Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya · Bहगवद्गीताभाष्य

Rāmānuja's Commentary on the Bhagavadgītā

Bhagavadgītābhāṣya

Bहगवद्गीताभाष्य

Adhyāya 8

SK
किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम | अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ||
SK
किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुष-उत्तम | अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ||
SK
अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदनम् | प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः ||
SK
अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदनम् | प्रयाण-काले च कथं ज्ञेयो ऽसि नियत-आत्मभिः ||
SK
जरामरणमोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतयोक्तं तद् ब्रह्म अध्यात्मं च किम् इति वक्तव्यम् / ऐश्वर्यार्थीनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किम्? त्रयाणां ज्ञातव्यो ऽधियज्ञशब्दनिर्दिष्टश् च कः? तस्य चाधियज्ञभावः कथम्? प्रयाणकाले च एभिस् त्रिभिर् नियतात्मभिः कथं ज्ञेयो ऽसि? //
SK
जरा-मरण-मोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतय ऊक्तं तद् ब्रह्म अध्यात्मं च किम् इति वक्तव्यम् / ऐश्वर्य-अर्थीनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किम्? त्रयाणां ज्ञातव्यो ऽधियज्ञ-शब्द-निर्दिष्टश् च कः? तस्य च अधियज्ञ-भावः कथम्? प्रयाण-काले च एभिस् त्रिभिर् नियत-आत्मभिः कथं ज्ञेयो ऽसि? //
SK
अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते | भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ||
SK
अक्षरं ब्रह्म परमं स्व-भावो ऽध्यात्मम् उच्यते | भूत-भाव-उद्भव-करो विसर्गः कर्म-संज्ञितः ||
SK
तद्ब्रह्मेति निर्दिष्टं परमम् अक्षरं न क्षरतीत्य् अक्षरम्, क्षेत्रज्ञसमष्टिरूपम् / तथा च श्रुतिः, ᳚अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते᳚ इत्यादिका / परमम् अक्षरं प्रकृतिविनिर्मुक्तम् आत्मस्वरूपम् / स्वभावो ऽध्यात्मम् उच्यते / स्वभावः प्रकृतिः / अनात्मभूतम्, आत्मनि संबध्यमानं भूतसूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतयोदितम् / तदुभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर् ज्ञातव्यम् / भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः / भूतभावः मनुष्यादिभावः; तदुद्भवकरो यो विसर्गः, ᳚पञ्चम्याम् आहुताव् आपः पुरुषवचसो भवन्ति᳚ इति श्रुतिसिद्धो योषित्संबन्धजः, स कर्मसंज्ञितः / तच् चाखिलं सानुबन्धम् उद्वेजनीयतया, परिहरणीयतया च मुमुक्षुभिर् ज्ञातव्यम् / परिहरणीयतया चानन्तरम् एव वक्ष्यते, ᳚यद् इच्छन्तो ब्रह्मचर्यं चरन्ति᳚ इति //
SK
तद्-ब्रह्म इति निर्दिष्टं परमम् अक्षरं न क्षरति इत्य् अक्षरम्, क्षेत्र-ज्ञ-समष्टि-रूपम् / तथा च श्रुतिः, ᳚अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते᳚ इत्य्-आदिका / परमम् अक्षरं प्रकृति-विनिर्मुक्तम् आत्म-स्व-रूपम् / स्व-भावो ऽध्यात्मम् उच्यते / स्व-भावः प्रकृतिः / अनात्म-भूतम्, आत्मनि संबध्यमानं भूत-सूक्ष्म-तद्-वासना-आदिकं पञ्च-अग्नि-विद्यायां ज्ञातव्यतय ऊदितम् / तद्-उभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर् ज्ञातव्यम् / भूत-भाव-उद्भव-करो विसर्गः कर्म-संज्ञितः / भूत-भावः मनुष्य-आदि-भावः; तद्-उद्भव-करो यो विसर्गः, ᳚पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति᳚ इति श्रुति-सिद्धो योषित्-संबन्ध-जः, स कर्म-संज्ञितः / तच् च अखिलं स-अनुबन्धम् उद्वेजनीयतया, परिहरणीयतया च मुमुक्षुभिर् ज्ञातव्यम् / परिहरणीयतया च अनन्तरम् एव वक्ष्यते, ᳚यद् इच्छन्तो ब्रह्म-चर्यं चरन्ति᳚ इति //
SK
अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् | अधियज्ञो ऽहम् एवात्र देहे देहभृतां वर ||
SK
अधिभूतं क्षरो भावः पुरुषश् च अधिदैवतम् | अधियज्ञो ऽहम् एव अत्र देहे देह-भृतां वर ||
SK
ऐश्वर्यार्थिनां ज्ञातव्यतया निर्दिष्टम् अधिभूतं क्षरो भावः वियदादिभूतेषु वर्तमानः तत्परिणामविशेषः क्षरणस्वभावो विलक्षणः शब्दस्पर्शादिस् सास्रयः / विलक्षणाः साश्रयाश् शब्दस्पर्शरूपरसगन्धाः ऐश्वर्यार्थिभिः प्राप्यास् तैर् अनुसन्धेयाः / पुरुषश् चाधिदैवतम् अधिदैवतशब्दनिर्दिष्टः पुरुषः अधिदैवतम् देवतोपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतिकृत्स्नदैवतोपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतीनां भोग्यजातद् विलक्षणशब्दादेर् भोक्ता पुरुषः / सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतयानुसन्धेया / अधियज्ञो ऽहम् एव / अधियज्ञः यज्ञैर् आराध्यतया वर्तमानः / अत्र इन्द्रादौ मम देहभूते आत्मतयावस्थितो ऽहम् एव यज्ञैर् आराध्य इति महायज्ञादिनित्यनैमित्तिकानुष्ठानवेलायां त्रयाणाम् अधिकारिणाम् अनुसन्धेयम् एतत् //
SK
ऐश्वर्य-अर्थिनां ज्ञातव्यतया निर्दिष्टम् अधिभूतं क्षरो भावः वियद्-आदि-भूतेषु वर्तमानः तत्-परिणाम-विशेषः क्षरण-स्व-भावो विलक्षणः शब्द-स्पर्श-आदिस् स-आस्रयः / विलक्षणाः स-आश्रयाश् शब्द-स्पर्श-रूप-रस-गन्धाः ऐश्वर्य-अर्थिभिः प्राप्यास् तैर् अनुसन्धेयाः / पुरुषश् च अधिदैवतम् अधिदैवत-शब्द-निर्दिष्टः पुरुषः अधिदैवतम् देवत ऊपरि वर्तमानः, इन्द्र-प्रजा-पति-प्रभृति-कृत्स्न-दैवत ऊपरि वर्तमानः, इन्द्र-प्रजा-पति-प्रभृतीनां भोग्य-जातद् विलक्षण-शब्द-आदेर् भोक्ता पुरुषः / सा च भोक्तृत्व-अवस्था ऐश्वर्य-अर्थिभिः प्राप्यतय आनुसन्धेया / अधियज्ञो ऽहम् एव / अधियज्ञः यज्ञैर् आराध्यतया वर्तमानः / अत्र इन्द्र-आदौ मम देह-भूते आत्मतय आवस्थितो ऽहम् एव यज्ञैर् आराध्य इति महा-यज्ञ-आदि-नित्य-नैमित्तिक-अनुष्ठान-वेलायां त्रयाणाम् अधिकारिणाम् अनुसन्धेयम् एतत् //
SK
अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेबरम् | यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः ||
SK
अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेबरम् | यः प्रयाति स मद्-भावं याति न अस्त्य् अत्र संशयः ||
SK
इदम् अपि त्रयाणां साधारणम् / अन्तकाले च माम् एव स्मरन् कलेवरं त्यक्त्वा यः प्रयाति, स मद्भावं याति मम यो भावः स्वभावः तं याति; तदानीं यथा माम् अनुसन्धत्ते, तथाविधाकारो भवतीत्यर्थः; यथा आदिभरतादयस् तदानीं स्मर्यमाणमृगसजातीयाकारात् संभूताः //
SK
इदम् अपि त्रयाणां साधारणम् / अन्त-काले च माम् एव स्मरन् कलेवरं त्यक्त्वा यः प्रयाति, स मद्-भावं याति मम यो भावः स्व-भावः तं याति; तदानीं यथा माम् अनुसन्धत्ते, तथा-विध-आकारो भवति इत्य्-अर्थः; यथा आदि-भरत-आदयस् तदानीं स्मर्यमाण-मृग-सजातीय-आकारात् संभूताः //
SK
स्मर्तुस् स्वविषयसजातीयाकारतापादनम् अन्त्यप्रत्ययस्य स्वभाव इति सुस्पष्टम् आह --
SK
स्मर्तुस् स्व-विषय-सजातीय-आकारता-आपादनम् अन्त्य-प्रत्ययस्य स्व-भाव इति सुस्पष्टम् आह ---
SK
यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेबरम् | तं तम् एवैति कौन्तेय सदा तद्भावभावितः ||
SK
यं यं व आपि स्मरन् भावं त्यजत्य् अन्ते कलेबरम् | तं तम् एव एति कौन्तेय सदा तद्-भाव-भावितः ||
SK
अन्ते अन्तकाले यं यं वापि भावं स्मरन् कलेबरं त्यजति, तं तं भावम् एव मरणानन्तरम् एति / अन्तिमप्रत्ययश् च पूर्वभावितविषय एव जायते //
SK
अन्ते अन्त-काले यं यं व आपि भावं स्मरन् कलेबरं त्यजति, तं तं भावम् एव मरण-अनन्तरम् एति / अन्तिम-प्रत्ययश् च पूर्व-भावित-विषय एव जायते //
SK
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च | मय्य् अर्पितमनोबुद्धिः माम् एवैष्यस्य् असंशयः ||
SK
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च | मय्य् अर्पित-मनो-बुद्धिः माम् एव एष्यस्य् असंशयः ||
SK
यस्मात् पूर्वकालाभ्यस्तविषय एवान्त्यप्रत्ययो जायते, तस्मात् सर्वेषु कालेष्व् आप्रयाणाद् अहर् अहर् माम् अनुस्मर / अहरहर् अनुस्मृतिकरं युद्धादिकं वर्णाश्रमानुबन्धि श्रुतिस्मृतिचोदितं नित्यनैमित्तिकं च कर्म कुरु / एवम् उपायेन मय्य् अर्पितमनोबुद्धिः अन्तकले च माम् एव स्मरन् यथाभिलषितप्रकारं मां प्राप्स्यसि; नात्र संशयः //
SK
यस्मात् पूर्व-काल-अभ्यस्त-विषय एव अन्त्य-प्रत्ययो जायते, तस्मात् सर्वेषु कालेष्व् आप्रयाणाद् अहर् अहर् माम् अनुस्मर / अहर्-अहर् अनुस्मृति-करं युद्ध-आदिकं वर्ण-आश्रम-अनुबन्धि श्रुति-स्मृति-चोदितं नित्य-नैमित्तिकं च कर्म कुरु / एवम् उपायेन मय्य् अर्पित-मनो-बुद्धिः अन्त-कले च माम् एव स्मरन् यथा-अभिलषित-प्रकारं मां प्राप्स्यसि; न अत्र संशयः //
SK
एवं सामान्येन स्वप्राप्यावाप्तिर् अन्त्यप्रत्ययाधीनेत्य् उक्त्वा तदर्थं त्रयाणाम् उपासनप्रकारभेदं वक्तुम् उपक्रमते; तत्राइश्वर्यार्थिनाम् उपासनप्रकारं यथोपासनम् अन्त्यप्रत्ययप्रकारं चाह --
SK
एवं सामान्येन स्व-प्राप्य-अवाप्तिर् अन्त्य-प्रत्यय-अधीन ईत्य् उक्त्वा तद्-अर्थं त्रयाणाम् उपासन-प्रकार-भेदं वक्तुम् उपक्रमते; तत्र ऐश्वर्य-अर्थिनाम् उपासन-प्रकारं यथा-उपासनम् अन्त्य-प्रत्यय-प्रकारं चा अह ---
SK
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना | परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ||
SK
अभ्यास-योग-युक्तेन चेतसा न अन्य-गामिना | परमं पुरुषं दिव्यं याति पार्थ अनुचिन्तयन् ||
SK
अहरहर् अभ्यासयोगाभ्यां युक्ततया नान्यगामिना चेतसा अन्तकाले परमं पुरुषं दिव्यं मां वक्ष्यमाणप्रकारं चिन्तयन् माम् एव याति -- आदिभरतमृगत्वप्राप्तिवद् ऐश्वर्यविशिष्टतया मत्समानाकारो भवति / अभ्यासः नित्यनैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसोपास्यसंशीलनम् / योगस् तु अहरहर् योगकाले ऽनुष्ठीयमानं यथोक्तलक्षणम् उपासनम् //
SK
अहर्-अहर् अभ्यास-योगाभ्यां युक्ततया न अन्य-गामिना चेतसा अन्त-काले परमं पुरुषं दिव्यं मां वक्ष्यमाण-प्रकारं चिन्तयन् माम् एव याति --- आदि-भरत-मृगत्व-प्राप्तिवद् ऐश्वर्य-विशिष्टतया मत्-समान-आकारो भवति / अभ्यासः नित्य-नैमित्तिक-अविरुद्धेषु सर्वेषु कालेषु मनस ऊपास्य-संशीलनम् / योगस् तु अहर्-अहर् योग-काले ऽनुष्ठीयमानं यथा-उक्त-लक्षणम् उपासनम् //
SK
कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः | सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ||
SK
कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः | सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णं तमसः परस्तात् ||
SK
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव | भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ||
SK
प्रयाण-काले मनस आचलेन भक्त्या युक्तो योग-बलेन च एव | भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ||
SK
कविं सर्वज्ञन् पुराणम् पुरातनम् अनुशासितारम् विश्वस्य प्रशासितारम् अणोर् अणीयांसम् जीवाद् अपि सूक्ष्मतरम्, सर्वस्य धातारम् सर्वस्य स्रष्टारम्, अचिन्त्यरूपम् सकलेतरविसजातीयस्वरूपम्, आदित्यवर्णं तमसः परस्ताद् अप्राकृतस्वासाधारणदिव्यरूपम्, तम् एवंभूतम् अहरहर् अभ्यस्यमानभक्तियुक्तयोगबलेन आरूढसंस्कारतया अचलेन मनसा प्रयाणकाले भ्रुवोर् मध्ये प्राणम् आवेश्य संस्थाप्य तत्र भूमध्ये दिव्यं पुरुषं यो ऽनुस्मरेत्; स तम् एवोपैति -- तद्भावं याति, तत्समानाइश्वर्यो भवतीत्यर्थः //
SK
कविं सर्व-ज्ञन् पुराणम् पुरातनम् अनुशासितारम् विश्वस्य प्रशासितारम् अणोर् अणीयांसम् जीवाद् अपि सूक्ष्मतरम्, सर्वस्य धातारम् सर्वस्य स्रष्टारम्, अचिन्त्य-रूपम् सकल-इतर-विसजातीय-स्व-रूपम्, आदित्य-वर्णं तमसः परस्ताद् अप्राकृत-स्व-असाधारण-दिव्य-रूपम्, तम् एवं-भूतम् अहर्-अहर् अभ्यस्यमान-भक्ति-युक्त-योग-बलेन आरूढ-संस्कारतया अचलेन मनसा प्रयाण-काले भ्रुवोर् मध्ये प्राणम् आवेश्य संस्थाप्य तत्र भू-मध्ये दिव्यं पुरुषं यो ऽनुस्मरेत्; स तम् एव उपैति --- तद्-भावं याति, तत्-समान-ऐश्वर्यो भवति इत्य्-अर्थः //
SK
अथ कैवल्यार्थिनां स्मरण् अप्रकारम् आह --
SK
अथ कैवल्य-अर्थिनां स्मरण् अ-प्रकारम् आह ---
SK
यद् अक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः | यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये ||
SK
यद् अक्षरं वेद-विदो वदन्ति विशन्ति यद् यतयो वीत-रागाः | यद् इच्छन्तो ब्रह्म-चर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये ||
SK
यद् अक्षरम् अस्थूलत्वादिगुणकं वेदविदो वदन्ति, वीतरागाश् च यतयो यद् अक्षरं विशन्ति, यद् अक्षरं प्राप्तुम् इच्छन्तो ब्रह्मचर्यं चरन्ति, तत् पदं संग्रहेण ते प्रवक्ष्ये / पद्यते गम्यते चेतसेति पदम्; तन् निखिलवेदान्तवेद्यं मत्स्वरूपम् अक्षरं यथा उपास्यम्, तथा संक्षेपेण प्रवक्ष्यामीत्यर्थः //
SK
यद् अक्षरम् अस्थूलत्व-आदि-गुणकं वेद-विदो वदन्ति, वीत-रागाश् च यतयो यद् अक्षरं विशन्ति, यद् अक्षरं प्राप्तुम् इच्छन्तो ब्रह्म-चर्यं चरन्ति, तत् पदं संग्रहेण ते प्रवक्ष्ये / पद्यते गम्यते चेतस ईति पदम्; तन् निखिल-वेद-अन्त-वेद्यं मत्-स्व-रूपम् अक्षरं यथा उपास्यम्, तथा संक्षेपेण प्रवक्ष्यामि इत्य्-अर्थः //
SK
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च | मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योगधारणाम् ||
SK
सर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च | मूर्ध्न्य् आधाया अत्मनः प्राणम् आस्थितो योग-धारणाम् ||
SK
ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् | यः प्रयाति त्यजन् देहं स याति परमां गतिम् ||
SK
ओम् इत्य् एक-अक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् | यः प्रयाति त्यजन् देहं स याति परमां गतिम् ||
SK
सर्वाणि श्रोत्रादीनीन्द्रियाणि ज्ञानद्वारभूतानि संयम्य स्वव्यापारेभ्यो विनिवर्त्य, हृदयकमलनिविष्टे मय्य् अक्षरे मनो निरुध्य, योगाख्यां धारणाम् आस्थितः मय्य् एव निश्चलां स्थितिम् आस्थितः, ओम् इत्य् एकाक्षरं ब्रह्म मद्वाचकं व्याहरन्, वाच्यं माम् अनुस्मरन्, आत्मनः प्राणं मूर्ध्न्य् आधाय देहं त्यजन् यः प्रयाति -- स याति परमां गतिं प्रकृतिवियुक्तं मत्समानाकारम् अपुनरावृत्तिम् आत्मानं प्राप्नोतीत्यर्थः / ᳚यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति // अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् // इत्य् अनन्तरम् एव वक्ष्यते //
SK
सर्वाणि श्रोत्र-आदीनि इन्द्रियाणि ज्ञान-द्वार-भूतानि संयम्य स्व-व्यापारेभ्यो विनिवर्त्य, हृदय-कमल-निविष्टे मय्य् अक्षरे मनो निरुध्य, योग-आख्यां धारणाम् आस्थितः मय्य् एव निश्चलां स्थितिम् आस्थितः, ओम् इत्य् एक-अक्षरं ब्रह्म मद्-वाचकं व्याहरन्, वाच्यं माम् अनुस्मरन्, आत्मनः प्राणं मूर्ध्न्य् आधाय देहं त्यजन् यः प्रयाति --- स याति परमां गतिं प्रकृति-वियुक्तं मत्-समान-आकारम् अपुनर्-आवृत्तिम् आत्मानं प्राप्नोति इत्य्-अर्थः / ᳚यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति // अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् // इत्य् अनन्तरम् एव वक्ष्यते //
SK
एवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश् च स्वप्राप्यानुगुणं भगवदुपासनप्रकार उक्तः; अथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिप्रकारं चाह --
SK
एवम् ऐश्वर्य-अर्थिनः कैवल्य-अर्थिनश् च स्व-प्राप्य-अनुगुणं भगवद्-उपासन-प्रकार उक्तः; अथ ज्ञानिनो भगवद्-उपासन-प्रकारं प्राप्ति-प्रकारं चा अह ---
SK
अनन्यचेताः सततं यो मां स्मरति नित्यशः | तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ||
SK
अनन्य-चेताः सततं यो मां स्मरति नित्यशः | तस्य अहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ||
SK
नित्यशः माम् उद्योगप्रभृति सततं सर्वकालम् अनन्यचेताः यः स्मरति अत्यर्थमत्प्रियत्वेन मत्स्मृत्या विना आत्मधारणम् अलभमानो निरतिशयप्रियां स्मृतिं यः करोति; तस्य नित्ययुक्तस्य नित्ययोगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहम् एव प्राप्यः; न मद्भाव ऐश्वर्यादिकः सुप्रापश् च / तद्वियोगम् असहमानो ऽहम् एव तं वृणे / ᳚यम् एवैष वृणुते तेन लभ्यः᳚ इति हि श्रूयते / मत्प्राप्त्यनुगुणोपासनविपाकं तद्विरोधिनिरसनम् अत्यर्थमत्प्रियत्वादिकं चाहम् एव ददामीत्यर्थः / वक्ष्यते च ᳚तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् / ददामि बुद्धियोगं तं येन माम् उपायान्ति ते // तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः / नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता // इति //
SK
नित्यशः माम् उद्योग-प्रभृति सततं सर्व-कालम् अनन्य-चेताः यः स्मरति अत्यर्थ-मत्-प्रियत्वेन मत्-स्मृत्या विना आत्म-धारणम् अलभमानो निरतिशय-प्रियां स्मृतिं यः करोति; तस्य नित्य-युक्तस्य नित्य-योगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहम् एव प्राप्यः; न मद्-भाव ऐश्वर्य-आदिकः सुप्रापश् च / तद्-वियोगम् असहमानो ऽहम् एव तं वृणे / ᳚यम् एव एष वृणुते तेन लभ्यः᳚ इति हि श्रूयते / मत्-प्राप्त्य्-अनुगुण-उपासन-विपाकं तद्-विरोधि-निरसनम् अत्यर्थ-मत्-प्रियत्व-आदिकं च अहम् एव ददामि इत्य्-अर्थः / वक्ष्यते च ᳚तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् / ददामि बुद्धि-योगं तं येन माम् उपायान्ति ते // तेषाम् एव अनुकम्पा-अर्थम् अहम् अज्ञान-जं तमः / ना अशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता // इति //
SK
अतः परम् अध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश् चापुनरावृत्तिम् ऐश्वर्यार्थिनः पुनरावृत्तिं चाह --
SK
अतः परम् अध्याय-शेषेण ज्ञानिनः कैवल्य-अर्थिनश् च अपुनर्-आवृत्तिम् ऐश्वर्य-अर्थिनः पुनर्-आवृत्तिं चा अह ---
SK
माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम् | नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ||
SK
माम् उपेत्य पुनर्-जन्म दुःख-आलयम् अशाश्वतम् | ना अप्नुवन्ति महा-आत्मानः संसिद्धिं परमां गताः ||
SK
मां प्राप्य पुनर्निखिलदुःखालयम् अशाश्वतम् अस्थिरं जन्म न प्राप्नुवन्ति / यत एते महात्मानः महामनसः, यथावस्थितमत्स्वरूपज्ञानाना अत्यर्थमत्प्रियत्वेन मया विना आत्मधारणम् अलभमाना मय्य् आस्क्तमनसो मदाश्रया माम् उपास्य परमसंसिद्धिरूपं मां प्राप्ताः //
SK
मां प्राप्य पुनर्-निखिल-दुःख-आलयम् अशाश्वतम् अस्थिरं जन्म न प्राप्नुवन्ति / यत एते महा-आत्मानः महा-मनसः, यथा-अवस्थित-मत्-स्व-रूप-ज्ञानाना अत्यर्थ-मत्-प्रियत्वेन मया विना आत्म-धारणम् अलभमाना मय्य् आस्क्त-मनसो मद्-आश्रया माम् उपास्य परम-संसिद्धि-रूपं मां प्राप्ताः //
SK
ऐश्वर्यगतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनरावृत्तौ अपुनरावृत्तौ च हेतुम् अनन्तरम् आह --
SK
ऐश्वर्य-गतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनर्-आवृत्तौ अपुनर्-आवृत्तौ च हेतुम् अनन्तरम् आह ---
SK
आ ब्रह्मभुवनाल् लोकाः पुनरावर्तिनो ऽर्जुन | माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ||
SK
आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनो ऽर्जुन | माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ||
SK
ब्रह्मलोकपर्यन्ताः ब्रह्माण्डोदरवर्तिनस् सर्वे लोका भोगाइश्वर्यालयाः पुनरावर्तिनः विनाशिनः / अत ऐश्वर्यगतिं प्राप्तानां प्राप्यस्थानविनाशाद् विनाशित्वम् अवर्जनीयम् / मां सर्वज्ञं सत्यसङ्कल्पं निखिलजगदुत्पत्तिस्थितिलयलीलं परमकारुणिकं सदैकरूपं प्राप्तानां विनाशप्रसङ्गाभावात् तेषां पुनर्जन्म न विद्यते //
SK
ब्रह्म-लोक-पर्यन्ताः ब्रह्म-अण्ड-उदर-वर्तिनस् सर्वे लोका भोग-ऐश्वर्य-आलयाः पुनर्-आवर्तिनः विनाशिनः / अत ऐश्वर्य-गतिं प्राप्तानां प्राप्य-स्थान-विनाशाद् विनाशित्वम् अवर्जनीयम् / मां सर्व-ज्ञं सत्य-सङ्कल्पं निखिल-जगद्-उत्पत्ति-स्थिति-लय-लीलं परम-कारुणिकं सद ऐक-रूपं प्राप्तानां विनाश-प्रसङ्ग-अभावात् तेषां पुनर्-जन्म न विद्यते //
SK
ब्रह्मलोकपर्यन्तानां लोकानां तदन्तर्वर्तिनां च परमपुरुषसङ्कल्पकृताम् उत्पत्तिविनाशकालव्यवस्थाम् आह --
SK
ब्रह्म-लोक-पर्यन्तानां लोकानां तद्-अन्तर्-वर्तिनां च परम-पुरुष-सङ्कल्प-कृताम् उत्पत्ति-विनाश-काल-व्यवस्थाम् आह ---
SK
सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः | रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः ||
SK
सहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः | रात्रिं युग-सहस्र-अन्तां ते ऽहो-रात्र-विदो जनाः ||
SK
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहरागमे | रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ||
SK
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर्-आगमे | रात्र्य्-आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके ||
SK
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते | रात्र्यागमे ऽवशः पार्थ प्रभवत्य् अहरागमे ||
SK
भूत-ग्रामः स एव अयं भूत्वा भूत्वा प्रलीयते | रात्र्य्-आगमे ऽवशः पार्थ प्रभवत्य् अहर्-आगमे ||
SK
ये मनुष्यादिचतुर्मुखान्तानां मत्सङ्कल्पकृताहोरात्रव्यवस्थाविदो जनाः, ते ब्रह्मणश् चतुर्मुखस्य यद् अहः तच् चतुर्युगसहस्रावसानं विदुः, रात्रिं च तथारूपाम् / तत्र ब्रह्मणो ऽहरागमसमये त्रैलोक्यान्तर्वर्तिन्यो देहेन्द्रियभोग्यभोगस्थानरूपा व्यक्तश् चतुर्मुखदेहावस्थाद् अव्यक्तात् प्रभवन्ति / तत्रैव अव्यक्तावस्थाविशेषे चतुर्मुखदेहे रात्र्यागमसमये प्रलीयन्ते / स एवायं कर्मवश्यो भूतग्रामो ऽहरागमे भूत्वा भुत्वा रात्र्यागमे प्रलीयते / पुनर् अप्य् अहरागमे प्रभवति / तथा वर्षतावसानरूपयुगसहस्रान्ते ब्रह्मलोकपर्यन्ता लोकाः ब्रह्मा च, ᳚पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते᳚ इत्यादिक्रमेण अव्यक्ताक्षरतमःपर्यन्तं मय्य् एव प्रलीयन्ते / एवं मद्व्यतिरिक्तस्य कृत्स्नस्य कालव्यवस्थया मत्त उत्पत्तेः मयि प्रलयाच् चोत्पत्तिविनाशयोगित्वम् अवर्जनीयम् इत्य् ऐश्वर्यगतिं प्राप्तानां पुनरावृत्तिर् अपरिहार्या / माम् उपेतानां तु न पुनरावृत्तिप्रसङ्गः //
SK
ये मनुष्य-आदि-चतुर्-मुख-अन्तानां मत्-सङ्कल्प-कृत-अहो-रात्र-व्यवस्था-विदो जनाः, ते ब्रह्मणश् चतुर्-मुखस्य यद् अहः तच् चतुर्-युग-सहस्र-अवसानं विदुः, रात्रिं च तथा-रूपाम् / तत्र ब्रह्मणो ऽहर्-आगम-समये त्रैलोक्य-अन्तर्-वर्तिन्यो देह-इन्द्रिय-भोग्य-भोग-स्थान-रूपा व्यक्तश् चतुर्-मुख-देह-अवस्थाद् अव्यक्तात् प्रभवन्ति / तत्र एव अव्यक्त-अवस्था-विशेषे चतुर्-मुख-देहे रात्र्य्-आगम-समये प्रलीयन्ते / स एव अयं कर्म-वश्यो भूत-ग्रामो ऽहर्-आगमे भूत्वा भुत्वा रात्र्य्-आगमे प्रलीयते / पुनर् अप्य् अहर्-आगमे प्रभवति / तथा वर्षता-अवसान-रूप-युग-सहस्र-अन्ते ब्रह्म-लोक-पर्यन्ता लोकाः ब्रह्मा च, ᳚पृथिव्य्-अप्सु प्रलीयते आपस्-तेजसि लीयन्ते᳚ इत्य्-आदि-क्रमेण अव्यक्त-अक्षर-तमः-पर्यन्तं मय्य् एव प्रलीयन्ते / एवं मद्-व्यतिरिक्तस्य कृत्स्नस्य काल-व्यवस्थया मत्त उत्पत्तेः मयि प्रलयाच् च उत्पत्ति-विनाश-योगित्वम् अवर्जनीयम् इत्य् ऐश्वर्य-गतिं प्राप्तानां पुनर्-आवृत्तिर् अपरिहार्या / माम् उपेतानां तु न पुनर्-आवृत्ति-प्रसङ्गः //
SK
अथ कैवल्यं प्रप्तानाम् अपि पुनरावृत्तिर् न विद्यत इत्य् अह --
SK
अथ कैवल्यं प्रप्तानाम् अपि पुनर्-आवृत्तिर् न विद्यत इत्य् अह ---
SK
परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः | यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||
SK
परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः | यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||
SK
अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् | यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ||
SK
अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् | यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ||
SK
तस्माद् अव्यक्ताद् अचेतनप्रकृतिरूपात् पुरुषार्थतया परः उत्कृष्टो भावो ऽन्यो ज्ञानैकाकारतया तस्माद् विसजातीयः, अव्यक्तः केनचित् प्रमाणेन न व्यज्यत इत्य् अव्यक्तः, स्वसंवेद्यस्वासाधारणाकार इत्यर्थः; सनातनः उत्पत्तिविनाशानर्हतया नित्यः यः सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितो ऽपि न विनश्यति; सः अव्यक्तो ऽक्षर इत्युक्तः, ᳚ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते᳚, ᳚कूटस्थो ऽक्षर उच्यते᳚ इत्यादिषु -- तं वेदविदः परमां गतिम् आहुः / अयम् एव, ᳚यः प्रयाति त्यजन् देहं स याति परमां गतिम्᳚ इत्य् अत्र परमगतिशब्दनिर्दिष्टो ऽक्षरः प्रकृतिसंसर्गवियुक्तस्वस्वरूपेणावस्थित आत्मेत्यर्थः / यम् एवंभूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते; तन् मम परमं धाम परं नियमनस्थानम् / अचेतनप्रकृतिर् एकं नियमनस्थानम्; तत्संसृष्टरूपा जीवप्रकृतिर् द्वितीयं नियमनस्थानम् / अचित्संसर्गवियुक्तं स्वरूएणावथितं मुक्तस्वरूपं परमं नियमनस्थानम् इत्यर्थः / तच् चापुनरावृत्तिरूपम् / अथ वा प्रकाशवाची धामशब्दः; प्रकाशः चेह ज्ञानम् अभिप्रेतम्; प्रकृतिसंसृष्टात् परिछिन्नज्ञानरूपाद् आत्मनो ऽपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परं धाम //
SK
तस्माद् अव्यक्ताद् अचेतन-प्रकृति-रूपात् पुरुष-अर्थतया परः उत्कृष्टो भावो ऽन्यो ज्ञान-एक-आकारतया तस्माद् विसजातीयः, अव्यक्तः केनचित् प्रमाणेन न व्यज्यत इत्य् अव्यक्तः, स्व-संवेद्य-स्व-असाधारण-आकार इत्य्-अर्थः; सनातनः उत्पत्ति-विनाश-अनर्हतया नित्यः यः सर्वेषु वियद्-आदि-भूतेषु स-कारणेषु स-कार्येषु विनश्यत्सु तत्र तत्र स्थितो ऽपि न विनश्यति; सः अव्यक्तो ऽक्षर इत्य्-उक्तः, ᳚ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते᳚, ᳚कूट-स्थो ऽक्षर उच्यते᳚ इत्य्-आदिषु --- तं वेद-विदः परमां गतिम् आहुः / अयम् एव, ᳚यः प्रयाति त्यजन् देहं स याति परमां गतिम्᳚ इत्य् अत्र परम-गति-शब्द-निर्दिष्टो ऽक्षरः प्रकृति-संसर्ग-वियुक्त-स्व-स्व-रूपेण अवस्थित आत्म ईत्य्-अर्थः / यम् एवं-भूतं स्व-रूपेण अवस्थितं प्राप्य न निवर्तन्ते; तन् मम परमं धाम परं नियमन-स्थानम् / अचेतन-प्रकृतिर् एकं नियमन-स्थानम्; तत्-संसृष्ट-रूपा जीव-प्रकृतिर् द्वितीयं नियमन-स्थानम् / अचित्-संसर्ग-वियुक्तं स्व-रूएण अवथितं मुक्त-स्व-रूपं परमं नियमन-स्थानम् इत्य्-अर्थः / तच् च अपुनर्-आवृत्ति-रूपम् / अथ वा प्रकाश-वाची धाम-शब्दः; प्रकाशः च इह ज्ञानम् अभिप्रेतम्; प्रकृति-संसृष्टात् परिछिन्न-ज्ञान-रूपाद् आत्मनो ऽपरिच्छिन्न-ज्ञान-रूपतया मुक्त-स्व-रूपं परं धाम //
SK
ज्ञानिनः प्राप्यं तु तस्माद् अत्यन्तविभक्तम् इत्य् आह --
SK
ज्ञानिनः प्राप्यं तु तस्माद् अत्यन्त-विभक्तम् इत्य् आह ---
SK
पुरुषस् स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया | यस्यान्तस्स्थानि भूतानि येन सर्वम् इदं ततम् ||
SK
पुरुषस् स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया | यस्य अन्तस्स्थानि भूतानि येन सर्वम् इदं ततम् ||
SK
᳚मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनंजय / मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव // Bह्GR_१.᳚, ᳚माम् एभ्यः परम् अव्ययम्᳚ इत्यादिना निर्दिष्टस्य यस्य अन्तस्स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वम् इदं ततम्, स परः पुरुषः ᳚अनन्यचेतास् सततम्᳚ इत्य् अनन्यया भक्त्या लभ्यः //८-२२//
SK
᳚मत्तः परतरं न अन्यत् किञ्चिद् अस्ति धनं-जय / मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव // Bह्GR_१.᳚, ᳚माम् एभ्यः परम् अव्ययम्᳚ इत्य्-आदिना निर्दिष्टस्य यस्य अन्तस्स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वम् इदं ततम्, स परः पुरुषः ᳚अनन्य-चेतास् सततम्᳚ इत्य् अनन्यया भक्त्या लभ्यः //८-२२//
SK
अथात्मयाथात्म्यविदुः परमपुरुषनिष्टस्य च साधरणीम् अर्चिरादिकां गतिम् आह -- द्वयोर् अप्य् अर्चिरादिका गतिः श्रुतौ श्रुता / सा चापुनरावृत्तिलक्षणा / यथा पञ्चाग्निविद्यायाम्, ᳚तद् य इत्थं विदुर् ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते, ते ऽर्चिषम् अभिसंभवन्त्य् अर्चिषो ऽहः᳚ इत्यादौ / अर्चिरादिकया गतस्य परब्रह्मप्राप्तिर् अपुनरावृत्तिश् चाम्नाता, ᳚स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते᳚ इति / न च प्रजापतिवाक्यादौ श्रुतपरविद्याङ्गभूतात्मप्राप्तिविषयेयम्, ᳚तद् य इत्थं विदुः᳚ इति गतिश्र्तुइः, ᳚ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते᳚ इति परविद्यायाः पृथक्छ्रुतिवैयार्थ्यात् / पञ्चाग्निविद्यायां च, ᳚इति तु पञ्चम्याम् आहुताव् आपः पुरुषवचसो भवन्ति᳚ इति, ᳚रमणीयचरणाः ... कपूयचरणाः᳚ इति पुण्यपापहेतुको मनुष्यादिभावो ऽपाम् एव भूतान्तरसंसृष्टानाम्, आत्मनस् तु तत्परिष्वङ्गमात्रम् इति चिदचितोर् विवेकम् अभिधाय, ᳚तद् य इत्थं विदुः ,,, ते ऽर्चिषम् असंभवन्ति ... इमं मानवम् आवर्तं नावर्तन्ते᳚ इति विविक्ते चिदचिद्वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदुः ते ऽर्चिरादिना गच्छन्ति, न च पुनर् आवर्तन्त इत्य् उक्तम् इति गम्यते / आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च ᳚स एनान् ब्रह्म गमयति᳚ इति ब्रह्मप्राप्तिवचनाद् अचिद्वियुक्तम् आत्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसम् इत्य् अनुसन्धेयम्; तत्क्रतुन्यायाच् च / परशेषतैकरसत्वं च ᳚य आत्मनि तिष्ठन् ... यस्यात्मा शरीरम्᳚ इत्यादिश्रुतिसिद्धम् /
SK
अथा अत्म-याथात्म्य-विदुः परम-पुरुष-निष्टस्य च साधरणीम् अर्चिर-आदिकां गतिम् आह --- द्वयोर् अप्य् अर्चिर-आदिका गतिः श्रुतौ श्रुता / सा च अपुनर्-आवृत्ति-लक्षणा / यथा पञ्च-अग्नि-विद्यायाम्, ᳚तद् य इत्थं विदुर् ये च इमे ऽरण्ये श्रद्धा तप इत्य् उपासते, ते ऽर्चिषम् अभिसंभवन्त्य् अर्चिषो ऽहः᳚ इत्य्-आदौ / अर्चिर-अदिकया गतस्य पर-ब्रह्म-प्राप्तिर् अपुनर्-आवृत्तिश् चा अम्नाता, ᳚स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं ना अवर्तन्ते᳚ इति / न च प्रजापति-वाक्य-आदौ श्रुत-पर-विद्या-अङ्ग-भूत-आत्म-प्राप्ति-विषय ईयम्, ᳚तद् य इत्थं विदुः᳚ इति गति-श्र्तुइः, ᳚ये च इमे ऽरण्ये श्रद्धा तप इत्य् उपासते᳚ इति पर-विद्यायाः पृथक्-छ्रुति-वैयार्थ्यात् / पञ्च-अग्नि-विद्यायां च, ᳚इति तु पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति᳚ इति, ᳚रमणीय-चरणाः ... कपूय-चरणाः᳚ इति पुण्य-पाप-हेतुको मनुष्य-आदि-भावो ऽपाम् एव भूत-अन्तर-संसृष्टानाम्, आत्मनस् तु तत्-परिष्वङ्ग-मात्रम् इति चिद्-अचितोर् विवेकम् अभिधाय, ᳚तद् य इत्थं विदुः ,,, ते ऽर्चिषम् असंभवन्ति ... इमं मानवम् आवर्तं ना अवर्तन्ते᳚ इति विविक्ते चिद्-अचिद्-वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदुः ते ऽर्चिर-आदिना गच्छन्ति, न च पुनर् आवर्तन्त इत्य् उक्तम् इति गम्यते / आत्म-याथात्म्य-विदः परम-पुरुष-निष्ठस्य च ᳚स एनान् ब्रह्म गमयति᳚ इति ब्रह्म-प्राप्ति-वचनाद् अचिद्-वियुक्तम् आत्म-वस्तु ब्रह्म-आत्मकतया ब्रह्म-शेषता-एक-रसम् इत्य् अनुसन्धेयम्; तत्-क्रतु-न्यायाच् च / पर-शेषता-एक-रसत्वं च ᳚य आत्मनि तिष्ठन् ... यस्या अत्मा शरीरम्᳚ इत्य्-आदि-श्रुति-सिद्धम् /
SK
यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः | प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ||
SK
यत्र काले त्व् अनावृत्तिम् आवृत्तिं च एव योगिनः | प्रयाता यान्ति तं कालं वक्ष्यामि भरत-र्षभ ||
SK
अग्निर् ज्योतिर् अहश् शुक्लः षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ||
SK
अग्निर् ज्योतिर् अहश् शुक्लः षण्-मासा उत्तर-आयणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः ||
SK
अत्र कालशब्दो मार्गस्याहःप्रभृतिसंवतरान्तकालाभिमानिदेवताभूयस्तया मार्गोपलक्षणार्थः / यस्मिन् मार्गे प्रयाता योगिनो ऽनावृत्तिं पुण्यकर्माणश् चावृत्तिं यान्ति तं मार्गं वक्ष्यामीत्यर्थः / ᳚अग्निर् ज्योतिर् अहश् शुक्लः षण्मासा उत्तरायणम्᳚ इति संवत्सरादीनां प्रदर्शनम् //
SK
अत्र काल-शब्दो मार्गस्य अहः-प्रभृति-संवतर-अन्त-काल-अभिमानि-देवता-भूयस्तया मार्ग-उपलक्षण-अर्थः / यस्मिन् मार्गे प्रयाता योगिनो ऽनावृत्तिं पुण्य-कर्माणश् चा अवृत्तिं यान्ति तं मार्गं वक्ष्यामि इत्य्-अर्थः / ᳚अग्निर् ज्योतिर् अहश् शुक्लः षण्-मासा उत्तर-आयणम्᳚ इति संवत्सर-आदीनां प्रदर्शनम् //
SK
धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायणम् | तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ||
SK
धूमो रात्रिस् तथा कृष्णः षण्-मासा दक्षिणा-आयणम् | तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ||
SK
एतच् च धूमादिमार्गस्थपितृलोकादेः प्रदर्शनम् / अत्र योगिशब्दः पुण्यकर्मसंबन्धिविषयः //
SK
एतच् च धूम-आदि-मार्ग-स्थ-पितृ-लोक-आदेः प्रदर्शनम् / अत्र योगि-शब्दः पुण्य-कर्म-संबन्धि-विषयः //
SK
शुक्लकृष्णे गती ह्य् एते जगतः शाश्वते मते | एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ||
SK
शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते | एकया यात्य् अनावृत्तिम् अन्यया आवर्तते पुनः ||
SK
शुक्ला गतिः अर्चिरादिका, कृष्णा च धूमादिका / शुक्लयानावृत्तिं याति; कृष्णया तु पुनर् आवर्तते / एते शुक्लकृष्णे गती ज्ञानिनां विविधानां पुण्यकर्मणां च श्रुतौ शाश्वते मते / ᳚तद् य इत्थं विदुर् ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते ते ऽर्चिषम् अभिसंभवन्ति᳚, ᳚अथ य इमे ग्राम इष्टापूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसंभवन्ति᳚ इति //
SK
शुक्ला गतिः अर्चिर-आदिका, कृष्णा च धूम-आदिका / शुक्लय आनावृत्तिं याति; कृष्णया तु पुनर् आवर्तते / एते शुक्ल-कृष्णे गती ज्ञानिनां विविधानां पुण्य-कर्मणां च श्रुतौ शाश्वते मते / ᳚तद् य इत्थं विदुर् ये च इमे ऽरण्ये श्रद्धा तप इत्य् उपासते ते ऽर्चिषम् अभिसंभवन्ति᳚, ᳚अथ य इमे ग्राम इष्टा-पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसंभवन्ति᳚ इति //
SK
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन | तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ||
SK
न एते सृती पार्थ जानन् योगी मुह्यति कश्चन | तस्मात् सर्वेषु कालेषु योग-युक्तो भव अर्जुन ||
SK
एतौ मार्गौ जानन् योगी प्रयाणकाले कश्चन न मुह्यति; अपि तु स्वेनैव देवयानेन पथा याति / तस्माद् अहरहर् चिरादिगतिचिन्तनाख्ययोगयुक्तो भव //
SK
एतौ मार्गौ जानन् योगी प्रयाण-काले कश्चन न मुह्यति; अपि तु स्वेन एव देव-यानेन पथा याति / तस्माद् अहर्-अहर् चिर-आदि-गति-चिन्तन-आख्य-योग-युक्तो भव //
SK
अथाध्यायद्वयोदितशास्त्रार्थवेदनफलम् आह --
SK
अथ अध्याय-द्वय-उदित-शास्त्र-अर्थ-वेदन-फलम् आह ---
SK
वेदेषु यज्ञेषु तपस्सु चैव दाने च यत् पुण्यफलं प्रदिष्टम् | अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम् ||
SK
वेदेषु यज्ञेषु तपस्सु च एव दाने च यत् पुण्य-फलं प्रदिष्टम् | अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति च अद्यम् ||
SK
ऋग्यजुस्सामाथर्वरूपवेदाभ्यासयज्ञतपोदानप्रभृतिषु सर्वेषु पुण्येषु यत् फलं निर्दिष्टम्, इदम् अध्यायद्वयोदितं भगवन्माहात्म्यं विदित्वा तत् सर्वम् अत्येति एतद्वेदनसुखातिरेकेण तत् सर्वं तृणवन् मन्यते / योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यं परम् आद्यं स्थानम् उपैति //
SK
ऋग्-यजुस्-साम-अथर्व-रूप-वेद-अभ्यास-यज्ञ-तपो-दान-प्रभृतिषु सर्वेषु पुण्येषु यत् फलं निर्दिष्टम्, इदम् अध्याय-द्वय-उदितं भगवन्-माहात्म्यं विदित्वा तत् सर्वम् अत्येति एतद्-वेदन-सुख-अतिरेकेण तत् सर्वं तृणवन् मन्यते / योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यं परम् आद्यं स्थानम् उपैति //
SK
उपासकभेदनिबन्धना विशेषाः प्रतिपादिताः / इदानीम् उपास्यस्य परमपुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्तिरूपस्योपासनस्य स्वरूपम् उच्यते /
SK
उपासक-भेद-निबन्धना विशेषाः प्रतिपादिताः / इदानीम् उपास्यस्य परम-पुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्ति-रूपस्य उपासनस्य स्व-रूपम् उच्यते /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Bhagavadgītābhāṣya (sa_rAmAnuja-bhagavadgItAbhASya.htm).

Source