Rāmānuja's Commentary on the Bhagavadgītā Bhagavadgītābhāṣya
Bहगवद्गीताभाष्य
9.1 SK इदं तु गुह्यतमं प्रवक्ष्याम्य् अनसूयवे | ज्ञानं विज्ञानसहितं यज् ज्ञात्वा मोक्षसे ऽशुभात् ||
2 SK इदं तु गुह्यतमं प्रवक्ष्याम्य् अनसूयवे | ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्षसे ऽशुभात् ||
9.1 SK इदं तु गुह्यतमं भक्तिरूपम् उपासनाख्यं ज्ञानं विज्ञानसहितम् उपासनगतविशेषज्ञानसहितम्, अनसूयवे ते प्रवक्ष्यामि -- मद्विषयं सकलेतरविसजातीयम् अपरिमितप्रकारं माहात्म्यं श्रुत्वा, एवम् एव संभवतीति मन्वानाय ते प्रवक्ष्यामीत्यर्थः / यज् ज्ञानम् अनुष्ठानपर्यन्तं ज्ञात्वा मत्प्राप्तिविरोधिनः सर्वस्माद् अशुभान् मोक्ष्यसे //
4 SK इदं तु गुह्यतमं भक्ति-रूपम् उपासन-आख्यं ज्ञानं विज्ञान-सहितम् उपासन-गत-विशेष-ज्ञान-सहितम्, अनसूयवे ते प्रवक्ष्यामि --- मद्-विषयं सकल-इतर-विसजातीयम् अपरिमित-प्रकारं माहात्म्यं श्रुत्वा, एवम् एव संभवति इति मन्वानाय ते प्रवक्ष्यामि इत्य्-अर्थः / यज् ज्ञानम् अनुष्ठान-पर्यन्तं ज्ञात्वा मत्-प्राप्ति-विरोधिनः सर्वस्माद् अशुभान् मोक्ष्यसे //
9.2 SK राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् | प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ||
6 SK राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् | प्रत्यक्ष-अवगमं धर्म्यं सु-सुखं कर्तुम् अव्ययम् ||
9.2 SK राजविद्या विद्यानां राजा, राजगुह्यं गुह्यानां राजा / राज्ञां विद्येति वा राजविद्या / राजानो हि विस्तीर्णागाध्यमनसः / महामनसाम् इयं विद्येत्यर्थः / महामनस एव हि गोपनीयगोपनकुशला इति तेषाम् एव गुह्यम् / इदम् उत्तमं पवित्रं मत्प्राप्तिविरोध्यशेषकल्मषापहम् / प्रत्यक्षावगमम् / अवगम्यत इत्य् अवगमः -- विषयः; प्रत्यक्षभूतो ऽवगमः विषयो यस्य ज्ञानस्य तत् प्रत्यक्षावगमम् / भक्तिरूपेणोपासनेनोपास्यमानो ऽहं तादानीम् एवोपासितुः प्रत्यक्षताम् उपगतो भवामीत्यर्थः / अथापि धर्म्यं धर्माद् अनपेतम् / धर्मत्वं हि निश्श्रेयससाधनत्वम् / स्वरूपेणैवात्यर्थप्रियत्वेन तदानीम् एव मद्दर्शनापादनतया च स्वयं निश्श्रेयसरूपम् अपि निरतिशयनिश्श्रेयसरूपात्यन्तिकमत्प्राप्तिसाधनम् इत्यर्थः / अत एव सुसुखं कर्तुं सुसुखोपादानम् / अत्यर्थप्रियत्वेनोपादेयम् / अव्ययम् अक्षयम्; मत्प्राप्तिं साधयित्वा+अपि स्वयं न क्षीयते / एवंरूपम् उपासनं कुर्वतो मत्प्रदाने कृते ऽपि किंचित् कृतं मया+अस्येति मे प्रतिभातीत्यर्थः //
8 SK राज-विद्या विद्यानां राजा, राज-गुह्यं गुह्यानां राजा / राज्ञां विद्य ईति वा राज-विद्या / राजानो हि विस्तीर्ण-अगाध्य-मनसः / महा-मनसाम् इयं विद्य ईत्य्-अर्थः / महा-मनस एव हि गोपनीय-गोपन-कुशला इति तेषाम् एव गुह्यम् / इदम् उत्तमं पवित्रं मत्-प्राप्ति-विरोध्य्-अशेष-कल्मष-अपहम् / प्रत्यक्ष-अवगमम् / अवगम्यत इत्य् अवगमः --- विषयः; प्रत्यक्ष-भूतो ऽवगमः विषयो यस्य ज्ञानस्य तत् प्रत्यक्ष-अवगमम् / भक्ति-रूपेण उपासनेन उपास्यमानो ऽहं तादानीम् एव उपासितुः प्रत्यक्षताम् उपगतो भवामि इत्य्-अर्थः / अथ अपि धर्म्यं धर्माद् अनपेतम् / धर्मत्वं हि निश्श्रेयस-साधनत्वम् / स्व-रूपेण एव अत्यर्थ-प्रियत्वेन तदानीम् एव मद्-दर्शन-आपादनतया च स्वयं निश्श्रेयस-रूपम् अपि निरतिशय-निश्श्रेयस-रूप-आत्यन्तिक-मत्-प्राप्ति-साधनम् इत्य्-अर्थः / अत एव सु-सुखं कर्तुं सु-सुख-उपादानम् / अत्यर्थ-प्रियत्वेन उपादेयम् / अव्ययम् अक्षयम्; मत्-प्राप्तिं साधयित्वा+अपि स्वयं न क्षीयते / एवं-रूपम् उपासनं कुर्वतो मत्-प्रदाने कृते ऽपि किंचित् कृतं मया+अस्य इति मे प्रतिभाति इत्य्-अर्थः //
9.3 SK अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप | अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ||
10 SK अश्रद्दधानाः पुरुषा धर्मस्य अस्य परन्-तप | अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ||
9.3 SK अस्योपासनाख्यस्य धर्मस्य निरतिशयप्रियमद्विषयतया स्वयं निरतिशयप्रियरूपस्य परमनिश्श्रेयसरूपमत्प्राप्तिसाधनस्याव्ययस्योपादानयोग्यदशायां प्राप्य अश्रद्दधानाः विश्वासपूर्वकत्वरारहिताः पुरुषाः माम् अप्राप्य मृत्युरूपे संसारवर्त्मनि नितरां वर्तन्ते / अहो महद् इदम् आश्चर्यम् इत्यर्थः //
12 SK अस्य उपासन-आख्यस्य धर्मस्य निरतिशय-प्रिय-मद्-विषयतया स्वयं निरतिशय-प्रिय-रूपस्य परम-निश्श्रेयस-रूप-मत्-प्राप्ति-साधनस्य अव्ययस्य उपादान-योग्य-दशायां प्राप्य अश्रद्दधानाः विश्वास-पूर्वक-त्वरा-रहिताः पुरुषाः माम् अप्राप्य मृत्यु-रूपे संसार-वर्त्मनि नितरां वर्तन्ते / अहो महद् इदम् आश्चर्यम् इत्य्-अर्थः //
BhGR_p213951 SK शृणु तावत् प्राप्यभूतस्य ममाचिन्त्यमहिमानम् --
14 SK शृणु तावत् प्राप्य-भूतस्य मम अचिन्त्य-महिमानम् ---
9.4 SK मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना | मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः ||
16 SK मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना | मत्-स्थानि सर्व-भूतानि न च अहं तेष्व् अवस्थितः ||
9.5 SK न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् | भूतभृन् न च भूतस्थो ममात्मा भूतभावनः ||
18 SK न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् | भूत-भृन् न च भूत-स्थो ममा अत्मा भूत-भावनः ||
BhGR_9.4-5 SK इदं चेतनाचेतनात्मकं कृत्स्नं जगद् अव्यक्तमूर्तिना अप्रकाशितस्वरूपेण मया अन्तर्यामिणा, ततम् अस्य जगतो धारणार्थं नियमनार्थं च शेषित्वेन व्याप्तम् इत्यर्थः / यथान्तर्यामिब्राह्मणे, ᳚यः पृथिव्यां तिष्ठन् ... यं पृथिवी न वेद᳚, ᳚य आत्मनि तिष्ठन् ... यम् आत्मा न वेद᳚ इति चेतनाचेतनवस्तुजातैर् अदृष्टेणान्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता / ततो मत्स्थानि सर्वभूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि / तत्रैव ब्राह्मणे, ᳚यस्य पृथिवी शरीरं ... यः पृथिवीम् अन्तरो यमयति, यस्यात्मा शरीरं ... य आत्मानम् अन्तरो यमयति᳚ इति शरीरत्वेन नियाम्यत्वप्रतिपादनात् तदायत्ते स्थितिनियमने प्रतिपादिते; शेषित्वं च / न चाहं तेष्व् अवस्थितः -- अहं तु न तदायत्तस्थितिः; मत्स्थितौ तैर् न कश्चिद् उपकार इत्यथः / न च मत्स्थानि भूतानि -- न घटादीनां जलादेर् इव मम धारकत्वम् / कथम्? मत्सङ्कल्पेन / पश्य ममाइश्वरं योगम् अन्यत्र कुत्रचिद् असंभावनीयं मदसाधारणम् आश्चर्यं योगं पश्य / को ऽसौ योग? भूतभृन् न च भूतस्थो ममात्मा भूतभावनः / सर्वेषां भूतानां भर्ताहम्; न च तैः कश्चिद् अपि ममोपकारः / ममात्मैव भूतभावनः -- मम मनोमयस् सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च //
20 SK इदं चेतन-अचेतन-आत्मकं कृत्स्नं जगद् अव्यक्त-मूर्तिना अप्रकाशित-स्व-रूपेण मया अन्तर्यामिणा, ततम् अस्य जगतो धारण-अर्थं नियमन-अर्थं च शेषित्वेन व्याप्तम् इत्य्-अर्थः / यथ आन्तर्यामि-ब्राह्मणे, ᳚यः पृथिव्यां तिष्ठन् ... यं पृथिवी न वेद᳚, ᳚य आत्मनि तिष्ठन् ... यम् आत्मा न वेद᳚ इति चेतन-अचेतन-वस्तु-जातैर् अदृष्टेण अन्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता / ततो मत्-स्थानि सर्व-भूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि / तत्र एव ब्राह्मणे, ᳚यस्य पृथिवी शरीरं ... यः पृथिवीम् अन्तरो यमयति, यस्या अत्मा शरीरं ... य आत्मानम् अन्तरो यमयति᳚ इति शरीरत्वेन नियाम्यत्व-प्रतिपादनात् तद्-आयत्ते स्थिति-नियमने प्रतिपादिते; शेषित्वं च / न च अहं तेष्व् अवस्थितः --- अहं तु न तद्-आयत्त-स्थितिः; मत्-स्थितौ तैर् न कश्चिद् उपकार इत्य्-अथः / न च मत्-स्थानि भूतानि --- न घट-आदीनां जल-आदेर् इव मम धारकत्वम् / कथम्? मत्-सङ्कल्पेन / पश्य मम ऐश्वरं योगम् अन्यत्र कुत्रचिद् असंभावनीयं मद्-असाधारणम् आश्चर्यं योगं पश्य / को ऽसौ योग? भूत-भृन् न च भूत-स्थो ममा अत्मा भूत-भावनः / सर्वेषां भूतानां भर्त आहम्; न च तैः कश्चिद् अपि मम उपकारः / मम-आत्म ऐव भूत-भावनः --- मम मनो-मयस् सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च //
BhGR_p215567 SK सर्वस्यास्य स्वसङ्कल्पायत्तस्थितिप्रवृत्तित्वे निदर्शनम् आह --
22 SK सर्वस्य अस्य स्व-सङ्कल्प-आयत्त-स्थिति-प्रवृत्तित्वे निदर्शनम् आह ---
9.6 SK यथा+आकाशस्थितो नित्यं वायुः सर्वत्रगो महान् | तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय ||
24 SK यथा+आकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् | तथा सर्वाणि भूतानि मत्-स्थानि इत्य् उपधारय ||
9.6 SK यथा आकशे अनालम्बने महान् वयुः स्थितः सर्वत्र गच्छति; स तु वायुर् निरालम्बनो मदायत्तस्थितिर् इत्य् अवश्याभ्युपगमनीयः -- एवम् एव सर्वाणि भूतानि तैर् अदृष्टे मयि स्थितानि मयैव धृतानीत्य् उपधारय / यथा+आहुर् वेदविदः, ᳚मेघोदयः सागरसन्निवृत्तिर् इन्दोर् विभागः स्फुरितानि वायोः / विद्युद्विभङ्गो गतिर् उष्णरश्मेर् विष्णोर् विचित्राः प्रभवन्ति मायाः᳚ इति विष्णोर् अनन्यसाधारणानि महाश्चर्याणीत्यर्थः / श्रुतिर् अपि, ᳚एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः᳚, ᳚भीषा+अस्माद् वातः पवते,भीषोदेति सूर्यः, भीषा+अस्माद् अग्निश् चेन्द्रश् च᳚ इत्यादिका //
26 SK यथा आकशे अनालम्बने महान् वयुः स्थितः सर्वत्र गच्छति; स तु वायुर् निरालम्बनो मद्-आयत्त-स्थितिर् इत्य् अवश्य-अभ्युपगमनीयः --- एवम् एव सर्वाणि भूतानि तैर् अदृष्टे मयि स्थितानि मय ऐव धृतानि इत्य् उपधारय / यथा+आहुर् वेद-विदः, ᳚मेघ-उदयः सागर-सन्निवृत्तिर् इन्दोर् विभागः स्फुरितानि वायोः / विद्युद्-विभङ्गो गतिर् उष्ण-रश्मेर् विष्णोर् विचित्राः प्रभवन्ति मायाः᳚ इति विष्णोर् अनन्य-साधारणानि महा-आश्चर्याणि इत्य्-अर्थः / श्रुतिर् अपि, ᳚एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्या-चन्द्र-मसौ विधृतौ तिष्ठतः᳚, ᳚भीषा+अस्माद् वातः पवते,भीष ऊदेति सूर्यः, भीषा+अस्माद् अग्निश् च इन्द्रश् च᳚ इत्य्-आदिका //
BhGR_p216451 SK सकलेतरनिरपेक्षस्य भगवतस् सङ्कल्पात् सर्वेषां स्थितिः प्रवृत्तिश् चोक्ता तथा तत् सङ्कल्पाद् एव सर्वेषाम् उत्पत्तिप्रलयाव् अपीत्य् आह --
28 SK सकल-इतर-निरपेक्षस्य भगवतस् सङ्कल्पात् सर्वेषां स्थितिः प्रवृत्तिश् च उक्ता तथा तत् सङ्कल्पाद् एव सर्वेषाम् उत्पत्ति-प्रलयाव् अपि इत्य् आह ---
9.7 SK सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् | कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ||
30 SK सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् | कल्प-क्षये पुनस् तानि कल्प-आदौ विसृजाम्य् अहम् ||
9.7 SK स्थावरजङ्गमात्मकानि सर्वाणि भूतानि, मामिकाम् मच्छरीरभूताम्, प्रकृतिं तमश्शब्दवाच्यां नामरूपविभागानर्हाम्, कल्पक्षये चतुर्मुखावसानसमये मत्सङ्कल्पाद् यान्ति; तान्य् एव भूतानि कल्पादौ पुनर् विसृज्याम्य् अहम्; यथा+आह मनुः ᳚आसीद् इदं तमोभूतं ... सो ऽभिध्याय शरीरात् स्वात्᳚ इति / श्रुतिर् अपि ᳚यस्याव्यक्तं शरीरम्᳚, ᳚अव्यक्तम् अक्षरे लीयते, अक्षरं तमसि लीयते᳚ इत्यादिका, ᳚तम् आसीत् तमसा गूढम् अग्रे प्रकेतम्᳚ इति च //
32 SK स्थावर-जङ्गम-आत्मकानि सर्वाणि भूतानि, मामिकाम् मच्-छरीर-भूताम्, प्रकृतिं तमश्-शब्द-वाच्यां नाम-रूप-विभाग-अनर्हाम्, कल्प-क्षये चतुर्-मुख-अवसान-समये मत्-सङ्कल्पाद् यान्ति; तान्य् एव भूतानि कल्प-आदौ पुनर् विसृज्याम्य् अहम्; यथा+आह मनुः ᳚आसीद् इदं तमो-भूतं ... सो ऽभिध्याय शरीरात् स्वात्᳚ इति / श्रुतिर् अपि ᳚यस्य अव्यक्तं शरीरम्᳚, ᳚अव्यक्तम् अक्षरे लीयते, अक्षरं तमसि लीयते᳚ इत्य्-आदिका, ᳚तम् आसीत् तमसा गूढम् अग्रे प्रकेतम्᳚ इति च //
9.8 SK प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः | भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ||
34 SK प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः | भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ||
9.8 SK स्वकीयां विचित्रपरिणामिनीं प्रकृतिम् अवष्टभ्य अष्टधा परिणाम्य्य् इमं चतुर्विधं देवतिर्यङ्मनुष्यस्थावरात्मकं भूतग्रामं मदीयाया मोहिन्या गुणमय्याः प्रकृतेर् वशाद् अवशं पुनः पुनः काले काले विसृजामि //
36 SK स्वकीयां विचित्र-परिणामिनीं प्रकृतिम् अवष्टभ्य अष्टधा परिणाम्य्य् इमं चतुर्-विधं देव-तिर्यङ्-मनुष्य-स्थावर-आत्मकं भूत-ग्रामं मदीयाया मोहिन्या गुण-मय्याः प्रकृतेर् वशाद् अवशं पुनः पुनः काले काले विसृजामि //
BhGR_p217635 SK एवं तर्हि विषमसृष्ट्यादीनि कर्माणि नैघृण्याद्यापादनेन भवन्तं बध्नन्तीत्य् अत्राह --
38 SK एवं तर्हि विषम-सृष्ट्य्-आदीनि कर्माणि नैघृण्य-आद्य्-आपादनेन भवन्तं बध्नन्ति इत्य् अत्रा अह ---
9.9 SK न च मां तानि कर्माणि निबध्नन्ति धनञ्जय | उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ||
40 SK न च मां तानि कर्माणि निबध्नन्ति धनञ्जय | उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ||
9.9 SK न च तानि विषमसृष्ट्यादीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं नापादयन्ति, यतः क्षेत्रज्ञानां पूर्वकृतान्य् एव कर्माणि देवादिविषमभावहेतवः; अहं तु तत्र वैषम्ये असक्तः तत्रोदासीनवद् आसीनः; यथा +आह सूत्रकारः ᳚वैषम्यनैर्घृण्ये न सापेक्षत्वात्᳚, न कर्माविभागाद् इति चेन् नानादित्वात्᳚ इति //
42 SK न च तानि विषम-सृष्ट्य्-आदीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्य-आदिकं ना अपादयन्ति, यतः क्षेत्र-ज्ञानां पूर्व-कृतान्य् एव कर्माणि देव-आदि-विषम-भाव-हेतवः; अहं तु तत्र वैषम्ये असक्तः तत्र उदासीनवद् आसीनः; यथा +आह सूत्र-कारः ᳚वैषम्य-नैर्घृण्ये न सापेक्षत्वात्᳚, न कर्म-अविभागाद् इति चेन् न अनादित्वात्᳚ इति //
9.10 SK मया+अध्यक्षेण प्रकृतिः सूयते सचराचरम् | हेतुना+अनेन कौन्तेय जगद् धि परिवर्तते ||
44 SK मया+अध्यक्षेण प्रकृतिः सूयते सचर-अचरम् | हेतुना+अनेन कौन्तेय जगद् धि परिवर्तते ||
BhGR_1.9-10 SK तस्मात् क्षेत्रज्ञकर्मानुगुणं मदीया प्रकृतिः सत्यसङ्कल्पेन मया+अध्यक्षेणेक्षिता सचराचरं जगत् सूयते / अनेन क्षेत्रज्ञकर्मानुगुणमदीक्षणेन हेतुना जगत् परिवर्तत इति मत्स्वाम्यं सत्यसङ्कल्पत्वं नैर्घृण्यादिदोषरहितत्वम् इत्य् एवम् आदिकं मम वसुदेवसूनोर् ऐश्वरं योगं पश्य / यथा+आह श्रुतिः, ᳚अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः / मायां तु प्रकृतिं विद्यान् मायिनं तु म्हेश्वरम् // इति //
46 SK तस्मात् क्षेत्र-ज्ञ-कर्म-अनुगुणं मदीया प्रकृतिः सत्य-सङ्कल्पेन मया+अध्यक्षेणा इक्षिता सचर-अचरं जगत् सूयते / अनेन क्षेत्र-ज्ञ-कर्म-अनुगुण-मद्-ईक्षणेन हेतुना जगत् परिवर्तत इति मत्-स्वाम्यं सत्य-सङ्कल्पत्वं नैर्घृण्य-आदि-दोष-रहितत्वम् इत्य् एवम् आदिकं मम वसु-देव-सूनोर् ऐश्वरं योगं पश्य / यथा+आह श्रुतिः, ᳚अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् च अन्यो मायया सन्निरुद्धः / मायां तु प्रकृतिं विद्यान् मायिनं तु म्हा-ईश्वरम् // इति //
9.11 SK अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् | परं भावम् अजानन्तो मम भूतमहेश्वरम् ||
48 SK अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् | परं भावम् अजानन्तो मम भूत-महा-ईश्वरम् ||
9.11 SK एवं मां भूतमहेश्वरं सर्वज्ञं सत्यसङ्कल्पं निखिलजगदेककारणं परमकारुणिकतया सर्वसमाश्रयणीयत्वाय मानुषीं तनुम् आश्रितं स्वकृतैः पापकर्मभिर् मूढा अवजानन्ति प्राकृतमनुष्यसमं मन्यन्ते / भूतमहेश्वरस्य ममापारकारुण्योदार्यसौशील्यवात्सल्यनिबन्धनं मनुष्यत्वसमाश्रयणलक्षणम् इमं परं भावम् अजानन्तो मनुष्यत्वसमाश्रयणमात्रेण माम् इतरसजातीयं मत्वा तिरस्कुर्वन्तीत्यर्थः //
50 SK एवं मां भूत-महा-ईश्वरं सर्व-ज्ञं सत्य-सङ्कल्पं निखिल-जगद्-एक-कारणं परम-कारुणिकतया सर्व-समाश्रयणीयत्वाय मानुषीं तनुम् आश्रितं स्व-कृतैः पाप-कर्मभिर् मूढा अवजानन्ति प्राकृत-मनुष्य-समं मन्यन्ते / भूत-महा-ईश्वरस्य मम-अपार-कारुण्य-उदार्य-सौशील्य-वात्सल्य-निबन्धनं मनुष्यत्व-समाश्रयण-लक्षणम् इमं परं भावम् अजानन्तो मनुष्यत्व-समाश्रयण-मात्रेण माम् इतर-सजातीयं मत्वा तिरस्कुर्वन्ति इत्य्-अर्थः //
9.12 SK मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः | राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ||
52 SK मोघ-आशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः | राक्षसीम् आसुरीं च एव प्रकृतिं मोहिनीं श्रिताः ||
9.12 SK मम मनुष्यत्वे परमकारुण्यादिपरत्वतिरोधानकरीं राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः, मोघाशाः मोघ्वाञ् छिताः निष्फलवाञ् छिताः, मोघ्कर्माणः मोघारम्भाः, मोघज्ञानाः सर्वेषु मदीयेषु चराचरेष्व् अर्थेषु विपरीतज्ञानतया निष्फलज्ञानाः, विचेतसः तथा सर्वत्र विगतयाथात्म्यज्ञानाः मां सर्वेश्वरम् इतरसमं मत्वा मयि च यत् कर्तुम् इच्छन्ति, यद् उद्दिश्यारम्भान् कुर्वते, तत् सर्वं मोघं भवतीत्यर्थः //
54 SK मम मनुष्यत्वे परम-कारुण्य-आदि-परत्व-तिरोधान-करीं राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः, मोघ-आशाः मोघ्वाञ् छिताः निष्फलवाञ् छिताः, मोघ्-कर्माणः मोघ-आरम्भाः, मोघ-ज्ञानाः सर्वेषु मदीयेषु चर-अचरेष्व् अर्थेषु विपरीत-ज्ञानतया निष्फल-ज्ञानाः, विचेतसः तथा सर्वत्र विगत-याथात्म्य-ज्ञानाः मां सर्व-ईश्वरम् इतर-समं मत्वा मयि च यत् कर्तुम् इच्छन्ति, यद् उद्दिश्या अरम्भान् कुर्वते, तत् सर्वं मोघं भवति इत्य्-अर्थः //
9.13 SK महात्मानस् तु माम् पार्थ दैवीं प्रकृतिम् आश्रिताः | भजन्त्य् अनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम् ||
56 SK महा-आत्मानस् तु माम् पार्थ दैवीं प्रकृतिम् आश्रिताः | भजन्त्य् अनन्य-मनसो ज्ञात्वा भूत-आदिम् अव्ययम् ||
9.13 SK ये तु स्वकृतैः पुण्यसञ्चयैः मां शरणम् उपगम्य विध्वस्तसमस्तपापबन्धा दैवीं प्रकृतिम् आश्रिता महात्मानः, ते, भूतादिम् अव्ययम् वाङ्मनसागोचरनामकर्मस्वरूपं परमकारुणिकतया साधुपरित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वा+अनन्यमनसो मां भजन्ते; मत्प्रियत्वातिरेकेण मद्भजनेन विना मनसश् चात्मनश् च बाह्यकरणानां च धारणम् अलभमाना मद्भजनैकप्रयोजना भजन्ते //
58 SK ये तु स्व-कृतैः पुण्य-सञ्चयैः मां शरणम् उपगम्य विध्वस्त-समस्त-पाप-बन्धा दैवीं प्रकृतिम् आश्रिता महा-आत्मानः, ते, भूत-आदिम् अव्ययम् वाङ्-मनसा-गोचर-नाम-कर्म-स्व-रूपं परम-कारुणिकतया साधु-परित्राणाय मनुष्यत्वेन अवतीर्णं मां ज्ञात्वा+अनन्य-मनसो मां भजन्ते; मत्-प्रियत्व-अतिरेकेण मद्-भजनेन विना मनसश् चा अत्मनश् च बाह्य-करणानां च धारणम् अलभमाना मद्-भजन-एक-प्रयोजना भजन्ते //
9.14 SK सततं कीर्तयन्तो मां यतन्तश् च दृढव्रताः | नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते ||
60 SK सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः | नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ||
9.14 SK अत्यर्थमत्प्रियत्वेन मत्कीर्तनयतननमस्कारैर् विना क्षणाणुमात्रे ऽप्य् आत्मधारणम् अलभमानाः, मद्गुणविशेषवाचीनि मन्नामानि स्मृत्वा पुलकाञ्चितसर्वाङ्गाः हर्षगद्गदकण्ठाः, नारायणकृष्णवासेदेवेत्य् एवम् आदीनि सततं कीर्तयन्तः, तथैव यतन्तः मत्कर्मस्व् अर्चनादिकेषु, तदुपकारेषु भवननन्दनवनकरणादिकेषु च दृढसङ्कल्पा यतमानाः, भक्तिभारावनमितमनोबुद्ध्यभिमानपदद्वयकरद्वयशिरोभिर् अष्टाङ्गैर् अचिन्तितपांसुकर्दमशर्करादिके धरातले दण्डवत् प्रणिपतन्तः, सततं मां नित्ययुक्ताः नित्ययोगं काङ्क्षमाणा आत्मान्तं मद्दास्यव्यवसायिनः उपासते //
62 SK अत्यर्थ-मत्-प्रियत्वेन मत्-कीर्तन-यतन-नमस्कारैर् विना क्षण-अणु-मात्रे ऽप्य् आत्म-धारणम् अलभमानाः, मद्-गुण-विशेष-वाचीनि मन्-नामानि स्मृत्वा पुलक-अञ्चित-सर्व-अङ्गाः हर्ष-गद्गद-कण्ठाः, नारायण-कृष्ण-वासेदेव इत्य् एवम् आदीनि सततं कीर्तयन्तः, तथ ऐव यतन्तः मत्-कर्मस्व् अर्चन-आदिकेषु, तद्-उपकारेषु भवन-नन्दन-वन-करण-आदिकेषु च दृढ-सङ्कल्पा यतमानाः, भक्ति-भार-अवनमित-मनो-बुद्ध्य्-अभिमान-पद-द्वय-कर-द्वय-शिरोभिर् अष्ट-अङ्गैर् अचिन्तित-पांसु-कर्दम-शर्करा-आदिके धरा-तले दण्डवत् प्रणिपतन्तः, सततं मां नित्य-युक्ताः नित्य-योगं काङ्क्षमाणा आत्म-अन्तं मद्-दास्य-व्यवसायिनः उपासते //
9.15 SK ज्ञानयज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते | एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ||
64 SK ज्ञान-यज्ञेन च अप्य् अन्ये यजन्तो माम् उपासते | एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ||
9.15 SK अन्ये ऽपि महात्मनः पूर्वोक्तैः कीर्तनादिभिर् ज्ञानाख्येन यज्ञेन च यजन्तो माम् उपासते / कथम्? बहुधा पृथक्त्वेन जगदाकारेण, विश्वतोमुखम् विश्वप्रकारम् अवस्थितं माम् एकत्वेनोपासते / एतद् उक्तं भवति -- भगवान् वासुदेव एव नामरूपविभागानर्हातिसूक्ष्मचिदचिद्वस्तुशरीरस् सन् सत्यसङ्कल्पो विविधविभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरः स्याम् इति संकल्प्य स एक एव देवतिर्यङ्मनुष्यस्थावराख्यविचित्रजगच्छरीरो ऽवतिष्ठत इत्य् अनुसंदधानाश् च माम् उपासते इति //
66 SK अन्ये ऽपि महा-आत्मनः पूर्व-उक्तैः कीर्तन-आदिभिर् ज्ञान-आख्येन यज्ञेन च यजन्तो माम् उपासते / कथम्? बहुधा पृथक्त्वेन जगद्-आकारेण, विश्वतो-मुखम् विश्व-प्रकारम् अवस्थितं माम् एकत्वेन उपासते / एतद् उक्तं भवति --- भगवान् वासु-देव एव नाम-रूप-विभाग-अनर्ह-अतिसूक्ष्म-चिद्-अचिद्-वस्तु-शरीरस् सन् सत्य-सङ्कल्पो विविध-विभक्त-नाम-रूप-स्थूल-चिद्-अचिद्-वस्तु-शरीरः स्याम् इति संकल्प्य स एक एव देव-तिर्यङ्-मनुष्य-स्थावर-आख्य-विचित्र-जगच्-छरीरो ऽवतिष्ठत इत्य् अनुसंदधानाश् च माम् उपासते इति //
BhGR_p222160 SK तथा हि विश्वशरीरो ऽहम् एवावस्थित इत्य् आह --
68 SK तथा हि विश्व-शरीरो ऽहम् एव अवस्थित इत्य् आह ---
9.16 SK अहं क्रतुर् अहं यज्ञः स्वधा+अहम् अहम् औषधम् | मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ||
70 SK अहं क्रतुर् अहं यज्ञः स्वधा+अहम् अहम् औषधम् | मन्त्रो ऽहम् अहम् एवा अज्यम् अहम् अग्निर् अहं हुतम् ||
9.16 SK अहं क्रतुः अहं ज्योतिष्टोमादिकः क्रतुः; अहम् एव महायज्ञः; अहम् एव पितृगणपुष्टिदा स्वधा; औषधं हविश् चाहम् एव; अहम् एव च मन्त्रः; अहम् एव च आज्यम् / प्रदर्शनार्थम् इदम् सोमादिकं च हविर् अहम् एवेत्यर्थः; अहम् आहवनीयादिको ऽग्निः; होमश् चाहम् एव //
72 SK अहं क्रतुः अहं ज्योतिष्टोम-आदिकः क्रतुः; अहम् एव महा-यज्ञः; अहम् एव पितृ-गण-पुष्टि-दा स्वधा; औषधं हविश् च अहम् एव; अहम् एव च मन्त्रः; अहम् एव च आज्यम् / प्रदर्शन-अर्थम् इदम् सोम-आदिकं च हविर् अहम् एव इत्य्-अर्थः; अहम् आहवनीय-आदिको ऽग्निः; होमश् च अहम् एव //
9.17 SK पिता+अहम् अस्य जगतो माता धाता पितामहः | वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुर् एव च ||
74 SK पिता+अहम् अस्य जगतो माता धाता पितामहः | वेद्यं पवित्रम् ओङ्-कार ऋक् साम यजुर् एव च ||
9.17 SK अस्य स्थावरजङ्गमात्मकस्य जगतः, तत्र तत्र पितृत्वेन, मातृत्वेन, धातृत्वेन, पितामहत्वेन च वर्तमानो ऽहम् एव / अत्र धातृशब्दो मातापितृव्यतिरिक्ते उत्पत्तिप्रयोजके चेतनविशेषे वर्तते / यत् किञ्चिद् वेदवेद्यं पवित्रम् पावनम्,तद् अहम् एव / वेदकश् च वेदबीजभूतः प्रणवो ऽहम् एव / ऋक्सामयजुरात्मको वेदश् चाहम् एव //
76 SK अस्य स्थावर-जङ्गम-आत्मकस्य जगतः, तत्र तत्र पितृत्वेन, मातृत्वेन, धातृत्वेन, पिता-महत्वेन च वर्तमानो ऽहम् एव / अत्र धातृ-शब्दो माता-पितृ-व्यतिरिक्ते उत्पत्ति-प्रयोजके चेतन-विशेषे वर्तते / यत् किञ्चिद् वेद-वेद्यं पवित्रम् पावनम्,तद् अहम् एव / वेदकश् च वेद-बीज-भूतः प्रणवो ऽहम् एव / ऋक्-साम-यजुर्-आत्मको वेदश् च अहम् एव //
9.18 SK गतिर् भर्ता प्रभुस् साक्षी निवासश् शरणं सुहृत् | प्रभवप्रलयस्थानं निधानं बीजम् अव्ययम् ||
78 SK गतिर् भर्ता प्रभुस् साक्षी निवासश् शरणं सुहृत् | प्रभव-प्रलय-स्थानं निधानं बीजम् अव्ययम् ||
9.18 SK गम्यत इति गतिः; तत्र तत्र प्राप्यस्थानम् इत्यर्थः; भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्दृष्टा, निवासः वासस्थानं वेश्मादि / शरणम् / इष्टस्य प्रापकतया+अनिष्टस्य निवारणतया च समाश्रयणीयश् चेतनः शरणम् / स चाहम् एव; सुकृद् धितैषी, प्रभवप्रलयस्थानम् यस्य कस्यचिद् यत्र कुत्रचिद् उत्पत्तिप्रलययोर् यत् स्थानम्, तद् अहम् एव / निधानं निधीयत इति निधानम्, उत्पाद्यम् उपसंहार्यं चाहम् एवेत्यर्थः; अव्ययं बीजम् तत्र तत्र व्ययरहितं यत् कारणम्, तद् अहम् एव //
80 SK गम्यत इति गतिः; तत्र तत्र प्राप्य-स्थानम् इत्य्-अर्थः; भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्-दृष्टा, निवासः वास-स्थानं वेश्म-आदि / शरणम् / इष्टस्य प्रापकतया+अनिष्टस्य निवारणतया च समाश्रयणीयश् चेतनः शरणम् / स च अहम् एव; सुकृद् धित एषी, प्रभव-प्रलय-स्थानम् यस्य कस्यचिद् यत्र कुत्रचिद् उत्पत्ति-प्रलययोर् यत् स्थानम्, तद् अहम् एव / निधानं निधीयत इति निधानम्, उत्पाद्यम् उपसंहार्यं च अहम् एव इत्य्-अर्थः; अव्ययं बीजम् तत्र तत्र व्यय-रहितं यत् कारणम्, तद् अहम् एव //
9.19 SK तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् इत्य् उत्सृज्यामि च | अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ||
82 SK तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् इत्य् उत्सृज्यामि च | अमृतं च एव मृत्युश् च सद् असच् च अहम् अर्जुन ||
9.19 SK अग्न्यादित्यादिरूपेणाहम् एव तपामि; ग्रीष्मादाव् अहम् एव वर्षं निगृह्णामि / तथा वर्षासु चाहम् एवोत्सृजामि / अमृतं चैव मृत्युश् च / येन जीवति लोको येन च म्रियते, तदुभयम् अहम् एव / किम् अत्र बहुनोक्तेन; सदसच् चाहम् एव / सद् यद् वर्तते, असद् यद् अतीतम् अनागतं च सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत् तत् प्रकारो ऽहम् एवावस्थित इत्यर्थः / एवं बहुधा पृथक्त्वेन विभक्तनामरूपावस्थितकृत्स्नजगच्छरीरतया तत्प्रकारो ऽहम् एवावस्थित इत्य् एकत्वज्ञानेनाननुसंदधानाश् च माम् उपासते //
84 SK अग्न्य्-आदित्य-आदि-रूपेण अहम् एव तपामि; ग्रीष्म-आदाव् अहम् एव वर्षं निगृह्णामि / तथा वर्षासु च अहम् एव उत्सृजामि / अमृतं च एव मृत्युश् च / येन जीवति लोको येन च म्रियते, तद्-उभयम् अहम् एव / किम् अत्र बहुन ऊक्तेन; सद्-असच् च अहम् एव / सद् यद् वर्तते, असद् यद् अतीतम् अनागतं च सर्व-अवस्था-अवस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत् तत् प्रकारो ऽहम् एव अवस्थित इत्य्-अर्थः / एवं बहुधा पृथक्त्वेन विभक्त-नाम-रूप-अवस्थित-कृत्स्न-जगच्-छरीरतया तत्-प्रकारो ऽहम् एव अवस्थित इत्य् एकत्व-ज्ञानेन अननुसंदधानाश् च माम् उपासते //
BhGR_p224610 SK एवं महात्मनां ज्ञानिनां भगवदनुभवैकभोगानां वृत्तम् उक्त्वा तेषाम् एव विशेषं दर्शयितुम् अज्ञानां कामकामानां वृत्तम् आह --
86 SK एवं महा-आत्मनां ज्ञानिनां भगवद्-अनुभव-एक-भोगानां वृत्तम् उक्त्वा तेषाम् एव विशेषं दर्शयितुम् अज्ञानां काम-कामानां वृत्तम् आह ---
9.20 SK त्रैविद्या मां सोमपाः पूतपापाः यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते | ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ||
88 SK त्रैविद्या मां सोम-पाः पूत-पापाः यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते | ते पुण्यम् आसाद्य सुर-इन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ||
9.21 SK ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति | एवं त्रयीधर्मम् अनुप्रपन्नाः गतागतं कामकामा लभन्ते ||
90 SK ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति | एवं त्रयी-धर्मम् अनुप्रपन्नाः गत-अगतं काम-कामा लभन्ते ||
BhGR_9.20-21 SK ऋग्यजुस्सामरूपास् तिस्रो विद्याः त्रिविद्यम्; केवलं त्रिविद्यनिष्ठास् त्रैविद्याः, न तु त्रय्यन्तनिष्ठाः / त्रय्यन्तनिष्ठा हि महात्मनः पूर्वोक्तप्रकारेण निखिलवेदवेद्यं माम् एव ज्ञात्वा+अतिमात्रमद्भक्तिकारितकीर्तनादिभिर् ज्ञानयज्ञेन च मदेकप्राप्या माम् एवोपासते / त्रैविद्यास् तु वेदप्रतिपाद्यकेवलेन्द्रादियागशिष्टसोमान् पिबन्तः, पूतपापाः स्वर्गादिप्राप्तिविरोधिपापात् पूताः, तैः केवलेन्द्रादिदेवत्यतया+अनुसंहितैर् यज्ञैर् वस्तुतस् तद्रूपं माम् इष्ट्वा, तथावस्थितं माम् अजानन्तः स्वर्गगतिं प्रार्थयन्ते / ते पुण्यम् दुःखासंभिन्नं सुरेन्द्रलोकं प्राप्य तत्र तत्र दिव्यान् देवभोगान् अश्नन्ति / ते तं विशालं स्वर्गलोकं भुक्त्वा तदनुभवहेतुभूते पुण्ये क्षीणे पुनर् अपि मर्त्यलोकं विशन्ति / एवं त्रय्यन्तसिद्धज्ञानविधुराः काम्यस्वर्गादिकामाः केवलं त्रयीधर्मम् अनुप्रपन्नाः गतागतं लभन्ते अल्पास्थिरस्वर्गादीन् अनुभूय पुनः पुनर् निवर्तन्त इत्यर्थः //
92 SK ऋग्-यजुस्-साम-रूपास् तिस्रो विद्याः त्रि-विद्यम्; केवलं त्रि-विद्य-निष्ठास् त्रैविद्याः, न तु त्रय्य्-अन्त-निष्ठाः / त्रय्य्-अन्त-निष्ठा हि महा-आत्मनः पूर्व-उक्त-प्रकारेण निखिल-वेद-वेद्यं माम् एव ज्ञात्वा+अतिमात्र-मद्-भक्ति-कारित-कीर्तन-आदिभिर् ज्ञान-यज्ञेन च मद्-एक-प्राप्या माम् एव उपासते / त्रैविद्यास् तु वेद-प्रतिपाद्य-केवल-इन्द्र-आदि-याग-शिष्ट-सोमान् पिबन्तः, पूत-पापाः स्वर्ग-आदि-प्राप्ति-विरोधि-पापात् पूताः, तैः केवल-इन्द्र-आदि-देवत्यतया+अनुसंहितैर् यज्ञैर् वस्तुतस् तद्-रूपं माम् इष्ट्वा, तथा-अवस्थितं माम् अजानन्तः स्वर्ग-गतिं प्रार्थयन्ते / ते पुण्यम् दुःख-असंभिन्नं सुर-इन्द्र-लोकं प्राप्य तत्र तत्र दिव्यान् देव-भोगान् अश्नन्ति / ते तं विशालं स्वर्ग-लोकं भुक्त्वा तद्-अनुभव-हेतु-भूते पुण्ये क्षीणे पुनर् अपि मर्त्य-लोकं विशन्ति / एवं त्रय्य्-अन्त-सिद्ध-ज्ञान-विधुराः काम्य-स्वर्ग-आदि-कामाः केवलं त्रयी-धर्मम् अनुप्रपन्नाः गत-अगतं लभन्ते अल्प-अस्थिर-स्वर्ग-आदीन् अनुभूय पुनः पुनर् निवर्तन्त इत्य्-अर्थः //
BhGR_p226105 SK महात्मनस् तु निरतिशयप्रियरूपमच्चिन्तनं कृत्वा माम् अनवधिकातिशयानन्दं प्राप्यन पुनर् आवर्तन्त इति तेषां विशेषं दर्शयति --
94 SK महा-आत्मनस् तु निरतिशय-प्रिय-रूप-मच्-चिन्तनं कृत्वा माम् अनवधिक-अतिशय-आनन्दं प्राप्यन पुनर् आवर्तन्त इति तेषां विशेषं दर्शयति ---
9.22 SK अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्य् अहम् ||
96 SK अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते | तेषां नित्य-अभियुक्तानां योग-क्षेमं वहाम्य् अहम् ||
9.22 SK अनन्याः अनन्यप्रयोजनाः, मच्चिन्तनेन विना+आत्मधारणालाभान् मच्चिन्तनैकप्रयोजनाः मां चिन्तयन्तो ये महात्मानो जनाः पर्युपासते सर्वकल्यान्णगुणान्वितं सर्वविभूतियुक्तं मां परित उपासते, अन्यूनम् उपासते, तेषां नित्याभियुक्तानाम् मयि नित्याभियोगं काङ्क्षमाणानाम्, अहम् मत्प्राप्तिलक्षणं योगम्, अपुनरावृत्तिरूपं क्षेमम् च वहामि //
98 SK अनन्याः अनन्य-प्रयोजनाः, मच्-चिन्तनेन विना+आत्म-धारण-अलाभान् मच्-चिन्तन-एक-प्रयोजनाः मां चिन्तयन्तो ये महा-आत्मानो जनाः पर्युपासते सर्व-कल्यान्ण-गुण-अन्वितं सर्व-विभूति-युक्तं मां परित उपासते, अन्यूनम् उपासते, तेषां नित्य-अभियुक्तानाम् मयि नित्य-अभियोगं काङ्क्षमाणानाम्, अहम् मत्-प्राप्ति-लक्षणं योगम्, अपुनर्-आवृत्ति-रूपं क्षेमम् च वहामि //
9.23 SK ये त्व् अन्यदेवताभक्ता यजन्ते श्रद्धया+अन्विताः | ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् ||
100 SK ये त्व् अन्य-देवता-भक्ता यजन्ते श्रद्धया+अन्विताः | ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ||
9.23 SK ये त्व् इन्द्रादिदेवताभक्ताः केवलत्रयीनिष्ठाः श्रद्धया+अन्विताः इन्द्रादीन् यजन्ते, ते ऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्छरीरतया मदात्मकत्वेन, इन्द्रादिशब्दानां च मद्वाचित्वाद् वस्तुतो माम् एव यजन्ते; अपि त्व् अविधिपूर्वकं यजन्ते / इन्द्रादीनां देवतानां करम्स्वाराध्यतया अन्वयं यथा वेदान्तवाक्यानि, ᳚चतुर्होतारो यत्र संपदं गच्छन्ति देऐः᳚ इत्यादीनि विदधति, न तत्पूर्वकं यजन्ते / वेदान्तवाक्यजातं हि परमपुरुषशरीरतया+अवस्थितानाम् इन्द्रादीनाम् आराध्यत्वं विदधद् अत्मभूतस्य परमपुरुषस्यैव साक्षाद् आराध्यत्वं विदधाति / चतुर्होतारः अग्निहोत्रदर्शपूर्णमासादीनि कर्माणि, यत्र परमात्मन्य् आत्मतया+अवस्थिते सत्य् एव तच्छरीरभूतेन्द्रादिदेवैः; संपदं गच्छन्ति इन्द्रादिदेवानाम् आराधनान्य् एतानि कर्माणीतीमां संपदं गच्छन्तीत्यर्थः //
102 SK ये त्व् इन्द्र-आदि-देवता-भक्ताः केवल-त्रयी-निष्ठाः श्रद्धया+अन्विताः इन्द्र-आदीन् यजन्ते, ते ऽपि पूर्व-उक्तेन न्यायेन सर्वस्य मच्-छरीरतया मद्-आत्मकत्वेन, इन्द्र-आदि-शब्दानां च मद्-वाचित्वाद् वस्तुतो माम् एव यजन्ते; अपि त्व् अविधि-पूर्वकं यजन्ते / इन्द्र-आदीनां देवतानां करम्-स्व-आराध्यतया अन्वयं यथा वेद-अन्त-वाक्यानि, ᳚चतुर्-होतारो यत्र संपदं गच्छन्ति देऐः᳚ इत्य्-आदीनि विदधति, न तत्-पूर्वकं यजन्ते / वेद-अन्त-वाक्य-जातं हि परम-पुरुष-शरीरतया+अवस्थितानाम् इन्द्र-आदीनाम् आराध्यत्वं विदधद् अत्म-भूतस्य परम-पुरुषस्य एव साक्षाद् आराध्यत्वं विदधाति / चतुर्-होतारः अग्नि-होत्र-दर्श-पूर्ण-मास-आदीनि कर्माणि, यत्र परम-आत्मन्य् आत्मतया+अवस्थिते सत्य् एव तच्-छरीर-भूत-इन्द्र-आदि-देवैः; संपदं गच्छन्ति इन्द्र-आदि-देवानाम् आराधनान्य् एतानि कर्माणि इति इमां संपदं गच्छन्ति इत्य्-अर्थः //
BhGR_p227793 SK अतस् त्रैविद्या इन्द्रादिशरीरस्य परमपुरुषस्याराधनान्य् एतानि कर्माणि; आराध्यश् च स एवेति न जानन्ति, ते च परिमितफलभागिनश् च्यवनस्वभावाश् च भवन्ति; तद् आह --
104 SK अतस् त्रैविद्या इन्द्र-आदि-शरीरस्य परम-पुरुषस्या अराधनान्य् एतानि कर्माणि; आराध्यश् च स एव इति न जानन्ति, ते च परिमित-फल-भागिनश् च्यवन-स्व-भावाश् च भवन्ति; तद् आह ---
9.24 SK अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च | न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ||
106 SK अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च | न तु माम् अभिजानन्ति तत्त्वेन अतश् च्यवन्ति ते ||
9.24 SK प्रभुर् एव च -- तत्र तत्र फलप्रदाता चाहम् एव इत्यर्थः //
108 SK प्रभुर् एव च --- तत्र तत्र फल-प्रदाता च अहम् एव इत्य्-अर्थः //
BhGR_p228249 SK अहो महद् इदं वैचित्र्यम्, यद् एकस्मिन्न् एव कर्मणि वर्तमानाः सङ्कल्पमात्रभेदेन केचिद् अत्यल्पफलभागिनश् च्यवनस्वभावाश् च भवन्ति; केचन अनवधिकातिशयानन्दपरमपुरुषप्राप्तिरूपफलभागिनो ऽपुनरावर्तिनश् च भवन्तीत्य् आह --
110 SK अहो महद् इदं वैचित्र्यम्, यद् एकस्मिन्न् एव कर्मणि वर्तमानाः सङ्कल्प-मात्र-भेदेन केचिद् अत्यल्प-फल-भागिनश् च्यवन-स्व-भावाश् च भवन्ति; केचन अनवधिक-अतिशय-आनन्द-परम-पुरुष-प्राप्ति-रूप-फल-भागिनो ऽपुनर्-आवर्तिनश् च भवन्ति इत्य् आह ---
9.25 SK यान्ति देवव्रता देवान् पित्Qन् यान्ति पितृव्रताः | भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनो ऽपि माम् ||
112 SK यान्ति देव-व्रता देवान् पित्Qन् यान्ति पितृ-व्रताः | भूतानि यान्ति भूत-इज्याः यान्ति मद्-याजिनो ऽपि माम् ||
9.25 SK व्रतशब्दः सङ्क्ल्पवाची; देवव्रताः दर्शपूर्णमासादिभिः कर्मभिः इन्द्रादीन् यजामहे इति इन्द्रादियजनसङ्कल्पा ये, ते इन्द्रादीन् देवान् यान्ति / ये च पितृयज्ञादिभिः पित्Qन् यजामहे इति पितृयजनसङ्कल्पाः, ते पित्Qन् यान्ति / ये च ᳚यक्षरकषःपिशाचादीनि भूतानि यजामहे᳚ इति भूतयजनसङ्कल्पाः, ते भूतानि यान्ति / ये ते तैर् एव यज्ञैः ᳚देवपितृभूतशरीरकं परमात्मानं भगवन्तं वासुदेवं यजामहे᳚ इति मां यजन्ते, ते मद्याजिनो माम् एव यान्ति / देवादिव्रताः देवादीन् प्राप्य तैस् सह परिमितं भोगं भुक्त्वा तेषां विनशकाले तैस् सह विनष्टा भवन्ति / मद्याजिनस् तु माम् अनादिनिधनं सर्वज्ञं सत्यसङ्कल्पम् अनवधिकातिशयासंख्येयकल्याणगुणगणमहोदधिम् अनवधिकातिशयानन्दं प्राप्य न पुनर् निवर्तन्त इत्यर्थः //
114 SK व्रत-शब्दः सङ्क्ल्प-वाची; देव-व्रताः दर्श-पूर्ण-मास-आदिभिः कर्मभिः इन्द्र-आदीन् यजामहे इति इन्द्र-आदि-यजन-सङ्कल्पा ये, ते इन्द्र-आदीन् देवान् यान्ति / ये च पितृ-यज्ञ-आदिभिः पित्Qन् यजामहे इति पितृ-यजन-सङ्कल्पाः, ते पित्Qन् यान्ति / ये च ᳚यक्ष-रकषः-पिशाच-अदीनि भूतानि यजामहे᳚ इति भूत-यजन-सङ्कल्पाः, ते भूतानि यान्ति / ये ते तैर् एव यज्ञैः ᳚देव-पितृ-भूत-शरीरकं परम-आत्मानं भगवन्तं वासुदेवं यजामहे᳚ इति मां यजन्ते, ते मद्-याजिनो माम् एव यान्ति / देव-आदि-व्रताः देव-आदीन् प्राप्य तैस् सह परिमितं भोगं भुक्त्वा तेषां विनश-काले तैस् सह विनष्टा भवन्ति / मद्-याजिनस् तु माम् अनादि-निधनं सर्व-ज्ञं सत्य-सङ्कल्पम् अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गण-महा-उदधिम् अनवधिक-अतिशय-आनन्दं प्राप्य न पुनर् निवर्तन्त इत्य्-अर्थः //
BhGR_p229485 SK मद्याजिनाम् अयम् अपि विशेषो ऽस्तीत्य् आह --
116 SK मद्-याजिनाम् अयम् अपि विशेषो ऽस्ति इत्य् आह ---
9.26 SK पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः ||
118 SK पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयत-आत्मनः ||
9.26 SK सर्वसुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छति -- अत्यर्थमत्प्रियत्वेन तत्प्रदानेन विना+आत्मधारणम् अलभमानतया तदेकप्रयोजनो यो मे पत्रादिकं ददाति; तस्य प्रयतात्मनः तत्प्रदानैकप्रयोजनत्वरूपशुद्धियुक्तमनसः, तत् तथाविधभक्त्युपहृतम्, अहम् सर्वेश्वरो निखिलजगदुदयविभवलयलीला+अवाप्तसमस्तकामः सत्यसङ्कल्पो ऽनवधिकातिशयासंख्येयकल्याणगुणगणः स्वाभाविकानवधिकातिशयानन्दस्वानुभवे वर्तमानो ऽपि, मनोरथपथदूरवर्ति प्रियं प्राप्यैवाश्नामि / यथोक्तं मोक्षधर्मे, ᳚याः क्रियाः संप्रयुक्तास् स्युर् एकान्तगतबुद्धिभिः / ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्᳚ इति //
120 SK सर्व-सुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छति --- अत्यर्थ-मत्-प्रियत्वेन तत्-प्रदानेन विना+आत्म-धारणम् अलभमानतया तद्-एक-प्रयोजनो यो मे पत्र-आदिकं ददाति; तस्य प्रयत-आत्मनः तत्-प्रदान-एक-प्रयोजनत्व-रूप-शुद्धि-युक्त-मनसः, तत् तथा-विध-भक्त्य्-उपहृतम्, अहम् सर्व-ईश्वरो निखिल-जगद्-उदय-विभव-लय-लीला+अवाप्त-समस्त-कामः सत्य-सङ्कल्पो ऽनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गणः स्वाभाविक-अनवधिक-अतिशय-आनन्द-स्व-अनुभवे वर्तमानो ऽपि, मनो-रथ-पथ-दूर-वर्ति प्रियं प्राप्य एव अश्नामि / यथा-उक्तं मोक्ष-धर्मे, ᳚याः क्रियाः संप्रयुक्तास् स्युर् एक-अन्त-गत-बुद्धिभिः / ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्᳚ इति //
BhGR_p230436 SK यस्माज् ज्ञानिनां महात्मनां वाङ्मनसागोचरो ऽयं विशेषः, तस्मात् त्वं च ज्ञानी भूत्वा उक्तलक्षणभक्तिभारावनमितात्मा आत्मीयः कीर्तनयतनार्चनप्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्यनैमित्तिकं कर्म चेत्थं कुर्व् इत्य् आहा --
122 SK यस्माज् ज्ञानिनां महा-आत्मनां वाङ्-मनसा-गोचरो ऽयं विशेषः, तस्मात् त्वं च ज्ञानी भूत्वा उक्त-लक्षण-भक्ति-भार-अवनमित-आत्मा आत्मीयः कीर्तन-यतन-अर्चन-प्रणाम-आदिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्य-नैमित्तिकं कर्म च इत्थं कुर्व् इत्य् आहा ---
9.27 SK यत् करोषि यद् अश्नासि यज् जहोषि ददासि यत् | यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ||
124 SK यत् करोषि यद् अश्नासि यज् जहोषि ददासि यत् | यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ||
9.27 SK यद् देहयात्राशेषभूतं लौकिकं कर्म करोषि, यच् च देहधारणायाश्नासि, यच् च वैदिकं होमदानतपःप्रभृति नित्यनैमित्तिकं कर्म करोषि, तत् सर्वं मदर्पणं कुरुष्व / अर्प्यत इत्य् अर्पणम् सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वम् आराध्यत्वं च यथा मयि समर्पितं भवति तथा कुरु / एतद् उक्तं भवति -- यागदानादिषु आराध्यतया प्रतीयमानानां देवादीनां कर्मकर्तुर् भोक्तुः तव च मदीयतया मत्सङ्कल्पायत्तस्वरूपस्थितिप्रवृत्तितया च मय्य् एव परमशेषिणि परमकर्तरि त्वां च कर्तारं भोक्तारम् आराधकम्, आराध्यं च देवताजातम्, आराधनं च क्रियाजातं सर्वं समर्पय; तव मन्नियाम्यतापूर्वकमच्छेषतैकरसताम् आराध्यादेस् चैतत्स्वभावगर्भताम् अत्यर्थप्रीतियुक्तो ऽनुसंधत्स्व -- इति //
126 SK यद् देह-यात्रा-अशेष-भूतं लौकिकं कर्म करोषि, यच् च देह-धारणाय अश्नासि, यच् च वैदिकं होम-दान-तपः-प्रभृति नित्य-नैमित्तिकं कर्म करोषि, तत् सर्वं मद्-अर्पणं कुरुष्व / अर्प्यत इत्य् अर्पणम् सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वम् आराध्यत्वं च यथा मयि समर्पितं भवति तथा कुरु / एतद् उक्तं भवति --- याग-दान-आदिषु आराध्यतया प्रतीयमानानां देव-आदीनां कर्म-कर्तुर् भोक्तुः तव च मदीयतया मत्-सङ्कल्प-आयत्त-स्व-रूप-स्थिति-प्रवृत्तितया च मय्य् एव परम-शेषिणि परम-कर्तरि त्वां च कर्तारं भोक्तारम् आराधकम्, आराध्यं च देवता-जातम्, आराधनं च क्रिया-जातं सर्वं समर्पय; तव मन्-नियाम्यता-पूर्वक-मच्-छेषता-एक-रसताम् आराध्य-आदेस् च एतत्-स्व-भाव-गर्भताम् अत्यर्थ-प्रीति-युक्तो ऽनुसंधत्स्व --- इति //
9.28 SK शुभाशुभफलैर् एवं मोक्ष्यसे कर्मबन्धनैः | संन्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि ||
128 SK शुभ-अशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः | संन्यास-योग-युक्त-आत्मा विमुक्तो माम् उपैष्यसि ||
9.28 SK एवं संन्यासाख्ययोगयुक्तमनाः आत्मानं मच्छेषतामन्नियाम्यतैकरसं कर्म च सर्वं मदाराधनम् अनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभाशुभफलैर् अनन्तैः प्राचीनकर्माख्यैर् बन्धनैर् मत्प्राप्तिविरोधिभिस् सर्वैर् मोक्ष्यसे; तैर् विमुक्तो माम् एवोपैष्यसि //
130 SK एवं संन्यास-आख्य-योग-युक्त-मनाः आत्मानं मच्-छेषता-मन्-नियाम्यता-एक-रसं कर्म च सर्वं मद्-आराधनम् अनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभ-अशुभ-फलैर् अनन्तैः प्राचीन-कर्म-आख्यैर् बन्धनैर् मत्-प्राप्ति-विरोधिभिस् सर्वैर् मोक्ष्यसे; तैर् विमुक्तो माम् एव उपैष्यसि //
BhGR_p232134 SK ममेमं परमम् अतिलोकं स्वभावं शृणु --
132 SK मम इमं परमम् अतिलोकं स्व-भावं शृणु ---
9.29 SK समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः | ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ||
134 SK समो ऽहं सर्व-भूतेषु न मे द्वेष्यो ऽस्ति न प्रियः | ये भजन्ति तु मां भक्त्या मयि ते तेषु च अप्य् अहम् ||
9.29 SK देवतिर्यङ्मनुष्यस्थावरात्मना+अवस्थितेषु जातितश् चाकारतः स्वभावतो ज्ञानतश् चात्यन्तोत्कृष्टापकृष्टरूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वे समो ऽहम्; अयं जात्याकारस्वभावज्ञानादिभिर् निर्कृष्ट इति समाश्रयणे न मे द्वेष्यो ऽस्ति -- उद्वेजनीयतया न त्याज्यो ऽस्ति / तथा समाश्रितत्वातिरेकेण जात्यादिभिर् अत्यन्तोत्कृष्टो ऽयम् इति तद्व्युक्ततया समाश्रयणे न कश्चित् प्रियो ऽस्ति न संग्राह्यो ऽस्ति / अपि तु अत्यर्थमत्प्रियत्वेन मद्भजनेन विना+आत्मधारणालाभान् मद्भजनैकप्रयोजना ये मां भजन्ते, ते जात्यादिभिर् उत्कृष्टा अपकृष्टा वा मत्समानगुणवद् यथासुखं मय्य् एव वर्तन्ते / अहम् अपि तेषु मदुत्कृष्टेष्व् इव वर्ते //
136 SK देव-तिर्यङ्-मनुष्य-स्थावर-आत्मना+अवस्थितेषु जातितश् चा अकारतः स्व-भावतो ज्ञानतश् च अत्यन्त-उत्कृष्ट-अपकृष्ट-रूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वे समो ऽहम्; अयं जात्य्-आकार-स्व-भाव-ज्ञान-आदिभिर् निर्कृष्ट इति समाश्रयणे न मे द्वेष्यो ऽस्ति --- उद्वेजनीयतया न त्याज्यो ऽस्ति / तथा समाश्रितत्व-अतिरेकेण जात्य्-आदिभिर् अत्यन्त-उत्कृष्टो ऽयम् इति तद्-व्युक्ततया समाश्रयणे न कश्चित् प्रियो ऽस्ति न संग्राह्यो ऽस्ति / अपि तु अत्यर्थ-मत्-प्रियत्वेन मद्-भजनेन विना+आत्म-धारण-अलाभान् मद्-भजन-एक-प्रयोजना ये मां भजन्ते, ते जात्य्-आदिभिर् उत्कृष्टा अपकृष्टा वा मत्-समान-गुणवद् यथा-सुखं मय्य् एव वर्तन्ते / अहम् अपि तेषु मद्-उत्कृष्टेष्व् इव वर्ते //
9.30 SK अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् | साधुर् एव स मन्तव्यः सम्यग्व्यवसितो हि सः ||
140 SK अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् | साधुर् एव स मन्तव्यः सम्यग्-व्यवसितो हि सः ||
9.30 SK तत्र तत्र जातिविशेषे जातानां यः समाचार उपादेयः परिहरणीयश् च, तस्माद् अतिवृत्तो ऽप्य् उक्तप्रकारेण माम् अनन्यभाक् भजनैकप्रयोजनो भजते चेत्, साधुर् एव सः वैष्णवाग्रेसर एव सः / मन्तव्यः बहुमन्तव्यः पूर्वोक्तैस् सम इत्यर्थः / कुत एतत्? सम्यग्व्यवसितो हि सः -- यतो ऽस्य व्यवसायः सुसमीचीनः -- भगवान् निखिलजगदेककारणभूतः परं ब्रह्म नारायणश् चराचरपतिर् अस्मत्स्वामी मम गुरुर् मम सुहृन् मम परमं भोग्यम् इति सर्वैर् दुष्प्रापो ऽयं व्यवसायस् तेन कृतः; तत्कार्यं चानन्यप्रयोजनं निरन्तरं भजनं तस्यास्ति -- अतः साधुर् एव; बहुमन्तव्यः / अस्मिन् व्यवसाये, तत्कार्ये चोक्तप्रकारभजने संपन्ने सति तस्याचारव्यतिक्रमः स्वल्पवैकल्यम् इति न तावता+अनादरणीयः, अपि तु बहुमन्तव्य एवेत्यर्थः //
142 SK तत्र तत्र जाति-विशेषे जातानां यः समाचार उपादेयः परिहरणीयश् च, तस्माद् अतिवृत्तो ऽप्य् उक्त-प्रकारेण माम् अनन्य-भाक् भजन-एक-प्रयोजनो भजते चेत्, साधुर् एव सः वैष्णव-अग्रेसर एव सः / मन्तव्यः बहु-मन्तव्यः पूर्व-उक्तैस् सम इत्य्-अर्थः / कुत एतत्? सम्यग्-व्यवसितो हि सः --- यतो ऽस्य व्यवसायः सुसमीचीनः --- भगवान् निखिल-जगद्-एक-कारण-भूतः परं ब्रह्म नारायणश् चर-अचर-पतिर् अस्मत्-स्वामी मम गुरुर् मम सुहृन् मम परमं भोग्यम् इति सर्वैर् दुष्प्रापो ऽयं व्यवसायस् तेन कृतः; तत्-कार्यं च अनन्य-प्रयोजनं निरन्तरं भजनं तस्य अस्ति --- अतः साधुर् एव; बहु-मन्तव्यः / अस्मिन् व्यवसाये, तत्-कार्ये च उक्त-प्रकार-भजने संपन्ने सति तस्या अचार-व्यतिक्रमः स्व्-अल्प-वैकल्यम् इति न तावता+अनादरणीयः, अपि तु बहु-मन्तव्य एव इत्य्-अर्थः //
9.31 SK ननु ᳚नाविरतो दुश्चरितान् नाशान्तो नासमाहितः / नाशन्तमानसो वा+अपि प्रज्ञानेनैनम् आप्नुयात् // इत्यादिश्रुतेः आचारव्यतिक्रम उत्तरोत्तरभजनोत्पत्तिप्रवाहं निरुणद्धीत्य् अत्र आह -
144 SK ननु ᳚न अविरतो दुश्चरितान् नाश-अन्तो न असमाहितः / नाश्-अन्त-मानसो वा+अपि प्रज्ञानेन एनम् आप्नुयात् // इत्य्-आदि-श्रुतेः आचार-व्यतिक्रम उत्तर-उत्तर-भजन-उत्पत्ति-प्रवाहं निरुणद्धि इत्य् अत्र आह --
145 SK मत्-प्रियत्व-कारित-अनन्य-प्रयोजन-मद्-भजनेन विधूत-पापतय ऐव समूल-उन्मूलित-रजस्-तमो-गुणः क्षिप्रं धर्म-आत्मा भवति क्षिप्रम् एव विरोधि-रहित-सपरिकर-मद्-भजन-एक-मना भवति / एवं-रूप-भजनम् एव हि ᳚धर्मस्य अस्य परन्तप᳚ इति उपक्रमे धर्म-शब्द-उदितम् / शश्वच्-छान्तिं निगच्छति शश्वतीम् अपुनर्-आवर्तिनीं मत्-प्राप्ति-विरोध्य्-आचार-निवृत्तिं गच्छति / कौन्तेय त्वम् एव अस्मिन्न् अर्थे प्रतिज्ञां कुरु मद्-भक्ताव् उपक्रान्तो विरोध्य्-आचार-मिश्रो ऽपि न नश्यति; अपि तु मद्-भक्ति-माहात्म्येन सर्वं विरोधि-जातं नाशयित्वा शाश्वतीं विरोधि-निवृत्तिम् अधिगम्य क्षिप्रं परिपूर्ण-भक्तिर् भवति इति //
9.31 SK क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति | कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ||
147 SK क्षिप्रं भवति धर्म-आत्मा शश्वच्-छान्तिं निगच्छति | कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ||
9.31 SK मत्प्रियत्वकारितानन्यप्रयोजनमद्भजनेन विधूतपापतयैव समूलोन्मूलितरजस्तमोगुणः क्षिप्रं धर्मात्मा भवति क्षिप्रम् एव विरोधिरहितसपरिकरमद्भजनैकमना भवति / एवंरूपभजनम् एव हि ᳚धर्मस्यास्य परन्तप᳚ इति उपक्रमे धर्मशब्दोदितम् / शश्वच्छान्तिं निगच्छति शश्वतीम् अपुनरावर्तिनीं मत्प्राप्तिविरोध्याचारनिवृत्तिं गच्छति / कौन्तेय त्वम् एवास्मिन्न् अर्थे प्रतिज्ञां कुरु मद्भक्ताव् उपक्रान्तो विरोध्याचारमिश्रो ऽपि न नश्यति; अपि तु मद्भक्तिमाहात्म्येन सर्वं विरोधिजातं नाशयित्वा शाश्वतीं विरोधिनिवृत्तिम् अधिगम्य क्षिप्रं परिपूर्णभक्तिर् भवतीति //
149 SK ननु ᳚न अविरतो दुश्चरितान् नाश-अन्तो न असमाहितः / नाश्-अन्त-मानसो वा+अपि प्रज्ञानेन एनम् आप्नुयात् // इत्य्-आदि-श्रुतेः आचार-व्यतिक्रम उत्तर-उत्तर-भजन-उत्पत्ति-प्रवाहं निरुणद्धि इत्य् अत्र आह --
150 SK मत्-प्रियत्व-कारित-अनन्य-प्रयोजन-मद्-भजनेन विधूत-पापतय ऐव समूल-उन्मूलित-रजस्-तमो-गुणः क्षिप्रं धर्म-आत्मा भवति क्षिप्रम् एव विरोधि-रहित-सपरिकर-मद्-भजन-एक-मना भवति / एवं-रूप-भजनम् एव हि ᳚धर्मस्य अस्य परन्तप᳚ इति उपक्रमे धर्म-शब्द-उदितम् / शश्वच्-छान्तिं निगच्छति शश्वतीम् अपुनर्-आवर्तिनीं मत्-प्राप्ति-विरोध्य्-आचार-निवृत्तिं गच्छति / कौन्तेय त्वम् एव अस्मिन्न् अर्थे प्रतिज्ञां कुरु मद्-भक्ताव् उपक्रान्तो विरोध्य्-आचार-मिश्रो ऽपि न नश्यति; अपि तु मद्-भक्ति-माहात्म्येन सर्वं विरोधि-जातं नाशयित्वा शाश्वतीं विरोधि-निवृत्तिम् अधिगम्य क्षिप्रं परिपूर्ण-भक्तिर् भवति इति //
9.32 SK मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः | स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ||
152 SK मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पाप-योनयः | स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ||
9.33 SK किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा | अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ||
154 SK किं पुनर् ब्राह्मणाः पुण्या भक्ता राज-र्षयस् तथा | अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ||
BhGR_9.32-33 SK स्त्रियो वैश्याः शूद्राश् च पापयोनयो ऽपि मां व्यपाश्रित्य परां गतिं यान्ति; किं पुनः पुण्ययोनयो ब्राह्मणा राजर्षयश् च मद्भक्तिम् आस्थिताः / अतस् त्वं राजर्षिर् अस्थिरं तापत्रयाभिहततया असुखं चेमं लोकं प्राप्य वर्तमानो मां भजस्व //
156 SK स्त्रियो वैश्याः शूद्राश् च पाप-योनयो ऽपि मां व्यपाश्रित्य परां गतिं यान्ति; किं पुनः पुण्य-योनयो ब्राह्मणा राज-र्षयश् च मद्-भक्तिम् आस्थिताः / अतस् त्वं राज-र्षिर् अस्थिरं ताप-त्रय-अभिहततया असुखं च इमं लोकं प्राप्य वर्तमानो मां भजस्व //
BhGR_p235657 SK भक्तिस्वरूपम् आह --
158 SK भक्ति-स्व-रूपम् आह ---
9.34 SK मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ||
160 SK मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु | माम् एव एष्यसि युक्त्व ऐवम् आत्मानं मत्-परायणः ||
9.34 SK मन्मना भव मयि सर्वेश्वरेश्वरे, निखिलहेयप्रत्यनीककल्याणैकताने, सर्वज्ञे, सत्यसङ्कल्पे निखिलजगदेककारणे, परस्मिन् ब्रह्मणि, पुरुषोत्तमे, पुण्डरीकदलामलायताक्षे, स्वच्छनीलजीमूतसङ्काशे, युगपदुदितदिनकरसहस्रसदृशतेजसि, लावण्यामृतमहोदधौ, उदारपीवरचतुर्बाहौ, अत्युज्ज्वलपीताम्बरे, अमलकिरीटमकरकुण्डलहारकेयूरकटकभूषिते, अपारकारुण्यसौशील्यसौन्दर्यमाधुर्यगाम्भीर्याउदार्यवात्सल्यजलधौ, अनालोचितविशेषाशेषलोकशरण्ये सर्वस्वामिनि तैलधारावद् अविच्छेदेन निविष्टमना भव / तद् एव विशिनष्टि -- मद्भक्तः अत्यर्थमत्प्रियत्वेन युक्तो मन्मना भवेत्यर्थः / पुनर् पि विशिनष्टि -- मद्याजी अनवधिकातिशयप्रियमदनुभवकारितमद्यजनपरो भव / यजनं नामपरिपूर्णशेषवृत्तिः / औपचारिकसांस्पर्शिकाभ्यवहारिकादिसकलभोगप्रदानरूपो हि यागः / यथा मदनुभवजनितनिर्वधिकातिशयप्रीतिकारितमद्यजनपरो भवसि, तथा मन्मना भवेत्य् उक्तं भवति / पुनर् अपि तद् एव विशिनष्टि -- मां नमस्कुरु / अनवधिकातिशयप्रियमदनुभवकारितात्यर्थप्रियाशेषशेषवृत्तौ अपर्यवस्यन् मय्य् अन्तरात्मनि अतिमात्रप्रह्वीभावव्यवसायं कुरु / मत्परायणः -- अहम् एव परम् अयनं यस्यासौ मत्परायणः; मया विना+आत्मधारणासंभावनया मदाश्रय इत्यर्थः / एवम् आत्मानं युक्त्वा मत्परायणस् एवम् अनवधिकातिशयप्रीत्या मदनुभवसमर्थं मनः प्राप्य माम् एवैष्यसि / आत्मशब्दो ह्य् अत्र मनोविषयः / एवंरूपेण मनसा मां ध्यात्वा माम् अनुभूय माम् इष्ट्वा मां नमस्कृत्य मत्परायणो माम् एव प्राप्स्यसीत्यर्थः / तद् एवं लौकिकानि शरीरधारणार्थानि, वैदिकानि च नित्यनैमित्तिकानि कर्माणि मत्प्रीतये मच्छेषतैकरसो मयैव कारित इति कुर्वन् सततं मत्कीर्तनयतननमस्कारादिकान् प्रीत्या कुर्वाणो मन्नियाम्यं निखिलजगन् मच्छेषतैकरसम् इति चानुसन्धानः अत्यर्थप्रियमद्गुणगणं चानुसन्धायाहरहर् उक्तलक्षणम् इदम् उपासनम् उपाददानो माम् एव प्राप्स्यसि //
162 SK मन्-मना भव मयि सर्व-ईश्वर-ईश्वरे, निखिल-हेय-प्रत्यनीक-कल्याण-एक-ताने, सर्व-ज्ञे, सत्य-सङ्कल्पे निखिल-जगद्-एक-कारणे, परस्मिन् ब्रह्मणि, पुरुष-उत्तमे, पुण्डरीक-दल-अमलायत-अक्षे, स्वच्छ-नील-जीमूत-सङ्काशे, युगपद्-उदित-दिन-कर-सहस्र-सदृश-तेजसि, लावण्य-अमृत-महा-उदधौ, उदार-पीवर-चतुर्-बाहौ, अत्युज्ज्वल-पीत-अम्बरे, अमल-किरीट-मकर-कुण्डल-हार-केयूर-कटक-भूषिते, अपारकारुण्य-सौशील्य-सौन्दर्य-माधुर्य-गाम्भीर्य-औदार्य-वात्सल्य-जल-धौ, अनालोचित-विशेष-अशेष-लोक-शरण्ये सर्व-स्वामिनि तैल-धारावद् अविच्छेदेन निविष्ट-मना भव / तद् एव विशिनष्टि --- मद्-भक्तः अत्यर्थ-मत्-प्रियत्वेन युक्तो मन्-मना भव इत्य्-अर्थः / पुनर् पि विशिनष्टि --- मद्-याजी अनवधिक-अतिशय-प्रिय-मद्-अनुभव-कारित-मद्-यजन-परो भव / यजनं नाम-परिपूर्ण-शेष-वृत्तिः / औपचारिक-सांस्पर्शिक-अभ्यवहारिक-आदि-सकल-भोग-प्रदान-रूपो हि यागः / यथा मद्-अनुभव-जनित-निर्वधिक-अतिशय-प्रीति-कारित-मद्-यजन-परो भवसि, तथा मन्-मना भव इत्य् उक्तं भवति / पुनर् अपि तद् एव विशिनष्टि --- मां नमस्कुरु / अनवधिक-अतिशय-प्रिय-मद्-अनुभव-कारित-अत्यर्थ-प्रिय-अशेष-शेष-वृत्तौ अपर्यवस्यन् मय्य् अन्तर्-आत्मनि अतिमात्र-प्रह्वीभाव-व्यवसायं कुरु / मत्-परायणः --- अहम् एव परम् अयनं यस्य असौ मत्-परायणः; मया विना+आत्म-धारण-असंभावनया मद्-आश्रय इत्य्-अर्थः / एवम् आत्मानं युक्त्वा मत्-परायणस् एवम् अनवधिक-अतिशय-प्रीत्या मद्-अनुभव-समर्थं मनः प्राप्य माम् एव एष्यसि / आत्म-शब्दो ह्य् अत्र मनो-विषयः / एवं-रूपेण मनसा मां ध्यात्वा माम् अनुभूय माम् इष्ट्वा मां नमस्कृत्य मत्-परायणो माम् एव प्राप्स्यसि इत्य्-अर्थः / तद् एवं लौकिकानि शरीर-धारण-अर्थानि, वैदिकानि च नित्य-नैमित्तिकानि कर्माणि मत्-प्रीतये मच्-छेषता-एक-रसो मय ऐव कारित इति कुर्वन् सततं मत्-कीर्तन-यतन-नमस्कार-आदिकान् प्रीत्या कुर्वाणो मन्-नियाम्यं निखिल-जगन् मच्-छेषता-एक-रसम् इति च अनुसन्धानः अत्यर्थ-प्रिय-मद्-गुण-गणं च अनुसन्धाय अहर्-अहर् उक्त-लक्षणम् इदम् उपासनम् उपाददानो माम् एव प्राप्स्यसि //
BhGR_p237853 SK भक्तियोगः सपरिकर उक्तः / इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भ्गवतो निरङ्कुशाइश्वर्यादिकल्याणगुणगणानन्त्यम्, कृत्स्नस्य जगतस् तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते --
164 SK भक्ति-योगः सपरिकर उक्तः / इदानीं भक्त्य्-उत्पत्तये तद्-विवृद्धये च भ्गवतो निरङ्कुश-ऐश्वर्य-आदि-कल्याण-गुण-गण-आनन्त्यम्, कृत्स्नस्य जगतस् तच्-छरीरतया तद्-आत्मकत्वेन तत्-प्रवर्त्यत्वं च प्रपञ्च्यते ---
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).
Source