Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 2

SK
तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् | विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ||
SK
तं तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम् | विषीदन्तम् इदं वाक्यम् उवाच मधु-सूदनः ||
SK
कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् | अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन ||
SK
कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् | अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ||
SK
मा क्लैब्यं गच्छ कौन्तेय नैतत् त्वय्य् उपपद्यते | क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||
SK
मा क्लैब्यं गच्छ कौन्तेय न एतत् त्वय्य् उपपद्यते | क्षुद्रं हृदय-दौर्बल्यं त्यक्त्व ऊत्तिष्ठ परन्-तप ||
SK
एवम् उपविष्टे पार्थे कुतो ऽयम् अस्थाने समुपस्थितः शोक इत्य् आक्षिप्य तम् इमं विषमस्थं शोकम् अविद्वत्सेवितं परलोकविरोधिनम् अकीर्तिकरम् अतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धायोत्तिष्ठेति श्रीभगवान् उवाच //
SK
एवम् उपविष्टे पार्थे कुतो ऽयम् अस्थाने समुपस्थितः शोक इत्य् आक्षिप्य तम् इमं विषम-स्थं शोकम् अविद्वत्-सेवितं पर-लोक-विरोधिनम् अकीर्ति-करम् अतिक्षुद्रं हृदय-दौर्बल्य-कृतं परित्यज्य युद्धाय उत्तिष्ठ इति श्री-भगवान् उवाच //
SK
कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन | इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ||
SK
कथं भीष्मम् अहं संख्ये द्रोणं च मधु-सूदन | इषुभिः प्रतियोत्स्यामि पूजा-अर्हाव् अरि-सूदन ||
SK
गुरून् अहत्वा हि महानुभावान् श्रेयश् चर्तुं भैक्षम् अपीह लोके | हत्वार्थकामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ||
SK
गुरून् अहत्वा हि महा-अनुभावान् श्रेयश् चर्तुं भैक्षम् अपि इह लोके | हत्व आर्थ-कामांस् तु गुरून् इह एव भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ||
SK
पुनर् अपि पार्थः स्नेहकारुण्यधर्माधर्मभयाकुलो भगवदुक्तं हिततमम् अजानन्न् इदम् उवाच -- भीष्मद्रोणादिकान् गुरून् बहुमन्तव्यान् कथम् अहं हनिष्यामि? कथंतरां भोगेष्व् अतिमात्रसक्तान् तान् हत्वा तैर् भुज्यमानांस् तान् एव भोगान् तद्रुधिरेणोपसिच्य तेष्व् आसनेषूपविश्य भुञ्जीय? //
SK
पुनर् अपि पार्थः स्नेह-कारुण्य-धर्म-अधर्म-भय-आकुलो भगवद्-उक्तं हिततमम् अजानन्न् इदम् उवाच --- भीष्म-द्रोण-आदिकान् गुरून् बहु-मन्तव्यान् कथम् अहं हनिष्यामि? कथंतरां भोगेष्व् अतिमात्र-सक्तान् तान् हत्वा तैर् भुज्यमानांस् तान् एव भोगान् तद्-रुधिरेण उपसिच्य तेष्व् आसनेषु उपविश्य भुञ्जीय? //
SK
न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः | यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||
SK
न च एतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः | यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||
SK
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वा धर्मसंमूढचेताः | यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ||
SK
कार्पण्य-दोष-उपहत-स्व-भावः पृच्छामि त्वा धर्म-संमूढ-चेताः | यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ||
SK
न हि प्रपश्यामि ममापनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् | अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि चाधिपत्यम् ||
SK
न हि प्रपश्यामि मम अपनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् | अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि चा अधिपत्यम् ||
SK
एवं युद्धम् आरभ्य निवृत्तव्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युर् इति चेत्, अस्तु / तद्वधलब्धविजयाद् अधर्म्याद् अस्माकं धर्माधर्माव् अजानद्भिः तैर् हननम् एव गरीय इति मे प्रतिभातीत्य् उक्त्वा, यन् मह्यं श्रेय इति निश्चितम्, तच् शरणागताय तव शिष्याय मे ब्रूहीत्य् अतिमात्रकृपणो भगवत्पादाव् उपससाद //
SK
एवं युद्धम् आरभ्य निवृत्त-व्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युर् इति चेत्, अस्तु / तद्-वध-लब्ध-विजयाद् अधर्म्याद् अस्माकं धर्म-अधर्माव् अजानद्भिः तैर् हननम् एव गरीय इति मे प्रतिभाति इत्य् उक्त्वा, यन् मह्यं श्रेय इति निश्चितम्, तच् शरणा-गताय तव शिष्याय मे ब्रूहि इत्य् अतिमात्र-कृपणो भगवत्-पादाव् उपससाद //
SK
एवम् उक्त्वा हृशीकेशं गुडाकेशः परन्तपः | न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ||
SK
एवम् उक्त्वा हृशीकेशं गुडाकेशः परन्-तपः | न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ||
SK
᳚एवम् अस्थाने समुपस्थितस्नेहकारुण्याभ्याम् अप्रकृतिं गतम्, क्षत्रियाणां युद्धं परमधर्मम् अप्य् अधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थम् उद्दिश्य, आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्यात्मप्राप्त्युपायताज्ञानेन च विना अस्य मोहो न शाम्यति᳚ इति मत्वा, भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् / तदुक्तम् -- ᳚अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् / पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम्᳚ // इति // Bह्GR_२.९ //
SK
᳚एवम् अस्थाने समुपस्थित-स्नेह-कारुण्याभ्याम् अप्रकृतिं गतम्, क्षत्रियाणां युद्धं परम-धर्मम् अप्य् अधर्मं मन्वानं धर्म-बुभुत्सया च शरणा-गतं पार्थम् उद्दिश्य, आत्म-याथात्म्य-ज्ञानेन युद्धस्य फल-अभिसन्धि-रहितस्या अत्म-प्राप्त्य्-उपायता-ज्ञानेन च विना अस्य मोहो न शाम्यति᳚ इति मत्वा, भगवता परम-पुरुषेण अध्यात्म-शास्त्र-अवतरणं कृतम् / तद्-उक्तम् --- ᳚अस्थान-स्नेह-कारुण्य-धर्म-अधर्म-धिया आकुलम् / पार्थं प्रपन्नम् उद्दिश्य शास्त्र-अवतरणं कृतम्᳚ // इति // Bह्GR_२.९ //
SK
तम् उवाच हृशीकेशः प्रहसन्न् इव भारत | सेनयोर् उभयोर् मध्ये सीदमानम् इदं वचः ||
SK
तम् उवाच हृशीकेशः प्रहसन्न् इव भारत | सेनयोर् उभयोर् मध्ये सीदमानम् इदं वचः ||
SK
एवं देहात्मनोर् याथात्म्याज्ञाननिमित्तशोकाविष्टम्, देहातिरिक्तात्मज्ञाननिमित्तं च धर्मं भाषमाणम्, परस्परविरुद्धगुणान्वितम्, उभयोस् सेनयोर् युद्धायोद्युक्तयोर् मध्ये अकस्मान् निरुद्योगं पार्थम् आलोक्य परमपुरुषः प्रहसन्न् इवेदम् उवाच -- परिहासवाक्यं वदन्न् इव आत्मपरमात्मयाथात्म्यतत्प्राप्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोगगोचरं ᳚न त्व् एवाहं जातु नासम्᳚ इत्यारभ्य ᳚अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः᳚ इत्येतदन्तं वचनम् उवाचेत्यर्थः //
SK
एवं देह-आत्मनोर् याथात्म्य-अज्ञान-निमित्त-शोक-आविष्टम्, देह-अतिरिक्त-आत्म-ज्ञान-निमित्तं च धर्मं भाषमाणम्, परस्पर-विरुद्ध-गुण-अन्वितम्, उभयोस् सेनयोर् युद्धाय उद्युक्तयोर् मध्ये अकस्मान् निरुद्योगं पार्थम् आलोक्य परम-पुरुषः प्रहसन्न् इव इदम् उवाच --- परिहास-वाक्यं वदन्न् इव आत्म-परम-आत्म-याथात्म्य-तत्-प्राप्त्य्-उपाय-भूत-कर्म-योग-ज्ञान-योग-भक्ति-योग-गोचरं ᳚न त्व् एव अहं जातु ना असम्᳚ इत्य्-आरभ्य ᳚अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः᳚ इत्य्-एतद्-अन्तं वचनम् उवाच इत्य्-अर्थः //
SK
अशोच्यान् अन्वशोचस् त्वं प्रज्ञावादांश् च भाषसे | गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ||
SK
अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे | गत-असून् अ-गत-असूंश् च न अनुशोचन्ति पण्डिताः ||
SK
अशोच्यान् प्रति अनुशोचसि / ᳚पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः᳚ इत्यादिकान् देहात्मस्वभावप्रज्ञानिमित्तवादांश् च भाषसे / देहात्मस्वभावज्ञानवतां नात्र किंचिच् छोकनिमित्तम् अस्ति / गतासून् देहान् अगतासून्; आत्मनश् च प्रति तत्स्वभावयाथात्म्यविदो न शोचन्ति / अतस् त्वयि विप्रतिषिद्धम् इदम् उपलभ्यते, यद् एतान् हनिष्यामीत्य् अनुशोचनम्, यच् च देहातिरिक्तात्मज्ञानकृतं धर्माधर्मभाषणम् / अतो देहस्वभावं च न जानासि, तदतिरिक्तम् आत्मानं च नित्यम्, तत्प्राप्त्युपायभूतं युद्धादिकं धर्मं च / इदं च युद्धं फलाभिसन्धिरहितम् आत्मयाथात्म्यावाप्त्युपायभूतम् / आत्मा हि न जन्माधीनसद्भावः; न मरणाधीनविनाशश् च, तस्य जन्ममरणयोर् अभावात् / अतः स न शोकस्थानम् / देहस् त्व् अचेतनः परिणामस्वभावः; तस्योत्पत्तिविनाशयोगः स्वाभाविक इति सो ऽपि न शोकस्थानम् इत्यभिप्रायः //
SK
अशोच्यान् प्रति अनुशोचसि / ᳚पतन्ति पितरो ह्य् एषां लुप्त-पिण्ड-उदक-क्रियाः᳚ इत्य्-आदिकान् देह-आत्म-स्व-भाव-प्रज्ञा-निमित्त-वादांश् च भाषसे / देह-आत्म-स्व-भाव-ज्ञानवतां न अत्र किंचिच् छोक-निमित्तम् अस्ति / गत-असून् देहान् अ-गत-असून्; आत्मनश् च प्रति तत्-स्व-भाव-याथात्म्य-विदो न शोचन्ति / अतस् त्वयि विप्रतिषिद्धम् इदम् उपलभ्यते, यद् एतान् हनिष्यामि इत्य् अनुशोचनम्, यच् च देह-अतिरिक्त-आत्म-ज्ञान-कृतं धर्म-अधर्म-भाषणम् / अतो देह-स्व-भावं च न जानासि, तद्-अतिरिक्तम् आत्मानं च नित्यम्, तत्-प्राप्त्य्-उपाय-भूतं युद्ध-आदिकं धर्मं च / इदं च युद्धं फल-अभिसन्धि-रहितम् आत्म-याथात्म्य-अवाप्त्य्-उपाय-भूतम् / आत्मा हि न जन्म-अधीन-सद्-भावः; न मरण-अधीन-विनाशश् च, तस्य जन्म-मरणयोर् अभावात् / अतः स न शोक-स्थानम् / देहस् त्व् अचेतनः परिणाम-स्व-भावः; तस्य उत्पत्ति-विनाश-योगः स्वाभाविक इति सो ऽपि न शोक-स्थानम् इत्य्-अभिप्रायः //
SK
प्रथमं तावद् आत्मनां स्वभावम् शृणु --
SK
प्रथमं तावद् आत्मनां स्व-भावम् शृणु ---
SK
न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः | न चैव न भविष्यामः सर्वे वयम् अतः परम् ||
SK
न त्व् एव अहं जातु ना असं न त्वं न इमे जन-अधिपाः | न च एव न भविष्यामः सर्वे वयम् अतः परम् ||
SK
अहं सर्वेश्वरस् तावत्, अतः वर्तमानात् पूर्वस्मिन् अनादौ काले, न नासम् -- अपि त्व् आसम् / त्वन्मुखाश् चैते ईशितव्याः क्षेत्रज्ञाः न नासम्; अपि त्व् आसन् / अहं च यूयं च सर्वे वयम्, अतः परस्मिन् अनन्ते काले, न चैव न भविष्यामः; अपि तु भविष्याम एव / यथाहं सर्वेश्वरः परमात्मा नित्य इति नात्र संशयः, तथैव भवन्तः क्षेत्रज्ञा आत्मानो ऽपि नित्या एवेति मन्तव्याः //
SK
अहं सर्व-ईश्वरस् तावत्, अतः वर्तमानात् पूर्वस्मिन् अनादौ काले, न ना असम् --- अपि त्व् आसम् / त्वन्-मुखाश् च एते ईशितव्याः क्षेत्र-ज्ञाः न ना असम्; अपि त्व् आसन् / अहं च यूयं च सर्वे वयम्, अतः परस्मिन् अनन्ते काले, न च एव न भविष्यामः; अपि तु भविष्याम एव / यथ आहं सर्व-ईश्वरः परम-आत्मा नित्य इति न अत्र संशयः, तथ ऐव भवन्तः क्षेत्र-ज्ञा आत्मानो ऽपि नित्या एव इति मन्तव्याः //
SK
किं च गुरोर् अद्वितीय-आत्म-विज्ञानाद् एव ब्रह्म-अज्ञानस्य स-कार्यस्य विनष्टत्वाच् शिष्यं प्रत्य् उपदेशो निष्प्रयोजनः / गुरुस् तज्-ज्ञानं च कल्पितम् इति चेत्, शिष्य-तज्-ज्ञानयोर् अपि कल्पितत्वात् तद् अप्य् अनिवर्तकम् / कल्पितत्वे ऽपि पूर्व-विरोधित्वेन निवर्तकम् इति चेत्, तद् अचार्य-ज्ञाने ऽपि समानम् इति तद् एव निवर्तकं भवति इत्य् उपदेश-अनर्थक्यम् एव --- इति कृतम् असमीचीन-वादैः //
SK
एवं भगवतः सर्वेश्वराद् अत्मनाम्, परस्परं च, भेदः पारमार्थिक इति भगवतैवोक्तम् इति प्रतीयते; अज्ञानमोहितं प्रति तन्निवृत्तये पार्मार्थिकनित्यत्वोपदेशसमये अहम्, त्वम्, इमे, सर्वे, वयम् इति व्यपदेशात् / औपचारिकात्मभेदवादे हि आत्मभेदस्यातात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न संगच्छते / भगवदुक्तात्मभेदः स्वाभाविक इति श्रुतिर् अप्य् आह, ᳚नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्᳚ इति / नित्यानां बहूनां चेतनानां य एको नित्यश् चेतनस् सन् कामान् विदधातीत्यर्थः / अज्ञानकृतभेददृष्टिवादे तु परमपुरुषस्य परमार्थदृष्तेर् निर्विशेषकूटस्थनित्यचैतन्यात्मयाथात्म्यसाक्षात्कारान् निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादिव्यवहाराश् च न संगच्छन्ते / अथ परमपुरुषस्याधिगताद्वैतज्ञानस्य बाधितानुवृत्तिरूपम् इदं भेदज्ञानं दग्धपटादिवन् न बन्धकम् इत्य् उच्यते -- नैतद् उपपद्यते; मरीचिकाजलज्ञानादिकं हि बाधितम् अनुवर्तमानं न जलाहरणादिप्रवृत्तिहेतुः / एवम् अत्राप्य् अद्वैतज्ञानेन बाधितं भेदज्ञानम् अनुवर्तमानम् अपि मिथ्यार्थविषयत्वनिश्चयान् नोपदेशादिप्रवृत्तिहेतुर् भवति / न चेश्वरस्य पूर्वम् अज्ञस्य शास्त्राधिगततत्त्वज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम्; ᳚यः सर्वज्ञः सर्ववित्᳚, ᳚परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च᳚, ᳚वेदाहं समतीतानि वर्तमानानि चार्जुन / भविष्याणि च भूतानि मां तु वेद न कश्चन᳚ इति श्रुतिस्मृतिविरोधात् / किं च परमपुरुषश् च इदानींतनगुरुपरम्परा च, अद्वितीयात्मस्वरूपनिश्चये सति अनुवर्तमाने ऽपि भेदज्ञाने, स्वनिश्चयानुरूपम् अद्वितीयात्मज्ञानं कस्मा उपदिशतीति वक्तव्यम् // प्रतिबिम्बवत्प्रतीयमानेभ्यो ऽर्जुनादिभ्य इति चेत् -- नैतद् उपपद्यते; न ह्य् अनुन्मत्तः को ऽपि मणिकृपाणदर्पणादिषु प्रतीयमानेषु स्वात्मप्रतिबिम्बेषु, तेषां स्वात्मनो ऽनन्यत्वं जानन्, तेभ्यः किम् अप्य् उपदिशति / बाधितानुवृत्तिर् अपि तैर् न शक्यते वक्तुम्; बाधकेनाद्वितीयात्मज्ञानेनात्मव्यतिरिक्तभेदज्ञानकारणस्यानादेर् विनष्टत्वात् / द्विचन्द्रज्ञानादौ तु चन्द्रैकत्वज्ञानेन पारमार्थिकतिमिरादिदोषस्य द्विचन्द्रज्ञानहेतोर् अविनष्टत्वाद् बाधितानुवृत्तिर् युक्ता; अनुवर्तमानम् अपि प्रबलप्रमाणबाधितत्वेना-किंचित्करम् / इह तु भेदज्ञानस्य सविषयस्य सकारणस्या-पारमार्थिकत्वेन वस्तुयाथात्म्यज्ञानविनष्टत्वान् न कथञ्चिद् अपि बाधितानुवृत्तिः संभवति / अतः सर्वेश्वरस्येदानींतनगुरुपरम्परायाश् च तत्त्वज्ञानम् अस्ति चेत्, भेददर्शनतत्कार्योपदेशाद्यसंभवः / नास्ति चेत्, अज्ञानस्य तद्धेतोः स्थितत्वेनाज्ञत्वाद् एव सुतराम् उपदेशो न संभवति //
SK
एवं भगवतः सर्व-ईश्वराद् अत्मनाम्, परस्परं च, भेदः पारमार्थिक इति भगवत ऐव उक्तम् इति प्रतीयते; अज्ञान-मोहितं प्रति तन्-निवृत्तये पार्मार्थिक-नित्यत्व-उपदेश-समये अहम्, त्वम्, इमे, सर्वे, वयम् इति व्यपदेशात् / औपचारिक-आत्म-भेद-वादे हि आत्म-भेदस्य अतात्त्विकत्वेन तत्त्व-उपदेश-समये भेद-निर्देशो न संगच्छते / भगवद्-उक्त-आत्म-भेदः स्वाभाविक इति श्रुतिर् अप्य् आह, ᳚नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्᳚ इति / नित्यानां बहूनां चेतनानां य एको नित्यश् चेतनस् सन् कामान् विदधाति इत्य्-अर्थः / अज्ञान-कृत-भेद-दृष्टि-वादे तु परम-पुरुषस्य परम-अर्थ-दृष्तेर् निर्विशेष-कूट-स्थ-नित्य-चैतन्य-आत्म-याथात्म्य-साक्षात्कारान् निवृत्त-अज्ञान-तत्-कार्यतया अज्ञान-कृत-भेद-दर्शनं तन्-मूल-उपदेश-आदि-व्यवहाराश् च न संगच्छन्ते / अथ परम-पुरुषस्य अधिगत-अद्वैत-ज्ञानस्य बाधित-अनुवृत्ति-रूपम् इदं भेद-ज्ञानं दग्ध-पट-आदिवन् न बन्धकम् इत्य् उच्यते --- न एतद् उपपद्यते; मरीचिका-जल-ज्ञान-आदिकं हि बाधितम् अनुवर्तमानं न जला-हरण-आदि-प्रवृत्ति-हेतुः / एवम् अत्र अप्य् अद्वैत-ज्ञानेन बाधितं भेद-ज्ञानम् अनुवर्तमानम् अपि मिथ्या-अर्थ-विषयत्व-निश्चयान् न उपदेश-आदि-प्रवृत्ति-हेतुर् भवति / न चा इश्वरस्य पूर्वम् अज्ञस्य शास्त्र-अधिगत-तत्त्व-ज्ञानतया बाधित-अनुवृत्तिः शक्यते वक्तुम्; ᳚यः सर्व-ज्ञः सर्व-वित्᳚, ᳚पर आस्य शक्तिर् विविध ऐव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च᳚, ᳚वेद अहं समतीतानि वर्तमानानि च अर्जुन / भविष्याणि च भूतानि मां तु वेद न कश्चन᳚ इति श्रुति-स्मृति-विरोधात् / किं च परम-पुरुषश् च इदानींतन-गुरु-परम्परा च, अद्वितीय-आत्म-स्व-रूप-निश्चये सति अनुवर्तमाने ऽपि भेद-ज्ञाने, स्व-निश्चय-अनुरूपम् अद्वितीय-आत्म-ज्ञानं कस्मा उपदिशति इति वक्तव्यम् // प्रतिबिम्बवत्-प्रतीयमानेभ्यो ऽर्जुन-आदिभ्य इति चेत् --- न एतद् उपपद्यते; न ह्य् अनुन्मत्तः को ऽपि मणि-कृपाण-दर्पण-आदिषु प्रतीयमानेषु स्व-आत्म-प्रतिबिम्बेषु, तेषां स्व-आत्मनो ऽनन्यत्वं जानन्, तेभ्यः किम् अप्य् उपदिशति / बाधित-अनुवृत्तिर् अपि तैर् न शक्यते वक्तुम्; बाधकेन अद्वितीय-आत्म-ज्ञानेना अत्म-व्यतिरिक्त-भेद-ज्ञान-कारणस्य अनादेर् विनष्टत्वात् / द्वि-चन्द्र-ज्ञान-आदौ तु चन्द्र-एकत्व-ज्ञानेन पारमार्थिक-तिमिर-आदि-दोषस्य द्वि-चन्द्र-ज्ञान-हेतोर् अविनष्टत्वाद् बाधित-अनुवृत्तिर् युक्ता; अनुवर्तमानम् अपि प्रबल-प्रमाण-बाधितत्वेन अ-किंचित्-करम् / इह तु भेद-ज्ञानस्य स-विषयस्य स-कारणस्य अ-पारमार्थिकत्वेन वस्तु-याथात्म्य-ज्ञान-विनष्टत्वान् न कथञ्चिद् अपि बाधित-अनुवृत्तिः संभवति / अतः सर्व-ईश्वरस्य इदानींतन-गुरु-परम्परायाश् च तत्त्व-ज्ञानम् अस्ति चेत्, भेद-दर्शन-तत्-कार्य-उपदेश-आद्य्-असंभवः / न अस्ति चेत्, अ-ज्ञानस्य तद्-धेतोः स्थितत्वेन अज्ञत्वाद् एव सुतराम् उपदेशो न संभवति //
SK
किं च गुरोर् अद्वितीयात्मविज्ञानाद् एव ब्रह्माज्ञानस्य सकार्यस्य विनष्टत्वाच् शिष्यं प्रत्य् उपदेशो निष्प्रयोजनः / गुरुस् तज्ज्ञानं च कल्पितम् इति चेत्, शिष्यतज्ज्ञानयोर् अपि कल्पितत्वात् तद् अप्य् अनिवर्तकम् / कल्पितत्वे ऽपि पूर्वविरोधित्वेन निवर्तकम् इति चेत्, तद् अचार्यज्ञाने ऽपि समानम् इति तद् एव निवर्तकं भवतीत्य् उपदेशानर्थक्यम् एव -- इति कृतम् असमीचीनवादैः //
SK
अहं सर्व-ईश्वरस् तावत्, अतः वर्तमानात् पूर्वस्मिन् अनादौ काले, न ना असम् --- अपि त्व् आसम् / त्वन्-मुखाश् च एते ईशितव्याः क्षेत्र-ज्ञाः न ना असम्; अपि त्व् आसन् / अहं च यूयं च सर्वे वयम्, अतः परस्मिन् अनन्ते काले, न च एव न भविष्यामः; अपि तु भविष्याम एव / यथ आहं सर्व-ईश्वरः परम-आत्मा नित्य इति न अत्र संशयः, तथ ऐव भवन्तः क्षेत्र-ज्ञा आत्मानो ऽपि नित्या एव इति मन्तव्याः //
SK
किं च गुरोर् अद्वितीय-आत्म-विज्ञानाद् एव ब्रह्म-अज्ञानस्य स-कार्यस्य विनष्टत्वाच् शिष्यं प्रत्य् उपदेशो निष्प्रयोजनः / गुरुस् तज्-ज्ञानं च कल्पितम् इति चेत्, शिष्य-तज्-ज्ञानयोर् अपि कल्पितत्वात् तद् अप्य् अनिवर्तकम् / कल्पितत्वे ऽपि पूर्व-विरोधित्वेन निवर्तकम् इति चेत्, तद् अचार्य-ज्ञाने ऽपि समानम् इति तद् एव निवर्तकं भवति इत्य् उपदेश-अनर्थक्यम् एव --- इति कृतम् असमीचीन-वादैः //
SK
देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति ||
SK
देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा | तथा देह-अन्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ||
SK
एकस्मिन् देहे वर्तमानस्य देहिनः कौमारावस्थां विहाय यौवनाद्यवस्थाप्राप्तौ आत्मनः स्थिरत्वबुद्ध्या यथा आत्मा नष्ट इति न शोचति, देहाद् देहान्तरप्राप्ताव् अपि तथैव स्थिर आत्मेति बुद्धिमान् न शोचति / अत आत्मनां नित्यत्वाद् आत्मनो न शोकस्थानम् //
SK
एकस्मिन् देहे वर्तमानस्य देहिनः कौमार-अवस्थां विहाय यौवन-आद्य्-अवस्था-प्राप्तौ आत्मनः स्थिरत्व-बुद्ध्या यथा आत्मा नष्ट इति न शोचति, देहाद् देह-अन्तर-प्राप्ताव् अपि तथ ऐव स्थिर आत्म ईति बुद्धिमान् न शोचति / अत आत्मनां नित्यत्वाद् आत्मनो न शोक-स्थानम् //
SK
एतावद् अत्र कर्तव्यम् -- आत्मनां नित्यानाम् एवानादिकर्मवश्यतया तत्तत्कर्मोचितदेहसंसृष्टानां तैर् एव देहैर् बन्धनिवृत्तये शास्त्रीयं स्ववर्णोचितं युद्धादिकम् अनभिसंहितफलं कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैर् इन्द्रियार्थस्पर्शाः शीतोष्णादिप्रयुक्तसुखदुःखदा भवन्ति, ते तु यावच्छास्त्रीयकर्मसमाप्ति क्षन्तव्या इति / इमम् अर्थम् अनन्तरम् एवाह --
SK
एतावद् अत्र कर्तव्यम् --- आत्मनां नित्यानाम् एव अनादि-कर्म-वश्यतया तत्-तत्-कर्म-उचित-देह-संसृष्टानां तैर् एव देहैर् बन्ध-निवृत्तये शास्त्रीयं स्व-वर्ण-उचितं युद्ध-आदिकम् अनभिसंहित-फलं कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैर् इन्द्रिय-अर्थ-स्पर्शाः शीत-उष्ण-आदि-प्रयुक्त-सुख-दुःख-दा भवन्ति, ते तु यावच्-छास्त्रीय-कर्म-समाप्ति क्षन्तव्या इति / इमम् अर्थम् अनन्तरम् एवा अह ---
SK
मात्रास्पर्शास् तु कौन्तेय शीतोष्णसुखदुःखदाः | आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ||
SK
मात्रा-स्पर्शास् तु कौन्तेय शीत-उष्ण-सुख-दुःख-दाः | आगम-अपायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ||
SK
शब्दस्पर्शरूपरसगन्धाः साश्रयाः तन्मात्राकार्यत्वान् मात्रा इत्य् उच्यन्ते / श्रोत्रादिभिस् तेषां स्पर्शाः शीतोष्णमृदुपरुषादिरूपसुखदुःखदाः भवन्ति / शीतोष्णशब्दः प्रदर्शनार्थः / तान् धैर्येण यावद्युद्धादिशास्त्रीयकर्मसमाप्ति तितिक्षस्व / ते चागमापायित्वाद् धैर्यवताम् क्षन्तुं योग्याः / अनित्याश् च ते / बन्धहेतुभूतकर्मनाशे सति आगमापायित्वेनापि न वर्तन्ते इत्यर्थः //
SK
शब्द-स्पर्श-रूप-रस-गन्धाः स-आश्रयाः तन्मात्रा-कार्यत्वान् मात्रा इत्य् उच्यन्ते / श्रोत्र-आदिभिस् तेषां स्पर्शाः शीत-उष्ण-मृदु-परुष-आदि-रूप-सुख-दुःख-दाः भवन्ति / शीत-उष्ण-शब्दः प्रदर्शन-अर्थः / तान् धैर्येण यावद्-युद्ध-आदि-शास्त्रीय-कर्म-समाप्ति तितिक्षस्व / ते चा अगम-अपायित्वाद् धैर्यवताम् क्षन्तुं योग्याः / अनित्याश् च ते / बन्ध-हेतु-भूत-कर्म-नाशे सति आगम-अपायित्वेन अपि न वर्तन्ते इत्य्-अर्थः //
SK
तत्क्षमा किमर्थेत्य् अत्राह --
SK
तत्-क्षमा किम्-अर्थ ईत्य् अत्रा अह ---
SK
यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ | समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते ||
SK
यं हि न व्यथयन्त्य् एते पुरुषं पुरुष-र्षभ | सम-दुःख-सुखं धीरं सो ऽमृतत्वाय कल्पते ||
SK
यं पुरुषं धैर्ययुक्तम् अवर्जनीयदुःखं सुखवन् मन्यमानम्, अमृतत्वसाधनतया स्ववर्णोचितं युद्धादिकर्म अनभिसंहितफलं कुर्वाणं तदन्तर्गताः शस्त्रपातादिमृदुक्रूरस्पर्शाः न व्यथयन्ति; स एवामृतत्वं साधयति / न त्वादृशो दुःखासहिष्णुर् इत्यर्थः / आत्मनां नित्यत्वाद् एतावद् अत्र कर्तव्यम् इत्यर्थः //
SK
यं पुरुषं धैर्य-युक्तम् अवर्जनीय-दुःखं सुखवन् मन्यमानम्, अमृतत्व-साधनतया स्व-वर्ण-उचितं युद्ध-आदि-कर्म अनभिसंहित-फलं कुर्वाणं तद्-अन्तर्गताः शस्त्र-पात-आदि-मृदु-क्रूर-स्पर्शाः न व्यथयन्ति; स एव अमृतत्वं साधयति / न त्व-आदृशो दुःख-असहिष्णुर् इत्य्-अर्थः / आत्मनां नित्यत्वाद् एतावद् अत्र कर्तव्यम् इत्य्-अर्थः //
SK
यत् तु आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तम् उक्तम्, ᳚गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः᳚ इति, तद् उपपादयितुम् आरभते --
SK
यत् तु आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोक-अनिमित्तम् उक्तम्, ᳚गत-असून् अगत-असूंश् च न अनुशोचन्ति पण्डिताः᳚ इति, तद् उपपादयितुम् आरभते ---
SK
नासतो विद्यते भावो नाभावो विद्यते सतः | उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः ||
SK
न असतो विद्यते भावो न अभावो विद्यते सतः | उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ||
SK
असतः देहस्य सद्भावो न विद्यते / सतश् चात्मनो नासद्भावः / उभयोः -- देहात्मनोर् उपलभ्यमानयोर् यथोपलब्धि तत्त्वदर्शिभिर् अन्तो दृष्टः -- निर्णयान्तत्वान् निरूपणस्य निर्णय इह अन्तशब्देनोच्यते / देहस्याचिद्वस्तुनो ऽसत्त्वम् एव स्वरूपम्; आत्मनश् चेतनस्य सत्त्वम् एव स्वरूपम् इति निर्णयो दृष्ट इत्यर्थः / विनाशस्वभावो ह्य् असत्त्वम् / अविनाशस्वभावश् च सत्त्वम् / यथा उक्तं भगवता पराशरेण, ᳚तस्मान् न विज्ञानम् ऋते ऽस्ति किंचित् क्वचित् कदाचिद् द्विज वस्तुजातम्᳚, ᳚सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यम् असत्यम् अन्यत्᳚, ᳚अनाशी परमार्थश् च प्राज्ञैर् अभ्युपगम्यते / तत् तु नाशि न संदेहो नाशिद्रव्योपपादितम्᳚, ᳚यत् तु कालान्तरेणापि नान्यसंज्ञाम् उपैति वै / परिणामादिसंभूतां तद् वस्तु नृप तच् च किम्᳚ इति / अत्रापि ᳚अन्तवन्त इमे देहाः᳚, ᳚अविनाशि तु तद् विद्धि᳚ इति ह्य् उच्यते / तद् एव सत्त्वासत्त्वव्यपदेशहेतुर् इति गम्यते //
SK
असतः देहस्य सद्-भावो न विद्यते / सतश् चा अत्मनो न असद्-भावः / उभयोः --- देह-आत्मनोर् उपलभ्यमानयोर् यथा-उपलब्धि तत्त्व-दर्शिभिर् अन्तो दृष्टः --- निर्णय-अन्तत्वान् निरूपणस्य निर्णय इह अन्त-शब्देन उच्यते / देहस्य अचिद्-वस्तुनो ऽसत्त्वम् एव स्व-रूपम्; आत्मनश् चेतनस्य सत्त्वम् एव स्व-रूपम् इति निर्णयो दृष्ट इत्य्-अर्थः / विनाश-स्व-भावो ह्य् असत्त्वम् / अविनाश-स्व-भावश् च सत्त्वम् / यथा उक्तं भगवता पराशरेण, ᳚तस्मान् न विज्ञानम् ऋते ऽस्ति किं-चित् क्व-चित् कदा-चिद् द्वि-ज वस्तु-जातम्᳚, ᳚सद्-भाव एवं भवतो मय ऊक्तो ज्ञानं यथा सत्यम् असत्यम् अन्यत्᳚, ᳚अनाशी परम-अर्थश् च प्राज्ञैर् अभ्युपगम्यते / तत् तु नाशि न संदेहो नाशि-द्रव्य-उपपादितम्᳚, ᳚यत् तु काल-अन्तरेण अपि न अन्य-संज्ञाम् उपैति वै / परिणाम-आदि-संभूतां तद् वस्तु नृ-प तच् च किम्᳚ इति / अत्र अपि ᳚अन्तवन्त इमे देहाः᳚, ᳚अविनाशि तु तद् विद्धि᳚ इति ह्य् उच्यते / तद् एव सत्त्व-असत्त्व-व्यपदेश-हेतुर् इति गम्यते //
SK
अत्र तु सत्कार्यवादस्याप्रस्तुतत्वान् न तत्परो ऽयं श्लोकः; देहात्मस्वभावाज्ञानमोहितस्य तन्मोहशान्तये ह्य् उभयोर् नाशित्वानाशित्वरूपस्वभावविवेक एव वक्तव्यः / स एव ᳚गतासून् अगतासून्᳚ इति च प्रस्तुतः / स एव च, ᳚अविनाशि तु तद् विद्धि᳚, ᳚अन्तवन्त इमे देहाः᳚ इति अनन्तरम् उपपाद्यते / अतो यथा उक्त एवार्थः //
SK
अत्र तु सत्-कार्य-वादस्य अप्रस्तुतत्वान् न तत्-परो ऽयं श्लोकः; देह-आत्म-स्व-भाव-अज्ञान-मोहितस्य तन्-मोह-शान्तये ह्य् उभयोर् नाशित्व-अनाशित्व-रूप-स्व-भाव-विवेक एव वक्तव्यः / स एव ᳚गत-असून् अगत-असून्᳚ इति च प्रस्तुतः / स एव च, ᳚अविनाशि तु तद् विद्धि᳚, ᳚अन्तवन्त इमे देहाः᳚ इति अनन्तरम् उपपाद्यते / अतो यथा उक्त एव अर्थः //
SK
आत्मनस् त्व् अविनाशित्वं कथम् अवगम्यत इत्य् अत्राह --
SK
आत्मनस् त्व् अविनाशित्वं कथम् अवगम्यत इत्य् अत्रा अह ---
SK
अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् | विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ||
SK
अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् | विनाशम् अव्ययस्य अस्य न कश्-चित् कर्तुम् अर्हति ||
SK
तद् अत्मतत्त्वम् अविनाशीति विद्धि, येन आत्मतत्त्वेन चेतनेन तद्व्यतिरिक्तम् इदम् अचेतनतत्त्वं सर्वं ततं व्याप्तम् / व्यापकत्वेन निरतिशयसूक्ष्मत्वाद् आत्मनो विनाशानर्हस्य तद्व्यतिरिक्तो न कश्चित् पदार्थो विनाशम् कर्तुम् अर्हति, तद्व्याप्यतया तस्मात् स्थूलत्वात् / नाशकं हि शस्त्रजलाग्निवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति / मुद्रादयो ऽपि हि वेगवत् संयोगेन वायुम् उत्पाद्य तद्द्वारेण नाशयन्ति / अत आत्मतत्त्वम् अविनाशि //
SK
तद् अत्म-तत्त्वम् अविनाशि इति विद्धि, येन आत्म-तत्त्वेन चेतनेन तद्-व्यतिरिक्तम् इदम् अचेतन-तत्त्वं सर्वं ततं व्याप्तम् / व्यापकत्वेन निरतिशय-सूक्ष्मत्वाद् आत्मनो विनाश-अनर्हस्य तद्-व्यतिरिक्तो न कश्-चित् पद-अर्थो विनाशम् कर्तुम् अर्हति, तद्-व्याप्यतया तस्मात् स्थूलत्वात् / नाशकं हि शस्त्र-जल-अग्नि-वाय्व्-आदिकं नाश्यं व्याप्य शिथिली-करोति / मुद्रा-आदयो ऽपि हि वेगवत् संयोगेन वायुम् उत्पाद्य तद्-द्वारेण नाशयन्ति / अत आत्म-तत्त्वम् अविनाशि //
SK
देहानां तु विनाशित्वम् एव स्वभाव इत्याह --
SK
देहानां तु विनाशित्वम् एव स्व-भाव इत्य्-आह ---
SK
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः | अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ||
SK
अन्तवन्त इमे देहा नित्यस्य उक्ताः शरीरिणः | अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ||
SK
᳚दिह उपचये᳚ इत्युपचयरूपा इमे देहा अन्तवन्तः विनाशस्वभावाः / उपचयात्मका हि घटादयो ऽन्तवन्तो दृष्टाः / नित्यस्य शरीरिणः कर्मफलभोगार्थतया भूतसंघातरूपा देहाः, ᳚पुण्यः पुण्येन᳚ इत्यादिशास्त्रैर् उक्ताः कर्मावसानविनाशिनः / आत्मा त्व् अविनाशी; कुतः ? अप्रमेयत्वात् / न ह्य् आत्मा प्रमेयतयोपलभ्यते, अपि तु प्रमातृतया / तथा च वक्ष्यते, ᳚एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः᳚ इति / न चानेकोपचयात्मक आत्मोपलभयते, सर्वत्र देहे ᳚अहम् इदं जानामि᳚ इति देहस्य चान्यस्य च प्रमातृतयैकरूपेणोपलब्धेः / न च देहादेर् इव प्रदेशभेदे प्रमातुर् आकारभेद उपलभ्यते / अत एकरूपत्वेन अनुपचयात्मकत्वात् प्रमातृत्वाद् व्यापकत्वाच् च आत्मा नित्यः / देहस् तु उपचयात्मकत्वात्, शरीरिणः कर्मफलभोगार्थत्वात्,
SK
᳚दिह उपचये᳚ इत्य्-उपचय-रूपा इमे देहा अन्तवन्तः विनाश-स्व-भावाः / उपचय-आत्मका हि घट-आदयो ऽन्तवन्तो दृष्टाः / नित्यस्य शरीरिणः कर्म-फल-भोग-अर्थतया भूत-संघात-रूपा देहाः, ᳚पुण्यः पुण्येन᳚ इत्य्-आदि-शास्त्रैर् उक्ताः कर्म-अवसान-विनाशिनः / आत्मा त्व् अविनाशी; कुतः ? अप्रमेयत्वात् / न ह्य् आत्मा प्रमेयतय ऊपलभ्यते, अपि तु प्रमातृतया / तथा च वक्ष्यते, ᳚एतद् यो वेत्ति तं प्राहुः क्षेत्र-ज्ञ इति तद्-विदः᳚ इति / न च अनेक-उपचय-आत्मक आत्म उपलभयते, सर्वत्र देहे ᳚अहम् इदं जानामि᳚ इति देहस्य च अन्यस्य च प्रमातृतय ऐक-रूपेण उपलब्धेः / न च देह-आदेर् इव प्रदेश-भेदे प्रमातुर् आकार-भेद उपलभ्यते / अत एक-रूपत्वेन अनुपचय-आत्मकत्वात् प्रमातृत्वाद् व्यापकत्वाच् च आत्मा नित्यः / देहस् तु उपचय-आत्मकत्वात्, शरीरिणः कर्म-फल-भोग-अर्थत्वात्,
SK
अनेकरूपत्वात्, व्याप्यत्वाच् च विनाशी / तस्माद् देहस्य विनाशस्वभावत्वाद् अत्मनो नित्यत्वाच् च उभयाव् अपि न शोकस्थानम् इति, शस्त्रपातादिपुरुषस्पर्शान् अवर्जनीयान् स्वगतान् अन्यगतांश् च घैर्येण सोढ्वा अमृतत्वप्राप्तये अनभिसंहितफलं युद्धाख्यं कर्मारभस्व //
SK
अनेक-रूपत्वात्, व्याप्यत्वाच् च विनाशी / तस्माद् देहस्य विनाश-स्व-भावत्वाद् अत्मनो नित्यत्वाच् च उभयाव् अपि न शोक-स्थानम् इति, शस्त्र-पात-आदि-पुरुष-स्पर्शान् अवर्जनीयान् स्व-गतान् अन्य-गतांश् च घैर्येण सोढ्वा अमृतत्व-प्राप्तये अनभिसंहित-फलं युद्ध-आख्यं कर्मा अरभस्व //
SK
य एनं वेत्ति हन्तारं यश् चैनन् मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||
SK
य एनं वेत्ति हन्तारं यश् च एनन् मन्यते हतम् | उभौ तौ न विजानीतो न अयं हन्ति न हन्यते ||
SK
एनम् -- उक्तस्वभावम् आत्मानं प्रति, हन्तारं हननहेतुं कम् अपि यो मन्यते; यश् चैनं केनापि हेतुना हतं मन्यते; ताव् उभौ न विजानीतः, उक्तैर् हेतुभिर् अस्य नित्यत्वाद् एव एनम् अयं न हन्ति अस्यायं हननहेतुर् न भवति / अत एव चायम् आत्मा न हन्यते / हन्तिधातुर् अप्य् आत्मकर्मकः शरीरवियोगकरणवाची / ᳚न हिंस्यात् सर्वा भूतानि᳚, ᳚ब्राह्मणो न हन्तव्यः᳚ इत्यादीन्य् अपि
SK
एनम् --- उक्त-स्व-भावम् आत्मानं प्रति, हन्तारं हनन-हेतुं कम् अपि यो मन्यते; यश् च एनं केन अपि हेतुना हतं मन्यते; ताव् उभौ न विजानीतः, उक्तैर् हेतुभिर् अस्य नित्यत्वाद् एव एनम् अयं न हन्ति अस्य अयं हनन-हेतुर् न भवति / अत एव च अयम् आत्मा न हन्यते / हन्ति-धातुर् अप्य् आत्म-कर्मकः शरीर-वियोग-करण-वाची / ᳚न हिंस्यात् सर्वा भूतानि᳚, ᳚ब्राह्मणो न हन्तव्यः᳚ इत्य्-आदीन्य् अपि
SK
शास्त्राणि अविहितशरीरवियोगकरणविषयाणि //
SK
शास्त्राणि अविहित-शरीर-वियोग-करण-विषयाणि //
SK
न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः | अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ||
SK
न जायते म्रियते वा कदा-चिन् न अयं भूत्वा भविता वा न भूयः | अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ||
SK
उक्तैर् एव हेतुभिर् नित्यत्वेनापरिणामित्वाद् आत्मनो जननमरणादयः सर्व एवाचेतनदेहधर्मा न सन्तीत्य् उच्यते / तत्र जायते, म्रियते इति वर्तमानतया सर्वेषु देहेषु सर्वैर् अनुभूयमाने जननमरणे कदाचिद् अप्य् आत्मानं न स्पृशतः / नायं भूत्वा भविता वा न भूयः -- अयं कल्पादौ भूत्वा
SK
उक्तैर् एव हेतुभिर् नित्यत्वेन अपरिणामित्वाद् आत्मनो जनन-मरण-आदयः सर्व एव अचेतन-देह-धर्मा न सन्ति इत्य् उच्यते / तत्र जायते, म्रियते इति वर्तमानतया सर्वेषु देहेषु सर्वैर् अनुभूयमाने जनन-मरणे कदा-चिद् अप्य् आत्मानं न स्पृशतः / न अयं भूत्वा भविता वा न भूयः --- अयं कल्प-आदौ भूत्वा
SK
भूयः कल्पान्ते च न न भविता; केषुचित् प्रजापतिप्रभृतिदेहेष्व् आगमेनोपलभ्यमानं कल्पादौ जननं कल्पान्ते च मरणम् आत्मानं न स्पृशतीत्यर्थः / अतः सर्वदेहगत आत्मा अजः, अत एव नित्यः / शाश्वतः -- प्रकृतिवदविशदसततपरिणामैर् अपि नान्वीयते, पुराणः -- पुरापि नवः;
SK
भूयः कल्प-अन्ते च न न भविता; केषु-चित् प्रजा-पति-प्रभृति-देहेष्व् आगमेन उपलभ्यमानं कल्प-आदौ जननं कल्प-अन्ते च मरणम् आत्मानं न स्पृशति इत्य्-अर्थः / अतः सर्व-देह-गत आत्मा अजः, अत एव नित्यः / शाश्वतः --- प्रकृतिवद्-अविशद-सतत-परिणामैर् अपि न अन्वीयते, पुराणः --- पुर आपि नवः;
SK
सर्वदा अपूर्ववद् अनुभाव्य इत्यर्थः / अतः शरीरे हन्यमाने न हन्यते ऽयम् आत्मा //
SK
सर्वदा अपूर्ववद् अनुभाव्य इत्य्-अर्थः / अतः शरीरे हन्यमाने न हन्यते ऽयम् आत्मा //
SK
वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् | कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||
SK
वेद-अविनाशिनं नित्यं य एनम् अजम् अव्ययम् | कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||
SK
एवम् अविनाशित्वेनाजत्वेन व्ययानर्हत्वेन च नित्यम् एनम् आत्मानं यः पुरुषो वेद, स पुरुषो देवमनुष्यतिर्यक्स्थावरशरीरावस्थितेष्व् आत्मसु कम् अप्य् आत्मानं कथं घातयति ? कं वा कथं हन्ति / कथं नाशयति; कथं वा तत्प्रयोजको भवतीत्यर्थः / एतान् आत्मनो घातयामि हन्मीत्य् अनुशोचनम् आत्मस्वरूपयाथात्म्याज्ञानमूलम् एवेत्यभिप्रायः //
SK
एवम् अविनाशित्वेन अजत्वेन व्यय-अनर्हत्वेन च नित्यम् एनम् आत्मानं यः पुरुषो वेद, स पुरुषो देव-मनुष्य-तिर्यक्-स्थावर-शरीर-अवस्थितेष्व् आत्मसु कम् अप्य् आत्मानं कथं घातयति ? कं वा कथं हन्ति / कथं नाशयति; कथं वा तत्-प्रयोजको भवति इत्य्-अर्थः / एतान् आत्मनो घातयामि हन्मि इत्य् अनुशोचनम् आत्म-स्व-रूप-याथात्म्य-अज्ञान-मूलम् एव इत्य्-अभिप्रायः //
SK
यद्य् अपि नित्यानाम् आत्मनां शरीरविश्लेषमात्रं क्रियते -- तथापि रमणीयभोगसाधनेषु शरीरेषु नश्यत्सु तद्वियोगरूपं शोकनिमित्तम् अस्त्य् एवेत्य् अत्राह --
SK
यद्य् अपि नित्यानाम् आत्मनां शरीर-विश्लेष-मात्रं क्रियते --- तथ आपि रमणीय-भोग-साधनेषु शरीरेषु नश्यत्सु तद्-वियोग-रूपं शोक-निमित्तम् अस्त्य् एव इत्य् अत्रा अह ---
SK
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि | तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही ||
SK
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि | तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही ||
SK
धर्मयुद्धे शरीरं त्यजतां त्यक्तशरीराद् अधिकतरकल्याणशरीरग्रहणं शास्त्राद् अवगम्यत इति जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णताम् इव हर्षनिमित्तम् एवात्रोपलभ्यते //
SK
धर्म-युद्धे शरीरं त्यजतां त्यक्त-शरीराद् अधिकतर-कल्याण-शरीर-ग्रहणं शास्त्राद् अवगम्यत इति जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णताम् इव हर्ष-निमित्तम् एव अत्र उपलभ्यते //
SK
पुनर् अपि ᳚अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम्᳚ इति पूर्वोक्तम् अविनाशित्वं सुखग्रहणाय व्यञ्जयन् द्रढयति --
SK
पुनर् अपि ᳚अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम्᳚ इति पूर्व-उक्तम् अविनाशित्वं सुख-ग्रहणाय व्यञ्जयन् द्रढयति ---
SK
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः | न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ||
SK
न एनं छिन्दन्ति शस्त्राणि न एनं दहति पावकः | न च एनं क्लेदयन्त्य् आपो न शोषयति मारुतः ||
SK
अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च | नित्यस् सर्वगतः स्थाणुर् अचलो ऽयं सनातनः ||
SK
अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च | नित्यस् सर्व-गतः स्थाणुर् अचलो ऽयं सनातनः ||
SK
शस्त्राग्न्यम्बुवायवः छेदनदहनक्लेदनशोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति, सर्वगतत्वाद् आत्मनः सर्वतत्त्वव्यापनस्वभावतया सर्वेभ्यस् तत्त्वेभ्यस् सूक्ष्मत्वाद् अस्य तैर् व्याप्त्यनर्हत्वात्; व्याप्यकर्तव्यत्वाच् च छेदनदहनक्लेदनशोषणानां / अत आत्मा नित्यः स्थाणुर् अचलो ऽयं सनातनः स्थिरस्वभावो ऽप्रकम्प्यः पुरातनश् च //
SK
शस्त्र-अग्न्य्-अम्बु-वायवः छेदन-दहन-क्लेदन-शोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति, सर्व-गतत्वाद् आत्मनः सर्व-तत्त्व-व्यापन-स्व-भावतया सर्वेभ्यस् तत्त्वेभ्यस् सूक्ष्मत्वाद् अस्य तैर् व्याप्त्य्-अनर्हत्वात्; व्याप्य-कर्तव्यत्वाच् च छेदन-दहन-क्लेदन-शोषणानां / अत आत्मा नित्यः स्थाणुर् अचलो ऽयं सनातनः स्थिर-स्व-भावो ऽप्रकम्प्यः पुरातनश् च //
SK
अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते | तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ||
SK
अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते | तस्माद् एवं विदित्व ऐनं न अनुशोचितुम् अर्हसि ||
SK
छेदनादियोग्यानि वस्तूनि यैः प्रमाणैर् व्यज्यन्ते; तैर् अयम् आत्मा न व्यज्यत इत्य् अव्यक्तः; अतः छेद्यादिविसजातीयः / अचिन्त्यश् च सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया चिन्तयितुम् अपि नार्हः; अतश् चाविकार्यः विकारानर्हः / तस्माद् उक्तलक्षणम् एनम् आत्मानं विदित्वा तत्कृते नानुशोचितुम् अर्हसि //
SK
छेदन-आदि-योग्यानि वस्तूनि यैः प्रमाणैर् व्यज्यन्ते; तैर् अयम् आत्मा न व्यज्यत इत्य् अव्यक्तः; अतः छेद्य-आदि-विसजातीयः / अचिन्त्यश् च सर्व-वस्तु-विजातीयत्वेन तत्-तत्-स्व-भाव-युक्ततया चिन्तयितुम् अपि न अर्हः; अतश् च अविकार्यः विकार-अनर्हः / तस्माद् उक्त-लक्षणम् एनम् आत्मानं विदित्वा तत्-कृते न अनुशोचितुम् अर्हसि //
SK
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् | तथापि त्वं महाबाहो! नैवं शोचितुम् अर्हसि ||
SK
अथ च एनं नित्य-जातं नित्यं वा मन्यसे मृतम् | तथ आपि त्वं महाबाहो! न एवं शोचितुम् अर्हसि ||
SK
अथ नित्यजातं नित्यमृतं देहम् एवैनम् आत्मानं मनुषे, न देहातिरिक्तम् उक्तलक्षणम्; तथापि एवम् अतिमात्रं न शोचितुम् अर्हसि; परिणामस्वभावस्य देहस्योत्पत्तिविनाशयोर् अवर्जनीयत्वात् //
SK
अथ नित्य-जातं नित्य-मृतं देहम् एव एनम् आत्मानं मनुषे, न देह-अतिरिक्तम् उक्त-लक्षणम्; तथ आपि एवम् अतिमात्रं न शोचितुम् अर्हसि; परिणाम-स्व-भावस्य देहस्य उत्पत्ति-विनाशयोर् अवर्जनीयत्वात् //
SK
जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च | तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ||
SK
जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च | तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ||
SK
उत्पन्नस्य विनाशो ध्रुवः अवर्जनीय उपलभ्यते; तथा विनष्टस्यापि जन्म अवर्जनीयम् / कथम् इदम् उपपद्यते विनष्टस्योत्पत्तिर् इति; सत एवोत्पत्त्युपलब्धेः, असतश् चानुपलब्धेः / उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः / तन्तुप्रभृतीनि हि द्रव्याणि सन्त्य् एव रचनाविशेषयुक्तानि पटादीन्य् उच्यन्ते / असत्कार्यवादिनाप्य् एतावद् एवोपलभ्यते / न हि तत्र तन्तुसंस्थानविशेषातिरेकेण द्रव्यान्तरं प्रतीयते / कारकव्यापारनामान्तरभजनव्यवहारविशेषाणाम् एतावतैवोपपत्तेः न द्रव्यान्तरकल्पना युक्ता / अतो उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः / उत्पत्त्याख्याम् अवस्थाम् उपयातस्य द्रव्यस्य तद्विरोध्यवस्थान्तरप्राप्तिर् विनाश इत्य् उच्यते / मृद्द्रव्यस्य पिण्डत्वघटत्वकपालत्वचूर्णत्वादिवत् परिणामिद्रव्यस्य परिणामपरम्परा अवर्जनीया / तत्र पूर्वावस्थस्य द्रव्यस्योत्तरावस्थाप्राप्तिर् विनाशः / सैव तदवस्थस्य चोत्पत्तिः / एवम् उत्पत्तिविनाशाख्यपरिणामपरम्परा परिणामिनो द्रव्यस्यापरिहार्येति न तत्र शोचितुम् अर्हसि //
SK
उत्पन्नस्य विनाशो ध्रुवः अवर्जनीय उपलभ्यते; तथा विनष्टस्य अपि जन्म अवर्जनीयम् / कथम् इदम् उपपद्यते विनष्टस्य उत्पत्तिर् इति; सत एव उत्पत्त्य्-उपलब्धेः, असतश् च अनुपलब्धेः / उत्पत्ति-विनाश-आदयः सतो द्रव्यस्य अवस्था-विशेषाः / तन्तु-प्रभृतीनि हि द्रव्याणि सन्त्य् एव रचन-अविशेष-युक्तानि पट-आदीन्य् उच्यन्ते / असत्-कार्य-वादिन आप्य् एतावद् एव उपलभ्यते / न हि तत्र तन्तु-संस्थान-विशेष-अतिरेकेण द्रव्य-अन्तरं प्रतीयते / कारक-व्यापार-नाम-अन्तर-भजन-व्यवहार-विशेषाणाम् एतावत ऐव उपपत्तेः न द्रव्य-अन्तर-कल्पना युक्ता / अतो उत्पत्ति-विनाश-आदयः सतो द्रव्यस्य अवस्था-विशेषाः / उत्पत्त्य्-आख्याम् अवस्थाम् उपयातस्य द्रव्यस्य तद्-विरोध्य्-अवस्था-अन्तर-प्राप्तिर् विनाश इत्य् उच्यते / मृद्-द्रव्यस्य पिण्डत्व-घटत्व-कपालत्व-चूर्णत्व-आदिवत् परिणामि-द्रव्यस्य परिणाम-परम्परा अवर्जनीया / तत्र पूर्व-अवस्थस्य द्रव्यस्य उत्तर-अवस्था-प्राप्तिर् विनाशः / स ऐव तद्-अवस्थस्य च उत्पत्तिः / एवम् उत्पत्ति-विनाश-आख्य-परिणाम-परम्परा परिणामिनो द्रव्यस्य अपरिहार्य ईति न तत्र शोचितुम् अर्हसि //
SK
सतो द्रव्यस्य पूर्वावस्थाविरोध्यवस्थान्तरप्राप्तिदर्शनेन यो ऽल्पीयान् शोकः, सो ऽपि मनुष्यादिभूतेषु न संभवतीत्य् आह --
SK
सतो द्रव्यस्य पूर्व-अवस्था-विरोध्य्-अवस्था-अन्तर-प्राप्ति-दर्शनेन यो ऽल्पीयान् शोकः, सो ऽपि मनुष्य-आदि-भूतेषु न संभवति इत्य् आह ---
SK
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत | अव्यक्तनिधनान्य् एव तत्र का परिदेवना ||
SK
अव्यक्त-आदीनि भूतानि व्यक्त-मध्यानि भारत | अव्यक्त-निधनान्य् एव तत्र का परिदेवना ||
SK
मनुष्यादीनि भूतानि सन्त्य् एव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्यत्वादिमध्यमावस्थानि अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्त इति न तत्र परिदेवनानिमित्तम् अस्ति //
SK
मनुष्य-आदीनि भूतानि सन्त्य् एव द्रव्याणि अनुपलब्ध-पूर्व-अवस्थानि उपलब्ध-मनुष्यत्व-आदि-मध्यम-अवस्थानि अनुपलब्ध-उत्तर-अवस्थानि स्वेषु स्व-भावेषु वर्तन्त इति न तत्र परिदेवना-निमित्तम् अस्ति //
SK
एवं शरीरात्मवादे ऽपि नास्ति शोकनिमित्तम् इत्य् उक्त्वा शरीरातिरिक्ते आश्चर्यस्वरूपे आत्मनि द्रष्टा वक्ता श्रवणायत्तात्मनिश्चयश् च दुर्लभ इत्य् आह --
SK
एवं शरीर-आत्म-वादे ऽपि न अस्ति शोक-निमित्तम् इत्य् उक्त्वा शरीर-अतिरिक्ते आश्चर्य-स्व-रूपे आत्मनि द्रष्टा वक्ता श्रवण-आयत्त-आत्म-निश्चयश् च दुर्लभ इत्य् आह ---
SK
आश्चर्यवत् पश्यति कश्चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः | आश्चर्यवच् चैनम् अन्यः शृणोति श्रुत्वाप्य् एनं वेद न चैव कश्चित् ||
SK
आश्चर्यवत् पश्यति कश्-चिद् एनम् आश्चर्यवद् वदति तथ ऐव च अन्यः | आश्चर्यवच् च एनम् अन्यः शृणोति श्रुत्व आप्य् एनं वेद न च एव कश्-चित् ||
SK
एवम् उक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया आश्चर्यवद् अस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीणपापः उपचितपुण्यः कश्चित् पश्यति / तथाविधः कश्चित् परस्मै वदति / एवं कश्चिद् एव शृणोति / श्रुत्वाप्य् एनं यथावद् अवस्थितं तत्त्वतो न कश्चिद् वेद / चकाराद् द्रष्टृवक्तृश्रोतृष्व् अपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतश् श्रवणं दुर्लभम् इत्युक्तं भवति //
SK
एवम् उक्त-स्व-भावं स्व-इतर-समस्त-वस्तु-विसजातीयतया आश्चर्यवद् अस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीण-पापः उपचित-पुण्यः कश्-चित् पश्यति / तथा-विधः कश्-चित् परस्मै वदति / एवं कश्-चिद् एव शृणोति / श्रुत्व आप्य् एनं यथावद् अवस्थितं तत्त्वतो न कश्-चिद् वेद / च-काराद् द्रष्टृ-वक्तृ-श्रोतृष्व् अपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतश् श्रवणं दुर्लभम् इत्य्-उक्तं भवति //
SK
देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत | तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ||
SK
देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत | तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ||
SK
सर्वस्य देवादिदेहिनो देहे वध्यमाने ऽप्य् अयं देही नित्यम् अवध्यो मन्तव्यः / तस्मात् सर्वाणि देवादिस्थावरान्तानि भूतानि विषमाकाराण्य् अप्य् उक्तेन स्वभावेन स्वरूपतस् समानानि नित्यानि च / देहगतं तु वैषम्यम् अनित्यत्वं च / ततो देवादीनि सर्वाणि भूतान्य् उद्दिश्य न शोचितुम् अर्हसि; न केवलं भीष्मादीन् प्रति //
SK
सर्वस्य देव-आदि-देहिनो देहे वध्यमाने ऽप्य् अयं देही नित्यम् अवध्यो मन्तव्यः / तस्मात् सर्वाणि देव-आदि-स्थावर-अन्तानि भूतानि विषम-आकाराण्य् अप्य् उक्तेन स्व-भावेन स्व-रूपतस् समानानि नित्यानि च / देह-गतं तु वैषम्यम् अनित्यत्वं च / ततो देव-आदीनि सर्वाणि भूतान्य् उद्दिश्य न शोचितुम् अर्हसि; न केवलं भीष्म-आदीन् प्रति //
SK
स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि | धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ||
SK
स्व-धर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि | धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ||
SK
अपि चेदं प्रारब्धं युद्धं प्राणिमारणम् अपि अग्नीषोमीयादिवत् स्वधर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि / धर्म्यान् न्यायतः प्रवृत्ताद् युद्धाद् अन्यन् न हि क्षत्रियस्य श्रेयो विद्यते / ᳚शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् / दानम् ईश्वरभावश् च क्षात्रं कर्म स्वभावजम् // ᳚ इति हि वक्ष्यते / अग्नीषोमीयादिषु च न हिंसा पशोः, निहीनतरच्छागादिदेहपरित्यागपूर्वक
SK
अपि च इदं प्रारब्धं युद्धं प्राणि-मारणम् अपि अग्नीषोमीय-आदिवत् स्व-धर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि / धर्म्यान् न्यायतः प्रवृत्ताद् युद्धाद् अन्यन् न हि क्षत्रियस्य श्रेयो विद्यते / ᳚शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे च अप्य् अपलायनम् / दानम् ईश्वर-भावश् च क्षात्रं कर्म स्व-भाव-जम् // ᳚ इति हि वक्ष्यते / अग्नीषोमीय-आदिषु च न हिंसा पशोः, निहीनतर-च्छाग-आदि-देह-परित्याग-पूर्वक-
SK
कल्याणतरदेहस्वर्गादिप्रापकत्वश्रुतेः संज्ञपनस्य / ᳚न वा उ एतन् म्रियसे न रिष्यसि देवां इदेषि पथिभिस् सुरेभिः / यत्र यन्ति सुकृतो नापि दुष्कृतः तत्र त्वा देवस् सविता दधातु᳚ इति हि श्रूयते / इह च युद्धे मृतानां कल्याणतरदेहप्राप्तिर् उक्ता, ᳚वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति᳚ इत्यादिना / अतः, चिकित्सकशल्यादिकर्म आतुरस्येव, अस्य रक्षणम् एवाग्नीषोमीयादिषु संज्ञपनम् //
SK
कल्याणतर-देह-स्वर्ग-आदि-प्रापकत्व-श्रुतेः संज्ञपनस्य / ᳚न वा उ एतन् म्रियसे न रिष्यसि देवां इदेषि पथिभिस् सुरेभिः / यत्र यन्ति सुकृतो न अपि दुष्कृतः तत्र त्वा देवस् सविता दधातु᳚ इति हि श्रूयते / इह च युद्धे मृतानां कल्याणतर-देह-प्राप्तिर् उक्ता, ᳚वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति᳚ इत्य्-आदिना / अतः, चिकित्सक-शल्य-आदि-कर्म आतुरस्य इव, अस्य रक्षणम् एव अग्नीषोमीय-आदिषु संज्ञपनम् //
SK
यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम् | सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ||
SK
यद्-ऋच्छया च उपपन्नं स्वर्ग-द्वारम् अपावृतम् | सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ||
SK
अयत्नोपनतम् इदं निरतिशयसुखोपायभूतं निर्विघ्नम् ईदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते //
SK
अयत्न-उपनतम् इदं निरतिशय-सुख-उपाय-भूतं निर्विघ्नम् ईदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते //
SK
अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि | ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ||
SK
अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि | ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ||
SK
अथ क्षत्रियस्य स्वधर्मभूतम् इमम् -- आरब्धं संग्रामं मोहान् न करिष्यसि चेत् -- ततः प्रारब्धस्य धर्मस्याकरणात् स्वधर्मफलं निरतिशयसुखम्, विजयेन निरतिशयां च कीर्तिं हित्वा पापं निरतिशयम् अवाप्स्यसि //
SK
अथ क्षत्रियस्य स्व-धर्म-भूतम् इमम् --- आरब्धं संग्रामं मोहान् न करिष्यसि चेत् --- ततः प्रारब्धस्य धर्मस्य अकरणात् स्व-धर्म-फलं निरतिशय-सुखम्, विजयेन निरतिशयां च कीर्तिं हित्वा पापं निरतिशयम् अवाप्स्यसि //
SK
अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् | संभावितस्य चाकीर्तिः मरणाद् अतिरिच्यते ||
SK
अकीर्तिं च अपि भूतानि कथयिष्यन्ति ते ऽव्ययाम् | संभावितस्य च अकीर्तिः मरणाद् अतिरिच्यते ||
SK
न ते केवलं निरतिशयसुखकीर्तिहानिमात्रम् / ᳚पार्थो युद्धे प्रारब्धे पलायितः᳚ इति अव्ययां सर्वदेशकालव्यापिनीम् अकीर्तिं च समर्थानि असमर्थान्य् अपि सर्वाणि भूतानि कथयिष्यन्ति / ततः किम् इति चेत् -- शैर्यवीर्यपराक्रमादिभिस् सर्वसंभावितस्य तद्विपर्ययजा ह्य् अकीर्तिः मरणाद् अतिरिच्यते / एवंविधाया अकीर्तेर् मरणम् एव तव श्रेय इत्यर्थः //
SK
न ते केवलं निरतिशय-सुख-कीर्ति-हानि-मात्रम् / ᳚पार्थो युद्धे प्रारब्धे पलायितः᳚ इति अव्ययां सर्व-देश-काल-व्यापिनीम् अकीर्तिं च समर्थानि असमर्थान्य् अपि सर्वाणि भूतानि कथयिष्यन्ति / ततः किम् इति चेत् --- शैर्य-वीर्य-पराक्रम-आदिभिस् सर्व-संभावितस्य तद्-विपर्यय-जा ह्य् अकीर्तिः मरणाद् अतिरिच्यते / एवं-विधाया अकीर्तेर् मरणम् एव तव श्रेय इत्य्-अर्थः //
SK
बन्धुस्नेहात् कारुण्याच् च युद्धान् निवृत्तस्य शूरस्य ममाकीर्तिः कथम् आगमिष्यतीत्य् अत्राह --
SK
बन्धु-स्नेहात् कारुण्याच् च युद्धान् निवृत्तस्य शूरस्य मम अकीर्तिः कथम् आगमिष्यति इत्य् अत्रा अह ---
SK
भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः | येषां च त्वं बहुमतो भूत्वा यास्यसि लौघवम् ||
SK
भयाद् रणाद् उपरतं मंस्यन्ते त्वां महा-रथाः | येषां च त्वं बहु-मतो भूत्वा यास्यसि लौघवम् ||
SK
येषां कर्णदुर्योधनादीनां महारथानाम् इतः पूर्वं त्वं शूरो वैरीति बहुमतो भूत्वा, इदानीं युद्धे समुपस्थिते निवृत्तव्यापारतया लाघवं -- सुग्रहतां यास्यसि, ते महारथास् त्वां भयाद् युद्धाद् उपरतं मंस्यन्ते / शूराणां हि वैरिणां शत्रुभयाद् र्ते बन्धुस्नेहादिना युद्धाद् उपरतिर् नोपपद्यते //
SK
येषां कर्ण-दुर्योधन-आदीनां महा-रथानाम् इतः पूर्वं त्वं शूरो वैरि ईति बहु-मतो भूत्वा, इदानीं युद्धे समुपस्थिते निवृत्त-व्यापारतया लाघवं --- सुग्रहतां यास्यसि, ते महा-रथास् त्वां भयाद् युद्धाद् उपरतं मंस्यन्ते / शूराणां हि वैरिणां शत्रु-भयाद् र्ते बन्धु-स्नेह-आदिना युद्धाद् उपरतिर् न उपपद्यते //
SK
किं च,
SK
किं च,
SK
अवाच्यवादांश् च बहून् वदिष्यन्ति तवाहिताः | निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ||
SK
अवाच्य-वादांश् च बहून् वदिष्यन्ति तव अहिताः | निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ||
SK
शूराणां अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयात्, अस्मत्सन्निधानाद् अन्यत्र ह्य् अस्य सामर्थ्यम् इति तव सामर्थ्यं निन्दन्तः शूराणाम् अवाच्यवादांश् च बहून् वदिष्यन्ति तव शत्रवो धार्तराष्ट्राः; ततो ऽधिकतरं दुःखं किं तव ? एवंविधावाच्यश्रवणान् मरणम् एव श्रेय इति त्वम् एव मंस्यसे //
SK
शूराणां अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयात्, अस्मत्-सन्निधानाद् अन्यत्र ह्य् अस्य सामर्थ्यम् इति तव सामर्थ्यं निन्दन्तः शूराणाम् अवाच्य-वादांश् च बहून् वदिष्यन्ति तव शत्रवो धार्तराष्ट्राः; ततो ऽधिकतरं दुःखं किं तव ? एवं-विध-अवाच्य-श्रवणान् मरणम् एव श्रेय इति त्वम् एव मंस्यसे //
SK
अतः शूरस्य आत्मना परेषां हननम्, आत्मनो वा परैर् हननम् उभयम् अपि श्रेयसे भवतीत्य् आह --
SK
अतः शूरस्य आत्मना परेषां हननम्, आत्मनो वा परैर् हननम् उभयम् अपि श्रेयसे भवति इत्य् आह ---
SK
हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् | तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||
SK
हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् | तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ||
SK
धर्मयुद्धे परैर् हतश् चेत्, तत एव परमनिःश्रेयसं प्राप्स्यसि; परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे; अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनिःश्रेयसोपायत्वात् तच् च परमनिःश्रेयसं प्राप्स्यसि; तस्माद् युद्धायोद्योगः परमपुरुषार्थलक्षणमोक्षसाधनम् इति निश्चित्य तदर्थम् उत्तिष्ठ / कुन्तीपुत्रस्य तवैतद् एव युक्तम् इत्यभिप्रायः //
SK
धर्म-युद्धे परैर् हतश् चेत्, तत एव परम-निःश्रेयसं प्राप्स्यसि; परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे; अनभिसंहित-फलस्य युद्ध-आख्यस्य धर्मस्य परम-निःश्रेयस-उपायत्वात् तच् च परम-निःश्रेयसं प्राप्स्यसि; तस्माद् युद्धाय उद्योगः परम-पुरुष-अर्थ-लक्षण-मोक्ष-साधनम् इति निश्चित्य तद्-अर्थम् उत्तिष्ठ / कुन्ती-पुत्रस्य तव एतद् एव युक्तम् इत्य्-अभिप्रायः //
SK
मुमुक्षोर् युद्धानुष्ठानप्रकारम् आह --
SK
मुमुक्षोर् युद्ध-अनुष्ठान-प्रकारम् आह ---
SK
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ | ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ||
SK
सुख-दुःखे समे कृत्वा लाभ-अलाभौ जय-अजयौ | ततो युद्धाय युज्यस्व न एवं पापम् अवाप्स्यसि ||
SK
एवं देहातिरिक्तम् अस्पृष्टसमस्तदेहस्वभावं नित्यम् आत्मानं ज्ञात्वा युद्धे चावर्जनीयशस्त्रपातादिनिमित्तसुखदुःखार्थलाभालाभजयपराजयेष्व् अविकृतबुद्धिः स्वर्गादिफलाभिसन्धिरहितः केवलकार्यबुद्ध्या युद्धम् आरभस्व / एवं कुर्वाणो न पापम् अवाप्स्यसि -- पापं दुःखरूपं संसारं नावाप्स्यसि; संसारबन्धान् मोक्ष्यसे इत्यर्थः //
SK
एवं देह-अतिरिक्तम् अस्पृष्ट-समस्त-देह-स्व-भावं नित्यम् आत्मानं ज्ञात्वा युद्धे च अवर्जनीय-शस्त्र-पात-आदि-निमित्त-सुख-दुःख-अर्थ-लाभ-अलाभ-जय-परा-जयेष्व् अविकृत-बुद्धिः स्वर्ग-आदि-फल-अभिसन्धि-रहितः केवल-कार्य-बुद्ध्या युद्धम् आरभस्व / एवं कुर्वाणो न पापम् अवाप्स्यसि --- पापं दुःख-रूपं संसारं न अवाप्स्यसि; संसार-बन्धान् मोक्ष्यसे इत्य्-अर्थः //
SK
एवम् आत्मयाथात्म्यज्ञानम् उपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुम् आरभते --
SK
एवम् आत्म-याथात्म्य-ज्ञानम् उपदिश्य तत्-पूर्वकं मोक्ष-साधन-भूतं कर्म-योगं वक्तुम् आरभते ---
SK
एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु | बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||
SK
एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु | बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ||
SK
सङ्ख्या बुद्धिः; बुद्ध्यावधारणीयम् आत्मतत्त्वं साङ्ख्यम् / ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिर् अभिधेया -- ᳚न त्व् एवाहम्᳚ इत्य् आरभ्य ᳚तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि᳚ इत्यन्तेन सैषा ते ऽभिहिता / आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः, स इह योगशब्देनोच्यते / ᳚दूरेण ह्य् अवरं कर्म बुद्धियोगात्᳚ इति हि वक्ष्यते / तत्र योगे या बुद्धिर् वक्तव्या, ताम् इमाम् अभिधीयमानां शृणु, यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि / कर्मणा बन्धः कर्मबन्धः; संसारबन्ध इत्यर्थः //
SK
सङ्ख्या बुद्धिः; बुद्ध्य आवधारणीयम् आत्म-तत्त्वं साङ्ख्यम् / ज्ञातव्ये आत्म-तत्त्वे तज्-ज्ञानाय या बुद्धिर् अभिधेया --- ᳚न त्व् एव अहम्᳚ इत्य् आरभ्य ᳚तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि᳚ इत्य्-अन्तेन स ऐषा ते ऽभिहिता / आत्म-ज्ञान-पूर्वक-मोक्ष-साधन-भूत-कर्म-अनुष्ठाने यो बुद्धि-योगो वक्तव्यः, स इह योग-शब्देन उच्यते / ᳚दूरेण ह्य् अवरं कर्म बुद्धि-योगात्᳚ इति हि वक्ष्यते / तत्र योगे या बुद्धिर् वक्तव्या, ताम् इमाम् अभिधीयमानां शृणु, यया बुद्ध्या युक्तः कर्म-बन्धं प्रहास्यसि / कर्मणा बन्धः कर्म-बन्धः; संसार-बन्ध इत्य्-अर्थः //
SK
वक्ष्यमाणबुद्धियुक्तस्य कर्मणो माहात्म्यम् आह --
SK
वक्ष्यमाण-बुद्धि-युक्तस्य कर्मणो माहात्म्यम् आह ---
SK
नेहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते | स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ||
SK
न इह अभिक्रम-नाशो ऽस्ति प्रत्यवायो न विद्यते | स्व्-अल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ||
SK
इह कर्मयोगे नाभिक्रमनाशो ऽस्ति / अभिक्रमः -- आरम्भः / नाशः फलसाधनभावनाशः / आरब्धस्यासमाप्तस्य विच्छिन्नस्यापि न निष्फलत्वम् /आरब्धस्य विच्छेदे प्रत्यवायो ऽपि न विद्यते / अस्य कर्मयोगाख्यस्य धर्मस्य स्वल्पांशो ऽपि महतो भयात् -- संसारभयात् त्रायते / अयम् अर्थः; ᳚पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते᳚ इति उत्तरत्र प्रपञ्चयिष्यते / अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति; प्रत्यवायाय च भवन्ति //
SK
इह कर्म-योगे न अभिक्रम-नाशो ऽस्ति / अभिक्रमः --- आरम्भः / नाशः फल-साधन-भाव-नाशः / आरब्धस्य असमाप्तस्य विच्छिन्नस्य अपि न निष्फलत्वम् /आरब्धस्य विच्छेदे प्रत्यवायो ऽपि न विद्यते / अस्य कर्म-योग-आख्यस्य धर्मस्य स्व्-अल्प-अंशो ऽपि महतो भयात् --- संसार-भयात् त्रायते / अयम् अर्थः; ᳚पार्थ न एव इह न अमुत्र विनाशस् तस्य विद्यते᳚ इति उत्तरत्र प्रपञ्चयिष्यते / अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति; प्रत्यवायाय च भवन्ति //
SK
काम्यकर्मविषयाया बुद्धेर् मोक्षसाधनभूतकर्मविषयां बुद्धिं विशिनष्टि --
SK
काम्य-कर्म-विषयाया बुद्धेर् मोक्ष-साधन-भूत-कर्म-विषयां बुद्धिं विशिनष्टि ---
SK
व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन | बहुशाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ||
SK
व्यवसाय-आत्मिका बुद्धिर् एक ईह कुरु-नन्दन | बहु-शाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ||
SK
इह -- शास्त्रीये सर्वस्मिन् कर्मणि व्यवसायात्मिका बुद्धिर् एका / मुमुक्षुणानुष्ठेये कर्मणि बुद्धिर् व्यवसायात्मिका बुद्धिः / व्यवसायः निश्चयः / सा हि बुद्धिर् आत्मयाथात्म्यनिश्चयपूर्विका / काम्यकर्मविषया तु बुद्धिर् अव्यवसायात्मिका / तत्र हि कामाधिकारे देहातिरिक्तात्मास्तित्वज्ञानमात्रम् अपेक्षितम्, नात्मस्वरूपयाथात्म्यनिश्चयः / स्वरूपयाथात्म्यानिश्चये ऽपि स्वर्गादिफलार्थित्वतत्साधनानुष्ठानतत्फलानुभवानां संभवात्, अविरोधाच् च / सेयं व्यवसायात्मिका बुद्धिः एकफलसाधनविषयतयैका; एकस्मै मोक्षाख्यफलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते / अतः शास्त्रार्थस्यैकत्वात् सर्वकर्मविषया बुद्धिर् एकैव; यथैकफलसाधनतया आग्नेयादीनां षण्णां सेतिकर्तव्यताकानाम् एकशास्त्रार्थतया तद्विषया बुद्धिर् एका, तद्वद् इत्यर्थः / अव्यवसायिनां तु स्वर्गपुत्रपश्वन्नादिफलसाधनकर्माधिकृतानां बुद्धयः फलानन्त्याद् अनन्ताः / तत्रापि बहुशाखाः;
SK
इह --- शास्त्रीये सर्वस्मिन् कर्मणि व्यवसाय-आत्मिका बुद्धिर् एका / मुमुक्षुण आनुष्ठेये कर्मणि बुद्धिर् व्यवसाय-आत्मिका बुद्धिः / व्यवसायः निश्चयः / सा हि बुद्धिर् आत्म-याथात्म्य-निश्चय-पूर्विका / काम्य-कर्म-विषया तु बुद्धिर् अव्यवसाय-आत्मिका / तत्र हि काम-अधिकारे देह-अतिरिक्त-आत्म-अस्तित्व-ज्ञान-मात्रम् अपेक्षितम्, ना अत्म-स्व-रूप-याथात्म्य-निश्चयः / स्व-रूप-याथात्म्य-अनिश्चये ऽपि स्वर्ग-आदि-फल-अर्थित्व-तत्-साधन-अनुष्ठान-तत्-फल-अनुभवानां संभवात्, अविरोधाच् च / स ईयं व्यवसाय-आत्मिका बुद्धिः एक-फल-साधन-विषयतय ऐका; एकस्मै मोक्ष-आख्य-फलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते / अतः शास्त्र-अर्थस्य एकत्वात् सर्व-कर्म-विषया बुद्धिर् एक ऐव; यथ ऐक-फल-साधनतया आग्नेय-आदीनां षण्णां स-इति-कर्तव्यताकानाम् एक-शास्त्र-अर्थतया तद्-विषया बुद्धिर् एका, तद्वद् इत्य्-अर्थः / अव्यवसायिनां तु स्वर्ग-पुत्र-पश्व्-अन्न-आदि-फल-साधन-कर्म-अधिकृतानां बुद्धयः फल-आनन्त्याद् अनन्ताः / तत्र अपि बहु-शाखाः;
SK
एकस्मै फलाय चोदिते ऽपि दर्शपूर्णमासादौ कर्मणि, ᳚आयुर् आशास् ते᳚ इत्याद्यवगतावान्तरफलभेदेन बहुशाखत्वं च विद्यते / अतः अव्यवसायिनां बुद्धयो ऽनन्ता बहुशाखाश् च / एतद् उक्तं भवति -- नित्येषु नैमित्तिकेषु कर्मसु प्रधानफलानि अवान्तरफलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य मोक्षैकफलतया सर्वाणि कर्माण्य् एकशास्त्रार्थतयानुष्ठेयानि; काम्यानि च स्ववर्णाश्रमोचितानि, तत्तत्फलानि परित्यज्य मोक्षसाधनतया नित्यनैमित्तिकैर् एकीकृत्य यथाबलम् अनुष्ठेयानि -- इति //
SK
एकस्मै फलाय चोदिते ऽपि दर्श-पूर्ण-मास-आदौ कर्मणि, ᳚आयुर् आशास् ते᳚ इत्य्-आद्य्-अवगत-अवान्तर-फल-भेदेन बहु-शाखत्वं च विद्यते / अतः अव्यवसायिनां बुद्धयो ऽनन्ता बहु-शाखाश् च / एतद् उक्तं भवति --- नित्येषु नैमित्तिकेषु कर्मसु प्रधान-फलानि अवान्तर-फलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य मोक्ष-एक-फलतया सर्वाणि कर्माण्य् एक-शास्त्र-अर्थतय आनुष्ठेयानि; काम्यानि च स्व-वर्ण-आश्रम-उचितानि, तत्-तत्-फलानि परित्यज्य मोक्ष-साधनतया नित्य-नैमित्तिकैर् एकी-कृत्य यथा-बलम् अनुष्ठेयानि --- इति //
SK
अथ काम्यकर्माधिकृतान् निन्दति --
SK
अथ काम्य-कर्म-अधिकृतान् निन्दति ---
SK
याम् इमाम् पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः | वेदवादरताः पार्थ नान्यद् अस्तीति वादिनः ||
SK
याम् इमाम् पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः | वेद-वाद-रताः पार्थ न अन्यद् अस्ति इति वादिनः ||
SK
कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदाम् | क्रियाविशेषबहुलां भोगाइश्वर्यगतिं प्रति ||
SK
काम-आत्मानः स्वर्ग-पराः जन्म-कर्म-फल-प्रदाम् | क्रिया-विशेष-बहुलां भोग-ऐश्वर्य-गतिं प्रति ||
SK
भोगाइश्वर्यप्रसक्तानां तयापहृतचेतसाम् | व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||
SK
भोग-ऐश्वर्य-प्रसक्तानां तय आपहृत-चेतसाम् | व्यवसाय-आत्मिका बुद्धिः समाधौ न विधीयते ||
SK
याम् इमां पुष्पितां -- पुष्पमात्रफलाम्, आपातरमणीयां वाचम् अविपश्चितः -- अल्पज्ञाः भोगाइश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति, वेदवादरताः -- वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः, नान्यद् अस्तीति वादिनः -- तत्सङ्गातिरेकेण स्वर्गादेर् अधिकं फलं नान्यद् अस्तीति वदन्तः, काम् आत्मानः काम् अप्रवणमनसः, स्वर्गपराः -- स्वर्गपरायणाः, स्वर्गादिफलावसाने पुनर्जन्मकर्माख्यफलप्रदां, क्रियाविशेषबहुलां -- तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुराम् / भोगाइश्वर्यगतिं प्रति वर्तमानां याम् इमां पुष्पितां वाचं ये प्रवदन्तीति संबन्धः / तेषां भोगाइश्वर्यप्रसक्तानां तया -- वाचा भोगाइश्वर्यविषयया अपहृतज्ञानानां यथोदितव्यवसायात्मिका बुद्धिः, समाधौ मनसि न विधीयते, नोत्पद्यते, समाधीयते ऽस्मिन्न् आत्मज्ञानम् इति समाधिर् मनः / तेषां मनस्य् आत्मयाथात्म्यनिश्चयपूर्वकमोक्षसाधनभूतकर्मविषया बुद्धिः कदाचिद् अपि नोत्पद्यते इत्यर्थः / अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः //
SK
याम् इमां पुष्पितां --- पुष्प-मात्र-फलाम्, आपात-रमणीयां वाचम् अविपश्चितः --- अल्प-ज्ञाः भोग-ऐश्वर्य-गतिं प्रति वर्तमानां प्रवदन्ति, वेद-वाद-रताः --- वेदेषु ये स्वर्ग-आदि-फल-वादाः तेषु सक्ताः, न अन्यद् अस्ति इति वादिनः --- तत्-सङ्ग-अतिरेकेण स्वर्ग-आदेर् अधिकं फलं न अन्यद् अस्ति इति वदन्तः, काम् आत्मानः काम् अप्रवण-मनसः, स्वर्ग-पराः --- स्वर्ग-परायणाः, स्वर्ग-आदि-फल-अवसाने पुनर्-जन्म-कर्म-आख्य-फल-प्रदां, क्रिया-विशेष-बहुलां --- तत्त्व-ज्ञान-रहिततया क्रिया-विशेष-प्रचुराम् / भोग-ऐश्वर्य-गतिं प्रति वर्तमानां याम् इमां पुष्पितां वाचं ये प्रवदन्ति इति संबन्धः / तेषां भोग-ऐश्वर्य-प्रसक्तानां तया --- वाचा भोग-ऐश्वर्य-विषयया अपहृत-ज्ञानानां यथा-उदित-व्यवसाय-आत्मिका बुद्धिः, समाधौ मनसि न विधीयते, न उत्पद्यते, समाधीयते ऽस्मिन्न् आत्म-ज्ञानम् इति समाधिर् मनः / तेषां मनस्य् आत्म-याथात्म्य-निश्चय-पूर्वक-मोक्ष-साधन-भूत-कर्म-विषया बुद्धिः कदाचिद् अपि न उत्पद्यते इत्य्-अर्थः / अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः //
SK
एवम् अत्यल्पफलानि पुनर्जन्मप्रसवानि कर्माणि मातापितृसहस्रेभ्यो ऽपि वत्सलतरतया आत्मोज्जीवने प्रवृत्ता वेदाः किम् अर्थं वदन्ति, कथं वा वेदोदितं त्याज्यतयोच्यते इत्य् अत आह --
SK
एवम् अत्यल्प-फलानि पुनर्-जन्म-प्रसवानि कर्माणि माता-पितृ-सहस्रेभ्यो ऽपि वत्सलतरतया आत्म-उज्जीवने प्रवृत्ता वेदाः किम् अर्थं वदन्ति, कथं वा वेद-उदितं त्याज्यतय ऊच्यते इत्य् अत आह ---
SK
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन | निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||
SK
त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवा अर्जुन | निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ||
SK
त्रयो गुणास् त्रैगुण्यं सत्त्वरजस्तमांसि / सत्त्वरजस्तमःप्रचुराः पुरुषास् त्रैगुण्यशब्देनोच्यन्ते; तद्विषया वेदाः तमःप्रचुराणां रजःप्रचुराणां सत्त्वप्रचुराणां च वत्सलतरतयैव हितम् अवबोधयन्ति वेदाः / यद्य् एषां स्वगुणानुगुण्येन स्वर्गादिसाधनम् एव हितं नावबोधयन्ति, तदैते रजस्तमःप्रचुरतया सात्त्विकफलमोक्षविमुखाः स्वापेक्षितफलसाधनम् अजानन्तः कामप्रावण्यविवशा अनुपादेयेषु उपादेयभ्रान्त्या प्रविष्टाः प्रनष्टा भवेयुः / अतस् त्रैगुण्यविषया वेदाः, त्वं तु निस्त्रैगुण्यो भव -- इदानीं सत्त्वप्रचुरस् त्वं तद् एव वर्धय; नान्योन्यसङ्कीर्णगुणत्रयप्रचुरो भव; न तत्प्राचुर्यं वर्धयेत्यर्थः / निर्द्वन्द्वः -- निर्गतसकलसांसारिकस्वभावः; नित्यसत्त्वस्थः -- गुणद्वयरहितनित्यप्रवृद्धसत्त्वस्थो भव / कथम् इति चेत्, निर्योगक्षेमः आत्मस्वरूपतत्प्राप्त्युपायबहिर्भूतानाम् अर्थानां योगं प्राप्तानां च क्षेमं परित्यज्य आत्मवान् भव -- आत्मस्वरूपान् वेषणपरो भव / अप्राप्तस्य प्राप्तिर् योगः प्राप्तस्य परिक्षणं क्षेमः / एवं वर्तमानस्य ते रजस्तमःप्रचुरता नश्यति, सत्त्वं च वर्धते //
SK
त्रयो गुणास् त्रैगुण्यं सत्त्व-रजस्-तमांसि / सत्त्व-रजस्-तमः-प्रचुराः पुरुषास् त्रैगुण्य-शब्देन उच्यन्ते; तद्-विषया वेदाः तमः-प्रचुराणां रजः-प्रचुराणां सत्त्व-प्रचुराणां च वत्सलतरतय ऐव हितम् अवबोधयन्ति वेदाः / यद्य् एषां स्व-गुण-आनुगुण्येन स्वर्ग-आदि-साधनम् एव हितं न अवबोधयन्ति, तद ऐते रजस्-तमः-प्रचुरतया सात्त्विक-फल-मोक्ष-विमुखाः स्व-अपेक्षित-फल-साधनम् अजानन्तः काम-प्रावण्य-विवशा अनुपादेयेषु उपादेय-भ्रान्त्या प्रविष्टाः प्रनष्टा भवेयुः / अतस् त्रैगुण्य-विषया वेदाः, त्वं तु निस्त्रैगुण्यो भव --- इदानीं सत्त्व-प्रचुरस् त्वं तद् एव वर्धय; न अन्योन्य-सङ्कीर्ण-गुण-त्रय-प्रचुरो भव; न तत्-प्राचुर्यं वर्धय इत्य्-अर्थः / निर्द्वन्द्वः --- निर्गत-सकल-सांसारिक-स्व-भावः; नित्य-सत्त्व-स्थः --- गुण-द्वय-रहित-नित्य-प्रवृद्ध-सत्त्व-स्थो भव / कथम् इति चेत्, निर्योग-क्षेमः आत्म-स्व-रूप-तत्-प्राप्त्य्-उपाय-बहिर्-भूतानाम् अर्थानां योगं प्राप्तानां च क्षेमं परित्यज्य आत्मवान् भव --- आत्म-स्व-रूपान् वेषण-परो भव / अप्राप्तस्य प्राप्तिर् योगः प्राप्तस्य परिक्षणं क्षेमः / एवं वर्तमानस्य ते रजस्-तमः-प्रचुरता नश्यति, सत्त्वं च वर्धते //
SK
यावान् अर्थ उदपाने सर्वतः संप्लुतोदके | तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||
SK
यावान् अर्थ उदपाने सर्वतः संप्लुत-उदके | तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||
SK
न च वेदोदितं सर्वं सर्वस्योपादेयम्; यथा सर्वार्थपरिकल्पिते सर्वतः संप्लुतोदके उदपाने पिपासोर् यावान् अर्थः -- यावद् एव प्रयोजनम्, तावद् एव तेनोपादीयते, न सर्वम्; एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतः -- वैदिकस्य मुमुक्षोः यद् एव मोक्षसाधनं तद् एवो=
SK
न च वेद-उदितं सर्वं सर्वस्य उपादेयम्; यथा सर्व-अर्थ-परिकल्पिते सर्वतः संप्लुत-उदके उदपाने पिपासोर् यावान् अर्थः --- यावद् एव प्रयोजनम्, तावद् एव तेन उपादीयते, न सर्वम्; एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतः --- वैदिकस्य मुमुक्षोः यद् एव मोक्ष-साधनं तद् एव उ=
SK
पादेयम्; नान्यत् //
SK
पादेयम्; न अन्यत् //
SK
अतः सत्त्वस्थस्य मुमुक्षोर् एतावद् एवोपादेयम् इत्य् आह --
SK
अतः सत्त्व-स्थस्य मुमुक्षोर् एतावद् एव उपादेयम् इत्य् आह ---
SK
कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन | मा कर्मफलहेतुर् भूः मा ते सङ्गो ऽस्त्व् अकर्मणि ||
SK
कर्मण्य् एव अधिकारस् ते मा फलेषु कदा-चन | मा कर्म-फल-हेतुर् भूः मा ते सङ्गो ऽस्त्व् अकर्मणि ||
SK
नित्ये नैमित्तिके काम्ये च केनचित् फलविशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस् ते कर्ममात्रे ऽधिकारः / तत्संबन्धितयावगतेषु फलेषु न कदाचिद् अप्य् अधिकारः / सफलस्य बन्धरूपत्वात् फलरहितस्य केवलस्य मदाराधनरूपस्य मोक्षहेतुत्वाच् च / मा च कर्मफलयोर् हेतुभूः / त्वयानुष्ठीयमाने ऽपि कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस् तव
SK
नित्ये नैमित्तिके काम्ये च केन-चित् फल-विशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्य-सत्त्व-स्थस्य मुमुक्षोस् ते कर्म-मात्रे ऽधिकारः / तत्-संबन्धितय आवगतेषु फलेषु न कदा-चिद् अप्य् अधिकारः / स-फलस्य बन्ध-रूपत्वात् फल-रहितस्य केवलस्य मद्-आराधन-रूपस्य मोक्ष-हेतुत्वाच् च / मा च कर्म-फलयोर् हेतु-भूः / त्वय आनुष्ठीयमाने ऽपि कर्मणि नित्य-सत्त्व-स्थस्य मुमुक्षोस् तव
SK
अकर्तृत्वम् अप्य् अनुसन्धेयम् / फलस्यापि क्षुन्निवृत्त्यादेर् न त्वं हेतुर् इत्य् अनुसन्धेयम् / तदुभयं गुणेषु वा सर्वेश्वरे मयि वानुसन्धेयम् इत्य् उत्तरत्र वक्ष्यते / एवम् अनुसन्धाय कर्म कुरु / अकर्मणि -- अननुष्ठाने, न योत्स्यामीति यत् त्वयाभिहितम्, न तत्र ते सङ्गो ऽस्तु; उक्तेन प्रकारेण युद्धादिकर्मण्य् एव सङ्गो ऽस्त्व् इत्यर्थः //
SK
अकर्तृत्वम् अप्य् अनुसन्धेयम् / फलस्य अपि क्षुन्-निवृत्त्य्-आदेर् न त्वं हेतुर् इत्य् अनुसन्धेयम् / तद्-उभयं गुणेषु वा सर्व-ईश्वरे मयि व आनुसन्धेयम् इत्य् उत्तरत्र वक्ष्यते / एवम् अनुसन्धाय कर्म कुरु / अकर्मणि --- अननुष्ठाने, न योत्स्यामि इति यत् त्वय आभिहितम्, न तत्र ते सङ्गो ऽस्तु; उक्तेन प्रकारेण युद्ध-आदि-कर्मण्य् एव सङ्गो ऽस्त्व् इत्य्-अर्थः //
SK
एतद् एव स्फुटीकरोति --
SK
एतद् एव स्फुटी-करोति ---
SK
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय | सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||
SK
योग-स्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्-जय | सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||
SK
राज्यबन्धुप्रभृतिषु सङ्गं त्यक्त्वा युद्धादीनि कर्माणि योगस्थः कुरु, तदन्तर्भूतविजयादिसिद्ध्यसिद्ध्योस् समो भूत्वा कुरु / तद् इदं सिद्ध्यसिद्ध्योस् समत्वं योगस्थ इत्य् अत्र योगशब्देनोच्यते / योगः -- सिद्ध्यसिद्धियोस् समत्वरूपं चित्तसमाधानम् //
SK
राज्य-बन्धु-प्रभृतिषु सङ्गं त्यक्त्वा युद्ध-आदीनि कर्माणि योग-स्थः कुरु, तद्-अन्तर्-भूत-विजय-आदि-सिद्ध्य्-असिद्ध्योस् समो भूत्वा कुरु / तद् इदं सिद्ध्य्-असिद्ध्योस् समत्वं योग-स्थ इत्य् अत्र योग-शब्देन उच्यते / योगः --- सिद्ध्य्-असिद्धियोस् समत्व-रूपं चित्त-समाधानम् //
SK
किम् अर्थम् इदम् असकृद् उच्यत इत्य् अत आह --
SK
किम् अर्थम् इदम् असकृद् उच्यत इत्य् अत आह ---
SK
दूरेण ह्य् अवरं कर्म बुद्धियोगाद् धनञ्जय | बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः ||
SK
दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्-जय | बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ||
SK
यो ऽयं प्रधानफलत्यागविषयो ऽवान्तरफलसिद्ध्यसिद्ध्योस् समत्वविषयश् च बुद्धियोगः; तद्युक्तात् कर्मण इतरत् कर्म दूरेणावरम् / महद् इदं द्वयोर् उत्कर्षापकर्षरूपं वैरूप्यम् / उक्तबुद्धियोगयुक्तं कर्म निखिलसांसारिकदुःखं विनिवर्त्य परमपुरुषार्थलक्षणं च मोक्षं प्रापयति / इतरद् अपरिमितदुःखरूपं संसारम् इति / अतः कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणम् अन्विच्छ / शरणं -- वासस्थानम् / तस्याम् एव बुद्धौ वर्तस्वेत्यर्थः / कृपणाः फलहेतवः -- फलसङ्गादिना कर्म कुर्वाणाः कृपणाः -- संसारिणो भवेयुः //
SK
यो ऽयं प्रधान-फल-त्याग-विषयो ऽवान्तर-फल-सिद्ध्य्-असिद्ध्योस् समत्व-विषयश् च बुद्धि-योगः; तद्-युक्तात् कर्मण इतरत् कर्म दूरेण अवरम् / महद् इदं द्वयोर् उत्कर्ष-अपकर्ष-रूपं वैरूप्यम् / उक्त-बुद्धि-योग-युक्तं कर्म निखिल-सांसारिक-दुःखं विनिवर्त्य परम-पुरुष-अर्थ-लक्षणं च मोक्षं प्रापयति / इतरद् अपरिमित-दुःख-रूपं संसारम् इति / अतः कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणम् अन्विच्छ / शरणं --- वास-स्थानम् / तस्याम् एव बुद्धौ वर्तस्व इत्य्-अर्थः / कृपणाः फल-हेतवः --- फल-सङ्ग-आदिना कर्म कुर्वाणाः कृपणाः --- संसारिणो भवेयुः //
SK
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते | तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ||
SK
बुद्धि-युक्तो जहाति इह उभे सुकृत-दुष्कृते | तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ||
SK
बुद्धियोगयुक्तस् तु कर्म कुर्वाणः उभे सुकृतदुष्कृते अनादिकालसञ्चिते अनन्ते बन्धहेतुभूते जहाति / तस्माद् उक्ताय बुद्धियोगाय युज्यस्व / योगः कर्मसु कौशलम् -- कर्मसु क्रियमाणेष्व् अयं बुद्धियोगः कौशलम् -- अतिसामर्थ्यम् / अतिसामर्थ्यसाध्य इत्यर्थः //
SK
बुद्धि-योग-युक्तस् तु कर्म कुर्वाणः उभे सुकृत-दुष्कृते अनादि-काल-सञ्चिते अनन्ते बन्ध-हेतु-भूते जहाति / तस्माद् उक्ताय बुद्धि-योगाय युज्यस्व / योगः कर्मसु कौशलम् --- कर्मसु क्रियमाणेष्व् अयं बुद्धि-योगः कौशलम् --- अतिसामर्थ्यम् / अतिसामर्थ्य-साध्य इत्य्-अर्थः //
SK
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः | जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ||
SK
कर्म-जं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः | जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ||
SK
बुद्धियोगयुक्ताः कर्मजं फलं त्यक्त्वा कर्म कुर्वन्तः, तस्माज् जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति हि -- प्रसिद्धं ह्य् एतत् सर्वासूपनिषत्स्व् इत्यर्थः //
SK
बुद्धि-योग-युक्ताः कर्म-जं फलं त्यक्त्वा कर्म कुर्वन्तः, तस्माज् जन्म-बन्ध-विनिर्मुक्ताः अनामयं पदं गच्छन्ति हि --- प्रसिद्धं ह्य् एतत् सर्वासु उपनिषत्स्व् इत्य्-अर्थः //
SK
यदा ते मोहकलिलं बुद्धिर् व्यतितरिष्यति | तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||
SK
यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति | तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||
SK
उक्तप्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूतकल्मषस्य ते बुद्धिर् यदा मोहकलिलम् अत्यल्पफलसङ्गहेतुभूतं मोहरूपं कलुषं व्यतितरिष्यति, तदा अस्मत्तः इतः पूर्वं त्याज्यतया श्रुतस्य फलादेः इतः पश्चाच् छ्रोतव्यस्य च कृते स्वयम् एव निर्वेदं गन्तासि -- गमिष्यसि //
SK
उक्त-प्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूत-कल्मषस्य ते बुद्धिर् यदा मोह-कलिलम् अत्यल्प-फल-सङ्ग-हेतु-भूतं मोह-रूपं कलुषं व्यतितरिष्यति, तदा अस्मत्तः इतः पूर्वं त्याज्यतया श्रुतस्य फल-आदेः इतः पश्चाच् छ्रोतव्यस्य च कृते स्वयम् एव निर्वेदं गन्तासि --- गमिष्यसि //
SK
᳚योगे त्व् इमां शृणु᳚ इत्यादिनोक्तस्यात्मयाथात्म्यज्ञानपूर्वकस्य बुद्धिविशेषसंस्कृतस्य धर्मानुष्ठानस्य लक्षभूतं योगाख्यं फलम् आह --
SK
᳚योगे त्व् इमां शृणु᳚ इत्य्-आदिन ऊक्तस्या अत्म-याथात्म्य-ज्ञान-पूर्वकस्य बुद्धि-विशेष-संस्कृतस्य धर्म-अनुष्ठानस्य लक्ष-भूतं योग-आख्यं फलम् आह ---
SK
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला | समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि ||
SK
श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला | समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि ||
SK
श्रुतिः श्रवणम् / अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकलेतरविसजातीयनित्यनिरतिशयसूक्ष्मतत्त्वात्मविषया, स्वयम् अचला एकरूपा बुद्धिः असङ्गकर्मानुष्ठानेन निर्मलीकृते मनसि यदा निश्चला स्थास्यति, तदा योगम् आत्मावलोकनम् अवाप्स्यसि / एतद् उक्तं भवति -- शास्त्रजन्यात्मज्ञानपूर्वककर्मयोगः स्थितप्रज्ञताख्यज्ञाननिष्ठाम् आपादयति; ज्ञाननिष्ठारूपा
SK
श्रुतिः श्रवणम् / अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकल-इतर-विसजातीय-नित्य-निरतिशय-सूक्ष्म-तत्त्व-आत्म-विषया, स्वयम् अचला एक-रूपा बुद्धिः असङ्ग-कर्म-अनुष्ठानेन निर्मलीकृते मनसि यदा निश्चला स्थास्यति, तदा योगम् आत्म-अवलोकनम् अवाप्स्यसि / एतद् उक्तं भवति --- शास्त्र-जन्य-आत्म-ज्ञान-पूर्वक-कर्म-योगः स्थित-प्रज्ञता-आख्य-ज्ञान-निष्ठाम् आपादयति; ज्ञान-निष्ठा-रूपा
SK
स्थितप्रज्ञता तु योगाख्यम् आत्मावलोकनं साधयति इति //
SK
स्थित-प्रज्ञता तु योग-आख्यम् आत्म-अवलोकनं साधयति इति //
SK
एतद् उक्तः पार्थो ऽसङ्गकर्मानुष्ठानरूपकर्मयोगसाध्यस्थितप्रज्ञताया योगसाधनभूतायाः स्वरूपम्, स्थितप्रज्ञस्यानुष्ठानप्रकारं च पृच्छति --
SK
एतद् उक्तः पार्थो ऽसङ्ग-कर्म-अनुष्ठान-रूप-कर्म-योग-साध्य-स्थित-प्रज्ञताया योग-साधन-भूतायाः स्व-रूपम्, स्थित-प्रज्ञस्य अनुष्ठान-प्रकारं च पृच्छति ---
SK
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव | स्थितधीः किं प्रभाषते किम् आसीत व्रजेत किम् ||
SK
स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव | स्थित-धीः किं प्रभाषते किम् आसीत व्रजेत किम् ||
SK
समाधिस्थस्य स्थितप्रज्ञस्य का भाषा को वाचकश् शब्दः ? तस्य स्वरूपं कीदृशम् इत्यर्थः / स्थितप्रज्ञः किं च भाषादिकं करोति ? //
SK
समाधि-स्थस्य स्थित-प्रज्ञस्य का भाषा को वाचकश् शब्दः ? तस्य स्व-रूपं कीदृशम् इत्य्-अर्थः / स्थित-प्रज्ञः किं च भाषा-आदिकं करोति ? //
SK
वृत्तिविशेषकथनेन स्वरूपम् अप्य् उक्तं भवतीति वृत्तिविशेष उच्यते --
SK
वृत्ति-विशेष-कथनेन स्व-रूपम् अप्य् उक्तं भवति इति वृत्ति-विशेष उच्यते ---
SK
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् | आत्मन्य् एवात्मना तुष्टः स्थितप्रज्ञस् तदोच्यते ||
SK
प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् | आत्मन्य् एवा अत्मना तुष्टः स्थित-प्रज्ञस् तद ऊच्यते ||
SK
आत्मन्य् एवात्मना मनसा आत्मैकावलम्बनेन तुष्टः तेन तोषेण तद्व्यतिरिक्तान् सर्वान् मनोगतान् कामान् यदा प्रकर्षेण जहाति, तदायं स्थितप्रज्ञ इत्य् उच्यते / ज्ञाननिष्ठाकाष्ठेयम् //
SK
आत्मन्य् एवा अत्मना मनसा आत्म-एक-अवलम्बनेन तुष्टः तेन तोषेण तद्-व्यतिरिक्तान् सर्वान् मनो-गतान् कामान् यदा प्रकर्षेण जहाति, तद आयं स्थित-प्रज्ञ इत्य् उच्यते / ज्ञान-निष्ठा-काष्ठ ईयम् //
SK
अनन्तरं ज्ञाननिष्ठस्य ततो ऽर्वाचीनादूरविप्रकृष्टावस्थोच्यते --
SK
अनन्तरं ज्ञान-निष्ठस्य ततो ऽर्वाचीन-अदूर-विप्रकृष्ट-अवस्थ ऊच्यते ---
SK
दुःखेष्व् अनुद्विग्नमनाः सुखेषु विगतस्पृहः | वीतरागभयक्रोधः स्थितधीर् मुनिर् उच्यते ||
SK
दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः | वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ||
SK
प्रियविश्लेषादिदुःखनिमित्तेषु उपस्थितेषु अनुद्विग्नमनाः -- न दुःखी भवति; सुखेषु विगतस्पृहः -- प्रियेषु सन्निहितेष्व् अपि विगतस्पृहः, वीतरागभयक्रोधः -- अनागतेषु स्पृहा रागः, तद्रहितः; प्रियविश्लेषाप्रियागमनहेतुदर्शननिमित्तं दुःखं भयम्, तद्रहितः; प्रियविश्लेषाप्रियागमनहेतुभूतचेतनान्तरगतदुःखहेतुभूतस्वमनोविकारः क्रोधः, तद्रहितः; एवंभूतः मुनिः -- आत्ममननशीलः स्थितधीर् इत्य् उच्यते //
SK
प्रिय-विश्लेष-आदि-दुःख-निमित्तेषु उपस्थितेषु अनुद्विग्न-मनाः --- न दुःखी भवति; सुखेषु विगत-स्पृहः --- प्रियेषु सन्निहितेष्व् अपि विगत-स्पृहः, वीत-राग-भय-क्रोधः --- अनागतेषु स्पृहा रागः, तद्-रहितः; प्रिय-विश्लेष-अप्रिय-आगमन-हेतु-दर्शन-निमित्तं दुःखं भयम्, तद्-रहितः; प्रिय-विश्लेष-अप्रिय-आगमन-हेतु-भूत-चेतन-अन्तर-गत-दुःख-हेतु-भूत-स्व-मनो-विकारः क्रोधः, तद्-रहितः; एवं-भूतः मुनिः --- आत्म-मनन-शीलः स्थित-धीर् इत्य् उच्यते //
SK
ततो ऽर्वाचीनदशा प्रोच्यते --
SK
ततो ऽर्वाचीन-दशा प्रोच्यते ---
SK
यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् | नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||
SK
यः सर्वत्र अनभिस्नेहस् तत् तत् प्राप्य शुभ-अशुभम् | न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||
SK
यः सर्वत्र प्रियेषु अनभिस्नेहः उदासीनः; प्रियसंश्लेषविश्लेषरूपं शुभाशुभं प्राप्याभिनन्दनद्वेषरहितः, सो ऽपि स्थितप्रज्ञः //
SK
यः सर्वत्र प्रियेषु अनभिस्नेहः उदासीनः; प्रिय-संश्लेष-विश्लेष-रूपं शुभ-अशुभं प्राप्य अभिनन्दन-द्वेष-रहितः, सो ऽपि स्थित-प्रज्ञः //
SK
ततो ऽर्वाचीनदशाम् आह --
SK
ततो ऽर्वाचीन-दशाम् आह ---
SK
यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः | इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ||
SK
यदा संहरते च अयं कूर्मो ऽङ्गानि इव सर्वशः | इन्द्रियाणि इन्द्रिय-अर्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ||
SK
यदेन्द्रियाणीन्द्रियार्थान् स्पृष्टुम् उद्युक्तानि, तदैव कूर्मो ऽङ्गानीव, इन्द्रियार्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मन्य् अवस्थापयति, सो ऽपि स्थितप्रज्ञः / एवं चतुर्विधा ज्ञाननिष्ठा / पूर्वपूर्वा उत्तरोत्त्रनिष्पाद्या //
SK
यद ईन्द्रियाणि इन्द्रिय-अर्थान् स्पृष्टुम् उद्युक्तानि, तद ऐव कूर्मो ऽङ्गानि इव, इन्द्रिय-अर्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मन्य् अवस्थापयति, सो ऽपि स्थित-प्रज्ञः / एवं चतुर्-विधा ज्ञान-निष्ठा / पूर्व-पूर्वा उत्तर-उत्त्र-निष्पाद्या //
SK
इदानीं ज्ञाननिष्ठाया दुष्प्रापतां तत्प्राप्त्युपायं चाह --
SK
इदानीं ज्ञान-निष्ठाया दुष्प्रापतां तत्-प्राप्त्य्-उपायं चा अह ---
SK
विषया विनिवर्तन्ते निराहारस्य देहिनः | रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ||
SK
विषया विनिवर्तन्ते निराहारस्य देहिनः | रस-वर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ||
SK
इन्द्रियाणाम् आहारा विषयाः; निराहारस्य विषयेभ्यः प्रत्याहृतेन्द्रियस्य देहिनो विषया विनिवर्तमाना रसवर्जं विनिवर्तन्ते; रसः रागः / विषयरागो न निवर्तत इत्यर्थः / रागो ऽप्य् आत्मस्वरूपं विषयेभ्यः परं सुखतरं दृष्ट्वा निवर्तते //
SK
इन्द्रियाणाम् आहारा विषयाः; निराहारस्य विषयेभ्यः प्रत्याहृत-इन्द्रियस्य देहिनो विषया विनिवर्तमाना रस-वर्जं विनिवर्तन्ते; रसः रागः / विषय-रागो न निवर्तत इत्य्-अर्थः / रागो ऽप्य् आत्म-स्व-रूपं विषयेभ्यः परं सुखतरं दृष्ट्वा निवर्तते //
SK
यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||
SK
यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||
SK
आत्मदर्शनेन विना विषयरागो न निवर्तते, अनिवृत्ते विषयरागे विपश्चितो यतमानस्यापि पुरुषस्येन्द्रियाणि प्रमाथीनि बलवन्ति, मनः प्रसह्य हरन्ति / एवम् इन्द्रियजयः आत्मदर्शनाधीनः, आत्मदर्शनम् इन्द्रियजयाधीनम् इति ज्ञाननिष्ठा दुष्प्रापा //
SK
आत्म-दर्शनेन विना विषय-रागो न निवर्तते, अनिवृत्ते विषय-रागे विपश्चितो यतमानस्य अपि पुरुषस्य इन्द्रियाणि प्रमाथीनि बलवन्ति, मनः प्रसह्य हरन्ति / एवम् इन्द्रिय-जयः आत्म-दर्शन-अधीनः, आत्म-दर्शनम् इन्द्रिय-जय-अधीनम् इति ज्ञान-निष्ठा दुष्प्रापा //
SK
तानि सर्वाणि संयम्य युक्त आसीत मत्परः | वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||
SK
तानि सर्वाणि संयम्य युक्त आसीत मत्-परः | वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||
SK
अस्य सर्वस्य परिजिहीर्षया विषयानुरागयुक्ततया दुर्जयानीन्द्रियाणि संयम्य, चेतसश् शुभाश्रयभूते मयि मनो ऽवस्थाप्य समाहित आसीत / मनसि मद्विषये सति निर्दग्धाशेषकल्मषतया निर्मलीकृतं विषयानुरागरहितं मन इन्द्रियाणि स्ववशानि करोति / ततो वश्येन्द्रियं मन आत्मदर्शनाय प्रभवति / यथोक्तम्, ᳚यथाग्निर् उद्धतशिखः कक्षं दहति सानिलः / तथा चित्तस्थितो विष्णुर् योगिनां सर्वकिल्बिषम् // Bह्GR_२.᳚ इति / तदाह ᳚वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता᳚+इति //
SK
अस्य सर्वस्य परिजिहीर्षया विषय-अनुराग-युक्ततया दुर्जयानि इन्द्रियाणि संयम्य, चेतसश् शुभ-आश्रय-भूते मयि मनो ऽवस्थाप्य समाहित आसीत / मनसि मद्-विषये सति निर्दग्ध-अशेष-कल्मषतया निर्मलीकृतं विषय-अनुराग-रहितं मन इन्द्रियाणि स्व-वशानि करोति / ततो वश्य-इन्द्रियं मन आत्म-दर्शनाय प्रभवति / यथ ऊक्तम्, ᳚यथ आग्निर् उद्धत-शिखः कक्षं दहति स-अनिलः / तथा चित्त-स्थितो विष्णुर् योगिनां सर्व-किल्बिषम् // Bह्GR_२.᳚ इति / तदा आह ᳚वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता᳚+इति //
SK
एवं मय्य् अनिवेश्य मनः स्वयत्नगौरवेणेन्द्रियजये प्रवृत्तो विनष्टो भवतीत्य् आह --
SK
एवं मय्य् अनिवेश्य मनः स्व-यत्न-गौरवेण इन्द्रिय-जये प्रवृत्तो विनष्टो भवति इत्य् आह ---
SK
ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते | सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ||
SK
ध्यायतो विषयान् पुंसः सङ्गस् तेषु उपजायते | सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ||
SK
क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः | स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ||
SK
क्रोधाद् भवति संमोहः संमोहात् स्मृति-विभ्रमः | स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ||
SK
अनिरस्तविषयानुरागस्य हि मय्य् अनिवेशितमनस इन्द्रियाणि संयम्यावस्थितस्यापि अनादिपापवासनया विषयध्यानम् अवर्जनीयं स्यात् / ध्यायतो विषयान् पुंसः पुनर् अपि सङ्गो ऽतिप्रवृद्धो जायते / सङ्गात् संजाते कामः / कामो नाम सङ्गस्य विपाकदशा / पुरुषो यां दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुं न शक्नोति, स कामः // कामात् क्रोधो ऽभिजायते / कामे वर्तमाने, विषये चासन्निहिते, सन्निहितान् पुरुषान् प्रति, एभिर् अस्मदिष्टं विहितम् इति क्रोधो भवति / क्रोधाद् भवति संमोहः / संमोहः कृत्याकृत्यविवेकशून्यता / तया सर्वं करोति / ततश् च प्रारब्धे इन्द्रियजयादिके प्रयत्ने स्मृतिभ्रंशो भवति / स्मृतिभ्रंशाद् बुद्धिनाशः आत्मज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात् / बुद्धिनाशात् पुनर् अपि संसारे निमग्नो विनष्टो भवति //
SK
अनिरस्त-विषय-अनुरागस्य हि मय्य् अनिवेशित-मनस इन्द्रियाणि संयम्य अवस्थितस्य अपि अनादि-पाप-वासनया विषय-ध्यानम् अवर्जनीयं स्यात् / ध्यायतो विषयान् पुंसः पुनर् अपि सङ्गो ऽतिप्रवृद्धो जायते / सङ्गात् संजाते कामः / कामो नाम सङ्गस्य विपाक-दशा / पुरुषो यां दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुं न शक्नोति, स कामः // कामात् क्रोधो ऽभिजायते / कामे वर्तमाने, विषये च असन्निहिते, सन्निहितान् पुरुषान् प्रति, एभिर् अस्मद्-इष्टं विहितम् इति क्रोधो भवति / क्रोधाद् भवति संमोहः / संमोहः कृत्य-अकृत्य-विवेक-शून्यता / तया सर्वं करोति / ततश् च प्रारब्धे इन्द्रिय-जय-आदिके प्रयत्ने स्मृति-भ्रंशो भवति / स्मृति-भ्रंशाद् बुद्धि-नाशः आत्म-ज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात् / बुद्धि-नाशात् पुनर् अपि संसारे निमग्नो विनष्टो भवति //
SK
रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन् | आत्मवश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ||
SK
राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् | आत्म-वश्यैर् विधेय-आत्मा प्रसादम् अधिगच्छति ||
SK
उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसश् शुभाश्रयभूते न्यस्तमनाः निर्दग्धाशेषकल्मषतया रागद्वेषवियुक्तैर् आत्मवश्यैर् इन्द्रियैः विषयांश् चरन् विषयांस् तिरस्कृत्य वर्तमानः विधेयात्मा विधेयमनाः प्रसादम् अधिगच्छति निर्मलान्तःकरणो भवतीत्यर्थः //
SK
उक्तेन प्रकारेण मयि सर्व-ईश्वरे चेतसश् शुभ-आश्रय-भूते न्यस्त-मनाः निर्दग्ध-अशेष-कल्मषतया राग-द्वेष-वियुक्तैर् आत्म-वश्यैर् इन्द्रियैः विषयांश् चरन् विषयांस् तिरस्कृत्य वर्तमानः विधेय-आत्मा विधेय-मनाः प्रसादम् अधिगच्छति निर्मल-अन्तःकरणो भवति इत्य्-अर्थः //
SK
प्रसादे सर्वदुःखानां हानिर् अस्योपजायते | प्रसन्नचेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ||
SK
प्रसादे सर्व-दुःखानां हानिर् अस्य उपजायते | प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ||
SK
अस्य पुरुषस्य मनःप्रसादे सति प्रकृतिसंसर्गप्रयुक्तसर्वदुःखानां हानिर् उपजायते / प्रसन्नचेतसः आत्मावलोकनविरोधिदोषरहितमनसः तदानीम् एव हि विविक्तात्मविषया बुद्धिः पर्यवतिष्ठते / अतो मनःप्रसादे सर्वदुःखानां हानिर् भवत्य् एव /६५//
SK
अस्य पुरुषस्य मनः-प्रसादे सति प्रकृति-संसर्ग-प्रयुक्त-सर्व-दुःखानां हानिर् उपजायते / प्रसन्न-चेतसः आत्म-अवलोकन-विरोधि-दोष-रहित-मनसः तदानीम् एव हि विविक्त-आत्म-विषया बुद्धिः पर्यवतिष्ठते / अतो मनः-प्रसादे सर्व-दुःखानां हानिर् भवत्य् एव /६५//
SK
नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना | न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ||
SK
न अस्ति बुद्धिर् अयुक्तस्य न च अयुक्तस्य भावना | न च अभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ||
SK
मयि सन्न्यस्तमनोरहितस्य स्वयत्नेनेन्द्रियनियमने प्रवृत्तस्य कदाचिद् अपि विविक्तात्मविषया बुद्धिर् न सेत्स्यति/ अत एव तस्य तद्भावना च न संभवति / विविक्तात्मानम् अभावयतो विषयस्पृहाशान्तिर् न भवति / अशान्तस्य विषयस्पृहायुक्तस्य कुतो नित्यनिरतिशयसुखप्राप्तिः //
SK
मयि सन्न्यस्त-मनो-रहितस्य स्व-यत्नेन इन्द्रिय-नियमने प्रवृत्तस्य कदाचिद् अपि विविक्त-आत्म-विषया बुद्धिर् न सेत्स्यति/ अत एव तस्य तद्-भावना च न संभवति / विविक्त-आत्मानम् अभावयतो विषय-स्पृह-अशान्तिर् न भवति / अशान्तस्य विषय-स्पृह-अयुक्तस्य कुतो नित्य-निरतिशय-सुख-प्राप्तिः //
SK
पुनर् अप्य् उक्तेन प्रकारेणेन्द्रियनियमनम् अकुर्वतो ऽनर्थम् आह --
SK
पुनर् अप्य् उक्तेन प्रकारेण इन्द्रिय-नियमनम् अकुर्वतो ऽनर्थम् आह ---
SK
इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते | तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ||
SK
इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते | तद् अस्य हरति प्रज्ञां वायुर् नावम् इव अम्भसि ||
SK
इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनम् अनु यन् मनो विधीयते पुरुषेणानुवर्त्यते, तन् मनो ऽस्य विविक्तात्मप्रवणां प्रज्ञां हरति विषयप्रवणां करोतीत्यर्थः; यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः प्रसह्य हरति //
SK
इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनम् अनु यन् मनो विधीयते पुरुषेण अनुवर्त्यते, तन् मनो ऽस्य विविक्त-आत्म-प्रवणां प्रज्ञां हरति विषय-प्रवणां करोति इत्य्-अर्थः; यथ आम्भसि नीयमानां न अवं प्रतिकूलो वायुः प्रसह्य हरति //
SK
तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः | इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ||
SK
तस्माद् यस्य महा-बाहो निगृहीतानि सर्वशः | इन्द्रियाणि इन्द्रिय-अर्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ||
SK
तस्माद् उक्तेन प्रकारेण शुभाश्रये मयि निविष्टमनसो यस्येन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि, तस्यैवात्मनि प्रज्ञा प्रतिष्ठिता भवति //
SK
तस्माद् उक्तेन प्रकारेण शुभ-आश्रये मयि निविष्ट-मनसो यस्य इन्द्रियाणि इन्द्रिय-अर्थेभ्यः सर्वशो निगृहीतानि, तस्य एवा अत्मनि प्रज्ञा प्रतिष्ठिता भवति //
SK
एवं नियतेन्द्रियस्य प्रसन्नमनसः सिद्धिम् आह --
SK
एवं नियत-इन्द्रियस्य प्रसन्न-मनसः सिद्धिम् आह ---
SK
या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ||
SK
या निशा सर्व-भूतानां तस्यां जागर्ति संयमी | यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ||
SK
या आत्मविषया बुद्धिः सर्वभूतानां निशा निशेवाप्रकाशा, तस्याम् आत्मविषयायां बुद्धौ इन्द्रियसंयमी प्रसन्नमनाः जागर्ति आत्मानम् अवलोकयन् आस्त इत्यर्थः / यस्यां शब्दादिविषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति,; सा शब्दादिविषया बुद्धिर् आत्मानं पश्यतो मुनेर् निशेवाप्रकाशा भवति //
SK
या आत्म-विषया बुद्धिः सर्व-भूतानां निशा निश ईव अप्रकाशा, तस्याम् आत्म-विषयायां बुद्धौ इन्द्रिय-संयमी प्रसन्न-मनाः जागर्ति आत्मानम् अवलोकयन् आस्त इत्य्-अर्थः / यस्यां शब्द-आदि-विषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति,; सा शब्द-आदि-विषया बुद्धिर् आत्मानं पश्यतो मुनेर् निश ईव अप्रकाशा भवति //
SK
आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् | तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी ||
SK
आपूर्यमाणम् अचल-प्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् | तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न काम-कामी ||
SK
यथा स्वेनैवापूर्यमाणम् एकरूपं समुद्रं नादेय्य आपः प्रविशन्ति, आसाम् अपां प्रवेशे ऽप्य् अप्रवेशे च समुद्रो न कञ्चन विशेषम् आपद्यते -- एवं सर्वे कामाः शब्दादयो विषयाः यं संयमिनं प्रविशन्ति इन्द्रियगोचरतां यान्ति, स शान्तिम् आप्नोति / शब्दादिष्व् इन्द्रियगोचरताम् आपन्नेष्व् अनापन्नेषु च स्वात्मावलोकनतृप्त्यैव यो न विकारम् आप्नोति, स एव शान्तिम् आप्नोतीत्यर्थः / न कामकामी / यः शब्दादिभिर् विक्रियते, स कदाचिद् अपि न शान्तिम् आप्नोति //
SK
यथा स्वेन एवा अपूर्यमाणम् एक-रूपं समुद्रं नादेय्य आपः प्रविशन्ति, आसाम् अपां प्रवेशे ऽप्य् अप्रवेशे च समुद्रो न कञ्चन विशेषम् आपद्यते --- एवं सर्वे कामाः शब्द-आदयो विषयाः यं संयमिनं प्रविशन्ति इन्द्रिय-गोचरतां यान्ति, स शान्तिम् आप्नोति / शब्द-आदिष्व् इन्द्रिय-गोचरताम् आपन्नेष्व् अनापन्नेषु च स्व-आत्म-अवलोकन-तृप्त्य ऐव यो न विकारम् आप्नोति, स एव शान्तिम् आप्नोति इत्य्-अर्थः / न काम-कामी / यः शब्द-आदिभिर् विक्रियते, स कदाचिद् अपि न शान्तिम् आप्नोति //
SK
विहाय कामान् यः सर्वान् पुमांश् चरति निस्स्पृहः | निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति ||
SK
विहाय कामान् यः सर्वान् पुमांश् चरति निस्स्पृहः | निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति ||
SK
काम्यन्त इति कामाः शब्दादयः / यः पुमान् शब्दादीन् सर्वान् विषयान् विहाय
SK
काम्यन्त इति कामाः शब्द-आदयः / यः पुमान् शब्द-आदीन् सर्वान् विषयान् विहाय
SK
तत्र निस्स्पृहः तत्र ममतारहितश् च, अनात्मनि देहे आत्माभिमानरहितश् चरति; स आत्मानं दृष्ट्वा शान्तिम् अधिगच्छति //
SK
तत्र निस्स्पृहः तत्र ममता-रहितश् च, अनात्मनि देहे आत्म-अभिमान-रहितश् चरति; स आत्मानं दृष्ट्वा शान्तिम् अधिगच्छति //
SK
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति | स्थित्वास्याम् अन्तकाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति ||
SK
एषा ब्राह्मी स्थितिः पार्थ न एनां प्राप्य विमुह्यति | स्थित्व आस्याम् अन्त-काले ऽपि ब्रह्म-निर्वाणम् ऋच्छति ||
SK
एषा नित्यात्मज्ञानपूर्विका असङ्गकर्मणि स्थितिः स्थितधीलक्षा ब्राह्मी ब्रह्मप्रापिका / ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति पुनः संसारं नाप्नोति, अस्याः स्थित्याम् अन्तिमे ऽपि वयसि स्थित्वा ब्रह्मनिर्वाणम् ऋच्छति निर्वाणमयं ब्रह्म गच्छति; सुखैकतानम् आत्मानम् अवाप्नोतीत्यर्थः //
SK
एषा नित्य-आत्म-ज्ञान-पूर्विका असङ्ग-कर्मणि स्थितिः स्थित-धी-लक्षा ब्राह्मी ब्रह्म-प्रापिका / ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति पुनः संसारं ना अप्नोति, अस्याः स्थित्याम् अन्तिमे ऽपि वयसि स्थित्वा ब्रह्म-निर्वाणम् ऋच्छति निर्वाण-मयं ब्रह्म गच्छति; सुख-एकतानम् आत्मानम् अवाप्नोति इत्य्-अर्थः //
SK
एवम् आत्मयाथात्म्यं युद्धाख्यस्य च कर्मणस् तत्प्राप्तिसाधनताम् अजानतः शरीरात्मज्ञानेन मोहितस्य, तेन च मोहेन युद्धान् निवृत्तस्य मोहशान्तये नित्यात्मविषया साङ्ख्यबुद्धिः, तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धिः स्थितप्रज्ञतायोगसाधनभूता द्वितीये अध्याये प्रोक्ता; तद् उक्तम्, ᳚नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः / द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये᳚ इति //
SK
एवम् आत्म-याथात्म्यं युद्ध-आख्यस्य च कर्मणस् तत्-प्राप्ति-साधनताम् अजानतः शरीर-आत्म-ज्ञानेन मोहितस्य, तेन च मोहेन युद्धान् निवृत्तस्य मोह-शान्तये नित्य-आत्म-विषया साङ्ख्य-बुद्धिः, तत्-पूर्विका च असङ्ग-कर्म-अनुष्ठान-रूप-कर्म-योग-विषया बुद्धिः स्थित-प्रज्ञता-योग-साधन-भूता द्वितीये अध्याये प्रोक्ता; तद् उक्तम्, ᳚नित्य-आत्म-असङ्ग-कर्म-ईहा-गोचरा साङ्ख्य-योग-धीः / द्वितीये स्थित-धी-लक्षा प्रोक्ता तन्-मोह-शान्तये᳚ इति //
SK
तद् एवं मुमुक्षुभिः प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादिदोषगन्धानवधिकातिशयासंख्येयकल्याणगुणगणपरब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादिशब्दवाच्यतदैकान्तिकात्यन्तिकभक्तिं वक्तुं तदङ्गभूतं ᳚य आत्मापहतपाप्मा᳚ इत्यादिप्रजापतिवाक्योदितं प्राप्तुर् आत्मनो याथात्म्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिष्पाद्यज्ञानयोगसाध्यम् उक्तम् / प्रजापतिवाक्ये हि दहरवाक्योदितपरविद्याशेषतया प्राप्तुर् आत्मनस् स्वरूपदर्शनम्, ᳚यस् तम् आत्मानम् अनुविद्य विजानाति᳚ इत्य् उक्त्वा जागरितस्वप्नसुषुप्त्यतीतं प्रत्यगात्मस्वरूपम् अशरीरं प्रतिपाद्य, ᳚एवम् एवैष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते᳚ इति दहरविद्याफलेनोपसंहृतम् / अन्यत्रापि, ᳚अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति᳚ इत्य् एवम् आदिषु, देवं मत्वेति विधीयमानपरविद्याङ्गतया अध्यात्मयोगाधिगमेनेति प्रत्यगात्मज्ञानम् अपि विधाय, ᳚न जायते म्रियते वा विपश्चित्᳚ इत्यादिना प्रत्यगात्मस्वरूपं विशोध्य, ᳚अणोर् अणीयान्᳚, इत्य् आरभ्य, ᳚महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति᳚, ᳚नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन / यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् // Bह्GR_३.᳚ इत्यादिभिः परस्वरूपं तदुपासनम् उपासनस्य च भक्तिरूपतां प्रतिपाद्य, ᳚विज्ञानसारथिर् यस् तु मनःप्रग्रहवान् नरः / सो ऽध्वनः पारम् आप्नोति तद्विष्णोः परमं पदम् // इति परविद्याफलेनोपसंहृतम्
SK
तद् एवं मुमुक्षुभिः प्राप्यतया वेद-अन्त-उदित-निरस्त-निखिल-अविद्या-आदि-दोष-गन्ध-अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गण-पर-ब्रह्म-पुरुष-उत्तम-प्राप्त्य्-उपाय-भूत-वेदना-उपासन-ध्यान-आदि-शब्द-वाच्य-तद्-ऐकान्तिक-आत्यन्तिक-भक्तिं वक्तुं तद्-अङ्ग-भूतं ᳚य आत्म आपहत-पाप्मा᳚ इत्य्-आदि-प्रजापति-वाक्य-उदितं प्राप्तुर् आत्मनो याथात्म्य-दर्शनं तन्-नित्यता-ज्ञान-पूर्वक-असङ्ग-कर्म-निष्पाद्य-ज्ञान-योग-साध्यम् उक्तम् / प्रजापति-वाक्ये हि दहर-वाक्य-उदित-पर-विद्या-अशेषतया प्राप्तुर् आत्मनस् स्व-रूप-दर्शनम्, ᳚यस् तम् आत्मानम् अनुविद्य विजानाति᳚ इत्य् उक्त्वा जागरित-स्वप्न-सुषुप्त्य्-अतीतं प्रत्यग्-आत्म-स्व-रूपम् अशरीरं प्रतिपाद्य, ᳚एवम् एव एष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेण अभिनिष्पद्यते᳚ इति दहर-विद्या-फलेन उपसंहृतम् / अन्यत्र अपि, ᳚अध्यात्म-योग-अधिगमेन देवं मत्वा धीरो हर्ष-शोकौ जहाति᳚ इत्य् एवम् आदिषु, देवं मत्व ईति विधीयमान-पर-विद्या-अङ्गतया अध्यात्म-योग-अधिगमेन इति प्रत्यग्-आत्म-ज्ञानम् अपि विधाय, ᳚न जायते म्रियते वा विपश्चित्᳚ इत्य्-आदिना प्रत्यग्-आत्म-स्व-रूपं विशोध्य, ᳚अणोर् अणीयान्᳚, इत्य् आरभ्य, ᳚महा-अन्तं विभुम् आत्मानं मत्वा धीरो न शोचति᳚, ᳚न अयम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन / यम् एव एष वृणुते तेन लभ्यस् तस्य एष आत्मा विवृणुते तनूं स्वाम् // Bह्GR_३.᳚ इत्य्-आदिभिः पर-स्व-रूपं तद्-उपासनम् उपासनस्य च भक्ति-रूपतां प्रतिपाद्य, ᳚विज्ञान-सारथिर् यस् तु मनः-प्रग्रहवान् नरः / सो ऽध्वनः पारम् आप्नोति तद्-विष्णोः परमं पदम् // इति पर-विद्या-फलेन उपसंहृतम्
SK
अतः परम् अध्यायचतुष्टयेन इदम् एव प्राप्तुः प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्चयति --
SK
अतः परम् अध्याय-चतुष्टयेन इदम् एव प्राप्तुः प्रत्यग्-आत्मनो दर्शनं ससाधनं प्रपञ्चयति ---

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source