SKअथ अर्जुन-विषाद-योगो नाम प्रथमो ऽध्यायः |
SK==============================
SKभगवत्-शङ्कराचार्य-कृत-भाष्यम्
SKॐ नारायणः परो ऽव्यक्ताद् अण्डम् अव्यक्त-सम्भवम् | अण्डस्यान्तस् त्व् इमे लोकाः सप्त-द्वीपा च मेदिनी ||
SKस भगवान् सृष्ट्वेदं जगत् | तस्य च स्थितिं चिकीर्षुः मरीड्यादीन् अग्रे सृष्ट्वा प्रजापतीन् प्रवृत्ति-लक्षणं धर्मं ग्राहयामास वेदोक्तम् | ततो ऽन्यान् च सनक-सनन्दनादीन् उत्पाद्य निवृत्ति-लक्षणं धर्मं ज्ञान-वैराग्य-लक्षणं ग्राहयामास | द्विविधो हि वेदोक्तो धर्मः प्रवृत्ति-लक्षणो निवृत्ति-लक्षणश् च | जगतः स्थिति-कारणम् | प्राणिनां साक्षाद् अभ्युदय-निःश्रेयस-हेतुर् यः स धर्मो ब्राह्मणाद्यैर् वर्णिभिर् आश्रमिभिश् च श्रेयो ऽर्थिभिर् अनुष्ठीयमानः | दीर्घेण कालेन अनुष्ठातॄणां कामोद्भवाद् धीयमान-विवेक-ज्ञान-हेतुकेन अधर्मेण अभिभूयमाने धर्मे, प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स आदि-कर्ता नारायणाख्यो विष्णुर् भौमस्य ब्रह्मणो ब्राह्मणत्वस्य चाभिरक्षणार्थं देवक्यां वसुदेवाद् अंशेन कृष्णः किल सम्बभूव | ब्राह्मणत्वस्य हि रक्षणेन रक्षितः स्याद् वैदिको धर्मः तद्-अधीनत्वाद् वर्णाश्रम-भेदानाम् |
SKस च भगवान् ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सदा सम्पन्नस् त्रिगुणात्मिकां वैष्णवीं स्वां मायां मूल-प्रकृतिं वशीकृत्य, अजो ऽव्ययो भूतानाम् ईश्वरो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावो ऽपि सन्, स्व-मायया देहवान् इव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते | स्व-प्रयोजनाभावे ऽपि भूतानुजिघृक्षया वैदिकं हि धर्म-द्वयम् अर्जुनाय शोक-मोह-महोदधौ निमग्नाय उपदिदेश गुणाधिकैर् हि गृहीतो ऽनुष्ठीयमानश् च धर्मः प्रचयं गमिष्यतीति | तं धर्मं भगवता यथोपदिष्टं वेद-व्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोक-शतैर् उपनिबबन्ध |
SKतद् इदं गीता-शास्त्रं समस्त-वेदार्थ-सार-सङ्ग्रह-भूतं दुर्विज्ञयार्थं तद्-अर्थाविष्करणाय अनेकैर् विवृत-पद-पदार्थ-वाक्य-वाक्यार्थ-न्यायम् अपि अत्यन्त-विरुद्धानेकार्थत्वेन लौकिकैर् गृह्यमाणम् उपलभ्याहं विवेकतो ऽर्थ-निर्धारणार्थं संक्षेपतो विवरणं करिष्यामि |
SKतस्य अस्य गीता-शास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रेयसं स-हेतुकस्य संसारस्य अत्यन्तोपरम-लक्षणम् | तच् च सर्व-कर्म-सन्न्यास-पूर्वकाद् आत्म-ज्ञान-निष्ठा-रूपाद् धर्माद् भवति | तथा इमम् एव गीतार्थ-धर्मम् उद्दिश्य भगवतैवोक्तम् | स हि धर्मः सुपर्याप्तो ब्रह्मणः पद-वेदने [Mभ् १४.१६.१२] इत्य् अनुगीतासु | तत्रैव चोक्तं - नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी [Mभ् १४.१९.७], यः स्याद् एकायने लीनस् तूष्णीं किंचिद् अचिन्तयन् [Mभ् १४.१९.१], ज्ञानं संन्यास-लक्षणम् [Mभ् १४.४३.२६] इति च | इहापि चान्ते उक्तम् अर्जुनाय - सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज [Gईता १८.६६] इति |
SKअभ्युदयार्थो ऽपि यः प्रवृत्ति-लक्षणो धर्मो वर्णान् आश्रमांश् चोद्दिश्य विहितः स देवादि-स्थान-प्राप्ति-हेतुर् अपि सन्, ईश्वरार्पण-बुद्ध्यानुष्ठीयमानः सत्त्व-शुद्धये भवति फलाभिसन्धि-वर्जितः | शुद्ध-सत्त्वस्य च ज्ञान-निष्ठायोग्यता-प्राप्ति-द्वारेण ज्ञानोत्पत्ति-हेतुत्वेन च निःश्रेयस-हेतुत्वम् अपि प्रतिपद्यते | तथा चेमम् एवार्थम् अभिसन्धाय वक्ष्यति ब्रह्मण्य् आधाय कर्माणि [Gईता ५.१०], योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये [Gईता ५.११] इति |
SKइमं द्विप्रकारं धर्मं निःश्रेयस-प्रयोजनम् | परमार्थ-तत्त्वं च वासुदेवाख्यं पर-ब्रह्माभिधेय-भूतं विशेषतः अभिव्यञ्जयद् विशिष्ट-प्रयोजन-सम्बन्धाभिधेयवद् गीता-शास्त्रम् | यतस् तद्-अर्थ-विज्ञानेन समस्त-पुरुषार्थ-सिद्धिः | अतः तद्-विवरणे यत्नः क्रियते मया ||