Rāmānuja's Commentary on the Bhagavadgītā Bhagavadgītābhāṣya
Bहगवद्गीताभाष्य
10.12cd SK पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् //
2 SK पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् //
10.13 SK आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा | असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||
4 SK आहुस् त्वाम् ऋषयः सर्वे देव-र्षिर् नारदस् तथा | असितो देवलो व्यासः स्वयं च एव ब्रवीषि मे ||
10.13 SK ऋषयश् च सर्वे परावरतत्त्वयाथात्म्यविदस् त्वाम् एव शाश्वतं दिव्यं पुरुषम् आदिदेवम् अजं विभुम् आहुः; तथैव देवर्षिर् नारदः असितः देवलः व्यासश् च / ᳚ये च देवविदो विप्रो ये चाध्यात्मविदो जनाः / ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् // पविताणां हि गोविन्दः पवित्रं परम् उच्यते / पुण्यानाम् अपि पुण्यो ऽसौ मङ्गलानां च मङ्गलम् / त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः / आस्ते हरिर् अचिन्त्यात्मा तत्रैव मधुसूदनः // Bह्GR_१.᳚, ᳚एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः / नागपर्यङ्कम् उत्सृज्य ह्य् आगतो मधुरां पुरीम् // Bह्GR_१.᳚, ᳚पुण्या द्वारवती तत्र यत्रास्ते मधुसूदहः / साक्षाद् देवः पुराणो ऽसौ स हि धर्मस् सनातनः᳚ / तथा, ᳚यत्र नारायणो देवः परमात्मा सनातनः / तत्र कृत्स्नं जगत् पार्थ तीर्थान्य् आयतनानि च // तत् पुण्यं तत् परं ब्रह्म तत् तीर्थं तत् तपोवनम् / तत्र देवर्षयस् सिद्धाः सर्वे चैव तपोधनाः // आदिदेवो महायोगी यत्रास्ते मधुसूदनः / पुण्यानाम् अपि तत् पुण्यं मा भूत् ते संशयो ऽत्र वै // Bह्GR_१.᳚, ᳚कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः / कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् // Bह्GR_१.᳚ इति / तथा स्वयम् एव ब्रवीषि च, ᳚भूमिर् अपो ऽनलो वायुः खं मनो बुधिर् एव च / अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा // इत्यादिना, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚ इत्यन्तेन //
6 SK ऋषयश् च सर्वे पर-अवर-तत्त्व-याथात्म्य-विदस् त्वाम् एव शाश्वतं दिव्यं पुरुषम् आदि-देवम् अजं विभुम् आहुः; तथ ऐव देव-र्षिर् नारदः असितः देवलः व्यासश् च / ᳚ये च देव-विदो विप्रो ये च अध्यात्म-विदो जनाः / ते वदन्ति महा-आत्मानं कृष्णं धर्मं सनातनम् // पविताणां हि गोविन्दः पवित्रं परम् उच्यते / पुण्यानाम् अपि पुण्यो ऽसौ मङ्गलानां च मङ्गलम् / त्रैलोक्यं पुण्डरीक-अक्षो देव-देवः सनातनः / आस्ते हरिर् अचिन्त्य-आत्मा तत्र एव मधु-सूदनः // Bह्GR_१.᳚, ᳚एष नारायणः श्रीमान् क्षीर-अर्णव-निकेतनः / नाग-पर्यङ्कम् उत्सृज्य ह्य् आगतो मधुरां पुरीम् // Bह्GR_१.᳚, ᳚पुण्या द्वारवती तत्र यत्रा अस्ते मधु-सूदहः / साक्षाद् देवः पुराणो ऽसौ स हि धर्मस् सनातनः᳚ / तथा, ᳚यत्र नारायणो देवः परम-आत्मा सनातनः / तत्र कृत्स्नं जगत् पार्थ तीर्थान्य् आयतनानि च // तत् पुण्यं तत् परं ब्रह्म तत् तीर्थं तत् तपो-वनम् / तत्र देव-र्षयस् सिद्धाः सर्वे च एव तपो-धनाः // आदि-देवो महा-योगी यत्रा अस्ते मधुसूदनः / पुण्यानाम् अपि तत् पुण्यं मा भूत् ते संशयो ऽत्र वै // Bह्GR_१.᳚, ᳚कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि च अप्ययः / कृष्णस्य हि कृते भूतम् इदं विश्वं चर-अचरम् // Bह्GR_१.᳚ इति / तथा स्वयम् एव ब्रवीषि च, ᳚भूमिर् अपो ऽनलो वायुः खं मनो बुधिर् एव च / अहंकार इति इयं मे भिन्ना प्रकृतिर् अष्टधा // इत्य्-आदिना, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚ इत्य्-अन्तेन //
10.14 SK सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव | न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ||
8 SK सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव | न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ||
10.14 SK अतः सर्वम् एतद् यथावस्थितवस्तुकथनं मन्ये, न प्रशंसाद्यभिप्रायम्; यन् मां प्रति अनन्यसाधारणम् अनवधिकातिशयं स्वाभाविकं तवाइश्वर्यं कल्याणगुणानन्त्यं च वदसि / अतो भगवन् निरतिशयज्ञानशक्तिबलाइश्वर्यवीर्यतेजसां निधे, ते व्यक्तिं व्यञ्जनप्रकारं न हि परिमितज्ञाना देवा दानवाश् च विदुः //
10 SK अतः सर्वम् एतद् यथा-अवस्थित-वस्तु-कथनं मन्ये, न प्रशंसा-आद्य्-अभिप्रायम्; यन् मां प्रति अनन्य-साधारणम् अनवधिक-अतिशयं स्वाभाविकं तव ऐश्वर्यं कल्याण-गुण-आनन्त्यं च वदसि / अतो भगवन् निरतिशय-ज्ञान-शक्ति-बल-ऐश्वर्य-वीर्य-तेजसां निधे, ते व्यक्तिं व्यञ्जन-प्रकारं न हि परिमित-ज्ञाना देवा दानवाश् च विदुः //
10.15 SK स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम | भूतभावन भूतेश देवदेव जगत्पते ||
12 SK स्वयम् एवा अत्मना आत्मानं वेत्थ त्वं पुरुष-उत्तम | भूत-भावन भूत-ईश देव-देव जगत्-पते ||
10.15 SK हे पुरुषोत्तम, आत्मना, आत्मानम् त्वां स्वयम् एव स्वेन ज्ञानेनैव वेत्थ / भूतभावन; सर्वेषां भूतानाम् उत्पादयितः, भूतेश सर्वेषां नियन्तः, देवदेव दैवतानाम् अपि परमदैवत, यथा मनुष्यमृगपक्षिसरीसृपादीन् सौन्दर्यसौशील्यादिकल्याणगुणगणैर् दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्य् अपि तैस् तैर् गुणैस् अतीत्य वर्तमान, जगत्पते जगत्स्वामिन् //
14 SK हे पुरुष-उत्तम, आत्मना, आत्मानम् त्वां स्वयम् एव स्वेन ज्ञानेन एव वेत्थ / भूत-भावन; सर्वेषां भूतानाम् उत्पादयितः, भूत-ईश सर्वेषां नियन्तः, देव-देव दैवतानाम् अपि परम-दैवत, यथा मनुष्य-मृग-पक्षि-सरीसृप-आदीन् सौन्दर्य-सौशील्य-आदि-कल्याण-गुण-गणैर् दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्य् अपि तैस् तैर् गुणैस् अतीत्य वर्तमान, जगत्-पते जगत्-स्वामिन् //
10.16 SK वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्मविभूतयः | याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ||
16 SK वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः | याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ||
10.16 SK दिव्याः त्वदसाधारण्यो विभूतयो याः, तास् त्वम् एवाशेषेण वक्तुम् अर्हसि / त्वम् एव व्यञ्जयेत्यर्थः / याभिर् अनन्ताभिर् विभूतिभिः -- यैर् नियमनविशेषैर् युक्तः इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि //
18 SK दिव्याः त्वद्-असाधारण्यो विभूतयो याः, तास् त्वम् एव अशेषेण वक्तुम् अर्हसि / त्वम् एव व्यञ्जय इत्य्-अर्थः / याभिर् अनन्ताभिर् विभूतिभिः --- यैर् नियमन-विशेषैर् युक्तः इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि //
10.17 SK कथं विद्याम् अहं योगी त्वां सदा परिचिन्तयन् | केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ||
20 SK कथं विद्याम् अहं योगी त्वां सदा परिचिन्तयन् | केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ||
10.17 SK अहं योगी -- भक्तियोगनिष्ठस् सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्तः चिन्तनीयं त्वां परिपूर्णाइश्वर्यादिकल्याणगुणगणं कथं विद्याम्? पूर्वोक्तबुद्धिज्ञानादिभावव्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्यो ऽसि? //
22 SK अहं योगी --- भक्ति-योग-निष्ठस् सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्तः चिन्तनीयं त्वां परिपूर्ण-ऐश्वर्य-आदि-कल्याण-गुण-गणं कथं विद्याम्? पूर्व-उक्त-बुद्धि-ज्ञान-आदि-भाव-व्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्यो ऽसि? //
10.18 SK विस्तरेणात्मनो योगं विभूतिं च जनार्दन | भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् ||
24 SK विस्तरेणा अत्मनो योगं विभूतिं च जन-अर्दन | भूयः कथय तृप्तिर् हि शृण्वतो न अस्ति मे ऽमृतम् ||
BhGR_p250591 SK ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚ इति संक्षेपेणोक्तं तव स्रष्टृत्वादियोगं विभूतिं नियमनं च भूयो विस्तरेण कथय / त्वयोच्यमानं त्वन्माहात्म्यामृतं शृण्वतो मे तृप्तिर् नास्ति; हि -- ममातृप्तिस् त्वयैव विदितेत्यभिप्रायः // Bह्GR_१०.१८ //
26 SK ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते᳚ इति संक्षेपेण उक्तं तव स्रष्टृत्व-आदि-योगं विभूतिं नियमनं च भूयो विस्तरेण कथय / त्वय ऊच्यमानं त्वन्-माहात्म्य-अमृतं शृण्वतो मे तृप्तिर् न अस्ति; हि --- मम अतृप्तिस् त्वय ऐव विदित ईत्य्-अभिप्रायः // Bह्GR_१०.१८ //
10.19 SK हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः | प्राधान्यतः कुरुश्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ||
28 SK हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः | प्राधान्यतः कुरु-श्रेष्ठ न अस्त्य् अन्तो विस्तरस्य मे ||
10.19 SK हे कुरुश्रेष्ठ! मदीयाः कल्याणीर् विभूतीः प्राधान्यतस् ते कथयिष्यामि / प्राधन्यशब्देन उत्कर्षो विवक्षितः; ᳚पुरोधसां च मुख्यं माम्᳚ इति हि वक्ष्यते / जगत्य् उत्कृष्टाः काश्चन विभूतीर् वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासाम् आनन्त्यात् / विभूतित्वं नाम नियाम्यत्वम्; सर्वेषां भूतानां बुद्ध्यादयः पृथग्विधा भावा मत्त एव भवन्तीत्य् उक्त्वा, ᳚एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः᳚ इति प्रतिपादनात् / तथा तत्र योगशब्दनिर्दिष्टं स्रष्टृत्वादिकं विभुतिशब्दनिर्दिष्टं तत्प्रवर्त्यत्वम् इति ह्य् उक्तं पुनश् च, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते / इति मत्वा भजन्ते मां बुधा भावसमन्विताः᳚ इति //
30 SK हे कुरु-श्रेष्ठ! मदीयाः कल्याणीर् विभूतीः प्राधान्यतस् ते कथयिष्यामि / प्राधन्य-शब्देन उत्कर्षो विवक्षितः; ᳚पुरोधसां च मुख्यं माम्᳚ इति हि वक्ष्यते / जगत्य् उत्कृष्टाः काश्चन विभूतीर् वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासाम् आनन्त्यात् / विभूतित्वं नाम नियाम्यत्वम्; सर्वेषां भूतानां बुद्ध्य्-आदयः पृथग्-विधा भावा मत्त एव भवन्ति इत्य् उक्त्वा, ᳚एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः᳚ इति प्रतिपादनात् / तथा तत्र योग-शब्द-निर्दिष्टं स्रष्टृत्व-आदिकं विभुति-शब्द-निर्दिष्टं तत्-प्रवर्त्यत्वम् इति ह्य् उक्तं पुनश् च, ᳚अहं सर्वस्य प्रभवो मत्तस् सर्वं प्रवर्तते / इति मत्वा भजन्ते मां बुधा भाव-समन्विताः᳚ इति //
BhGR_p251783 SK तत्र सर्वभूतानां प्रवर्तनरूपं नियमनम् आत्मतयावस्थायेतीमम् अर्थम्, योगशब्दनिर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं चेति सुस्पष्टम् आह --
32 SK तत्र सर्व-भूतानां प्रवर्तन-रूपं नियमनम् आत्मतय आवस्थाय इति इमम् अर्थम्, योग-शब्द-निर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं च इति सुस्पष्टम् आह ---
10.20 SK अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः | अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ||
34 SK अहम् आत्मा गुडाकेश सर्व-भूत-आशय-स्थितः | अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ||
10.20 SK सर्वेषां भूतानां मम शरीरभूतानाम् आशये हृदये अहम् आत्मतयावस्थितः / आत्मा हि नाम शरीरस्य सर्वात्मना आधारः, नियन्ता, शेषी च / तथा वक्ष्यते, ᳚सर्वस्य चाहं हृदि सन्निविष्टो मत्तस् स्मृतिर् ज्ञानम् अपोहनं च᳚, ᳚ईश्वरस् सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति / भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया // Bह्GR_१.᳚ इति / श्रूयते च, ᳚यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो ऽन्तरो यं सर्वाणि भूतानि न विदुः, यस्य सर्वाणि भूतानि शरीरं यस् सर्वाणि भूतान्य् अन्तरो यमयति, एष त आत्मान्तर्याम्य् अमृतः᳚ इति, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्मान्तर्याम्य् अमृतः᳚ इति च / एवं सर्वभूतानाम् आत्मतयावस्थितो ऽहं तेषाम् आदिर् मध्यं चान्तश् च -- तेषाम् उत्पत्तिस्थितिप्रलयहेतुर् इत्यर्थः //
36 SK सर्वेषां भूतानां मम शरीर-भूतानाम् आशये हृदये अहम् आत्मतय आवस्थितः / आत्मा हि नाम शरीरस्य सर्व-आत्मना आधारः, नियन्ता, शेषी च / तथा वक्ष्यते, ᳚सर्वस्य च अहं हृदि सन्निविष्टो मत्तस् स्मृतिर् ज्ञानम् अपोहनं च᳚, ᳚ईश्वरस् सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति / भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया // Bह्GR_१.᳚ इति / श्रूयते च, ᳚यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो ऽन्तरो यं सर्वाणि भूतानि न विदुः, यस्य सर्वाणि भूतानि शरीरं यस् सर्वाणि भूतान्य् अन्तरो यमयति, एष त आत्म आन्तर्याम्य् अमृतः᳚ इति, ᳚य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या अत्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्म आन्तर्याम्य् अमृतः᳚ इति च / एवं सर्व-भूतानाम् आत्मतय आवस्थितो ऽहं तेषाम् आदिर् मध्यं च अन्तश् च --- तेषाम् उत्पत्ति-स्थिति-प्रलय-हेतुर् इत्य्-अर्थः //
BhGR_p252955 SK एवं भगवतः स्वविभूतिभूतेषु सर्वेष्व् आत्मतयावस्थानं तत्तच्छब्दसामानाधिकरण्यनिर्देशहेतुं प्रतिपाद्य विभूतिविशेषान् सामानाधिकरण्येन व्यपदिशति / भगवत्य् आत्मतयावस्थिते हि सर्वे शब्दास् तस्मिन्न् एव पर्यवस्यन्ति; यथा देवो मनुष्यः पक्षी वृक्षः इत्यादयः शब्दाः शरीराणि प्रतिपादयन्तस् तत्तदात्मनि पर्यवस्यन्ति / भगवतस् तत्तदात्मतयावस्थानम् एव तत्तच्छब्दसामानाधिकरण्यनिबन्धनम् इति विभूत्युपसंहारे वक्ष्यति; ᳚न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्᳚ इति सर्वेषां स्वेनाविनाभाववचनात् / अविनाभावश् च नियाम्यतयेति; ᳚मत्तस् सर्वं प्रवर्तते᳚ इत्य् उपक्रमोदितम् /
38 SK एवं भगवतः स्व-विभूति-भूतेषु सर्वेष्व् आत्मतय आवस्थानं तत्-तच्-छब्द-सामानाधिकरण्य-निर्देश-हेतुं प्रतिपाद्य विभूति-विशेषान् सामानाधिकरण्येन व्यपदिशति / भगवत्य् आत्मतय आवस्थिते हि सर्वे शब्दास् तस्मिन्न् एव पर्यवस्यन्ति; यथा देवो मनुष्यः पक्षी वृक्षः इत्य्-आदयः शब्दाः शरीराणि प्रतिपादयन्तस् तत्-तद्-आत्मनि पर्यवस्यन्ति / भगवतस् तत्-तद्-आत्मतय आवस्थानम् एव तत्-तच्-छब्द-सामानाधिकरण्य-निबन्धनम् इति विभूत्य्-उपसंहारे वक्ष्यति; ᳚न तद् अस्ति विना यत् स्यान् मया भूतं चर-अचरम्᳚ इति सर्वेषां स्वेन अविनाभाव-वचनात् / अविनाभावश् च नियाम्यतय ईति; ᳚मत्तस् सर्वं प्रवर्तते᳚ इत्य् उपक्रम-उदितम् /
10.21 SK आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् | मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ||
40 SK आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् | मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ||
10.21 SK द्वादशसंख्यासंख्यातानाम् आदित्यानां द्वादशो य उत्कृष्टो विष्णुर् नामादित्यः, सो ऽहम् / ज्योतिषां जगति प्रकाशकानां यः अंशुमान् रविः आदित्यगणः, सो ऽहम् / मरुताम् उत्कृष्टो मरीचिर् यः, सो ऽहम् अस्मि / नक्षत्राणाम् अहं शशी / नेयं निर्धारणे षष्ठी, ᳚भूतानाम् अस्मि चेतना᳚ इतिवत् / नक्षत्राणां पतिर् यश् चन्द्रः, सो ऽहम् अस्मि //
42 SK द्वादश-संख्या-संख्यातानाम् आदित्यानां द्वादशो य उत्कृष्टो विष्णुर् नामा अदित्यः, सो ऽहम् / ज्योतिषां जगति प्रकाशकानां यः अंशुमान् रविः आदित्य-गणः, सो ऽहम् / मरुताम् उत्कृष्टो मरीचिर् यः, सो ऽहम् अस्मि / नक्षत्राणाम् अहं शशी / न इयं निर्धारणे षष्ठी, ᳚भूतानाम् अस्मि चेतना᳚ इतिवत् / नक्षत्राणां पतिर् यश् चन्द्रः, सो ऽहम् अस्मि //
10.22 SK वेदानां सामवेदो ऽस्मि देवानाम् अस्मि वासवः | इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना ||
44 SK वेदानां साम-वेदो ऽस्मि देवानाम् अस्मि वासवः | इन्द्रियाणां मनश् च अस्मि भूतानाम् अस्मि चेतना ||
10.22 SK वेदानाम् ऋग्यजुस्सामाथर्वणां य उत्कृष्टः सामवेदः, सो ऽहम् / देवानाम् इन्द्रो ऽहम् अस्मि / एकादशानाम् इन्द्रियाणां यद् उत्कृष्टं मन इन्द्रियम्, तद् अहम् अस्मि / इयम् अपि न निर्धारणे / भूतानां चेतनावतां या चेतना, सो ऽहम् अस्मि //
46 SK वेदानाम् ऋग्-यजुस्-साम-अथर्वणां य उत्कृष्टः साम-वेदः, सो ऽहम् / देवानाम् इन्द्रो ऽहम् अस्मि / एकादशानाम् इन्द्रियाणां यद् उत्कृष्टं मन इन्द्रियम्, तद् अहम् अस्मि / इयम् अपि न निर्धारणे / भूतानां चेतनावतां या चेतना, सो ऽहम् अस्मि //
10.23 SK रुद्राणां शङ्करश् चास्मि वित्तेशो यक्षरक्षसाम् | वसूनां पावकश् चास्मि मेरुः शिखरिणाम् अहम् ||
48 SK रुद्राणां शङ्करश् च अस्मि वित्त-ईशो यक्ष-रक्षसाम् | वसूनां पावकश् च अस्मि मेरुः शिखरिणाम् अहम् ||
10.23 SK रुद्राणाम् एकादशानां शङ्करो ऽहम् अस्मि / यक्षरक्षसां वैश्रवणो ऽहम् / वसूनाम् अष्टानां पावको ऽहम् / शिखरिणां शिखरशोभिनां पर्वतानां मध्ये मेरुर् अहम् //
50 SK रुद्राणाम् एकादशानां शङ्करो ऽहम् अस्मि / यक्ष-रक्षसां वैश्रवणो ऽहम् / वसूनाम् अष्टानां पावको ऽहम् / शिखरिणां शिखर-शोभिनां पर्वतानां मध्ये मेरुर् अहम् //
10.24 SK पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् | सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ||
52 SK पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् | सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ||
10.24 SK पुरोधसाम् उत्कृष्टो बृहस्पतिर् यः, सो ऽहम् अस्मि, सेनानीनां सेनापतीनां स्कन्दो ऽहम् अस्मि / सरसां सागरो ऽहम् अस्मि //
54 SK पुरोधसाम् उत्कृष्टो बृहस्पतिर् यः, सो ऽहम् अस्मि, सेनानीनां सेना-पतीनां स्कन्दो ऽहम् अस्मि / सरसां सागरो ऽहम् अस्मि //
10.25 SK महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् | यज्ञानां जपयज्ञो ऽस्मि स्थावराणां हिमालयः ||
56 SK मह-र्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् | यज्ञानां जप-यज्ञो ऽस्मि स्थावराणां हिमालयः ||
10.25 SK महर्षीणां मरीच्यादीनां भृगुर् अहम् / अर्थाभिधायिनः शब्दा गिरः, तासाम् एकम् अक्षरं प्रणवो ऽहम् अस्मि / यज्ञानाम् उत्कृष्टो जपयज्ञो ऽस्मि / पूर्वमात्राणां हिमवान् अहम् //
58 SK मह-र्षीणां मरीच्य्-आदीनां भृगुर् अहम् / अर्थ-अभिधायिनः शब्दा गिरः, तासाम् एकम् अक्षरं प्रणवो ऽहम् अस्मि / यज्ञानाम् उत्कृष्टो जप-यज्ञो ऽस्मि / पूर्व-मात्राणां हिमवान् अहम् //
10.26 SK अश्वत्थस् सर्ववृक्षाणां देवर्षीणां च नारदः | गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||
60 SK अश्वत्थस् सर्व-वृक्षाणां देव-र्षीणां च नारदः | गन्धर्वाणां चित्र-रथः सिद्धानां कपिलो मुनिः ||
10.27 SK उच्चैश्श्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् | ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||
62 SK उच्चैश्श्रवसम् अश्वानां विद्धि माम् अमृत-उद्भवम् | ऐरावतं गज-इन्द्राणां नराणां च नर-अधिपम् ||
10.28 SK आयुधानाम् अहं वज्रं धेनूनाम् अस्मि कामधुक् | प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ||
64 SK आयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम-धुक् | प्रजनश् च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ||
10.29 SK अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् | पित्Qणाम् अर्यमा चास्मि यमः संयमताम् अहम् ||
66 SK अनन्तश् च अस्मि नागानां वरुणो यादसाम् अहम् | पित्Qणाम् अर्यमा च अस्मि यमः संयमताम् अहम् ||
BhGR_10.26-29 SK वृक्षाणां पूज्यो ऽश्वत्थो ऽहम् / देवर्षीणं नारदो ऽहम् / कामधुक् दिव्या सुरभिः / जननहेतुः कन्दर्पश् चाहम् अस्मि / सर्पाः एकाशिरसः; नागाः बहुशिरसः / यादांसि जलवासिनः, तेषां वरुणो ऽहम् / दण्डयतां वैवस्वतो ऽहम् //
68 SK वृक्षाणां पूज्यो ऽश्वत्थो ऽहम् / देव-र्षीणं नारदो ऽहम् / काम-धुक् दिव्या सुरभिः / जनन-हेतुः कन्दर्पश् च अहम् अस्मि / सर्पाः एकाशिरसः; नागाः बहु-शिरसः / यादांसि जल-वासिनः, तेषां वरुणो ऽहम् / दण्डयतां वैवस्वतो ऽहम् //
10.30 SK प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् | मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम् ||
70 SK प्रह्लादश् च अस्मि दैत्यानां कालः कलयताम् अहम् | मृगाणां च मृग-इन्द्रो ऽहं वैनतेयश् च पक्षिणाम् ||
10.30 SK अनर्थप्रेप्सुतया गणयतां मध्ये कालः मृत्युर् अहम् //
72 SK अनर्थ-प्रेप्सुतया गणयतां मध्ये कालः मृत्युर् अहम् //
10.31 SK पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् | झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी ||
74 SK पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् | झषाणां मकरश् च अस्मि स्रोतसाम् अस्मि जाह्नवी ||
10.31 SK पवताम् गमनस्वभावानां पवनो ऽहम् / शस्त्रभृतां रामो ऽहम् / शस्त्रभृत्त्वम् अत्र विभूतिः, अर्थान्तराभावात् / आदित्यादयश् च क्षेत्रज्ञा आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्मभूता इति शस्त्रभृत्त्वस्थानीयाः //
76 SK पवताम् गमन-स्व-भावानां पवनो ऽहम् / शस्त्र-भृतां रामो ऽहम् / शस्त्र-भृत्त्वम् अत्र विभूतिः, अर्थ-अन्तर-अभावात् / आदित्य-आदयश् च क्षेत्र-ज्ञा आत्मत्वेन अवस्थितस्य भगवतः शरीरतया धर्म-भूता इति शस्त्र-भृत्त्व-स्थानीयाः //
10.32 SK सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन | अध्यात्मविद्या विद्यानां वादः प्रवदताम् अहम् ||
78 SK सर्गाणाम् आदिर् अन्तश् च मध्यं च एव अहम् अर्जुन | अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम् ||
10.32 SK सृज्यन्त इति सर्गाः, तेषाम् आदिः कारणम्; सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारो ऽहम् एवेत्यर्थः / तथा अन्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारो ऽप्य् अहम् एव / तथा च मध्यं पालनम्; सर्वदा पाल्यमानानां पालयितारश् चाहम् एवेत्यर्थः / जल्पवितण्डादि कुर्वतां तत्त्वनिर्णयाय प्रवृत्तो वादो यः, सो ऽहम् //
80 SK सृज्यन्त इति सर्गाः, तेषाम् आदिः कारणम्; सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारो ऽहम् एव इत्य्-अर्थः / तथा अन्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारो ऽप्य् अहम् एव / तथा च मध्यं पालनम्; सर्वदा पाल्यमानानां पालयितारश् च अहम् एव इत्य्-अर्थः / जल्प-वितण्डा-आदि कुर्वतां तत्त्व-निर्णयाय प्रवृत्तो वादो यः, सो ऽहम् //
10.33 SK अक्षराणाम् अकारो ऽस्मि द्वन्द्वस् सामासिकस्य च | अहम् एव अक्षयः कालः धाताहं विश्वतोमुखः ||
82 SK अक्षराणाम् अकारो ऽस्मि द्वन्द्वस् सामासिकस्य च | अहम् एव अक्षयः कालः धात आहं विश्वतो-मुखः ||
10.33 SK अक्षराणां मध्ये ᳚अकारो वै सर्वा वाक्᳚ इति श्रुतिसिद्धिः सर्ववर्णानां प्रकृतिर् अकारो ऽहम् सामासिकः समाससमूहः; तस्य मध्ये द्वन्द्वसमासो ऽहम् / स ह्य् उभयपदार्थप्रधानत्वेनोत्कृष्टः / कलामुहूर्तादिमयो ऽक्षयः कालो ऽहम् एव / सर्वस्य स्रष्टा हिरण्यगर्भश् चतुर्मुखो ऽहम् //
84 SK अक्षराणां मध्ये ᳚अकारो वै सर्वा वाक्᳚ इति श्रुति-सिद्धिः सर्व-वर्णानां प्रकृतिर् अकारो ऽहम् सामासिकः समास-समूहः; तस्य मध्ये द्वन्द्व-समासो ऽहम् / स ह्य् उभय-पद-अर्थ-प्रधानत्वेन उत्कृष्टः / कला-मुहूर्त-आदि-मयो ऽक्षयः कालो ऽहम् एव / सर्वस्य स्रष्टा हिरण्य-गर्भश् चतुर्-मुखो ऽहम् //
10.34 SK मृत्युस् सर्वहरश् चाहम् उद्भवश् च भविष्यताम् | कीर्तिश् श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ||
86 SK मृत्युस् सर्व-हरश् च अहम् उद्भवश् च भविष्यताम् | कीर्तिश् श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ||
10.34 SK सर्वप्राणहरो मृत्युश् चाहम् / उत्पत्स्यमानानाम् उद्भवाख्यं कर्म चाहम् / श्रीर् अहम्; कीर्तिश् चाहम्; वाक् चाहम्; स्मृतिश् चाहम्; मेधा चाहम्; धृतिश् चाहम्; क्षमा चाहम् //
88 SK सर्व-प्राण-हरो मृत्युश् च अहम् / उत्पत्स्यमानानाम् उद्भव-आख्यं कर्म च अहम् / श्रीर् अहम्; कीर्तिश् च अहम्; वाक् च अहम्; स्मृतिश् च अहम्; मेधा च अहम्; धृतिश् च अहम्; क्षमा च अहम् //
10.35 SK बृहत्साम तथा साम्नां गायत्री छन्दसाम् अहम् | मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः ||
90 SK बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् | मासानां मार्ग-शीर्षो ऽहम् ऋतूनां कुसुम-आकरः ||
10.35 SK साम्नां बृहत्साम अहम् / छन्दसां गायत्र्य् अहम् / कुसुमाकरः वसन्तः //
92 SK साम्नां बृहत्-साम अहम् / छन्दसां गायत्र्य् अहम् / कुसुम-आकरः वसन्तः //
10.36 SK द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् | जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ||
94 SK द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् | जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ||
10.36 SK छलं कुर्वतां छलास्पदेष्व् अक्षादिलक्षणं द्युतम् अहम् / जेत्Qणां जयो ऽस्मि / व्यवसायिनां व्यवसायो ऽस्मि / सत्त्ववतां सत्त्वम् अहम् / सत्त्वम् महामनस्त्वम् //
96 SK छलं कुर्वतां छल-आस्पदेष्व् अक्ष-आदि-लक्षणं द्युतम् अहम् / जेत्Qणां जयो ऽस्मि / व्यवसायिनां व्यवसायो ऽस्मि / सत्त्ववतां सत्त्वम् अहम् / सत्त्वम् महा-मनस्त्वम् //
10.37 SK वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनञ्जयः | मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ||
98 SK वृष्णीनां वासु-देवो ऽस्मि पाण्डवानां धनञ्-जयः | मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ||
10.37 SK वसुदेवसूनुत्वम् अत्र विभूतिः, अर्थान्तराभावाद् एव / पाण्डवानां धनञ्जयो ऽर्जुनो ऽहम् / मुनयः मननेनात्मयाथात्म्यदर्शिनः; तेषां व्यासो ऽहम् / कवयः विपश्चितः //
100 SK वसु-देव-सूनुत्वम् अत्र विभूतिः, अर्थ-अन्तर-अभावाद् एव / पाण्डवानां धनञ्-जयो ऽर्जुनो ऽहम् / मुनयः मननेना अत्म-याथात्म्य-दर्शिनः; तेषां व्यासो ऽहम् / कवयः विपश्चितः //
10.38 SK दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् | मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ||
102 SK दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् | मौनं च एव अस्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ||
10.38 SK नियमातिक्रमणे दण्डं कुर्वतां दण्डो ऽहम् / विजिगीषूणां जयोपायभूता नीतिर् अस्मि / गुह्यानां संबन्धिषु गोपानेषु मौनम् अस्मि / ज्ञानवतां ज्ञानं चाहम् //
104 SK नियम-अतिक्रमणे दण्डं कुर्वतां दण्डो ऽहम् / विजिगीषूणां जय-उपाय-भूता नीतिर् अस्मि / गुह्यानां संबन्धिषु गोपानेषु मौनम् अस्मि / ज्ञानवतां ज्ञानं च अहम् //
10.39 SK यच् चापि सर्वभूतानां बीजं तद् अहम् अर्जुन | न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् ||
106 SK यच् च अपि सर्व-भूतानां बीजं तद् अहम् अर्जुन | न तद् अस्ति विना यत् स्यान् मया भूतं चर-अचरम् ||
10.39 SK सर्वभूतानां सर्वावस्थावस्थितानाम् तत्तदवस्थाबीजभूतं प्रतीयमानम् अप्रतीयमानं च यत्, तद् अहम् एव / भूतजातं मया आत्मतयावस्थितेन विना यत् स्यात्, न तद् अस्ति / ᳚अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः᳚ इति प्रक्रमात्, ᳚न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्᳚ इत्य् अत्राप्य् आत्मतयावस्थानम् एव विवक्षितम् / सर्वं वस्तुजातं सर्वावस्थं मया आत्मभूतेन युक्तं स्याद् इत्यर्थः / अनेन सर्वस्यास्य सामानाधिकरण्यनिर्देशस्यात्मतयावस्थितिर् एव हेतुर् इति प्रकटितम् //
108 SK सर्व-भूतानां सर्व-अवस्था-अवस्थितानाम् तत्-तद्-अवस्था-बीज-भूतं प्रतीयमानम् अप्रतीयमानं च यत्, तद् अहम् एव / भूत-जातं मया आत्मतय आवस्थितेन विना यत् स्यात्, न तद् अस्ति / ᳚अहम् आत्मा गुडाकेश सर्व-भूत-आशय-स्थितः᳚ इति प्रक्रमात्, ᳚न तद् अस्ति विना यत् स्यान् मया भूतं चर-अचरम्᳚ इत्य् अत्र अप्य् आत्मतय आवस्थानम् एव विवक्षितम् / सर्वं वस्तु-जातं सर्व-अवस्थं मया आत्म-भूतेन युक्तं स्याद् इत्य्-अर्थः / अनेन सर्वस्य अस्य सामानाधिकरण्य-निर्देशस्या अत्मतय आवस्थितिर् एव हेतुर् इति प्रकटितम् //
10.40 SK नान्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप | एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ||
110 SK न अन्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप | एष तु उद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ||
1.40 SK मम दिव्यानां कल्याणीनां विभूतीनाम् अन्तो नास्ति; एष तु विभूतेर् विस्तरो मया कैश्चिद् उपाधिभिः संक्षेपतः प्रोक्तः //
112 SK मम दिव्यानां कल्याणीनां विभूतीनाम् अन्तो न अस्ति; एष तु विभूतेर् विस्तरो मया कैश्चिद् उपाधिभिः संक्षेपतः प्रोक्तः //
10.41 SK यद् यद् विभूतिमत् सत्त्वं श्रीमद् उर्जितम् एव वा | तत् तद् एवावगच्छ त्वं मम तेजोऽंशसंभवम् ||
114 SK यद् यद् विभूतिमत् सत्त्वं श्रीमद् उर्जितम् एव वा | तत् तद् एव अवगच्छ त्वं मम तेजो-ऽंश-संभवम् ||
10.41 SK यद् यद् विभूतिमद् इशितव्यसंपन्नं भूतजातं श्रीमत् कान्तिमत्, धनधान्यसमृद्धं वा, ऊर्जितं कल्याणारम्भेषु उद्युक्तम्; तत् तन् मम तेजोऽंशसंभवम् इत्य् अवगच्छ / तेजः पराभिभवनसामर्थ्यम्, ममाचिन्त्यशक्तेर् नियमनशक्त्येकदेशसंभवतीत्यर्थः //
116 SK यद् यद् विभूतिमद् इशितव्य-संपन्नं भूत-जातं श्रीमत् कान्तिमत्, धन-धान्य-समृद्धं वा, ऊर्जितं कल्याण-आरम्भेषु उद्युक्तम्; तत् तन् मम तेजो-ऽंश-संभवम् इत्य् अवगच्छ / तेजः पर-अभिभवन-सामर्थ्यम्, मम अचिन्त्य-शक्तेर् नियमन-शक्त्य्-एक-देश-संभवति इत्य्-अर्थः //
10.42 SK अथ वा बहुनैतेन किं ज्ञानेन तवार्जुन | विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ||
118 SK अथ वा बहुन ऐतेन किं ज्ञानेन तव अर्जुन | विष्टभ्य अहम् इदं कृत्स्नम् एक-अंशेन स्थितो जगत् ||
10.42 SK बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् /इदं चिदचिदात्मकं कृत्स्नं जगत् कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूपसद्भावे, स्थितौ, प्रवृत्तिभेदे च यथा मत्सङ्कल्पं नातिवर्तेत, तथा मम महिम्नो ऽयुतायुतांशेन विष्टभ्याहम् अवस्थितः / यथोक्तं भगवता पराशरेण, ᳚यस्यायुतायुतांशांशे विश्वशक्तिर् इयं स्थिता᳚ इति //
120 SK बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् /इदं चिद्-अचिद्-आत्मकं कृत्स्नं जगत् कार्य-अवस्थं कारण-अवस्थं स्थूलं सूक्ष्मं च स्व-रूप-सद्-भावे, स्थितौ, प्रवृत्ति-भेदे च यथा मत्-सङ्कल्पं न अतिवर्तेत, तथा मम महिम्नो ऽयुत-अयुत-अंशेन विष्टभ्य अहम् अवस्थितः / यथा-उक्तं भगवता पराशरेण, ᳚यस्य अयुत-अयुत-अंश-अंशे विश्व-शक्तिर् इयं स्थिता᳚ इति //
BhGR_p261656 SK एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवतः सर्वात्मत्वं तत एव तद्व्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं चोक्तम् / तम् एतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशाद् उपश्रुत्य एवम् एवेति नित्यश् च तथाभूतं भगवन्तं साक्षात्कर्तुकामो ऽर्जुन उवाच / तथैव भगवत्प्रसादाद् अनन्तरं द्रक्ष्यति / ᳚सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ... तत्रैकस्थं जगत् कृत्स्नं प्रतिभक्तम् अनेकधाः᳚ इति हि वक्ष्यते /
122 SK एवं भक्ति-योग-निष्पत्तये तद्-विवृद्धये च सकल-इतर-विलक्षणेन स्वाभाविकेन भगवद्-असाधारणेन कल्याण-गुण-गणेन सह भगवतः सर्व-आत्मत्वं तत एव तद्-व्यतिरिक्तस्य कृत्स्नस्य चिद्-अचिद्-आत्मकस्य वस्तु-जातस्य तच्-छरीरतया तद्-आयत्त-स्व-रूप-स्थिति-प्रवृत्तित्वं च उक्तम् / तम् एतं भगवद्-असाधारणं स्व-भावं कृत्स्नस्य तद्-आयत्त-स्व-रूप-स्थिति-प्रवृत्तितां च भगवत्-सकाशाद् उपश्रुत्य एवम् एव इति नित्यश् च तथा-भूतं भगवन्तं साक्षात्-कर्तु-कामो ऽर्जुन उवाच / तथ ऐव भगवत्-प्रसादाद् अनन्तरं द्रक्ष्यति / ᳚सर्व-आश्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ... तत्र एक-स्थं जगत् कृत्स्नं प्रतिभक्तम् अनेकधाः᳚ इति हि वक्ष्यते /
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).
Source