिव / गुण-प्रवाह-पतितो भूत-वर्गो ऽपि य आत्ययम् // कर्म-वश्या गुणा ह्य् एते सत्त्व-आद्याः पृथिवी-पते / अविद्या-सञ्चितं कर्म तच् च अशेषेषु जन्तुषु // आत्मा शुद्धो ऽक्षरश् शान्तो निर्गुणः प्रकृतेः परः // Bह्GR_१३.᳚; तथा, ᳚पिण्डः पृथक् यतः पुंसः शिरः-पाण्य्-आदि-लक्षणः / ततो ऽहम् इति कुत्र एतां संज्ञां राजन् करोम्य् अहम्᳚; तथा च, ᳚किं त्वम् एतच्-छिरः किं नु उरस्तव तथ ऊदरम् / किम् उ पाद-आदिकं त्वं वै तव एतत् किं मही-पते // समस्त-अवयवेभ्यस् त्वं पृथक् भूय व्यवस्थितः / को ऽहम् इत्य् एव निपुणो भूत्वा चिन्तय पार्थिव // Bह्GR_१३.᳚ इति / एवं विविक्तयोर् द्वयोः वासु-देव-आत्मकत्वं चा अहुः, ᳚इन्द्रियाणि मनो बुद्धिस् सत्त्वं तेजो बलं धृतिः / वासुदेव-आत्मकान्य् आहुः क्षेत्रं क्षेत्र-ज्ञम् एव च // Bह्GR_१३.᳚ इति / छन्दोभिर् विविधैः पृथक् --- पृथग्-विधैश् छन्दोभिश् च ऋग्-यजुस्-साम-अथर्वभिः देह-आत्मनोः स्व-रूपं पृथग् गीतम् --- ᳚तस्माद् वा एतस्माद् आत्मन आकाशस् संभूतः / आकाशाद् वायुः / वायोर् अग्निः / अग्नेर् आपः / अद्भ्यः पृथिवी / पृथिव्या ओषधयः / ओषधीभ्यो ऽन्नम् / अन्नात् पुरुषः / स वा एष पुरुषो ऽन्न-रस-मयः᳚ इति शरीर-स्व-रूपम् अभिधाय तस्माद् अन्तरं प्राण-मयं तस्माच् च अन्तरं मनो-मयम् अभिधाय, ᳚तस्माद् वा एतस्माद् मनो-मयाद् अन्यो ऽन्तर आत्मा विज्ञान-मयः᳚ इति क्षेत्र-ज्ञ-स्व-रूपम् अभिधाय, ᳚तस्माद् वा एतस्माद् विज्ञान-मयाद् अन्यो ऽन्तर आत्मा आनन्द-मयः᳚ इति क्षेत्र-ज्ञस्य अप्य् अन्तर-आत्मतया आनन्न्द-मयः परम-आत्म आभिहितः / एवम् ऋक्-साम-अथर्वसु च तत्र तत्र क्षेत्र-क्षेत्र-ज्ञयोः पृथग्-भावस् तयोर् ब्रह्म-आत्मकत्वं च सुस्पष्टं गीतम् / ब्रह्म-सूत्र-पदैश् च एव --- ब्रह्म-प्रतिपादन-सूत्र-आख्यैः पदैः शारीरक-सूत्रैः, हेतुमद्भिः हेय-युक्तैः, विनिश्चितैः निर्णय-अन्तैः; ᳚न वियद् अश्रुतेः᳚ इत्य्-आरभ्य क्षेत्र-प्रकार-निर्णय उक्तः / ᳚ना अत्मा श्रुतेर् नित्यत्वाच् च ताभ्यः᳚ इत्य्-आरभ्य क्षेत्र-ज्ञ-याथात्म्य-निर्णय उक्तः / ᳚परात् तु तच्-छ्रुतेः᳚ इति भगवत्-प्रवर्त्यत्वेन भगवद्-आत्मकत्वम् उक्तम् / एवं बहुधा गीतं क्षेत्र-क्षेत्र-ज्ञ-याथात्म्यं मया संक्षेपेण सुस्पष्टम् उच्यमानं शृण्व् इत्य्-अर्थः //
SK
महाभूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च | इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ||
SK
महा-भूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च | इन्द्रियाणि दश एकं च पञ्च च इन्द्रिय-गोचराः ||
SK
इच्छा द्वेषः सुखं दुःखं संघातश् चेतनाधृतिः | एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ||
SK
इच्छा द्वेषः सुखं दुःखं संघातश् चेतन-आधृतिः | एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ||
SK
महाभूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव चेति क्षेत्रारम्भकद्रव्याणि; पृथिव्यप्तेजोवाय्वाकाशाः महाभूतानि, अहंकारो भूतादिः, बुद्धिः महान्, अव्यक्तं प्रकृतिः; इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा इति क्षेत्राश्रितानि तत्त्वानि; श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणीति तानि दश, एकम् इति मनः; इन्द्रियगोचराश् च पञ्च शब्दस्पर्शरूपरसगन्धाः; इच्छा द्वेषस् सुखं दुःखम् इति क्षेत्रकार्याणि क्षेत्रविकारा उच्यन्ते; यद्य् अपीच्छाद्वेषसुखदुःखान्य् आत्मधर्मभूतानि, तथाप्य् आत्मनः क्षेत्रसंबन्धप्रयुक्तानीति क्षेत्रकार्यतया क्षेत्रविकारा उच्यन्ते / तेषां पुरुषधर्मत्वम्, ᳚पुरुषस् सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते᳚ इति वक्ष्यते; संघातश् चेतनाधृतिः / आधृतिः आधारः सुखदुःखे भुञ्जानस्य भोगापवर्गौ साधयतश् च चेतनस्याधारतयोत्पन्नो भूतसंघातः / प्रकृत्यादिपृथिव्यन्तद्रव्यारब्धम् इन्द्रियाश्रयभूतम् इच्छाद्वेषसुखदुःखविकारि भूतसंघातरूपं चेतनसुखदुःखोपभोगाधारत्वप्रयोजनं क्षेत्रम् इत्य् उक्तं भवति; एतत् क्षेत्रं समासेन संक्षेपेण सकिवारं सकार्यम् उदाहृतम् //
SK
महा-भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च इति क्षेत्र-आरम्भक-द्रव्याणि; पृथिव्य्-अप्-तेजो-वाय्व्-आकाशाः महा-भूतानि, अहंकारो भूत-आदिः, बुद्धिः महान्, अव्यक्तं प्रकृतिः; इन्द्रियाणि दश एकं च पञ्च च इन्द्रिय-गोचरा इति क्षेत्र-आश्रितानि तत्त्वानि; श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानि पञ्च ज्ञान-इन्द्रियाणि, वाक्-पाणि-पाद-पायु-उपस्थानि पञ्च कर्म-इन्द्रियाणि इति तानि दश, एकम् इति मनः; इन्द्रिय-गोचराश् च पञ्च शब्द-स्पर्श-रूप-रस-गन्धाः; इच्छा द्वेषस् सुखं दुःखम् इति क्षेत्र-कार्याणि क्षेत्र-विकारा उच्यन्ते; यद्य् अपि इच्छा-द्वेष-सुख-दुःखान्य् आत्म-धर्म-भूतानि, तथ आप्य् आत्मनः क्षेत्र-संबन्ध-प्रयुक्तानि इति क्षेत्र-कार्यतया क्षेत्र-विकारा उच्यन्ते / तेषां पुरुष-धर्मत्वम्, ᳚पुरुषस् सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते᳚ इति वक्ष्यते; संघातश् चेतन-आधृतिः / आधृतिः आधारः सुख-दुःखे भुञ्जानस्य भोग-अपवर्गौ साधयतश् च चेतनस्या अधारतय ऊत्पन्नो भूत-संघातः / प्रकृत्य्-आदि-पृथिव्य्-अन्त-द्रव्य-आरब्धम् इन्द्रिय-आश्रय-भूतम् इच्छा-द्वेष-सुख-दुःख-विकारि भूत-संघात-रूपं चेतन-सुख-दुःख-उपभोग-आधारत्व-प्रयोजनं क्षेत्रम् इत्य् उक्तं भवति; एतत् क्षेत्रं समासेन संक्षेपेण सकिवारं सकार्यम् उदाहृतम् //
SK
अथ क्षेत्रकार्येष्व् आत्मज्ञानसाधनतयोपादेया गुणाः प्रोच्यन्ते --
SK
अथ क्षेत्र-कार्येष्व् आत्म-ज्ञान-साधनतय ऊपादेया गुणाः प्रोच्यन्ते ---
SK
अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् | आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ||
SK
अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् | आचार्य-उपासनं शौचं स्थैर्यम् आत्म-विनिग्रहः ||
SK
अमानित्वम् उत्कृष्टजनेष्व् अवधीरणारहितत्वम्; अदम्भित्वम् -- धार्मिकत्वयशःप्रयोजनतया धर्मानुष्ठानं दम्भः, तद्रहितत्वम्; अहिंसा वाङ्मनःकायैः परपीडारहितत्वम्; क्षान्तिः परैः पीड्यमानस्यापि तान् प्रति अविकृतचित्तत्वम् / आर्जवम् परान् प्रति वाङ्मनःकायप्रभृतीनाम् एकरूपता; आचार्योपासनम् आत्मज्ञानप्रदायिनि आचार्ये प्रणिपातपरिप्रश्नसेवादिनिरतत्वम्; शौचं आत्मज्ञानतत्साधनयोग्यता मनोवाक्कायगता शास्त्रसिद्धा; स्तैर्यम् अध्यात्मशास्त्रोदिते ऽर्थे निश्चलत्वम्; आत्मविनिग्रहः आत्मस्वरूपव्यतिरिक्तविषयेभ्यो मनसो निवर्तनम् //
SK
अमानित्वम् उत्कृष्ट-जनेष्व् अवधीरण-अरहितत्वम्; अदम्भित्वम् --- धार्मिकत्व-यशः-प्रयोजनतया धर्म-अनुष्ठानं दम्भः, तद्-रहितत्वम्; अहिंसा वाङ्-मनः-कायैः पर-पीड-अरहितत्वम्; क्षान्तिः परैः पीड्यमानस्य अपि तान् प्रति अविकृत-चित्तत्वम् / आर्जवम् परान् प्रति वाङ्-मनः-काय-प्रभृतीनाम् एक-रूपता; आचार्य-उपासनम् आत्म-ज्ञान-प्रदायिनि आचार्ये प्रणिपात-परिप्रश्न-सेवा-आदि-निरतत्वम्; शौचं आत्म-ज्ञान-तत्-साधन-योग्यता मनो-वाक्-काय-गता शास्त्र-सिद्धा; स्तैर्यम् अध्यात्म-शास्त्र-उदिते ऽर्थे निश्चलत्वम्; आत्म-विनिग्रहः आत्म-स्व-रूप-व्यतिरिक्त-विषयेभ्यो मनसो निवर्तनम् //
SK
इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च | जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||
SK
इन्द्रिय-अर्थेषु वैराग्यम् अनहङ्कार एव च | जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनम् ||
SK
इन्द्रियार्थेषु वैराग्यम् आत्मव्यतिरिक्तेषु विषयेषु सदोषतानुसंधानेनोद्वेजनम्; अनहंकारः अनात्मनि देहे आत्माभिमानरहितत्वम्; प्रदर्शनार्थम् इदम्; अनात्मीयेष्व् आत्मीयाभिमानरहितत्वं च विवक्षितम् / जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् सशरीरत्वे जन्ममृत्युजराव्याधिदुःखरूपस्य दोषस्यावर्जनीयत्वानुसंधानम् //
SK
इन्द्रिय-अर्थेषु वैराग्यम् आत्म-व्यतिरिक्तेषु विषयेषु सदोषता-अनुसंधानेन उद्वेजनम्; अनहंकारः अनात्मनि देहे आत्म-अभिमान-रहितत्वम्; प्रदर्शन-अर्थम् इदम्; अनात्मीयेष्व् आत्मीय-अभिमान-रहितत्वं च विवक्षितम् / जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनम् सशरीरत्वे जन्म-मृत्यु-जरा-व्याधि-दुःख-रूपस्य दोषस्य अवर्जनीयत्व-अनुसंधानम् //
SK
असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु | नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ||
SK
असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृह-आदिषु | नित्यं च सम-चित्तत्वम् इष्ट-अनिष्ट-उपपत्तिषु ||
SK
असक्तिः आत्मव्यतिरिक्तपरिग्रहेषु सङ्गरहितत्वम्; अनभिष्वङ्गः पुत्रदारगृहादिषु तेषु शास्त्रीयकर्मोपकरणत्वातिरेकेण श्लेषरहितत्वम्; संकल्पप्रभवेष्व् इष्टानिष्टोपनिपातेषु हर्षोद्वेगरहितत्वम् //
SK
असक्तिः आत्म-व्यतिरिक्त-परिग्रहेषु सङ्ग-रहितत्वम्; अनभिष्वङ्गः पुत्र-दार-गृह-आदिषु तेषु शास्त्रीय-कर्म-उपकरणत्व-अतिरेकेण श्लेष-रहितत्वम्; संकल्प-प्रभवेष्व् इष्ट-अनिष्ट-उपनिपातेषु हर्ष-उद्वेग-रहितत्वम् //
SK
मयि चानन्ययोगेन भक्तिर् अव्यभिचारिणी | विविक्तदेशसेवित्वम् अरतिर् जनसंसदि ||
SK
मयि च अनन्य-योगेन भक्तिर् अव्यभिचारिणी | विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि ||
SK
मयि सर्वेश्वरे च ऐकान्त्ययोगेन स्थिरा भक्तिः, जनवर्जितदेशवासित्वम्, जनसंसदि चाप्रीतिः //
SK
मयि सर्व-ईश्वरे च ऐकान्त्य-योगेन स्थिरा भक्तिः, जन-वर्जित-देश-वासित्वम्, जन-संसदि च अप्रीतिः //
SK
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थचिन्तनम् | एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ||
SK
अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञान-अर्थ-चिन्तनम् | एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ||
SK
आत्मनि ज्ञानम् अध्यात्मज्ञानम् तन्निष्ठत्वम्, तत्त्वज्ञानार्थचिन्तनम् तत्त्वज्ञानप्रयोजनं यच् चिन्तनं तन् निरतत्वम् इत्यर्थः / ज्ञायते ऽनेनात्मेति ज्ञानम्, आत्मज्ञानसाधनम् इत्यर्थः; क्षेत्रसंबन्धिनः पुरुषस्यामानित्वादिकम् उक्तं गुणबृन्हम् एवात्मज्ञानोपयोगि, एतद्व्यतिरिक्तं सर्वं क्षेत्रकार्यम् आत्मज्ञानविरोधीति अज्ञानम् //
SK
आत्मनि ज्ञानम् अध्यात्म-ज्ञानम् तन्-निष्ठत्वम्, तत्त्व-ज्ञान-अर्थ-चिन्तनम् तत्त्व-ज्ञान-प्रयोजनं यच् चिन्तनं तन् निरतत्वम् इत्य्-अर्थः / ज्ञायते ऽनेना अत्म ईति ज्ञानम्, आत्म-ज्ञान-साधनम् इत्य्-अर्थः; क्षेत्र-संबन्धिनः पुरुषस्य अमानित्व-आदिकम् उक्तं गुण-बृन्हम् एवा अत्म-ज्ञान-उपयोगि, एतद्-व्यतिरिक्तं सर्वं क्षेत्र-कार्यम् आत्म-ज्ञान-विरोधि इति अज्ञानम् //
SK
अथ एतद् यो वेत्तीति वेदितृत्वलक्षणेनोक्तस्य क्षेत्रज्ञस्य स्वरूपं विशोध्यते --
SK
अथ एतद् यो वेत्ति इति वेदितृत्व-लक्षणेन उक्तस्य क्षेत्र-ज्ञस्य स्व-रूपं विशोध्यते ---
SK
ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते | अनादि मत्परं ब्रह्म न सत् तन् नासद् उच्यते ||
SK
ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्व आमृतम् अश्नुते | अनादि मत्-परं ब्रह्म न सत् तन् न असद् उच्यते ||
SK
अमानित्वादिभिः साधनैः ज्ञेयं प्राप्यं यत् प्रत्यगात्मस्वरूपं तत् प्रवक्ष्यामि, यज् ज्ञात्वा जन्मजरामरणादिप्राकृतधर्मरहितम् अमृतम् आत्मानं प्राप्नोति; आदिर् यस्य न विद्यते, तद् अनादि; अस्य हि प्रत्यगात्मन उत्पत्तिर् न विद्यते; तत एवान्तो न विद्यते / श्रुतिश् च, ᳚न जायते म्रियते वा विपश्चित्᳚ इति, मत्परम् अहं परो यस्य तन् मत्परम् / ᳚इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्, जीवभूताम्᳚ इति ह्य् उक्तम् / भगवच्छरीरतया भगवच्छेषतैकरसं ह्य् आत्मस्वरूपम्; तथा च श्रुतिः, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् अत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति᳚ इति, तथा, ᳚स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः᳚, ᳚प्रधानक्षेत्रज्ञपतिर् गुणेशः᳚ इत्यादिका / ब्रह्म बृहत्त्वगुणयोगि, शरीरादेर् अर्थान्तरभूतम्, स्वतः शरीरादिभिः परिच्छेदरहितं क्षेत्रज्ञतत्त्वम् इत्यर्थः; ᳚स चानन्त्याय कल्पते᳚ इति हि श्रूयते; शरीरपरिच्छिन्नत्वम् अणुत्वं चास्य कर्मकृतम् / कर्मबन्धान् मुक्तस्यानन्त्यम् / आत्मन्य् अपि ब्रह्मशब्दः प्रयुज्यते, ᳚स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते / ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च᳚, ᳚ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति / समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् // Bह्GR_१३.᳚ इति / न सत् तन् नासद् उच्यते कार्यकारणरूपावस्थाद्वयरहिततया सदसच्छब्दाभ्याम् आत्मसवरूपं नोच्यते / कार्यावस्थायां हि देवादिनामरूपभाक्त्वेन सद् इत्य् उच्यते, तदनर्हता कारणावस्थायाम् असद् इत्य् उच्यते / तथा च श्रुतिः, ᳚असद् वा इदम् अग्र आसीत् / ततो वै सद् अजायत᳚,᳚तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन्नामरूपाभ्यां व्याक्रियत᳚ इत्यादिका / कार्यकारणावस्थाद्वयान्वयस् त्व् आत्मनः कर्मरूपाविद्यावेष्टनकृतः, न स्वरूपकृत इति सदसच्छब्दाभ्याम् आत्मस्वरूपं नोच्यते / यद्य् अपि ᳚असद् वा इदम् अग्र आसीत्᳚ इति कारणावस्थं परं ब्रह्मोच्यते, तथापि नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं परं ब्रह्म कारणावस्थम् इति कारणावस्थायां क्षेत्रक्षेत्रज्ञस्वरूपम् अपि असच्छब्दवाच्यम्, क्षेत्रज्ञस्य सावस्था कर्मकृतेति परिशुद्धस्वरूपं न सदसच्छब्दनिर्देश्यम् //
SK
अमानित्व-आदिभिः साधनैः ज्ञेयं प्राप्यं यत् प्रत्यग्-आत्म-स्व-रूपं तत् प्रवक्ष्यामि, यज् ज्ञात्वा जन्म-जरा-मरण-आदि-प्राकृत-धर्म-रहितम् अमृतम् आत्मानं प्राप्नोति; आदिर् यस्य न विद्यते, तद् अनादि; अस्य हि प्रत्यग्-आत्मन उत्पत्तिर् न विद्यते; तत एव अन्तो न विद्यते / श्रुतिश् च, ᳚न जायते म्रियते वा विपश्चित्᳚ इति, मत्-परम् अहं परो यस्य तन् मत्-परम् / ᳚इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्, जीव-भूताम्᳚ इति ह्य् उक्तम् / भगवच्-छरीरतया भगवच्-छेषता-एक-रसं ह्य् आत्म-स्व-रूपम्; तथा च श्रुतिः, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् अत्मा न वेद यस्या अत्मा शरीरं य आत्मानम् अन्तरो यमयति᳚ इति, तथा, ᳚स कारणं करण-अधिप-अधिपो न च अस्य कश्चिञ् जनिता न च अधिपः᳚, ᳚प्रधान-क्षेत्र-ज्ञ-पतिर् गुण-ईशः᳚ इत्य्-आदिका / ब्रह्म बृहत्त्व-गुण-योगि, शरीर-आदेर् अर्थ-अन्तर-भूतम्, स्वतः शरीर-आदिभिः परिच्छेद-रहितं क्षेत्र-ज्ञ-तत्त्वम् इत्य्-अर्थः; ᳚स च अनन्त्याय कल्पते᳚ इति हि श्रूयते; शरीर-परिच्छिन्नत्वम् अणुत्वं च अस्य कर्म-कृतम् / कर्म-बन्धान् मुक्तस्य अनन्त्यम् / आत्मन्य् अपि ब्रह्म-शब्दः प्रयुज्यते, ᳚स गुणान् समतीत्य एतान् ब्रह्म-भूयाय कल्पते / ब्रह्मणो हि प्रतिष्ठ आहम् अमृतस्य अव्ययस्य च᳚, ᳚ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न काङ्क्षति / समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् // Bह्GR_१३.᳚ इति / न सत् तन् न असद् उच्यते कार्य-कारण-रूप-अवस्था-द्वय-रहिततया सद्-असच्-छब्दाभ्याम् आत्म-सव-रूपं न उच्यते / कार्य-अवस्थायां हि देव-आदि-नाम-रूप-भाक्त्वेन सद् इत्य् उच्यते, तद्-अनर्हता कारण-अवस्थायाम् असद् इत्य् उच्यते / तथा च श्रुतिः, ᳚असद् वा इदम् अग्र आसीत् / ततो वै सद् अजायत᳚,᳚तद् ध इदं तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्यां व्याक्रियत᳚ इत्य्-आदिका / कार्य-कारण-अवस्था-द्वय-अन्वयस् त्व् आत्मनः कर्म-रूप-अविद्या-वेष्टन-कृतः, न स्व-रूप-कृत इति सद्-असच्-छब्दाभ्याम् आत्म-स्व-रूपं न उच्यते / यद्य् अपि ᳚असद् वा इदम् अग्र आसीत्᳚ इति कारण-अवस्थं परं ब्रह्म उच्यते, तथ आपि नाम-रूप-विभाग-अनर्ह-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं परं ब्रह्म कारण-अवस्थम् इति कारण-अवस्थायां क्षेत्र-क्षेत्र-ज्ञ-स्व-रूपम् अपि असच्-छब्द-वाच्यम्, क्षेत्र-ज्ञस्य स आवस्था कर्म-कृत ईति परिशुद्ध-स्व-रूपं न सद्-असच्-छब्द-निर्देश्यम् //
SK
सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् | सर्वतश्श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ||
SK
सर्वतः-पाणि-पादं तत् सर्वतो-ऽक्षि-शिरो-मुखम् | सर्वतश्-श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ||
SK
सर्वतः पाणिपादं तत् परिशुद्धात्मस्वरूपं सर्वतः पाणिपादकार्यशक्तम्, तथा सर्वतो ऽक्षिशिरोमुखं सर्वतश् श्रुतिमत् सर्वतश् चक्षुरादिकार्यकृत्, ᳚अपाणिपादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः᳚ इति परस्य ब्रह्मणो ऽपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृत्त्वं श्रूयते / प्रत्यगात्मनो ऽपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतः पाणिपादादिकार्यकृत्त्वं श्रुतिसिद्धम् एव / ᳚तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यम् उपैति᳚ इति हि श्रूयते / ᳚इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः᳚ इति च वक्ष्यते / लोके सर्वम् आवृत्य तिष्ठति लोके यद् वस्तुजातं तत् सर्वं व्याप्य तिष्ठति, परिशुद्धस्वरूपं देशादिपरिच्छेदरहिततया सर्वगतम् इत्यर्थः //
SK
सर्वतः पाणि-पादं तत् परिशुद्ध-आत्म-स्व-रूपं सर्वतः पाणि-पाद-कार्य-शक्तम्, तथा सर्वतो ऽक्षि-शिरो-मुखं सर्वतश् श्रुतिमत् सर्वतश् चक्षुर्-आदि-कार्य-कृत्, ᳚अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः᳚ इति परस्य ब्रह्मणो ऽपाणि-पादस्य अपि सर्वतः पाणि-पाद-आदि-कार्य-कृत्त्वं श्रूयते / प्रत्यग्-आत्मनो ऽपि परिशुद्धस्य तत्-साम्य-आपत्त्या सर्वतः पाणि-पाद-आदि-कार्य-कृत्त्वं श्रुति-सिद्धम् एव / ᳚तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति᳚ इति हि श्रूयते / ᳚इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः᳚ इति च वक्ष्यते / लोके सर्वम् आवृत्य तिष्ठति लोके यद् वस्तु-जातं तत् सर्वं व्याप्य तिष्ठति, परिशुद्ध-स्व-रूपं देश-आदि-परिच्छेद-रहिततया सर्व-गतम् इत्य्-अर्थः //
SK
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | असक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च ||
SK
सर्व-इन्द्रिय-गुण-आभासं सर्व-इन्द्रिय-विवर्जितम् | असक्तं सर्व-भृच् च एव निर्गुणं गुण-भोक्तृ च ||
SK
सर्वेन्द्रियगुणाभासम् सर्वेन्द्रियगुणैर् आभासो यस्य तत् सर्वेन्द्रियाभासम् / इन्द्रियगुणा इन्द्रियवृत्तयः / इन्द्रियवृत्तिभिर् अपि विषयान् ज्ञतुं समर्थम् इत्यर्थः / स्वभावतस् सर्वेन्द्रियविवर्जितम् विनैवेन्द्रियवृत्तिभिः स्वत एव सर्वं जानातीत्यर्थः / असक्तम् स्वभावतो देवादिदेहसङ्गरहितम्, सर्वभृच् चैव देवादिसर्वदेहभरणसमर्थं च; ᳚स एकधा भवति त्रिधा भवति᳚ इत्यादिश्रुतेः / निर्गुणम् तथा स्वभावतस् सत्त्वादिगुणरहितम् / गुणभोक्तृ च सत्त्वादीनां गुणानां भोगसमर्थं च //
SK
सर्व-इन्द्रिय-गुण-आभासम् सर्व-इन्द्रिय-गुणैर् आभासो यस्य तत् सर्व-इन्द्रिय-आभासम् / इन्द्रिय-गुणा इन्द्रिय-वृत्तयः / इन्द्रिय-वृत्तिभिर् अपि विषयान् ज्ञतुं समर्थम् इत्य्-अर्थः / स्व-भावतस् सर्व-इन्द्रिय-विवर्जितम् विन ऐव इन्द्रिय-वृत्तिभिः स्वत एव सर्वं जानाति इत्य्-अर्थः / असक्तम् स्व-भावतो देव-आदि-देह-सङ्ग-रहितम्, सर्व-भृच् च एव देव-आदि-सर्व-देह-भरण-समर्थं च; ᳚स एकधा भवति त्रिधा भवति᳚ इत्य्-आदि-श्रुतेः / निर्गुणम् तथा स्व-भावतस् सत्त्व-आदि-गुण-रहितम् / गुण-भोक्तृ च सत्त्व-आदीनां गुणानां भोग-समर्थं च //
SK
बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च | सूक्ष्मत्वात् तद् अविज्ञेयं दूरस्थं चान्तिके च तत् ||
SK
बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च | सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं च अन्तिके च तत् ||
SK
पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहिर् वर्तते; तेषाम् अन्तश् च वर्तते, ᳚जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा᳚ इत्यादिश्रुतिसिद्धस्वच्छन्दवृत्तिषु / अचरं चरम् एव च -- स्वभावतो ऽचरम्; चरम् च देहित्वे / सूक्ष्मत्वात् तदविज्ञेयम् एवं सर्वशक्तियुक्तं सर्वज्ञां तद् अत्मतत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अप्य् अतिसूक्ष्मत्वाद् देहात् पृथक्त्वेन संसारिभिर् अविज्ञेयम्, दूरस्थं चान्तिके च तद् अमानित्वाद्युक्तगुणरहितानां विपरीतगुणाणां पुंसां स्वदेहे वर्तमानम् अप्य् अतिदूरस्थम्, तथा अमानित्वादिगुणोपेतानां तद् एवान्तिके वर्तते //
SK
पृथिव्य्-आदीनि भूतानि परित्यज्य अशरीरो बहिर् वर्तते; तेषाम् अन्तश् च वर्तते, ᳚जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा᳚ इत्य्-आदि-श्रुति-सिद्ध-स्वच्छन्द-वृत्तिषु / अचरं चरम् एव च --- स्व-भावतो ऽचरम्; चरम् च देहित्वे / सूक्ष्मत्वात् तद्-अविज्ञेयम् एवं सर्व-शक्ति-युक्तं सर्व-ज्ञां तद् अत्म-तत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अप्य् अतिसूक्ष्मत्वाद् देहात् पृथक्त्वेन संसारिभिर् अविज्ञेयम्, दूर-स्थं च अन्तिके च तद् अमानित्व-आद्य्-उक्त-गुण-रहितानां विपरीत-गुणाणां पुंसां स्व-देहे वर्तमानम् अप्य् अतिदूर-स्थम्, तथा अमानित्व-आदि-गुण-उपेतानां तद् एव अन्तिके वर्तते //
SK
अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् | भूतभर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||
SK
अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् | भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||
SK
देवमनुष्यादिभूतेषु सर्वत्र स्थितम् आत्मवस्तु वेदितृत्वैकाकारतया अविभक्तम् / अविदुषां देवाद्याकारेण ᳚अयं देवो मनुष्यः᳚ इति विभक्तम् इव च स्थितम् / देवो ऽहम्, मनुष्यो ऽहम् इति देहसामानाधिकरण्येनानुसन्धीयमानम् अपि वेदितृत्वेन देहाद् अर्थान्तरभूतं ज्ञातुं शक्यम् इति आदाव् उक्तम् एव, ᳚एतद् यो वेत्ति᳚ इति, इदानीं प्रकारान्तरैश् च ज्ञातुं शक्यम् इत्य् आज भूतभर्तृ चेति / भूतानां पृथिव्यादीनां देहरूपेण संहतानां यद् भर्तृ, तद् भर्तव्येभ्यो भूतेभ्यो ऽर्थान्तरं ज्ञेयम्; अर्थान्तरम् इति ज्ञातुं शक्यम् इत्यर्थः / तथा ग्रसिष्णु अन्नादीनां भौतिकानां ग्रसिष्णु, ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेनार्थान्त्रभूतम् इति ज्ञातुं शक्यम् / प्रभविष्णु च प्रभवहेतुश् च, ग्रस्तानाम् अन्नादीनाम् आकारान्तरेण परिणतानां प्रभहेतुः, तेभ्यो ऽर्थान्तरम् इति ज्ञातुं शक्यम् इत्यर्थः; मृतशरीरे ग्रसनप्रभवादीनाम् अदर्शनान् न भूतसंघातरूपं क्षेत्रं ग्रसनप्रभवभरणहेतुर् इति निश्चीयते //
SK
देव-मनुष्य-आदि-भूतेषु सर्वत्र स्थितम् आत्म-वस्तु वेदितृत्व-एक-आकारतया अविभक्तम् / अविदुषां देव-आद्य्-आकारेण ᳚अयं देवो मनुष्यः᳚ इति विभक्तम् इव च स्थितम् / देवो ऽहम्, मनुष्यो ऽहम् इति देह-सामानाधिकरण्येन अनुसन्धीयमानम् अपि वेदितृत्वेन देहाद् अर्थ-अन्तर-भूतं ज्ञातुं शक्यम् इति आदाव् उक्तम् एव, ᳚एतद् यो वेत्ति᳚ इति, इदानीं प्रकार-अन्तरैश् च ज्ञातुं शक्यम् इत्य् आज भूत-भर्तृ च इति / भूतानां पृथिव्य्-आदीनां देह-रूपेण संहतानां यद् भर्तृ, तद् भर्तव्येभ्यो भूतेभ्यो ऽर्थ-अन्तरं ज्ञेयम्; अर्थ-अन्तरम् इति ज्ञातुं शक्यम् इत्य्-अर्थः / तथा ग्रसिष्णु अन्न-आदीनां भौतिकानां ग्रसिष्णु, ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेन अर्थ-अन्त्र-भूतम् इति ज्ञातुं शक्यम् / प्रभविष्णु च प्रभव-हेतुश् च, ग्रस्तानाम् अन्न-आदीनाम् आकार-अन्तरेण परिणतानां प्रभ-हेतुः, तेभ्यो ऽर्थ-अन्तरम् इति ज्ञातुं शक्यम् इत्य्-अर्थः; मृत-शरीरे ग्रसन-प्रभव-आदीनाम् अदर्शनान् न भूत-संघात-रूपं क्षेत्रं ग्रसन-प्रभव-भरण-हेतुर् इति निश्चीयते //
SK
ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते | ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ||
SK
ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते | ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ||
SK
ज्योतिशाम् दीपादित्यमणिप्रभृतीनाम् अपि तद् एव ज्योतिः प्रकाशकम्, दीपादित्यादीनाम् अप्य् आत्मप्रभारूपं / ज्ञानम् एव प्रकाशकम् / दीपादयस् तु विषयेन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमात्रं कुर्वते / तावन् मात्रेण तेषां प्रकाशकत्वम् / तमसः परम् उच्यते / तमश्शब्दः सूक्ष्मावस्थप्रकृतिवचनः / प्रकृतेः परम् उच्यत इत्यर्थः / अतो ज्ञानं ज्ञेयं ज्ञानैकाकारम् इति ज्ञेयम् / तच् च ज्ञानगम्यम् अमानित्वादिभिर् ज्ञानसाधनैर् उक्तैः प्राप्यम् इत्यर्थः / हृदि सर्वस्य विष्ठितम् सर्वस्य मनुष्यादेः हृदि विशेषणावस्थितम् -- सन्निहितम् //
SK
ज्योतिशाम् दीप-आदित्य-मणि-प्रभृतीनाम् अपि तद् एव ज्योतिः प्रकाशकम्, दीप-आदित्य-आदीनाम् अप्य् आत्म-प्रभा-रूपं / ज्ञानम् एव प्रकाशकम् / दीप-आदयस् तु विषय-इन्द्रिय-सन्निकर्ष-विरोधि-संतमस-निरसन-मात्रं कुर्वते / तावन् मात्रेण तेषां प्रकाशकत्वम् / तमसः परम् उच्यते / तमश्-शब्दः सूक्ष्म-अवस्थ-प्रकृति-वचनः / प्रकृतेः परम् उच्यत इत्य्-अर्थः / अतो ज्ञानं ज्ञेयं ज्ञान-एक-आकारम् इति ज्ञेयम् / तच् च ज्ञान-गम्यम् अमानित्व-आदिभिर् ज्ञान-साधनैर् उक्तैः प्राप्यम् इत्य्-अर्थः / हृदि सर्वस्य विष्ठितम् सर्वस्य मनुष्य-आदेः हृदि विशेषण-अवस्थितम् --- सन्निहितम् //
SK
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते ||
SK
इति क्षेत्रं तथा ज्ञानं ज्ञेयं च उक्तं समासतः | मद्-भक्त एतद् विज्ञाय मद्-भावाय उपपद्यते ||
SK
एवं ᳚महाभूतान्य् अहङ्कारः᳚ इत्यादिना ᳚संघातश् चेतनाधृतिर्᳚ इत्यन्तेन क्षेत्रतत्त्वं समासेनोक्तम् / ᳚अमानित्वम्᳚ इत्यादिना ᳚तत्त्वज्ञानार्थचिन्तनम्᳚ इत्यन्तेन ज्ञातव्यस्यात्मतत्त्वस्य ज्ञानसाधनम् उक्तम् / ᳚अनादि मत्परम्᳚ इत्यादिना ᳚हृदि सर्वस्य विष्ठितम्᳚ इत्यन्तेन ज्ञेयस्य क्षेत्रज्ञस्य याथात्म्यं च संक्षेपेणोक्तम् / मद्भक्तः एतत् क्षेत्रयाथात्म्यं, क्षेत्राद् विविक्तात्मस्वरूपप्राप्त्युपाययाथात्म्यं क्षेत्रज्ञयाथात्म्यं च विज्ञाय, मद्भावायोपपद्यते / मम यो भावः स्वभावः, असंसारित्वम् असंसारित्वप्राप्तये उपपन्नो भवतीत्यर्थः //
SK
एवं ᳚महा-भूतान्य् अहङ्कारः᳚ इत्य्-आदिना ᳚संघातश् चेतन-आधृतिर्᳚ इत्य्-अन्तेन क्षेत्र-तत्त्वं समासेन उक्तम् / ᳚अमानित्वम्᳚ इत्य्-आदिना ᳚तत्त्व-ज्ञान-अर्थ-चिन्तनम्᳚ इत्य्-अन्तेन ज्ञातव्यस्या अत्म-तत्त्वस्य ज्ञान-साधनम् उक्तम् / ᳚अनादि मत्-परम्᳚ इत्य्-आदिना ᳚हृदि सर्वस्य विष्ठितम्᳚ इत्य्-अन्तेन ज्ञेयस्य क्षेत्र-ज्ञस्य याथात्म्यं च संक्षेपेण उक्तम् / मद्-भक्तः एतत् क्षेत्र-याथात्म्यं, क्षेत्राद् विविक्त-आत्म-स्व-रूप-प्राप्त्य्-उपाय-याथात्म्यं क्षेत्र-ज्ञ-याथात्म्यं च विज्ञाय, मद्-भावाय उपपद्यते / मम यो भावः स्व-भावः, असंसारित्वम् असंसारित्व-प्राप्तये उपपन्नो भवति इत्य्-अर्थः //
SK
अथात्यन्तविविक्तस्वभावयोः प्रकृत्यात्मनोः संसर्गस्यानादित्वं संसृष्टयोर् द्वयोः कार्यभेदः संसर्गहेतुश् चोच्यते --
SK
अथ अत्यन्त-विविक्त-स्व-भावयोः प्रकृत्य्-आत्मनोः संसर्गस्य अनादित्वं संसृष्टयोर् द्वयोः कार्य-भेदः संसर्ग-हेतुश् च उच्यते ---
SK
प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि | विकारांश् च गुणांश् चैव विद्धि प्रकृतिसंभवान् ||
SK
प्रकृतिं पुरुषं च एव विद्ध्य् अनादी उभाव् अपि | विकारांश् च गुणांश् च एव विद्धि प्रकृति-संभवान् ||
SK
प्रकृतिपुरुषौ उभौ अन्योन्यसंसृष्टौ अनादी इति विद्धि; बन्धहेतुभूतान् विकारान् इच्छाद्वेषादीन्, अमानित्वादिकांश् च गुणाम् मोक्षहेतुभूतान् प्रकृतिसंभवान् विद्धि / पुरुषेण संसृष्टेयम् अनादिकालप्रवृत्ता क्षेत्राकारपरिणाता प्रकृतिः स्वविकारैर् इच्छाद्वेषादिभिः पुरुषस्य बन्धुहेतुर् भवति; सैवामानित्वादिभिः स्वविकारैः पुरुषस्यापवर्गहेतुर् भवतीत्यर्थः //
SK
प्रकृति-पुरुषौ उभौ अन्योन्य-संसृष्टौ अनादी इति विद्धि; बन्ध-हेतु-भूतान् विकारान् इच्छा-द्वेष-आदीन्, अमानित्व-आदिकांश् च गुणाम् मोक्ष-हेतु-भूतान् प्रकृति-संभवान् विद्धि / पुरुषेण संसृष्ट ईयम् अनादि-काल-प्रवृत्ता क्षेत्र-आकार-परिणाता प्रकृतिः स्व-विकारैर् इच्छा-द्वेष-आदिभिः पुरुषस्य बन्धु-हेतुर् भवति; स एव अमानित्व-आदिभिः स्व-विकारैः पुरुषस्य अपवर्ग-हेतुर् भवति इत्य्-अर्थः //
SK
कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते | पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते ||
SK
कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते | पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ||
SK
कार्यं शरीरम्; कारणानि ज्ञानकर्मात्मकानि समनस्कानीन्द्रियाणि / तेषां क्रियाकारित्वे पुरुषाधिष्ठिता प्रकृतिर् एव हेतुः; पुरुषाधिष्ठितक्षेत्राकारपरिणतप्रकृत्याश्रयाः भोगसाधनभूताः क्रिया इत्यर्थः / पुरुषस्याधिष्ठातृत्वम् एव; तदपेक्षया, ᳚कर्ता शास्त्रार्थवत्त्वात्᳚ इत्यादिकम् उक्तम्; शरीराधिष्ठानप्रयत्नहेतुत्वम् एव हि पुरुषस्य कर्तृत्वम् / प्रकृतिसंसृष्टः पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः, सुखदुःखानुभवाश्रय इत्यर्थः //
SK
कार्यं शरीरम्; कारणानि ज्ञान-कर्म-आत्मकानि स-मनस्कानि इन्द्रियाणि / तेषां क्रिया-कारित्वे पुरुष-अधिष्ठिता प्रकृतिर् एव हेतुः; पुरुष-अधिष्ठित-क्षेत्र-आकार-परिणत-प्रकृत्य्-आश्रयाः भोग-साधन-भूताः क्रिया इत्य्-अर्थः / पुरुषस्य अधिष्ठातृत्वम् एव; तद्-अपेक्षया, ᳚कर्ता शास्त्र-अर्थवत्त्वात्᳚ इत्य्-आदिकम् उक्तम्; शरीर-अधिष्ठान-प्रयत्न-हेतुत्वम् एव हि पुरुषस्य कर्तृत्वम् / प्रकृति-संसृष्टः पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुः, सुख-दुःख-अनुभव-आश्रय इत्य्-अर्थः //
SK
एवम् अन्योन्यसंसृष्टयोः प्रकृतिपुरुषयोः कार्यभेद उक्तः; पुरुषस्य स्वतस् स्वानुभवैकसुखस्यापि वैषयिकसुखदुःखोपभोगहेतुम् आह --
SK
एवम् अन्योन्य-संसृष्टयोः प्रकृति-पुरुषयोः कार्य-भेद उक्तः; पुरुषस्य स्वतस् स्व-अनुभव-एक-सुखस्य अपि वैषयिक-सुख-दुःख-उपभोग-हेतुम् आह ---
SK
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् |
SK
पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृति-जान् गुणान् |
SK
गुणशब्दः स्वकार्येष्व् औपचारिकः / स्वतस् स्वानुभवैकसुखः पुरुषः प्रकृतिस्थः प्रकृतिसंसृष्टः, प्रकृतिजान् गुणान् प्रकृतिसंसर्गोपाधिकान् सत्त्वादिगुणकार्यभूतान् सुखदुःखादीन्, भुङ्क्ते अनुभवति / प्रकृतिसंसर्गहेतुम् आह --
SK
गुण-शब्दः स्व-कार्येष्व् औपचारिकः / स्वतस् स्व-अनुभव-एक-सुखः पुरुषः प्रकृति-स्थः प्रकृति-संसृष्टः, प्रकृति-जान् गुणान् प्रकृति-संसर्ग-उपाधिकान् सत्त्व-आदि-गुण-कार्य-भूतान् सुख-दुःख-आदीन्, भुङ्क्ते अनुभवति / प्रकृति-संसर्ग-हेतुम् आह ---
SK
कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु ||
SK
कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु ||
SK
पूर्वपूर्वप्रकृतिपरिणामरूपदेवमनुष्यादियोनिविशेषेषु स्थितो ऽयं पुरुषस् तत्तद्योनिप्रयुक्तसत्त्वादिगुणमयेषु सुखदुःखादिषु सक्तः तत्साधनभूतेषु पुण्यपापकर्मसु प्रवर्तते; ततस् तत्पुण्यपापफलानुभवाय सदसद्योनिषु साध्वसाधुषु योनिषु जायते; ततश् च कर्मारभते; ततो जायते; यावद् अमानित्वादिकान् आत्मप्राप्तिसाधनभूतान् गुणान् सेवते, तावद् एव संसरति / तद् इदम् उक्तं कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु इति //
SK
पूर्व-पूर्व-प्रकृति-परिणाम-रूप-देव-मनुष्य-आदि-योनि-विशेषेषु स्थितो ऽयं पुरुषस् तत्-तद्-योनि-प्रयुक्त-सत्त्व-आदि-गुण-मयेषु सुख-दुःख-आदिषु सक्तः तत्-साधन-भूतेषु पुण्य-पाप-कर्मसु प्रवर्तते; ततस् तत्-पुण्य-पाप-फल-अनुभवाय सद्-असद्-योनिषु साध्व्-असाधुषु योनिषु जायते; ततश् च कर्मा अरभते; ततो जायते; यावद् अमानित्व-आदिकान् आत्म-प्राप्ति-साधन-भूतान् गुणान् सेवते, तावद् एव संसरति / तद् इदम् उक्तं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इति //
SK
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः | परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ||
SK
उपद्रष्ट आनुमन्ता च भर्ता भोक्ता महा-ईश्वरः | परम-आत्म ईति च अप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ||
SK
अस्मिन् देहे ऽवस्थितो ऽयं पुरुषो देहप्रवृत्त्यनुगुणसङ्कल्पादिरूपेण देहस्योपद्रष्टा अनुमन्ता च भवति / तथा देहस्य भर्ता च भवति; तथा देहप्रवृत्तिजनितसुखदुःखयोर् भोक्ता च भवति / एवं देहनियमनेन, देहभरणेन, देहशेषित्वेन च देहेन्द्रियमनांसि प्रति महेश्वरो भवति / तथा च वक्ष्यते, ᳚शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः / गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् // Bह्GR_१३.᳚ इति / अस्मिन् देहे देहेन्द्रियमनांसि प्रति परमात्मेति चाप्य् उक्तः / देहे मनसि च आत्मशब्दो ऽनन्तरम् एव प्रयुज्यते, ᳚ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानम् आत्मना᳚ इति; अपिशब्दान् महेश्वर इत्य् अप्य् उक्त इति गम्यते; पुरुषः परः ᳚अनादि मत्परम्᳚ इत्यादिनोक्तो ऽपरिच्छिन्नज्ञानशक्तिर् अयं पुरुषो ऽनादिप्रकृतिसंबन्धकृतगुणसङ्गाद् एतद् देहमात्रमहेश्वरो देहमात्रपरमात्मा च भवति //
SK
अस्मिन् देहे ऽवस्थितो ऽयं पुरुषो देह-प्रवृत्त्य्-अनुगुण-सङ्कल्प-आदि-रूपेण देहस्य उपद्रष्टा अनुमन्ता च भवति / तथा देहस्य भर्ता च भवति; तथा देह-प्रवृत्ति-जनित-सुख-दुःखयोर् भोक्ता च भवति / एवं देह-नियमनेन, देह-भरणेन, देह-शेषित्वेन च देह-इन्द्रिय-मनांसि प्रति महा-ईश्वरो भवति / तथा च वक्ष्यते, ᳚शरीरं यद् अवाप्नोति यच् च अप्य् उत्क्रामती इश्वरः / गृहीत्व ऐतानि संयाति वायुर् गन्धान् इवा आशयात् // Bह्GR_१३.᳚ इति / अस्मिन् देहे देह-इन्द्रिय-मनांसि प्रति परम-आत्म ईति च अप्य् उक्तः / देहे मनसि च आत्म-शब्दो ऽनन्तरम् एव प्रयुज्यते, ᳚ध्यानेना अत्मनि पश्यन्ति केचिद् आत्मानम् आत्मना᳚ इति; अपि-शब्दान् महा-ईश्वर इत्य् अप्य् उक्त इति गम्यते; पुरुषः परः ᳚अनादि मत्-परम्᳚ इत्य्-आदिन ऊक्तो ऽपरिच्छिन्न-ज्ञान-शक्तिर् अयं पुरुषो ऽनादि-प्रकृति-संबन्ध-कृत-गुण-सङ्गाद् एतद् देह-मात्र-महा-ईश्वरो देह-मात्र-परम-आत्मा च भवति //
SK
य एनं वेत्ति पुरुषं प्रकृतिं च गुणैस् सह | सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ||
SK
य एनं वेत्ति पुरुषं प्रकृतिं च गुणैस् सह | सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ||
SK
एनम् उक्तस्वभावं पुरुषम्, उक्तस्वभावां च प्रकृतिं वक्ष्यमाणस्वभावयुक्तैः सत्त्वादिभिर् गुणैः सह, यो वेत्ति यथावद् विवेकेन जानाति, स सर्वथा देवमनुष्यादिदेहेष्व् अतिमात्रक्लिष्टप्रकारेण वर्तमानो ऽपि, न भूयो ऽभिजायते न भूयः प्रकृत्या संसर्गम् अर्हति, अपरिच्छिन्नज्ञानलकषणम् अपहतपाप्मानम् आत्मानं तद्देहावसानसमये प्राप्नोतीत्यर्थः //
SK
एनम् उक्त-स्व-भावं पुरुषम्, उक्त-स्व-भावां च प्रकृतिं वक्ष्यमाण-स्व-भाव-युक्तैः सत्त्व-आदिभिर् गुणैः सह, यो वेत्ति यथावद् विवेकेन जानाति, स सर्वथा देव-मनुष्य-आदि-देहेष्व् अतिमात्र-क्लिष्ट-प्रकारेण वर्तमानो ऽपि, न भूयो ऽभिजायते न भूयः प्रकृत्या संसर्गम् अर्हति, अपरिच्छिन्न-ज्ञान-लकषणम् अपहत-पाप्मानम् आत्मानं तद्-देह-अवसान-समये प्राप्नोति इत्य्-अर्थः //
SK
ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानम् आत्मना | अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ||
SK
ध्यानेना अत्मनि पश्यन्ति केचिद् आत्मानम् आत्मना | अन्ये साङ्ख्येन योगेन कर्म-योगेन च अपरे ||
SK
केचिन् निष्पन्नयोगाः आत्मनि शरीरे ऽवस्थितम् आत्मानम् आत्मना मनसा ध्यानेन योगेन पश्यन्ति / अन्ये च अनिष्पन्नयोगाः, सांख्येन योगेन ज्ञानयोगेन योगयोग्यं मनः कृत्वा आत्मानं पश्यन्ति / अपरे ज्ञानयोगानधिकारिणः, तदधिकारिणश् च सुकरोपायसक्ताः, व्यपदेश्याश् च कर्मयोगेनान्तर्गतज्ञानेन मनसो योगयोग्यताम् आपाद्य आत्मानं पश्यन्ति //
SK
केचिन् निष्पन्न-योगाः आत्मनि शरीरे ऽवस्थितम् आत्मानम् आत्मना मनसा ध्यानेन योगेन पश्यन्ति / अन्ये च अनिष्पन्न-योगाः, सांख्येन योगेन ज्ञान-योगेन योग-योग्यं मनः कृत्वा आत्मानं पश्यन्ति / अपरे ज्ञान-योग-अनधिकारिणः, तद्-अधिकारिणश् च सुकर-उपाय-सक्ताः, व्यपदेश्याश् च कर्म-योगेन अन्तर्-गत-ज्ञानेन मनसो योग-योग्यताम् आपाद्य आत्मानं पश्यन्ति //
SK
अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्यश् च उपासते | ते ऽपि चातितरन्त्य् एव मृत्युं श्रुतिपरायणाः ||
SK
अन्ये त्व् एवम् अजानन्तः श्रुत्व आन्येभ्यश् च उपासते | ते ऽपि च अतितरन्त्य् एव मृत्युं श्रुति-परायणाः ||
SK
अन्ये तु कर्मयोगादिषु आत्मावलोकनसाधनेष्व् अनधिकृताः अन्येभ्यः तत्त्वदर्शिभ्यो ज्ञानिभ्यः श्रुत्वा कर्मयोगादिभिर् आत्मानम् उपासते; ते ऽप्य् आत्मदर्शनेन मृत्युम् अतितरन्ति / ये श्रुतिपरायणाः श्रवणमात्रनिष्ठाः, एते च श्रवणनिष्ठाः पूतपापाः क्रमेण कर्मयोगादिकम् आरभ्यातितरन्त्य् एव मृत्युम् / अपिशब्दाच् च पूर्वभेदो ऽवगम्यते //
SK
अन्ये तु कर्म-योग-आदिषु आत्म-अवलोकन-साधनेष्व् अनधिकृताः अन्येभ्यः तत्त्व-दर्शिभ्यो ज्ञानिभ्यः श्रुत्वा कर्म-योग-आदिभिर् आत्मानम् उपासते; ते ऽप्य् आत्म-दर्शनेन मृत्युम् अतितरन्ति / ये श्रुति-परायणाः श्रवण-मात्र-निष्ठाः, एते च श्रवण-निष्ठाः पूत-पापाः क्रमेण कर्म-योग-आदिकम् आरभ्य अतितरन्त्य् एव मृत्युम् / अपि-शब्दाच् च पूर्व-भेदो ऽवगम्यते //
SK
अथ प्रकृतिसंसृष्टस्यात्मनो विवेकानुसन्धानप्रकारं वक्तुं सर्वं स्थावरं जङ्गमं च सत्त्वं चिदचित्संसर्गजम् इत्य् आह --
SK
अथ प्रकृति-संसृष्टस्या अत्मनो विवेक-अनुसन्धान-प्रकारं वक्तुं सर्वं स्थावरं जङ्गमं च सत्त्वं चिद्-अचित्-संसर्ग-जम् इत्य् आह ---
SK
यावत् संजायते किञ्चित् सत्त्वं स्थावरजङ्गमम् | क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ ||
SK
यावत् संजायते किञ्चित् सत्त्वं स्थावर-जङ्गमम् | क्षेत्र-क्षेत्र-ज्ञ-संयोगात् तद् विद्धि भरत-र्षभ ||
SK
यावत् स्थावरजङ्गमात्मना सत्त्वं जायते, तावत् क्षेत्रक्षेत्रज्ञयोर् इतरेतरसंयोगाद् एव जायते संयुक्तम् एव जायते, न त्व् इतरेतरवियुक्तम् इत्यर्थः //
SK
यावत् स्थावर-जङ्गम-आत्मना सत्त्वं जायते, तावत् क्षेत्र-क्षेत्र-ज्ञयोर् इतर-इतर-संयोगाद् एव जायते संयुक्तम् एव जायते, न त्व् इतर-इतर-वियुक्तम् इत्य्-अर्थः //
SK
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् | विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ||
SK
समं सर्वेषु भूतेषु तिष्ठन्तं परम-ईश्वरम् | विनश्यत्स्व् अ-विनश्यन्तं यः पश्यति स पश्यति ||
SK
एवम् इतरेतरयुक्तेषु सर्वेषु भूतेषु देवादिविषमाकाराद् वियुक्तं तत्र तत्र तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेन स्थितम् आत्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु विनाशानर्हस्वभावेनाविनश्यन्तं यः पश्यति, स -- पश्यति स आत्मानं यथावद् अवस्थितं पश्यति / यस् तु देवादिविषमाकारेणात्मानम् अपि विषमाकारं जन्मविनाशादियुक्तं च पश्यति, स नित्यम् एव संसरतीत्यभिप्रायः //
SK
एवम् इतर-इतर-युक्तेषु सर्वेषु भूतेषु देव-आदि-विषम-आकाराद् वियुक्तं तत्र तत्र तत्-तद्-देह-इन्द्रिय-मनांसि प्रति परम-ईश्वरत्वेन स्थितम् आत्मानं ज्ञातृत्वेन समान-अकारं तेषु देह-आदिषु विनश्यत्सु विनाश-अनर्ह-स्व-भावेन अविनश्यन्तं यः पश्यति, स --- पश्यति स आत्मानं यथावद् अवस्थितं पश्यति / यस् तु देव-आदि-विषम-आकारेणा अत्मानम् अपि विषम-आकारं जन्म-विनाश-आदि-युक्तं च पश्यति, स नित्यम् एव संसरति इत्य्-अभिप्रायः //
SK
समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् | न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ||
SK
समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् | न हिनस्त्य् आत्मना आत्मानं ततो याति परां गतिम् ||
SK
सर्वत्र देवादिशरीरेषु तत्तच्छेषित्वेनाधारतया वियन्तृतया च स्थितम् ईश्वरम् आत्मानं देवादिविषमाकारवियुक्तं ज्ञानैकाकारतया समं पश्यन् आत्मना मनसा, स्वम् आत्मानं न हिनस्ति रक्षति, संसारान् मोचयति / ततः तस्माज् ज्ञातृतया सर्वत्र समानाकारदर्शनात् परां गतिं याति; गम्यत इति गतिः; परं गन्तव्यं यथावद् अवस्थितम् आत्मानं प्राप्नोति; देवाद्याकारयुक्ततया सर्वत्र विषमम् आत्मानं पश्यन् आत्मानं हिनस्ति -- भवजलधिमध्ये प्रक्षिपति //
SK
सर्वत्र देव-आदि-शरीरेषु तत्-तच्-छेषित्वेना अधारतया वियन्तृतया च स्थितम् ईश्वरम् आत्मानं देव-आदि-विषम-आकार-वियुक्तं ज्ञान-एक-आकारतया समं पश्यन् आत्मना मनसा, स्वम् आत्मानं न हिनस्ति रक्षति, संसारान् मोचयति / ततः तस्माज् ज्ञातृतया सर्वत्र समान-आकार-दर्शनात् परां गतिं याति; गम्यत इति गतिः; परं गन्तव्यं यथावद् अवस्थितम् आत्मानं प्राप्नोति; देव-आद्य्-आकार-युक्ततया सर्वत्र विषमम् आत्मानं पश्यन् आत्मानं हिनस्ति --- भव-जलधि-मध्ये प्रक्षिपति //
SK
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः | यः पश्यति तथात्मानम् अकर्तारं स पश्यति ||
SK
प्रकृत्य ऐव च कर्माणि क्रियमाणानि सर्वशः | यः पश्यति तथा आत्मानम् अकर्तारं स पश्यति ||
SK
सर्वाणि कर्माणि, ᳚कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते᳚ इति पूर्वोक्तरीत्या प्रकृत्या क्रियमाणानीति यः पश्यति, तथा आत्मानं ज्ञानाकारं अकर्तारं च यः पश्यति, तस्य प्रकृतिसंयोगस् तदधिष्ठानं तज्जन्यसुखदुःखानुभवश् च कर्मरूपाज्ञानकृतानीति च यः पश्यति, स आत्मानं यथावद् अवस्थितं पश्यति //
SK
सर्वाणि कर्माणि, ᳚कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते᳚ इति पूर्व-उक्त-रीत्या प्रकृत्या क्रियमाणानि इति यः पश्यति, तथा आत्मानं ज्ञान-आकारं अकर्तारं च यः पश्यति, तस्य प्रकृति-संयोगस् तद्-अधिष्ठानं तज्-जन्य-सुख-दुःख-अनुभवश् च कर्म-रूप-अज्ञान-कृतानि इति च यः पश्यति, स आत्मानं यथावद् अवस्थितं पश्यति //
SK
यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति | तत एव च विस्तारं ब्रह्म संपद्यते तदा ||
SK
यदा भूत-पृथग्-भावम् एक-स्थम् अनुपश्यति | तत एव च विस्तारं ब्रह्म संपद्यते तदा ||
SK
प्रकृतिपुरुषतत्त्वद्वयात्मकेषु देवादिषु सर्वेषु भूतेषु सत्सु तेषां देवत्वमनुष्यत्वह्रस्वत्वदीर्घत्वादिपृथग्भावम् एकस्थम् एकतत्त्वस्थम् -- प्रकृतिस्थं यदा पश्यति, नात्मस्थम्, तत एव प्रकृतित एवोत्तरोत्तरपुत्रपौत्रादिभेदविस्तारं च यदा पश्यति, तदैव ब्रह्मसंपद्यते अनवच्छिन्नं ज्ञानैकाकारम् आत्मानं प्राप्नोतीत्यर्थः //
SK
प्रकृति-पुरुष-तत्त्व-द्वय-आत्मकेषु देव-आदिषु सर्वेषु भूतेषु सत्सु तेषां देवत्व-मनुष्यत्व-ह्रस्वत्व-दीर्घत्व-आदि-पृथग्-भावम् एक-स्थम् एक-तत्त्व-स्थम् --- प्रकृति-स्थं यदा पश्यति, ना अत्म-स्थम्, तत एव प्रकृतित एव उत्तर-उत्तर-पुत्र-पौत्र-आदि-भेद-विस्तारं च यदा पश्यति, तद ऐव ब्रह्म-संपद्यते अनवच्छिन्नं ज्ञान-एक-आकारम् आत्मानं प्राप्नोति इत्य्-अर्थः //
SK
अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः | शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते ||
SK
अनादित्वान् निर्गुणत्वात् परम-आत्म आयम् अव्ययः | शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते ||
SK
अयं परमात्मा देहान् निष्कृष्य स्वस्वभावेन निरूपितः, शरीरस्थो ऽपि अनादित्वाद् अनारभ्यत्वाद् अव्ययः व्ययरहितः, निर्गुणत्वात् सत्त्वादिगुणरहितत्वान् न करोति, न लिप्यते देहस्वभावैर् न लिप्यते //
SK
अयं परम-आत्मा देहान् निष्कृष्य स्व-स्व-भावेन निरूपितः, शरीर-स्थो ऽपि अनादित्वाद् अनारभ्यत्वाद् अव्ययः व्यय-रहितः, निर्गुणत्वात् सत्त्व-आदि-गुण-रहितत्वान् न करोति, न लिप्यते देह-स्व-भावैर् न लिप्यते //
SK
यद्य् अपि निर्गुणत्वान् न करोति, नित्यसंयुक्तो देहस्वभावैः कथं न लिप्यत इत्य् अत्राह --
SK
यद्य् अपि निर्गुणत्वान् न करोति, नित्य-संयुक्तो देह-स्व-भावैः कथं न लिप्यत इत्य् अत्रा अह ---
SK
यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते | सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||
SK
यथा सर्व-गतं सौक्ष्म्याद् आकाशं न उपलिप्यते | सर्वत्र अवस्थितो देहे तथा आत्मा न उपलिप्यते ||
SK
यथा आकाशं सर्वगतम् अपि सर्वैर् वस्तुभिस् संयुक्तम् अपि सौक्ष्म्यात् सर्ववस्तुस्वभावैर् न लिप्यते, तथा आत्मा अतिसौक्ष्म्यात् सर्वत्र देवमनुष्यादौ देहे ऽवस्थितो ऽपि तत्तद्देहस्वभावैर् न लिप्यते //
SK
यथा आकाशं सर्व-गतम् अपि सर्वैर् वस्तुभिस् संयुक्तम् अपि सौक्ष्म्यात् सर्व-वस्तु-स्व-भावैर् न लिप्यते, तथा आत्मा अतिसौक्ष्म्यात् सर्वत्र देव-मनुष्य-आदौ देहे ऽवस्थितो ऽपि तत्-तद्-देह-स्व-भावैर् न लिप्यते //
SK
यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः | क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ||
SK
यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः | क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ||
SK
यथैक आदित्यः स्वया प्रभया कृत्स्नम् इमं लोकं प्रकाशयति, तथा क्षेत्रम् अपि क्षेत्री, ᳚ममेदं क्षेत्रम् ईदृशम्᳚ इति कृत्स्नम् बहिरन्तश् चा-पादतलमस्तकं स्वकीयेन ज्ञानेन प्रकाशयति / अतः प्रकाश्याल् लोकात् प्रकाशकादित्यवद् वेदितृत्वेन वेद्यभूताद् अस्मात् क्षेत्राद् अत्यन्तविलक्षणो ऽयम् उक्तलक्षण आत्मेत्यर्थः //
SK
यथ ऐक आदित्यः स्वया प्रभया कृत्स्नम् इमं लोकं प्रकाशयति, तथा क्षेत्रम् अपि क्षेत्री, ᳚मम इदं क्षेत्रम् ईदृशम्᳚ इति कृत्स्नम् बहिर्-अन्तश् चा अ-पाद-तल-मस्तकं स्वकीयेन ज्ञानेन प्रकाशयति / अतः प्रकाश्याल् लोकात् प्रकाशक-आदित्यवद् वेदितृत्वेन वेद्य-भूताद् अस्मात् क्षेत्राद् अत्यन्त-विलक्षणो ऽयम् उक्त-लक्षण आत्म ईत्य्-अर्थः //
SK
क्षेत्रक्षेत्रज्ञयोर् एवम् अन्तरं ज्ञानचक्षुषा | भूतप्रकृतिमोक्षं च ये विदुर् यान्ति ते परम् ||
SK
क्षेत्र-क्षेत्र-ज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा | भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् ||
SK
एवम् उक्तेन प्रकारेण क्षेत्रक्षेत्रज्ञयोर् अन्तरं विशेषं विवेकविषयज्ञानाख्येन चक्षुषा ये विदुः, भूतप्रकृतिमोक्षं च, ते परं यान्ति निर्मुक्तबन्धम् आत्मानं प्राप्नुवन्ति / मोक्ष्यते ऽनेनेति मोक्षः, अमानित्वादिकं मोक्षसाधनम् इत्यर्थः; क्षेत्रक्षेत्रज्ञयोर् विवेकविषयेणोक्तेन ज्ञानेन तयोर् विवेकं विदित्वा भूताकारपरिणतप्रकृतिमोक्षोपायम् अमानित्वादिकं चागम्य य आचरन्ति, ते निर्मुक्तबन्धाः स्वेन रूपेणावस्थितम् अनवच्छिन्नज्ञानलक्षणम् आत्मानं प्राप्नुवन्तीत्यर्थः //
SK
एवम् उक्तेन प्रकारेण क्षेत्र-क्षेत्र-ज्ञयोर् अन्तरं विशेषं विवेक-विषय-ज्ञान-आख्येन चक्षुषा ये विदुः, भूत-प्रकृति-मोक्षं च, ते परं यान्ति निर्मुक्त-बन्धम् आत्मानं प्राप्नुवन्ति / मोक्ष्यते ऽनेन इति मोक्षः, अमानित्व-आदिकं मोक्ष-साधनम् इत्य्-अर्थः; क्षेत्र-क्षेत्र-ज्ञयोर् विवेक-विषयेण उक्तेन ज्ञानेन तयोर् विवेकं विदित्वा भूत-आकार-परिणत-प्रकृति-मोक्ष-उपायम् अमानित्व-आदिकं चा अगम्य य आचरन्ति, ते निर्मुक्त-बन्धाः स्वेन रूपेण अवस्थितम् अनवच्छिन्न-ज्ञान-लक्षणम् आत्मानं प्राप्नुवन्ति इत्य्-अर्थः //
SK
त्रयोदशे प्रकृतिपुरुषयोर् अन्यान्यसंसृष्टयोः स्वरूपयाथात्मयं विज्ञाय अमानित्वादिभिः भगवद्भक्त्यनुगृहीतैर् बन्धान् मुच्यत इत्य् उक्तम् / तत्र बन्धहेतुः पूर्वपूर्वसत्त्वादिगुणमयसुखादिसङ्ग इति चाभिहितम्, ᳚कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु᳚ इति / अथेदानीं गुणानां बन्धहेतुताप्रकारः, गुणनिवर्तनप्रकारश् चोच्यते /
SK
त्रयो-दशे प्रकृति-पुरुषयोर् अन्य-अन्य-संसृष्टयोः स्व-रूप-याथात्मयं विज्ञाय अमानित्व-आदिभिः भगवद्-भक्त्य्-अनुगृहीतैर् बन्धान् मुच्यत इत्य् उक्तम् / तत्र बन्ध-हेतुः पूर्व-पूर्व-सत्त्व-आदि-गुण-मय-सुख-आदि-सङ्ग इति च अभिहितम्, ᳚कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु᳚ इति / अथ इदानीं गुणानां बन्ध-हेतुता-प्रकारः, गुण-निवर्तन-प्रकारश् च उच्यते /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source