Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 4

SK
इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् | विवस्वान् मनवे प्राह मनुर् ईक्षवाकवे ऽब्रवीत् ||
SK
इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् | विवस्वान् मनवे प्राह मनुर् ईक्षवाकवे ऽब्रवीत् ||
SK
एवं परम्पराप्राप्तम् इमं राजर्षयो ऽविदुः | स कालेनेह महता योगो नष्टः परन्तप ||
SK
एवं परम्परा-प्राप्तम् इमं राजर्षयो ऽविदुः | स कालेन इह महता योगो नष्टः परन्-तप ||
SK
स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः | भक्तो ऽस्ति मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ||
SK
स एव अयं मया ते ऽद्य योगः प्रोक्तः पुरा-तनः | भक्तो ऽस्ति मे सखा च इति रहस्यं ह्य् एतद् उत्तमम् ||
SK
यो ऽयं तवोदितो योगः स केवलं युद्धप्रोत्साहनायेदानीम् उदित इति न मन्तव्यम् / मन्वन्तरादाव् एव निखिलजगदुद्धरणाय परमपुरुषार्थलक्षणमोक्षसाधनतया इमं योगम् अहम् एव विवस्वते प्रोक्तवान्, विवस्वांश् च मनवे, मनुर् इक्ष्वकवे / इत्य् एवं संप्रदायपरम्परया प्राप्तम् इमं योगं पूर्वे राजर्षयो ऽविदुः / स महता कालेन तत्तच्छ्रोतृबुद्धिमान्द्याद् विनष्टप्रायो ऽभूत् / स एवायम् अस्खलितस्वरूपः पुरातनो योगः सख्येनातिमात्रभक्त्या च माम् एव प्रपन्नाय ते मया प्रोक्तः -- सपरिकरस् सविस्तरम् उक्त इत्यर्थः / मदन्येन केनापि ज्ञातुं वक्तुं चाशक्यम्, यत इदं वेदान्तोदितम् उत्तमं रहस्यं ज्ञानम् //
SK
यो ऽयं तव उदितो योगः स केवलं युद्ध-प्रोत्साहनाय इदानीम् उदित इति न मन्तव्यम् / मन्व्-अन्तर-आदाव् एव निखिल-जगद्-उद्धरणाय परम-पुरुष-अर्थ-लक्षण-मोक्ष-साधनतया इमं योगम् अहम् एव विवस्वते प्रोक्तवान्, विवस्वांश् च मनवे, मनुर् इक्ष्वकवे / इत्य् एवं संप्रदाय-परम्परया प्राप्तम् इमं योगं पूर्वे राज-र्षयो ऽविदुः / स महता कालेन तत्-तच्-छ्रोतृ-बुद्धि-मान्द्याद् विनष्ट-प्रायो ऽभूत् / स एव अयम् अस्खलित-स्व-रूपः पुरा-तनो योगः सख्येन अतिमात्र-भक्त्या च माम् एव प्रपन्नाय ते मया प्रोक्तः --- सपरिकरस् सविस्तरम् उक्त इत्य्-अर्थः / मद्-अन्येन केन अपि ज्ञातुं वक्तुं च अशक्यम्, यत इदं वेद-अन्त-उदितम् उत्तमं रहस्यं ज्ञानम् //
SK
अवरं भवतो जन्म परं जन्म विवस्वतः | कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ||
SK
अवरं भवतो जन्म परं जन्म विवस्वतः | कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ||
SK
कालसङ्ख्यया अवरम् अस्मज्जन्मसमकालं हि भवतो जन्म / विवस्वतश् च जन्म कालसङ्ख्यया परम् -- अष्टाविंशतिचतुर्युगसङ्ख्यासङ्ख्यातम् / त्वम् एवादौ प्रोक्तवान् इति कथम् एतद् असंभावनीयं यथार्थं जानीयाम् ? ननु जन्मान्तरेणापि वक्तुं शक्यम्, जन्मान्तरकृतस्य महतां स्मृतिश् च युज्यत इति नात्र कश्चिद् विरोधः / न चासौ वक्तारम् एनं वसुदेवतनयं सर्वेश्वरं न जानाति, यत एवं वक्ष्यति, ᳚परं ब्रह्म परं धाम पवित्रं परमं भवान् / पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् // आहुस् त्वाम् ऋषयस् सर्वे देवर्षिर् नारदस् तथा / असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे᳚ इति / युधिष्ठिरराजसूयादिषु भीष्मादिभ्यश् चासकृच्छ्रुतम्, ᳚कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः / कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम्᳚ इत्येवमादिषु / कृष्णस्य हि कृते इति, कृष्णस्य शेषभूतम् इदं कृत्स्नं जगद् इत्यर्थः // अत्रोच्यते जानात्य् एवायं भगवन्तं वसुदेवसूनं पार्थः / जानतो ऽप्य् अजानत इव पृच्छतो ऽयम् आशयः -- निखिलहेयप्रत्यनीककल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्यसङ्कल्पस्यावाप्तसमस्तकामस्य कर्मपरवशदेवमनुष्यादिसजातीयं जन्म किम् इन्द्रजालादिवन् मिथ्या, उत सत्यम्? सत्यत्वे च कथं जन्मप्रकारः? किम् आत्मको ऽयं देहः? कश् च जन्महेतुः? कदा च जन्म? किम् अर्थं च जन्मेति / परिहारप्रकारेण प्रश्नार्थो विज्ञायते //
SK
काल-सङ्ख्यया अवरम् अस्मज्-जन्म-सम-कालं हि भवतो जन्म / विवस्वतश् च जन्म काल-सङ्ख्यया परम् --- अष्टा-विंशति-चतुर्-युग-सङ्ख्या-सङ्ख्यातम् / त्वम् एवा अदौ प्रोक्तवान् इति कथम् एतद् असंभावनीयं यथा-अर्थं जानीयाम् ? ननु जन्म-अन्तरेण अपि वक्तुं शक्यम्, जन्म-अन्तर-कृतस्य महतां स्मृतिश् च युज्यत इति न अत्र कश्चिद् विरोधः / न च असौ वक्तारम् एनं वसु-देव-तनयं सर्व-ईश्वरं न जानाति, यत एवं वक्ष्यति, ᳚परं ब्रह्म परं धाम पवित्रं परमं भवान् / पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् // आहुस् त्वाम् ऋषयस् सर्वे देव-र्षिर् नारदस् तथा / असितो देवलो व्यासः स्वयं च एव ब्रवीषि मे᳚ इति / युधिष्ठिर-राज-सूय-आदिषु भीष्म-आदिभ्यश् च असकृच्-छ्रुतम्, ᳚कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि च अप्ययः / कृष्णस्य हि कृते भूतम् इदं विश्वं चर-अचरम्᳚ इत्य्-एवम्-आदिषु / कृष्णस्य हि कृते इति, कृष्णस्य शेष-भूतम् इदं कृत्स्नं जगद् इत्य्-अर्थः // अत्र उच्यते जानात्य् एव अयं भगवन्तं वसु-देव-सूनं पार्थः / जानतो ऽप्य् अजानत इव पृच्छतो ऽयम् आशयः --- निखिल-हेय-प्रत्यनीक-कल्याण-एक-तानस्य सर्व-ईश्वरस्य सर्व-ज्ञस्य सत्य-सङ्कल्पस्य अवाप्त-समस्त-कामस्य कर्म-पर-वश-देव-मनुष्य-आदि-सजातीयं जन्म किम् इन्द्र-जाल-आदिवन् मिथ्या, उत सत्यम्? सत्यत्वे च कथं जन्म-प्रकारः? किम् आत्मको ऽयं देहः? कश् च जन्म-हेतुः? कदा च जन्म? किम् अर्थं च जन्म इति / परिहार-प्रकारेण प्रश्न-अर्थो विज्ञायते //
SK
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ||
SK
बहूनि मे व्यतीतानि जन्मानि तव चा अर्जुन | तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्-तप ||
SK
अनेन जन्मनस् सत्यत्वम् उक्तम्, बहूनि मे व्यतीतानि जन्मानीति वचनात्, तव चेति दृष्टान्ततयोपादानाच् च //
SK
अनेन जन्मनस् सत्यत्वम् उक्तम्, बहूनि मे व्यतीतानि जन्मानि इति वचनात्, तव च इति दृष्टान्ततय ऊपादानाच् च //
SK
अवतारप्रकारम्, देहयाथात्म्यम्, जन्महेतुं चाह --
SK
अवतार-प्रकारम्, देह-याथात्म्यम्, जन्म-हेतुं चा अह ---
SK
अजो ऽपि सन् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् | प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्ममायया ||
SK
अजो ऽपि सन् अव्यय-आत्मा भूतानाम् ईश्वरो ऽपि सन् | प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ||
SK
अजत्वाव्ययत्वसर्वेश्वरत्वादि सर्वं पारमेश्वरं प्रकारम् अजहद् एव स्वां प्रकृतिम् अधिष्ठाय आत्ममायया संभवामि / प्रकृतिः -- स्वभावः स्वम् एव स्वभावम् अधिष्ठाय स्वेनैव रूपेण स्वेच्छया संभवामीत्यर्थः / स्वस्वरूपं हि, ᳚आदित्यवर्णं तमसः परस्तात्᳚, ᳚क्षयन्तम् अस्य रजसः पराके᳚, ᳚य एषो ऽन्तरादित्ये हिरण्यमयः पुरुषः᳚, ᳚तस्मिन्न् अयं पुरुषो मनोमयः; अमृतो हिरण्मयः᳚, ᳚सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि᳚ , ᳚भारूपस् सत्यसङ्कल्प आकाशात्मा सर्वकामा सर्वकामस् सर्वगन्धस् सर्वरसः᳚, ᳚माहारजनं वासः᳚ इत्यादिश्रुतिसिद्धम् / आत्ममायया -- आत्मीयया मायया / ᳚माया वयुनं ज्ञानम्᳚ इति ज्ञानपर्यायो ऽत्र मायाशब्दः / तथा चाभियुक्तप्रयोगः, ᳚मायया सततं वेत्ति प्राणिनां च शुभाशुभम्᳚ इति / आत्मीयेन ज्ञानेन आत्मसङ्कल्पेनेत्यर्थः / अतो ऽपहतपाप्मत्वादिसमस्तकल्याणगुणात्मकत्वं सर्वम् ऐशं स्वभावम् अजहत् स्वम् एव रूपं देवमनुष्यादिसजातीयसंस्थानं कुर्वन् आत्मसङ्कल्पेन देवादिरूपः संभवामि / तद् इदम् आह, ᳚अजायमानो बहुधा विजायते᳚ इति श्रुतिः / इतरपुरुषसाधारणं जन्म अकुर्वन् देवादिरूपेण स्वसङ्कल्पेनोक्तप्रक्रियया जायत इत्यर्थः / ᳚बहूनि मे व्यतीतानि जन्मानि तव चार्जुन / तान्य् अहं वेद सर्वाणि᳚, ᳚तदात्मानं सृजाम्य् अहम्᳚ ᳚जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः᳚ इति पूर्वापराविरोधाच् च // जन्मकालम् आह -
SK
अजत्व-अव्ययत्व-सर्व-ईश्वरत्व-अदि सर्वं पारमेश्वरं प्रकारम् अजहद् एव स्वां प्रकृतिम् अधिष्ठाय आत्म-मायया संभवामि / प्रकृतिः --- स्व-भावः स्वम् एव स्व-भावम् अधिष्ठाय स्वेन एव रूपेण स्व-इच्छया संभवामि इत्य्-अर्थः / स्व-स्व-रूपं हि, ᳚आदित्य-वर्णं तमसः परस्तात्᳚, ᳚क्षयन्तम् अस्य रजसः पराके᳚, ᳚य एषो ऽन्तर-आदित्ये हिरण्य-मयः पुरुषः᳚, ᳚तस्मिन्न् अयं पुरुषो मनो-मयः; अमृतो हिरण्-मयः᳚, ᳚सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि᳚ , ᳚भा-रूपस् सत्य-सङ्कल्प आकाश-आत्मा सर्व-कामा सर्व-कामस् सर्व-गन्धस् सर्व-रसः᳚, ᳚माहारजनं वासः᳚ इत्य्-आदि-श्रुति-सिद्धम् / आत्म-मायया --- आत्मीयया मायया / ᳚माया वयुनं ज्ञानम्᳚ इति ज्ञान-पर्यायो ऽत्र माया-शब्दः / तथा च अभियुक्त-प्रयोगः, ᳚मायया सततं वेत्ति प्राणिनां च शुभ-अशुभम्᳚ इति / आत्मीयेन ज्ञानेन आत्म-सङ्कल्पेन इत्य्-अर्थः / अतो ऽपहत-पाप्मत्व-आदि-समस्त-कल्याण-गुण-आत्मकत्वं सर्वम् ऐशं स्व-भावम् अजहत् स्वम् एव रूपं देव-मनुष्य-आदि-सजातीय-संस्थानं कुर्वन् आत्म-सङ्कल्पेन देव-आदि-रूपः संभवामि / तद् इदम् आह, ᳚अजायमानो बहुधा विजायते᳚ इति श्रुतिः / इतर-पुरुष-साधारणं जन्म अकुर्वन् देव-आदि-रूपेण स्व-सङ्कल्पेन उक्त-प्रक्रियया जायत इत्य्-अर्थः / ᳚बहूनि मे व्यतीतानि जन्मानि तव चा अर्जुन / तान्य् अहं वेद सर्वाणि᳚, ᳚तदा आत्मानं सृजाम्य् अहम्᳚ ᳚जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः᳚ इति पूर्व-अपर-अविरोधाच् च // जन्म-कालम् आह --
SK
यदा यदा हि धर्मस्य ग्लानिर् भवति भारत | अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ||
SK
यदा यदा हि धर्मस्य ग्लानिर् भवति भारत | अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजाम्य् अहम् ||
SK
न कालनियमो ऽस्मत्संभवस्य / यदा यदा हि धर्मस्य वेदोदितस्य चातुर्वर्ण्यचातुराश्रम्यव्यवस्थयावस्थितस्य कर्तव्ययस्य ग्लानिर् भवति, यदा यदा च तद्विपर्ययस्याधर्मस्याभ्युत्थानम् तदाहम् एव स्वसङ्कल्पेनोक्तप्रकारेणात्मानं सृजामि //
SK
न काल-नियमो ऽस्मत्-संभवस्य / यदा यदा हि धर्मस्य वेद-उदितस्य चातुर्वर्ण्य-चातुराश्रम्य-व्यवस्थय आवस्थितस्य कर्तव्ययस्य ग्लानिर् भवति, यदा यदा च तद्-विपर्ययस्य अधर्मस्य अभ्युत्थानम् तद आहम् एव स्व-सङ्कल्पेन उक्त-प्रकारेणा अत्मानं सृजामि //
SK
जन्मनः प्रयोजनम् आह --
SK
जन्मनः प्रयोजनम् आह ---
SK
परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्मसंस्थापनार्थाय संभवामि युगे युगे ||
SK
परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्म-संस्थापन-अर्थाय संभवामि युगे युगे ||
SK
साधवः उक्तलक्षणधर्मशीलाः वैष्णवाग्रेसरा मत्समाश्रयणे प्रवृत्ता मन्नामकर्मस्वरूपाणां वाङ्मनसागोचरतया मद्दर्शनेन विना स्वात्मधारणपोषणादिक्म् अलभमानाः क्षणमात्रकालं कल्पसहस्रं मन्वानाः प्रतिशिथिलसर्वगात्रा भवेयुर् इति मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाय तद्विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्याराध्यस्वरूपप्रदर्शनेन स्थापनाय च देवमनुष्यादिरूपेण युगे युगे संभवामि / कृतत्रेतादियुगविशेषनियमो ऽपि नास्तीत्यर्थः //
SK
साधवः उक्त-लक्षण-धर्म-शीलाः वैष्णव-अग्रेसरा मत्-समाश्रयणे प्रवृत्ता मन्-नाम-कर्म-स्व-रूपाणां वाङ्-मनस-अगोचरतया मद्-दर्शनेन विना स्व-आत्म-धारण-पोषण-आदिक्म् अलभमानाः क्षण-मात्र-कालं कल्प-सहस्रं मन्वानाः प्रतिशिथिल-सर्व-गात्रा भवेयुर् इति मत्-स्व-रूप-चेष्टित-अवलोकन-आलाप-आदि-दानेन तेषां परित्राणाय तद्-विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मद्-आराधन-रूपस्या अराध्य-स्व-रूप-प्रदर्शनेन स्थापनाय च देव-मनुष्य-आदि-रूपेण युगे युगे संभवामि / कृत-त्रेत-आदि-युग-विशेष-नियमो ऽपि न अस्ति इत्य्-अर्थः //
SK
जन्म कर्मं च मे दिव्यम् एवं यो वेत्ति तत्त्वतः | त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सो ऽर्जुन ||
SK
जन्म कर्मं च मे दिव्यम् एवं यो वेत्ति तत्त्वतः | त्यक्त्वा देहं पुनर्-जन्म न एति माम् एति सो ऽर्जुन ||
SK
एवं कर्ममूलहेयत्रिगुणप्रकृतिसंसर्गरूपजन्मरहितस्य सर्वेस्वरत्वसार्वज्ञ्यसत्यसङ्कल्पत्वादिसमस्तकल्याणगुणोपेतस्य साधुपरित्राणमत्समाश्रयणैकप्रयोजनं दिव्यम् -- अप्राकृतं मदसाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति, स वर्तमानं देहं परित्यज्य पुनर्जन्म नैति, माम् एव प्राप्नोति / मदीयदिव्यजन्मचेष्टितयाथात्म्यविज्ञानेन विध्वस्तसमस्तमत्समाश्र्यणविरोधिपापः अस्मिन्न् एव जन्मनि यथोदितप्रकारेण माम् आश्रित्य मदेकप्रियो मदेकचित्तो माम् एव प्राप्नोति //
SK
एवं कर्म-मूल-हेय-त्रि-गुण-प्रकृति-संसर्ग-रूप-जन्म-रहितस्य सर्व-ईस्वरत्व-सार्वज्ञ्य-सत्य-सङ्कल्पत्व-आदि-समस्त-कल्याण-गुण-उपेतस्य साधु-परित्राणमत्-समाश्रयण-एक-प्रयोजनं दिव्यम् --- अप्राकृतं मद्-असाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति, स वर्तमानं देहं परित्यज्य पुनर्-जन्म न एति, माम् एव प्राप्नोति / मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्र्यण-विरोधि-पापः अस्मिन्न् एव जन्मनि यथा-उदित-प्रकारेण माम् आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति //
SK
तद् आह --
SK
तद् आह ---
SK
वीतरागभयक्रोधा मन्मया माम् उपाश्रिताः | बहवो ज्ञानतपसा पूता मद्भावन् आगताः ||
SK
वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः | बहवो ज्ञान-तपसा पूता मद्-भावन् आगताः ||
SK
मदीयजन्मकर्मतत्त्वज्ञानाख्येन तपसा पूता बहव एवं संवृत्ताः / तथा च श्रुतिः, ᳚तस्य धीराः परिजानन्ति योनिम्᳚ इति / धीराः -- धीमताम् अग्रेसरा एवं तस्य जन्मप्रकारं जानन्तीत्यर्थः //
SK
मदीय-जन्म-कर्म-तत्त्व-ज्ञान-आख्येन तपसा पूता बहव एवं संवृत्ताः / तथा च श्रुतिः, ᳚तस्य धीराः परिजानन्ति योनिम्᳚ इति / धीराः --- धीमताम् अग्रेसरा एवं तस्य जन्म-प्रकारं जानन्ति इत्य्-अर्थः //
SK
ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||
SK
ये यथा मां प्रपद्यन्ते तांस् तथ ऐव भजाम्य् अहम् | मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ||
SK
न केवलं देवमनुष्यादिरूपेणावतीर्य मत्समाश्रयणापेक्षाणां परित्राणं करोमि, अपि तु ये मत्समाश्रयणापेक्षा यथा -- येन प्रकारेण स्वापेक्षानुरूपं मां संकल्प्य प्रपद्यन्ते -- समाश्रयन्ते; तान् प्रति तथैव तन्मनीषितप्रकारेण भजामि -- मां दर्शयामि / किम् अत्र बहुना, सर्वे मनुष्याः मदनुवर्तनैकमनोरथा मम वर्त्म -- मत्स्वभावं सर्वं योगिनां वाङ्मनसागोचरम् अपि स्वकीयाइश् चक्षुरादिकरणैः सर्वशः स्वापेक्षितैः सर्वप्रकारैर् अनुभूयानुवर्त्न्ते //
SK
न केवलं देव-मनुष्य-आदि-रूपेण अवतीर्य मत्-समाश्रयण-अपेक्षाणां परित्राणं करोमि, अपि तु ये मत्-समाश्रयण-अपेक्षा यथा --- येन प्रकारेण स्व-अपेक्ष-अनुरूपं मां संकल्प्य प्रपद्यन्ते --- समाश्रयन्ते; तान् प्रति तथ ऐव तन्-मनीषित-प्रकारेण भजामि --- मां दर्शयामि / किम् अत्र बहुना, सर्वे मनुष्याः मद्-अनुवर्तन-एक-मनो-रथा मम वर्त्म --- मत्-स्व-भावं सर्वं योगिनां वाङ्-मनस-अगोचरम् अपि स्वकीयाइश् चक्षुर्-आदि-करणैः सर्वशः स्व-अपेक्षितैः सर्व-प्रकारैर् अनुभूय अनुवर्त्न्ते //
SK
इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्मयोगस्य ज्ञानाकारताप्रकारं वक्तुं तथाविधकर्मयोगाधिकारिणो दुर्लभत्वम् आह --
SK
इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्म-योगस्य ज्ञान-आकारता-प्रकारं वक्तुं तथा-विध-कर्म-योग-अधिकारिणो दुर्लभत्वम् आह ---
SK
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः | क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ||
SK
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः | क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्म-जा ||
SK
सर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणाः इन्द्रादिदेवतामात्रं यजन्ते -- आराधयन्ति, न तु कश्चिद् अनभिसंहितफलः इन्द्रादिदेवतात्मभूतं सर्वयज्ञानां भोक्तारं मां यजते / कुत एतत्? यतः क्षिप्रस्मिन्न् एव मानुषे लोके कर्मजा पुत्रपश्वन्नाद्य्सिद्धिर् भवति / मनुष्यलोकशब्दः स्वर्गादीनाम् अपि प्रदर्शनार्थः / सर्वं एव लौकिकाः पुरुषा अक्षीणानादिकालप्रवृत्तानन्तपापसंचयतया अविवेकिनः क्षिप्रफलाकाङ्क्षिणः पुत्रपश्वन्नाद्यस्वर्गाद्यर्थतया सर्वाणि कर्माणीन्द्रादिदेवताराधनमात्राणि कुर्वते; न तु कश्चित् संसारोद्विग्नहृदयो मुमुक्षुः उक्तलक्षणं कर्मयोगं मदाराधनभूतम् आरभत इत्यर्थः //
SK
सर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणाः इन्द्र-आदि-देवता-मात्रं यजन्ते --- आराधयन्ति, न तु कश्चिद् अनभिसंहित-फलः इन्द्र-आदि-देवता-आत्म-भूतं सर्व-यज्ञानां भोक्तारं मां यजते / कुत एतत्? यतः क्षिप्रस्मिन्न् एव मानुषे लोके कर्म-जा पुत्र-पश्व्-अन्न-आद्य्-सिद्धिर् भवति / मनुष्य-लोक-शब्दः स्वर्ग-आदीनाम् अपि प्रदर्शन-अर्थः / सर्वं एव लौकिकाः पुरुषा अक्षीण-अनादि-काल-प्रवृत्त-अनन्त-पाप-संचयतया अविवेकिनः क्षिप्र-फल-आकाङ्क्षिणः पुत्र-पश्व्-अन्न-आद्य्-अस्वर्ग-आद्य्-अर्थतया सर्वाणि कर्माणि इन्द्र-आदि-देवता-आराधन-मात्राणि कुर्वते; न तु कश्चित् संसार-उद्विग्न-हृदयो मुमुक्षुः उक्त-लक्षणं कर्म-योगं मद्-आराधन-भूतम् आरभत इत्य्-अर्थः //
SK
यथोक्तकर्मयोगारम्भविरोधिपापक्षयहेतुम् आह --
SK
यथा-उक्त-कर्म-योग-आरम्भ-विरोधि-पाप-क्षय-हेतुम् आह ---
SK
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः | तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ||
SK
चातुर्वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः | तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ||
SK
चातुर्वर्ण्यप्रमुखं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत् सत्त्वादिगुणविभागेन तदनुगुणशमादिकर्मविभागेन च विभक्तं मया सृष्टम् / सृष्टिग्रहणं प्रदर्शनार्थम् / मयैव रक्ष्यन्ते, मयैव चोपसंह्रियते / तस्य -- विचित्रसृष्त्यादेः कर्तारम् अप्य् अकर्तारं मां विद्धि // कथम् इत्य् अत्राह -
SK
चातुर्वर्ण्य-प्रमुखं ब्रह्मा-आदि-स्तम्ब-पर्यन्तं कृत्स्नं जगत् सत्त्व-आदि-गुण-विभागेन तद्-अनुगुण-शम-आदि-कर्म-विभागेन च विभक्तं मया सृष्टम् / सृष्टि-ग्रहणं प्रदर्शन-अर्थम् / मय ऐव रक्ष्यन्ते, मय ऐव च उपसंह्रियते / तस्य --- विचित्र-सृष्त्य्-आदेः कर्तारम् अप्य् अकर्तारं मां विद्धि // कथम् इत्य् अत्रा अह --
SK
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा | इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ||
SK
न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा | इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ||
SK
यत इमानि विचित्रसृष्ट्यादीनि कर्माणि मां न लिम्पन्ति -- न मां संबध्नन्ति / न मत्प्रयुक्तानि तानि देवमनुष्यादिवैचित्र्याणि / सृज्यानां पुण्यपापरूपकर्मविशेषप्रयुक्तानीत्यर्थः / अतः प्राप्ताप्राप्तविवेकेन विचित्रसृष्ट्यादेर् नाहं कर्ता; यतश् च सृष्टाः क्षेत्रज्ञाः सृष्टिलब्धकरणकलेबराः सृष्टिलब्धं भोग्यजातं फलसङ्गादिहेतुस्वकर्मानुगुणं भुङ्जते; सृष्ट्याद्कर्मफले च तेषाम् एव स्पृहेति ने मे स्पृहा / तथाह सूत्रकारः -- वैषम्यनैर्घृण्ये न सापेक्षत्वाद् इति / तथा च भगवान् पराशरः -- ᳚निमित्तमात्रम् एवासौ सृज्यानां सर्गकर्मणि / प्रधानकारणीभूता यतो वै सृज्यशक्तयः // निमित्तमात्रं मुक्त्वेदं नान्यत् किंचिद् अपेक्षते / नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् // Bह्GR_४.᳚ इति / सृज्यानां देवादीनां क्षेत्रज्ञानां सृष्टेः कारणमात्रम् एवायं परमपुरुषः; देवादिवैचित्र्ये तु प्रधानकारणं सृज्यभूतक्षेत्रज्ञानां प्राचीनकर्मशक्तय एव / अतो निमित्तमात्रं मुक्त्वा -- सृष्टेः कर्तारं परमपुरुषं मुक्त्वा इदं क्षेत्रज्ञवस्तु देवादिविचित्रभावे नान्यद् अपेक्षते; स्वगतप्राचीनकर्मशक्त्या एव हि देवादिवस्तुभावं नीयत इत्यर्थः / एवम् उक्तेन प्रकारेण सृष्त्यादेः कर्तारम् अप्य् अकर्तारं सृष्ट्यादिकर्मफलसङ्गरहितं च यो माम् अभिजानाति, स कर्मयोगारम्भविरोधिभिः फलसङ्गादिहेतुभिः प्राचीनकर्मभिर् न संबध्यते / मुच्यत इत्यर्थः //
SK
यत इमानि विचित्र-सृष्ट्य्-आदीनि कर्माणि मां न लिम्पन्ति --- न मां संबध्नन्ति / न मत्-प्रयुक्तानि तानि देव-मनुष्य-आदि-वैचित्र्याणि / सृज्यानां पुण्य-पाप-रूप-कर्म-विशेष-प्रयुक्तानि इत्य्-अर्थः / अतः प्राप्त-अप्राप्त-विवेकेन विचित्र-सृष्ट्य्-आदेर् न अहं कर्ता; यतश् च सृष्टाः क्षेत्र-ज्ञाः सृष्टि-लब्ध-करण-कलेबराः सृष्टि-लब्धं भोग्य-जातं फल-सङ्ग-आदि-हेतु-स्व-कर्म-अनुगुणं भुङ्जते; सृष्ट्य्-आद्-कर्म-फले च तेषाम् एव स्पृह ईति ने मे स्पृहा / तथा आह सूत्र-कारः --- वैषम्य-नैर्घृण्ये न स-अपेक्षत्वाद् इति / तथा च भगवान् पराशरः --- ᳚निमित्त-मात्रम् एव असौ सृज्यानां सर्ग-कर्मणि / प्रधान-कारणीभूता यतो वै सृज्य-शक्तयः // निमित्त-मात्रं मुक्त्व ईदं न अन्यत् किंचिद् अपेक्षते / नीयते तपतां श्रेष्ठ स्व-शक्त्या वस्तु वस्तुताम् // Bह्GR_४.᳚ इति / सृज्यानां देव-आदीनां क्षेत्र-ज्ञानां सृष्टेः कारण-मात्रम् एव अयं परम-पुरुषः; देव-आदि-वैचित्र्ये तु प्रधान-कारणं सृज्य-भूत-क्षेत्र-ज्ञानां प्राचीन-कर्म-शक्तय एव / अतो निमित्त-मात्रं मुक्त्वा --- सृष्टेः कर्तारं परम-पुरुषं मुक्त्वा इदं क्षेत्र-ज्ञ-वस्तु देव-आदि-विचित्र-भावे न अन्यद् अपेक्षते; स्व-गत-प्राचीन-कर्म-शक्त्या एव हि देव-आदि-वस्तु-भावं नीयत इत्य्-अर्थः / एवम् उक्तेन प्रकारेण सृष्त्य्-आदेः कर्तारम् अप्य् अकर्तारं सृष्ट्य्-आदि-कर्म-फल-सङ्ग-रहितं च यो माम् अभिजानाति, स कर्म-योग-आरम्भ-विरोधिभिः फल-सङ्ग-आदि-हेतुभिः प्राचीन-कर्मभिर् न संबध्यते / मुच्यत इत्य्-अर्थः //
SK
एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः | कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ||
SK
एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः | कुरु कर्म एव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ||
SK
एवं मां ज्ञात्वा विमुक्तपापैः पूर्वैर् अपि मुमुक्षुभिर् उक्तलक्षणं कर्म कृतम् / तस्मात् त्वम् उक्तप्रकारमद्विषयज्ञानविधूतपापः पूर्वैर् विवस्वन्मन्वादिभिः कृतं पूर्वतरं -- पुरातनं तदानीम् एव मयोक्तं वक्ष्यमाणाकारं कर्वैव कुरु //
SK
एवं मां ज्ञात्वा विमुक्त-पापैः पूर्वैर् अपि मुमुक्षुभिर् उक्त-लक्षणं कर्म कृतम् / तस्मात् त्वम् उक्त-प्रकार-मद्-विषय-ज्ञान-विधूत-पापः पूर्वैर् विवस्वन्-मन्व्-आदिभिः कृतं पूर्वतरं --- पुरातनं तदानीम् एव मय ऊक्तं वक्ष्यमाण-आकारं कर्व एव कुरु //
SK
वक्ष्यमाणस्य कर्मणो दुर्ज्ञानताम् आह --
SK
वक्ष्यमाणस्य कर्मणो दुर्ज्ञानताम् आह ---
SK
किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः | तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ||
SK
किं कर्म किम् अकर्म इति कवयो ऽप्य् अत्र मोहिताः | तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ||
SK
मुमुक्षुणानुष्ठेयं कर्म किंरूपम्, अकर्म च किम् / अकर्मेति कर्तुर् आत्मनो याथात्म्यज्ञानम् उच्यते; अनुष्ठेयं कर्म तदन्तर्गतं ज्ञानं च किंरूपम् इत्य् उभयत्र कवयः -- विद्वांसो ऽपि मोहिताः -- यथावन् न जानन्ति / एवम् अन्तर्गतज्ञानं यत् कर्म, तत् ते प्रवक्ष्यामि, यज् ज्ञात्वानुष्ठाय अशुभात् -- संसारबन्धान् मोक्ष्यसे / कर्तव्यकर्मज्ञानं ह्य् अनुष्ठानफलम् //
SK
मुमुक्षुण आनुष्ठेयं कर्म किं-रूपम्, अकर्म च किम् / अकर्म इति कर्तुर् आत्मनो याथात्म्य-ज्ञानम् उच्यते; अनुष्ठेयं कर्म तद्-अन्तर्गतं ज्ञानं च किं-रूपम् इत्य् उभयत्र कवयः --- विद्वांसो ऽपि मोहिताः --- यथावन् न जानन्ति / एवम् अन्तर्गत-ज्ञानं यत् कर्म, तत् ते प्रवक्ष्यामि, यज् ज्ञात्व आनुष्ठाय अशुभात् --- संसार-बन्धान् मोक्ष्यसे / कर्तव्य-कर्म-ज्ञानं ह्य् अनुष्ठान-फलम् //
SK
कुतो ऽस्य दुर्ज्ञानतेत्य् आह --
SK
कुतो ऽस्य दुर्ज्ञानत ईत्य् आह ---
SK
कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ||
SK
कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ||
SK
यस्मान् मोक्षसाधनभूते कर्मस्वरूपे बोद्धव्यम् अस्ति; विकर्मणि च / नित्यनैमित्तिककाम्यरूपेण, तत्साधनद्रव्यार्जनाद्याकारेण च विविधतापन्नं कर्म विकर्म / अकर्मणि -- ज्ञाने च बोद्धव्यम् अस्ति / गहना -- दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः //
SK
यस्मान् मोक्ष-साधन-भूते कर्म-स्व-रूपे बोद्धव्यम् अस्ति; विकर्मणि च / नित्य-नैमित्तिक-काम्य-रूपेण, तत्-साधन-द्रव्य-अर्जन-आद्य्-आकारेण च विविधता-आपन्नं कर्म विकर्म / अकर्मणि --- ज्ञाने च बोद्धव्यम् अस्ति / गहना --- दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः //
SK
विकर्मणि बोद्धव्यं नित्यनैमित्तिककाम्यद्रव्यार्जनादौ कर्मणि फलभेदकृतं वैविध्यं परित्यज्य मोक्षैकफलतयैकशास्त्रार्थत्वानुसन्धानम् / तद् एतत् ᳚व्यवसायात्मिका बुद्धिर् एका᳚ इत्य् अत्रैवोक्तम् इति नेह प्रपञ्च्यते / कर्माकर्मणोर् बोद्धव्यम् आह --
SK
विकर्मणि बोद्धव्यं नित्य-नैमित्तिक-काम्य-द्रव्य-अर्जन-आदौ कर्मणि फल-भेद-कृतं वैविध्यं परित्यज्य मोक्ष-एक-फलतय ऐक-शास्त्र-अर्थत्व-अनुसन्धानम् / तद् एतत् ᳚व्यवसाय-आत्मिका बुद्धिर् एका᳚ इत्य् अत्र एव उक्तम् इति न इह प्रपञ्च्यते / कर्म-अकर्मणोर् बोद्धव्यम् आह ---
SK
कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः | स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ||
SK
कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः | स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ||
SK
अकर्मशब्देनात्र कर्मेतरात् प्रस्तुतम् आत्मज्ञानम् उच्यते / कर्मणि क्रियमाण एवात्मज्ञानं यः पश्येत्, अकर्मणि चात्मज्ञाने वर्तमान एव यः कर्म पश्येत् / किम् उक्तं भवति? क्रियमाणम् एव कर्म आत्मयाथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत्, तच् च ज्ञानं कर्मयोगान्तरगततया कर्माकारं यः पश्येद् इत्य् उक्तं भवति / क्रियमाणे हि कर्मणि कर्तृभूतात्मयाथात्म्यानुसन्धाने सति तदुभयं संपन्नं भवति / एवम् आत्मयाथात्म्यानुसन्धानान्तर्गर्भं कर्म यः पश्येत्, स बुद्धिमान् -- कृत्स्नशास्त्रार्थवित्,मनुष्येषु स युक्तः -- मोक्षायार्हः, स एव कृत्स्नकर्मकृत् कृत्स्नशास्त्रार्थकृत् //
SK
अकर्म-शब्देन अत्र कर्म-इतरात् प्रस्तुतम् आत्म-ज्ञानम् उच्यते / कर्मणि क्रियमाण एवा अत्म-ज्ञानं यः पश्येत्, अकर्मणि चा अत्म-ज्ञाने वर्तमान एव यः कर्म पश्येत् / किम् उक्तं भवति? क्रियमाणम् एव कर्म आत्म-याथात्म्य-अनुसन्धानेन ज्ञान-आकारं यः पश्येत्, तच् च ज्ञानं कर्म-योग-अन्तरगततया कर्म-आकारं यः पश्येद् इत्य् उक्तं भवति / क्रियमाणे हि कर्मणि कर्तृ-भूत-आत्म-याथात्म्य-अनुसन्धाने सति तद्-उभयं संपन्नं भवति / एवम् आत्म-याथात्म्य-अनुसन्धान-अन्तर्गर्भं कर्म यः पश्येत्, स बुद्धिमान् --- कृत्स्न-शास्त्र-अर्थ-वित्,मनुष्येषु स युक्तः --- मोक्षाय अर्हः, स एव कृत्स्न-कर्म-कृत् कृत्स्न-शास्त्र-अर्थ-कृत् //
SK
प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञनाकारता कथम् उपपद्यत इत्य् अत्राह --
SK
प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञन-आकारता कथम् उपपद्यत इत्य् अत्रा अह ---
SK
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः | ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः ||
SK
यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः | ज्ञान-अग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ||
SK
यस्य मुमुक्षोः सर्वे द्रव्यार्जनादिलौकिककर्मपूर्वकनित्यनैमित्तिककाम्यरूपकर्मसमारम्भाः कामार्जिताः फलसङ्गरहिताः / सङ्कल्पवर्जिताश् च / प्रकृत्या तद्गुणैश् चात्मानम् एकीकृत्यानुसन्धानं सङ्कल्पः; प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया तद्रहिताः / तम् एवं कर्म कुर्वाणं पण्डितं कर्मान्तर्गतात्मयाथात्म्यज्ञानाग्निना दग्धप्राचीनकर्माणम् आहुस् तत्त्वज्ञाः / अतः कर्मणो ज्ञानाकारत्वम् उपपद्यते //
SK
यस्य मुमुक्षोः सर्वे द्रव्य-अर्जन-आदि-लौकिक-कर्म-पूर्वक-नित्य-नैमित्तिक-काम्य-रूप-कर्म-समारम्भाः काम-अर्जिताः फल-सङ्ग-रहिताः / सङ्कल्प-वर्जिताश् च / प्रकृत्या तद्-गुणैश् चा अत्मानम् एकीकृत्य-अनुसन्धानं सङ्कल्पः; प्रकृति-वियुक्त-आत्म-स्व-रूप-अनुसन्धान-युक्ततया तद्-रहिताः / तम् एवं कर्म कुर्वाणं पण्डितं कर्म-अन्तर्गत-आत्म-याथात्म्य-ज्ञान-अग्निना दग्ध-प्राचीन-कर्माणम् आहुस् तत्त्व-ज्ञाः / अतः कर्मणो ज्ञान-आकारत्वम् उपपद्यते //
SK
एतद् एव विवृणोति --
SK
एतद् एव विवृणोति ---
SK
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः | कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः ||
SK
त्यक्त्वा कर्म-फल-असङ्गं नित्य-तृप्तो निराश्रयः | कर्मण्य् अभिप्रवृत्तो ऽपि न एव किंचित् करोति सः ||
SK
कर्मफलसङ्गं त्यक्त्वा नित्यतृप्तः -- नित्ये स्वात्म्न्य् एव तृप्तः, निराश्रयः -- अस्थिरप्रकृतौ आश्रयबुद्धिरहितो यः कर्माणि करोति, स कर्मण्य् आभिमुख्येन प्रवृत्तो ऽपि नैव किंचित् कर्म करोति -- कर्मापदेशेन ज्ञानाभ्यासम् एव करोतीत्यर्थः //
SK
कर्म-फल-सङ्गं त्यक्त्वा नित्य-तृप्तः --- नित्ये स्व-आत्म्न्य् एव तृप्तः, निराश्रयः --- अस्थिर-प्रकृतौ आश्रय-बुद्धि-रहितो यः कर्माणि करोति, स कर्मण्य् आभिमुख्येन प्रवृत्तो ऽपि न एव किंचित् कर्म करोति --- कर्म-अपदेशेन ज्ञान-अभ्यासम् एव करोति इत्य्-अर्थः //
SK
पुनर् अपि कर्मणो ज्ञानाकारतैव विशोध्यते --
SK
पुनर् अपि कर्मणो ज्ञान-आकारत ऐव विशोध्यते ---
SK
निराशीर् यतचित्तात्मा त्यक्तसर्वपरिग्रहः | शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ||
SK
निराशीर् यत-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः | शारीरं केवलं कर्म कुर्वन् ना अप्नोति किल्बिषम् ||
SK
निराशीः -- निर्गतफलाभिसन्धिः यतचित्तात्मा -- यतचित्तमनाः त्यक्तसर्वपरिग्रहः -- आत्मैकप्रयोजनतया प्रकृतिप्राकृतवस्तुनि ममतारहितः, यावज्जीवं केवलं शारीरम् एव कर्म कुर्वन् किल्बिषं -- संसारं नाप्नोति ज्ञाननिष्ठाव्यवधानरहितकेवलकर्मयोगेनैवंरूपेणात्मानं पश्यतीत्यर्थः //
SK
निराशीः --- निर्गत-फल-अभिसन्धिः यत-चित्त-आत्मा --- यत-चित्त-मनाः त्यक्त-सर्व-परिग्रहः --- आत्म-एक-प्रयोजनतया प्रकृति-प्राकृत-वस्तुनि ममता-रहितः, यावज्-जीवं केवलं शारीरम् एव कर्म कुर्वन् किल्बिषं --- संसारं ना अप्नोति ज्ञान-निष्ठा-व्यवधान-रहित-केवल-कर्म-योगेन एवं-रूपेणा अत्मानं पश्यति इत्य्-अर्थः //
SK
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः | समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ||
SK
यदृच्छा-लाभ-संतुष्टो द्वन्द्व-अतीतो विमत्सरः | समः सिद्धाव् असिद्धौ च कृत्व आपि न निबध्यते ||
SK
यदृच्छोपनतशरीरधारणहेतुवस्तुसन्तुष्टः, द्वन्द्वातीतः -- यावत्साधनसमाप्त्यवर्जनीयशीतोष्णादिसहः, विमत्सरः -- अनिष्टोपनिपातहेतुभूतस्वकर्मनिरूपणेन परेषु विगतमत्सरः, समस् सिद्धाव् असिद्दौ च -- युद्धादिकर्मसु जयादिसिद्ध्यसिद्ध्योः समचित्तः, कर्मैव कृत्वापि -- ज्ञाननिष्ठां विनापि न निबध्यते -- न संसारं प्रतिपद्यते //
SK
यदृच्छा-उपनत-शरीर-धारण-हेतु-वस्तु-सन्तुष्टः, द्वन्द्व-अतीतः --- यावत्-साधन-समाप्त्य्-अवर्जनीय-शीत-ऊष्ण-आदि-सहः, विमत्सरः --- अनिष्ट-उपनिपात-हेतु-भूत-स्व-कर्म-निरूपणेन परेषु विगत-मत्सरः, समस् सिद्धाव् असिद्दौ च --- युद्ध-आदि-कर्मसु जय-आदि-सिद्ध्य्-असिद्ध्योः सम-चित्तः, कर्म एव कृत्व आपि --- ज्ञान-निष्ठां विन आपि न निबध्यते --- न संसारं प्रतिपद्यते //
SK
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः | यज्ञायाचरतः कर्म समग्रं प्रविलीयते ||
SK
गत-सङ्गस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः | यज्ञाया अचरतः कर्म समग्रं प्रविलीयते ||
SK
आत्मविषयज्ञानावस्थितमनस्त्वेन निर्गततदितरसङ्गस्य तत एव निखिलपरिग्रहविनिर्मुक्तस्य उक्तलक्षणयज्ञादिकर्मनिर्वृत्तये वर्तमानस्य पुरुषस्य बन्धहेतुभूतं प्राचीनं कर्म समग्रं प्रविलीयते -- निश्शेषं क्षीयते //
SK
आत्म-विषय-ज्ञान-अवस्थित-मनस्त्वेन निर्गत-तद्-इतर-सङ्गस्य तत एव निखिल-परिग्रह-विनिर्मुक्तस्य उक्त-लक्षण-यज्ञ-आदि-कर्म-निर्वृत्तये वर्तमानस्य पुरुषस्य बन्ध-हेतु-भूतं प्राचीनं कर्म समग्रं प्रविलीयते --- निश्शेषं क्षीयते //
SK
प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया कर्मणो ज्ञानाकारत्वम् उक्तम्; इदानीं सर्वस्य सपरिकरस्य कर्मणः परब्रह्मभूतपरमपुरुषात्मकत्वानुसन्धानयुक्ततया ज्ञानाकारत्वम् आह --
SK
प्रकृति-वियुक्त-आत्म-स्व-रूप-अनुसन्धान-युक्ततया कर्मणो ज्ञान-आकारत्वम् उक्तम्; इदानीं सर्वस्य सपरिकरस्य कर्मणः पर-ब्रह्म-भूत-परम-पुरुष-आत्मकत्व-अनुसन्धान-युक्ततया ज्ञान-आकारत्वम् आह ---
SK
ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||
SK
ब्रह्म अर्पणं ब्रह्म हविर् ब्रह्म-अग्नौ ब्रह्मणा हुतम् | ब्रह्म एव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ||
SK
ब्रह्मार्पणम् इति हविर् विशेष्यते / अर्प्यते ऽनेनेत्य् अर्पणं स्रुगादि / तद्ब्रह्मकार्यत्वाद् ब्रह्म / ब्रह्म यस्य हविषो ऽर्पणं तद् ब्रह्मार्पणम्, ब्रह्म हविः ब्रह्मार्पणं हविः / स्वयं च ब्रह्मभूतम्, ब्रह्माग्नौ -- ब्रह्मभूते अग्नौ ब्रह्मणा कर्त्रा हुतम् इति सर्वं कर्म ब्रह्मात्मकतया ब्रह्ममयम् इति यः समाधत्ते, स ब्रह्मकर्मसमाधिः, तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् -- ब्रह्मात्मकतया ब्रह्मभूतम् आत्मस्वरूपं गन्तव्यम् / मुमुक्षुणा क्रियमाणं कर्म परब्रह्मात्मकम् एवेत्य् अनुसन्धानयुक्ततया ज्ञानाकारं साक्षादात्मावलोकनसाधनम्; न ज्ञाननिष्ठाव्यधानेनेत्यर्थः //
SK
ब्रह्म-अर्पणम् इति हविर् विशेष्यते / अर्प्यते ऽनेन इत्य् अर्पणं स्रुग्-आदि / तद्-ब्रह्म-कार्यत्वाद् ब्रह्म / ब्रह्म यस्य हविषो ऽर्पणं तद् ब्रह्म-अर्पणम्, ब्रह्म हविः ब्रह्म-अर्पणं हविः / स्वयं च ब्रह्म-भूतम्, ब्रह्म-अग्नौ --- ब्रह्म-भूते अग्नौ ब्रह्मणा कर्त्रा हुतम् इति सर्वं कर्म ब्रह्म-आत्मकतया ब्रह्म-मयम् इति यः समाधत्ते, स ब्रह्म-कर्म-समाधिः, तेन ब्रह्म-कर्म-समाधिना ब्रह्म एव गन्तव्यम् --- ब्रह्म-आत्मकतया ब्रह्म-भूतम् आत्म-स्व-रूपं गन्तव्यम् / मुमुक्षुणा क्रियमाणं कर्म पर-ब्रह्म-आत्मकम् एव इत्य् अनुसन्धान-युक्ततया ज्ञान-आकारं साक्षाद्-आत्म-अवलोकन-साधनम्; न ज्ञान-निष्ठा-व्यधानेन इत्य्-अर्थः //
SK
एवं कर्मणो ज्ञानाकारतां प्रतिपाद्य कर्मयोगभेदान् आह --
SK
एवं कर्मणो ज्ञान-आकारतां प्रतिपाद्य कर्म-योग-भेदान् आह ---
SK
दैवम् एवापरे यज्ञं योगिनः पर्युपासते | ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ||
SK
दैवम् एव अपरे यज्ञं योगिनः पर्युपासते | ब्रह्म-अग्नाव् अपरे यज्ञं यज्ञेन एव उपजुह्वति ||
SK
दैवं -- देवार्चनरूपं यज्ञम् अपरे कर्मयोगिनः पर्युपासते -- सेवन्ते / तत्रैव निष्ठां कुर्वन्तीत्यर्थः / अपरे ब्रह्माग्नौ यज्ञं यज्ञेनैवोपजुह्वति; अत्र यज्ञशब्दो हविस् स्रुगादियज्ञसाधने वर्तते; ᳚ब्रह्मार्पणं ब्रह्म हविः᳚ इति न्यायेन यागहोमयोर् निष्ठां कुर्वन्ति //
SK
दैवं --- देव-अर्चन-रूपं यज्ञम् अपरे कर्म-योगिनः पर्युपासते --- सेवन्ते / तत्र एव निष्ठां कुर्वन्ति इत्य्-अर्थः / अपरे ब्रह्म-अग्नौ यज्ञं यज्ञेन एव उपजुह्वति; अत्र यज्ञ-शब्दो हविस् स्रुग्-आदि-यज्ञ-साधने वर्तते; ᳚ब्रह्म-अर्पणं ब्रह्म हविः᳚ इति न्यायेन याग-होमयोर् निष्ठां कुर्वन्ति //
SK
श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति | शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुह्वति ||
SK
श्रोत्र-आदीनि इन्द्रियाण्य् अन्ये संयम-अग्निषु जुह्वति | शब्द-आदीन् विषयान् अन्ये इन्द्रिय-अग्निषु जुह्वति ||
SK
अन्ये श्रोत्रादीनाम् इन्द्रियाणां संयमने प्रयतन्ते / अन्ये योगिनः इन्द्रियाणां शब्दादिप्रवणतानिवारणे प्रयतन्ते //
SK
अन्ये श्रोत्र-आदीनाम् इन्द्रियाणां संयमने प्रयतन्ते / अन्ये योगिनः इन्द्रियाणां शब्द-आदि-प्रवणता-निवारणे प्रयतन्ते //
SK
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे | आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ||
SK
सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च अपरे | आत्म-संयम-योग-अग्नौ जुह्वति ज्ञान-दीपिते ||
SK
अन्ये ज्ञानदीपिते मनस्संयनयोगाग्नौ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि च जुह्वति / मनस इन्द्रियप्राणकर्मप्र्वणतानिवारणे प्रयतन्त इत्यर्थः //
SK
अन्ये ज्ञान-दीपिते मनस्-संयन-योग-अग्नौ सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च जुह्वति / मनस इन्द्रिय-प्राण-कर्म-प्र्वणता-निवारणे प्रयतन्त इत्य्-अर्थः //
SK
द्रव्ययज्ञास् तपोयज्ञा योगयज्ञास् तथापरे | स्वाध्यायज्ञानयज्ञाश् च यतयः संशितव्रताः ||
SK
द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथ आपरे | स्व-अध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ||
SK
केचित् कर्मयोगिनो द्रव्ययज्ञाः न्यायतो द्रव्याण्य् उपादाय देवतार्चने प्रयतन्ते, केचिच् च दानेषु, केचिच् च यागेषु, केचिच् च होमेषु / एते सर्वे द्रव्ययज्ञाः / केचित् तपोयज्ञाः कृच्छ्रचान्द्रायणोपवासादिषु निष्ठां कुर्वन्ति / योगयज्ञाश् चापरे पुण्यतीर्थपुण्यस्थानप्राप्तिषु निष्ठां कुर्वन्ति / इह योगशब्दः कर्मनिष्ठाभेदप्रकरणात् तद्विषयः / केचित् स्वाध्यायाभ्यासपराः / केचित् तदर्थज्ञानाभ्यासपराः / यतयः यतनशीलाः, संशितव्रताः दृढसङ्कल्पाः //
SK
केचित् कर्म-योगिनो द्रव्य-यज्ञाः न्यायतो द्रव्याण्य् उपादाय देवता-अर्चने प्रयतन्ते, केचिच् च दानेषु, केचिच् च यागेषु, केचिच् च होमेषु / एते सर्वे द्रव्य-यज्ञाः / केचित् तपो-यज्ञाः कृच्छ्र-चान्द्रायण-उपवास-आदिषु निष्ठां कुर्वन्ति / योग-यज्ञाश् च अपरे पुण्य-तीर्थ-पुण्य-स्थान-प्राप्तिषु निष्ठां कुर्वन्ति / इह योग-शब्दः कर्म-निष्ठा-भेद-प्रकरणात् तद्-विषयः / केचित् स्व-अध्याय-अभ्यास-पराः / केचित् तद्-अर्थ-ज्ञान-अभ्यास-पराः / यतयः यतन-शीलाः, संशित-व्रताः दृढ-सङ्कल्पाः //
SK
अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे | प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ||
SK
अपाने जुह्वति प्राणं प्राणे ऽपानं तथ आपरे | प्राण-अपान-गती रुद्ध्वा प्राण-आयाम-परायणाः ||
SK
अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति |
SK
अपरे नियत-आहाराः प्राणान् प्राणेषु जुह्वति |
SK
अपरे कर्मयोगिनः प्राणायामेषु निष्ठां कुर्वन्ति / ते च त्रिविधाः पूरकरेचककुम्भकभेदेन; अपाने जुह्वति प्राणम् इति पूरकः, प्राणे ऽपानम् इति रेचकः, प्राणापानगती रुद्ध्वा ..... प्राणान् प्राणेषु जुह्वति इति कुम्भकः / प्राणायामपरेषु त्रिष्व् अप्य् अनुषज्यते नियताहारा इति //
SK
अपरे कर्म-योगिनः प्राण-आयामेषु निष्ठां कुर्वन्ति / ते च त्रि-विधाः पूरक-रेचक-कुम्भक-भेदेन; अपाने जुह्वति प्राणम् इति पूरकः, प्राणे ऽपानम् इति रेचकः, प्राण-अपान-गती रुद्ध्वा ..... प्राणान् प्राणेषु जुह्वति इति कुम्भकः / प्राण-आयाम-परेषु त्रिष्व् अप्य् अनुषज्यते नियत-आहारा इति //
SK
सर्वे ऽप्य् एते यज्ञविदो यज्ञक्षपितकल्मषाः ||
SK
सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ||
SK
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् |
SK
यज्ञ-शिष्ट-अमृत-भुजो यान्ति ब्रह्म सनातनम् |
SK
दैवयज्ञप्रभृतिप्राणायामपर्यन्तेषु कर्मयोगभेदेषु स्वसमीहितेषु प्रवृत्ता एते सर्वे ᳚सह यज्ञैः प्रजाः सृष्ट्वा᳚ इत्यभिहितमहायज्ञपूर्वकनित्यनैमित्तिककर्मरूपयज्ञविदः तन्निष्ठाः तत एव क्षपितकल्मषाः यज्ञशिष्टामृतेन शरीरधारणं कुर्वन्त एव कर्मयोग व्यापृताः सनातनं ब्रह्म यान्ति //
SK
दैव-यज्ञ-प्रभृति-प्राण-आयाम-पर्यन्तेषु कर्म-योग-भेदेषु स्व-समीहितेषु प्रवृत्ता एते सर्वे ᳚सह यज्ञैः प्रजाः सृष्ट्वा᳚ इत्य्-अभिहित-महा-यज्ञ-पूर्वक-नित्य-नैमित्तिक-कर्म-रूप-यज्ञ-विदः तन्-निष्ठाः तत एव क्षपित-कल्मषाः यज्ञ-शिष्ट-अमृतेन शरीर-धारणं कुर्वन्त एव कर्म-योग व्यापृताः सनातनं ब्रह्म यान्ति //
SK
नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम ||
SK
न अयं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरु-सत्तम ||
SK
अयज्ञस्य महायज्ञादिपूर्वकनित्यमैमित्तिककर्मरहितस्य नायं लोकः न प्राकृतलोकः, प्राकृतलोकसंबन्धिधर्मार्थकामाख्यः पुरुषार्थो न सिध्यति / कुत इतो ऽन्यो मोक्षाख्यः पुरुषार्थः? परमपुरुषार्थतया मोक्षस्य प्रस्तुतत्वात् तदितरपुरुषार्थः अयं लोकः इति निर्दिश्यते / स हि प्राकृतः //
SK
अयज्ञस्य महा-यज्ञ-आदि-पूर्वक-नित्य-मैमित्तिक-कर्म-रहितस्य न अयं लोकः न प्राकृत-लोकः, प्राकृत-लोक-संबन्धि-धर्म-अर्थ-काम-आख्यः पुरुष-अर्थो न सिध्यति / कुत इतो ऽन्यो मोक्ष-आख्यः पुरुष-अर्थः? परम-पुरुष-अर्थतया मोक्षस्य प्रस्तुतत्वात् तद्-इतर-पुरुष-अर्थः अयं लोकः इति निर्दिश्यते / स हि प्राकृतः //
SK
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे | कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ||
SK
एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे | कर्म-जान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ||
SK
एवं हि बहुप्रकाराः कर्मयोगाः ब्रह्मणो मुखे वितताः आत्मयाथात्म्यावाप्तिसाधनतया स्थिताः; तान् उक्तलक्षणान् उक्तभेदान् कर्मयोगान् सर्वान् कर्मजान् विद्धि अहरहरनुष्ठीयमाननित्यनैमित्तिककर्मजान् विद्धि / एवं ज्ञात्वा यथोक्तप्रकारेणानुष्ठाय मोक्ष्यसे //
SK
एवं हि बहु-प्रकाराः कर्म-योगाः ब्रह्मणो मुखे वितताः आत्म-याथात्म्य-अवाप्ति-साधनतया स्थिताः; तान् उक्त-लक्षणान् उक्त-भेदान् कर्म-योगान् सर्वान् कर्म-जान् विद्धि अहर्-अहर्-अनुष्ठीयमान-नित्य-नैमित्तिक-कर्म-जान् विद्धि / एवं ज्ञात्वा यथा-उक्त-प्रकारेण अनुष्ठाय मोक्ष्यसे //
SK
अन्तर्गतज्ञानतया कर्मणो ज्ञानाकारत्वम् उक्तम्; तत्रान्तर्गतज्ञाने कर्मणि ज्ञानांशस्यैव प्राधान्यम् आह --
SK
अन्तर्गत-ज्ञानतया कर्मणो ज्ञान-आकारत्वम् उक्तम्; तत्र अन्तर्गत-ज्ञाने कर्मणि ज्ञान-अंशस्य एव प्राधान्यम् आह ---
SK
श्रेयान् द्रव्यमयाद् यज्ञाज् ज्ञानयज्ञः परन्तप | सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ||
SK
श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप | सर्वं कर्म-अखिलं पार्थ ज्ञाने परिसमाप्यते ||
SK
उभयाकारे कर्मणि द्रव्यमयाद् अंशाज् ज्ञानमयांशः श्रेयान्; सर्वस्य कर्मणः तदितरस्य चाखिलस्योपादेयस्य ज्ञाने परिसमाप्तेः तद् एव सर्वैस् साधनैः प्राप्यभूतं ज्ञानं कर्मान्तर्गतत्वेनाभ्यस्यते / तद् एव अभ्यस्यमानं क्रमेण प्राप्यदशां प्रतिपद्यते //
SK
उभय-आकारे कर्मणि द्रव्य-मयाद् अंशाज् ज्ञान-मय-अंशः श्रेयान्; सर्वस्य कर्मणः तद्-इतरस्य च अखिलस्य उपादेयस्य ज्ञाने परिसमाप्तेः तद् एव सर्वैस् साधनैः प्राप्य-भूतं ज्ञानं कर्म-अन्तर्गतत्वेन अभ्यस्यते / तद् एव अभ्यस्यमानं क्रमेण प्राप्य-दशां प्रतिपद्यते //
SK
तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया | उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः ||
SK
तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया | उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ||
SK
तद् अत्मविषयं ज्ञानं ᳚अविनाशि तु तद् विद्धि᳚ इत्यारभ्य ᳚एषा ते ऽभिहिता᳚ इत्यन्तेन मयोपदिष्टम्, ᳚तद्युक्तकर्मणि वर्तमानत्वं विपाकानुगुणं काले काले प्रणिपातपरिप्रश्नसेवादिभिर् विशदाकारं ज्ञानिभ्यो विद्धि / साक्षात्कृतात्मस्वरूपास् तु ज्ञानिनः प्रणिपातादिभ्यस् सेविताः ज्ञानबुभुत्सया परितः पृच्छतस् तवाशयम् आलक्ष्य ज्ञानम् उपदेक्ष्यन्ति //
SK
तद् अत्म-विषयं ज्ञानं ᳚अविनाशि तु तद् विद्धि᳚ इत्य्-आरभ्य ᳚एषा ते ऽभिहिता᳚ इत्य्-अन्तेन मय ऊपदिष्टम्, ᳚तद्-युक्त-कर्मणि वर्तमानत्वं विपाक-अनुगुणं काले काले प्रणिपात-परिप्रश्न-सेवा-आदिभिर् विशद-आकारं ज्ञानिभ्यो विद्धि / साक्षात्-कृत-आत्म-स्व-रूपास् तु ज्ञानिनः प्रणिपात-आदिभ्यस् सेविताः ज्ञान-बुभुत्सया परितः पृच्छतस् तवा अशयम् आलक्ष्य ज्ञानम् उपदेक्ष्यन्ति //
SK
आत्मयाथात्म्यविषयस्य ज्ञानस्य साक्षात्काररूपस्य लक्षणम् आह --
SK
आत्म-याथात्म्य-विषयस्य ज्ञानस्य साक्षात्कार-रूपस्य लक्षणम् आह ---
SK
यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव | येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ||
SK
यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव | येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ||
SK
यज् ज्ञानं ज्ञात्वा पुनर् एवं देवाद्यात्माभिमानरूपं तत्कृतं ममताद्यास्पदं च मोहं न यास्यसि, येन च देवमनुष्याद्याकारेणानुसन्हितानि सर्वाणि भूतानि स्वात्मन्य् एव द्रक्ष्यसि, यतस् तवान्येषां च भूतानां प्रकृतिवियुक्तानां ज्ञानैकाकारतया साम्यम् / प्रकृतिसंसर्गदोषविनिर्मुक्तम् आत्मरूपं सर्वं समम् इति च वक्ष्यते, ᳚निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः᳚ इति / अथो मयि सर्वभूतान्य् अशेषेण द्रक्ष्यसि, मत्स्वरूपसाम्यात् परिशुद्धस्य सर्वस्यात्मवस्तुनः / ᳚इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः᳚ इति हि वक्ष्यते / तथा, ᳚तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यम् उपैति᳚ इत्येवमादिषु नामरूपविनिर्मुक्तस्यात्मवस्तुनः परस्वरूपसाम्यम् अवगम्यते / अतः प्रकृतिविनिर्मुक्तं सर्वम् आत्मवस्तु परस्परं समं सर्वेश्वरेण च समम् //
SK
यज् ज्ञानं ज्ञात्वा पुनर् एवं देव-आद्य्-आत्म-अभिमान-रूपं तत्-कृतं ममता-आद्य्-आस्पदं च मोहं न यास्यसि, येन च देव-मनुष्य-आद्य्-आकारेण अनुसन्हितानि सर्वाणि भूतानि स्व-आत्मन्य् एव द्रक्ष्यसि, यतस् तव अन्येषां च भूतानां प्रकृति-वियुक्तानां ज्ञान-एक-आकारतया साम्यम् / प्रकृति-संसर्ग-दोष-विनिर्मुक्तम् आत्म-रूपं सर्वं समम् इति च वक्ष्यते, ᳚निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः᳚ इति / अथो मयि सर्व-भूतान्य् अशेषेण द्रक्ष्यसि, मत्-स्व-रूप-साम्यात् परिशुद्धस्य सर्वस्या अत्म-वस्तुनः / ᳚इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः᳚ इति हि वक्ष्यते / तथा, ᳚तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति᳚ इत्य्-एवम्-आदिषु नाम-रूप-विनिर्मुक्तस्या अत्म-वस्तुनः पर-स्व-रूप-साम्यम् अवगम्यते / अतः प्रकृति-विनिर्मुक्तं सर्वम् आत्म-वस्तु परस्परं समं सर्व-ईश्वरेण च समम् //
SK
अपि चेद् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः | सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ||
SK
अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः | सर्वं ज्ञान-प्लवेन एव वृजिनं संतरिष्यसि ||
SK
यद्य् अपि सर्वेभ्यः पापेभ्यः पापकृत्तमो ऽसि, सर्वं पूर्वार्जितं वृजिनरूपं समुद्रम् आत्मविषयज्ञानरूपप्लवेनैव संतरिष्यसि //
SK
यद्य् अपि सर्वेभ्यः पापेभ्यः पाप-कृत्तमो ऽसि, सर्वं पूर्व-अर्जितं वृजिन-रूपं समुद्रम् आत्म-विषय-ज्ञान-रूप-प्लवेन एव संतरिष्यसि //
SK
यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन | ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ||
SK
यथ ऐधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन | ज्ञान-अग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ||
SK
सम्यक्प्रवृद्धो ऽग्निर् इन्धनसञ्चयम् इव, आत्मयाथात्म्यज्ञानरूपो ऽग्निर् जीवात्मगतम् अनादिकालप्रवृत्तानन्तकर्मसञ्चयं भस्मीकरोति //
SK
सम्यक्-प्रवृद्धो ऽग्निर् इन्धन-सञ्चयम् इव, आत्म-याथात्म्य-ज्ञान-रूपो ऽग्निर् जीव-आत्म-गतम् अनादि-काल-प्रवृत्त-अनन्त-कर्म-सञ्चयं भस्मी-करोति //
SK
न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते | तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ||
SK
न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते | तत् स्वयं योग-संसिद्धः कालेना अत्मनि विन्दति ||
SK
यस्माद् आत्मज्ञानेन सदृशं पवित्रं शुद्धिकरम् इह जगति वस्त्वन्तरं न विद्यते, तस्माद् आत्मज्ञानं सर्वपापं नाशयतीत्यर्थः / तत् तथाविधं ज्ञानं यथोपदेशम् अहरहरनुष्ठीयमानज्ञानाकारकर्मयोगसंसिद्धः कालेन स्वात्मनि स्वयम् एव लभते //
SK
यस्माद् आत्म-ज्ञानेन सदृशं पवित्रं शुद्धि-करम् इह जगति वस्त्व्-अन्तरं न विद्यते, तस्माद् आत्म-ज्ञानं सर्व-पापं नाशयति इत्य्-अर्थः / तत् तथा-विधं ज्ञानं यथा-उपदेशम् अहर्-अहर्-अनुष्ठीयमान-ज्ञान-आकार-कर्म-योग-संसिद्धः कालेन स्व-आत्मनि स्वयम् एव लभते //
SK
तद् एव विस्पष्टम् आह --
SK
तद् एव विस्पष्टम् आह ---
SK
श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः | ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति ||
SK
श्रद्धावान् लभते ज्ञानं तत्-परः संयत-इन्द्रियः | ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेण अधिगच्छति ||
SK
एवम् उपदेशाज् ज्ञानं लब्ध्वा चोपदिष्टज्ञानवृद्धौ श्रद्धावान् तत्परः तत्रैव नियतमनाः तदितरविषयात् संयतेन्द्रियो ऽचिरेण कालेनोक्तलक्षणविपाकदशापन्नं ज्ञानं लभते, तथाविधं ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति परं निर्वाणम् आप्नोति //
SK
एवम् उपदेशाज् ज्ञानं लब्ध्वा च उपदिष्ट-ज्ञान-वृद्धौ श्रद्धावान् तत्-परः तत्र एव नियत-मनाः तद्-इतर-विषयात् संयत-इन्द्रियो ऽचिरेण कालेन उक्त-लक्षण-विपाक-दशा-आपन्नं ज्ञानं लभते, तथा-विधं ज्ञानं लब्ध्वा पराम् शान्तिम् अचिरेण अधिगच्छति परं निर्वाणम् आप्नोति //
SK
अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति | नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ||
SK
अज्ञश् च अश्रद्दधानश् च संशय-आत्मा विनश्यति | न अयं लोको ऽस्ति न परो न सुखं संशय-आत्मनः ||
SK
अज्ञः एवम् उपदेशलब्धज्ञानरहितः, उपदिष्टज्ञानवृद्ध्युपाये चाश्रद्धधानः अत्वरमाणः, उपदिष्टे च ज्ञाने संशयात्मा संशयमनाः विनश्यति विनष्टो भवति / अस्मिन्न् उपदिष्टे आत्मयाथात्म्यविषये ज्ञाने संशयात्मनो ऽयम् अपि प्राकृतो लोको नास्ति, न च परः / धर्मार्थकामरूपपुरुषार्थाश् च न सिध्यन्ति, कुतो मोक्ष इत्यर्थः; शास्त्रीयकर्मसिद्धिरूपत्वात् सर्वेषां पुरुषार्थानाम्, शास्त्रीयकर्मजन्यसिद्धेश् च देहातिरिक्तात्मनिश्चयपूर्वकत्वात् / अतः सुखलवभागित्वम् आत्मनि संशयात्मनो न संभवति //
SK
अज्ञः एवम् उपदेश-लब्ध-ज्ञान-रहितः, उपदिष्ट-ज्ञान-वृद्ध्य्-उपाये च अश्रद्धधानः अत्वरमाणः, उपदिष्टे च ज्ञाने संशय-आत्मा संशय-मनाः विनश्यति विनष्टो भवति / अस्मिन्न् उपदिष्टे आत्म-याथात्म्य-विषये ज्ञाने संशय-आत्मनो ऽयम् अपि प्राकृतो लोको न अस्ति, न च परः / धर्म-अर्थ-काम-रूप-पुरुष-अर्थाश् च न सिध्यन्ति, कुतो मोक्ष इत्य्-अर्थः; शास्त्रीय-कर्म-सिद्धि-रूपत्वात् सर्वेषां पुरुष-अर्थानाम्, शास्त्रीय-कर्म-जन्य-सिद्धेश् च देह-अतिरिक्त-आत्म-निश्चय-पूर्वकत्वात् / अतः सुख-लव-भागित्वम् आत्मनि संशय-आत्मनो न संभवति //
SK
योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् | आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ||
SK
योग-संन्यस्त-कर्माणं ज्ञान-संच्छिन्न-संशयम् | आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ||
SK
यथोपदिष्टयोगेन संन्यस्तकर्माणम् ज्ञानाकारतापन्नकर्माणं यथोपदिष्टेन चात्मज्ञानेन आत्मनि संच्छिन्नसंशयम्, आत्मवन्तं मनस्विनम् -- उपदिष्टार्थे दृढावस्थितमनसं बन्धहेतुभूतप्राचीनानन्तकर्माणि न निबध्नन्ति //
SK
यथा-उपदिष्ट-योगेन संन्यस्त-कर्माणम् ज्ञान-आकारता-आपन्न-कर्माणं यथा-उपदिष्टेन चा अत्म-ज्ञानेन आत्मनि संच्छिन्न-संशयम्, आत्मवन्तं मनस्विनम् --- उपदिष्ट-अर्थे दृढ-अवस्थित-मनसं बन्ध-हेतु-भूत-प्राचीन-अनन्त-कर्माणि न निबध्नन्ति //
SK
तस्माद् अज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः | छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ||
SK
तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञान-असिना आत्मनः | छित्त्व ऐनं संशयं योगम् आतिष्ठ उत्तिष्ठ भारत ||
SK
तस्माद् अनाद्यज्ञानसंभूतं हृत्स्थम् आत्मविषयं संशयं मयोपदिष्टेनात्मज्ञानासिना छित्त्वा मयोपदिष्टं कर्मयोगम् आतिष्ठ; तदर्थम् उत्तिष्ठ भारतेति //
SK
तस्माद् अनाद्य्-अज्ञान-संभूतं हृत्-स्थम् आत्म-विषयं संशयं मय ऊपदिष्टेना अत्म-ज्ञान-असिना छित्त्वा मय ऊपदिष्टं कर्म-योगम् आतिष्ठ; तद्-अर्थम् उत्तिष्ठ भारत इति //
SK
चतुर्थे ऽध्याये कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदो ज्ञानांशस्य च प्राधान्यम् उक्तम्; ज्ञानयोगाधिकारिणो ऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वाद् अप्रमादत्वात् सुकरत्वान् निरपेक्षत्वाच् च ज्यायस्त्वं तृतीय एवोक्तम् / इदानीं कर्मयोगस्यात्मप्राप्तिसाधनत्वे ज्ञाननिष्ठायाश् शैघ्र्यं कर्मयोगान्तर्गताकर्ट्र्त्वानुसन्धानप्रकारं च प्रतिपाद्य तन्मूलं ज्ञानं च विशोध्यते //
SK
चतुर्थे ऽध्याये कर्म-योगस्य ज्ञान-आकारता-पूर्वक-स्व-रूप-भेदो ज्ञान-अंशस्य च प्राधान्यम् उक्तम्; ज्ञान-योग-अधिकारिणो ऽपि कर्म-योगस्य अन्तर्गत-आत्म-ज्ञानत्वाद् अप्रमादत्वात् सुकरत्वान् निरपेक्षत्वाच् च ज्यायस्त्वं तृतीय एव उक्तम् / इदानीं कर्म-योगस्या अत्म-प्राप्ति-साधनत्वे ज्ञान-निष्ठायाश् शैघ्र्यं कर्म-योग-अन्तर्गत-अकर्ट्र्त्व-अनुसन्धान-प्रकारं च प्रतिपाद्य तन्-मूलं ज्ञानं च विशोध्यते //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source