12.1 SK एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते | ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ||Bह्G_१२.१||
12.1 SK एवम् इत्य् अतीतानन्तर-लोकेन उक्तम् अर्थं परामृशति मत्-कर्म-कृद् इत्य् आदिना | एवं सतत-युक्ताः, नैरन्तर्येण भगवत्-कर्मादौ यथोक्ते ऽर्थे समाहिताः सन्तः प्रवृत्ता इत्य् अर्थः | ये भक्ता अनन्य-शरणाः सन्तस् त्वां यथा-दर्शितं विश्व-रूपं पर्युपासते ध्यायन्ति | ये चान्ये ऽपि त्यक्त-सर्वेषणाः संन्यस्त-सर्व-कर्माणो यथा-विशेषितं ब्रह्माक्षरं निरस्त-सर्वोपाधित्वाद् अव्यक्तम् अकरण-गोचरम् | यद् धि करण-गोचरं तद् व्यक्तम् उच्यते, अञ्जेर् धातोस् तत्-कर्मकत्वात् | इदं त्व् अक्षरं तद्-विपरीतम्, शिष्टौ च उच्यमानैर् विशेषणैर् विशिष्टम्, तद् ये चापि पर्युपासते, तेषाम् उभयेषां मध्ये के योगि-वित्तमाः ? के ऽतिशयेन योग-विद इत्य् अर्थः ||Bह्GS_१२.१||
3 SK ==============================
4 SK श्री-भगवान् उवाच - ये त्व् अक्षरोपासकाः सम्यग्-दर्शिनो निवृत्तैषणास् ते तावत् तिष्ठन्तु | तान् प्रति यद् वक्तव्यम्, तद् उपरिष्टाद् वक्ष्यामः | ये त्व् इतरे -
12.2 SK मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते | श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ||Bह्G_१२.२||
12.2 SK मयि विश्व-रूपे परमेश्वर आवेश्य समाधाय मनो ये भक्ताः सन्तः, मां सर्व-योगे वराणाम् अधीश्वरं सर्वज्ञं विमुक्त-रागादि-क्लेश-तिमिर-दृष्टिम्, नित्य-युक्ता अतीतानन्तराध्यायान्तोक्त-श्लोकार्थ-न्यायेन सतत-युक्ताः सन्त उपासते श्रद्धया परया प्रकृष्टयोपेताः, ते मे मम मता अभिप्रेता युक्ततमा इति | नैरन्तर्येण हि ते मच्-चित्ततयाहो-रात्रम् अतिवाहयन्ति | अतो युक्तं तान् प्रति युक्ततमा इति वक्तुम् ||Bह्GS_१२.२||
7 SK ==============================
8 SK किम् इतरे युक्ततमा न भवन्ति ? न | किंतु तान् प्रति यद् वक्तव्यम्, तच् छृणु -
12.3 SK ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते | सर्वत्र-गम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ||Bह्G_१२.३||
12.3 SK ये त्व् अक्षरम् अनिर्देश्यम्, अव्यक्तत्वाद् अशब्द-गोचरेति न निर्देष्टुं शक्यते, अतो ऽनिर्देश्यम् | अव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्य् अव्यक्तं पर्युपासते परि समन्ताद् उपासते | उपासनं नाम यथा-शास्त्रम् उपास्यस्यार्थस्य विषयी-करणेन सामीप्यम् उपगम्य तैल-धारावत् समान-प्रत्यय-प्रवाहेण दीर्घ-कालं यद् आसनम्, तद् उपासनम् आचक्षते | अक्षरस्य विशेषणम् आह - सर्वत्र-गं व्योमवद् व्याप्य् अचिन्त्यं चाव्यक्तत्वाद् अचिन्त्यम् | यद् धि करण-गोचरम्, तन् मनसापि चिन्त्यम्, तद्-विपरीतत्वाद् अचिन्त्यम् अक्षरम्, कूट-स्थं दृश्यमान-गुणम् अन्तर्-दोषं वस्तु कूटम् | कूट-रूपम् कूट-साक्ष्यम् इत्य् आदौ कूट-शब्दः प्रसिद्धो लोके | तथा चाविद्याद्य्-अनेक-संसार-बीजम् अन्तर्-दोषवन् माया-व्याकृतादि-शब्द-वाच्यतया मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [Śवेत्U ४.१०], मम माया दुरत्यया [Gईता ७.१४] इत्य् आदौ प्रसिद्धं यत् तत् कूटम्, तस्मिन् कूटे स्थितं कूट-स्थं तद्-अध्यक्षतया | अथवा, राशिर् इव स्थितं कूट-स्थम् अत एवाचलम् | यस्माद् अचलम्, तस्माद् ध्रुवम्, नित्यम् इत्य् अर्थः ||Bह्GS_१२.३||
11 SK ==============================
12.4 SK संनियम्येन्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः | ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ||Bह्G_१२.४||
12.4 SK संनियम्य सम्यक् नियम्य उपसंहृत्य इन्द्रिय-ग्रामम् इन्द्रिय-समुदायं सर्वत्र सर्वस्मिन् काले सम-बुद्धयः समा तुल्या बुद्धिर् येषाम् इष्टानिष्ट-प्राप्तौ ते सम-बुद्धयः | ते ये एवं-विधास् ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः | न तु तेषां वक्तव्यं किंचित् मां ते प्राप्नुवन्तीति | ज्ञानी त्व् आत्मैव मे मतम् इति ह्य् उक्तम् | न हि भगवत्-स्वरूपाणां सतां युक्ततमत्वम् अयुक्ततमत्वं वा वाच्यम् ||Bह्GS_१२.४||
14 SK ==============================
12.5 SK किं तु - क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् | अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ||Bह्G_१२.५||
12.5 SK क्लेशो ऽधिकतरः | यद्यपि मत्-कर्मादि-पराणां क्लेशो ऽधिक एव | क्लेशो ऽधिकतरस् त्व् अक्षरात्मनां परमार्थ-दर्शिनां देहाभिमान-परित्याग-निमित्तः | अव्यक्तासक्त-चेतसाम् अव्यक्त आसक्तं चेतो येषां ते ऽव्यक्तासक्त-चेतसस् तेषाम् अव्यक्तासक्त-चेतसाम् | अव्यक्ता हि यस्माद् या गतिर् अक्षरात्मिका दुःखं सा देहवद्भिर् देहाभिमानवद्भिर् अवाप्यते | अतः क्लेशो ऽधिकतरः | अक्षरोपासकानां यद् वर्तनम्, तद् उपरिष्टाद् वक्ष्यामः ||Bह्GS_१२.५||
17 SK ==============================
12.6 SK ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः | अनन्येनैव योगेन मां ध्यायन्त उपासते ||Bह्G_१२.६||
12.6 SK ये तु सर्वाणि कर्माणि मयीश्वरे संन्यस्य मत्-परा अहं परो येषां ते मत्-पराः सन्तो ऽनन्येनैवाविद्यमानम् अन्यत् आलम्बनं विश्व-रूपं देवम् आत्मानं मुक्त्वा यस्य सो ऽनन्यस् तेनानन्येनैव | केन ? योगेन समाधिना मां ध्यायन्तश् चिन्तयन्त उपासते ||Bह्GS_१२.६||
20 SK ==============================
12.7 SK तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् | भवामि नचिरात् पार्थ मय्य् आवेशित-चेतसाम् ||Bह्G_१२.७||
12.7 SK तेषां मद्-उपासनैक-पराणाम् अहम् ईश्वरः समुद्धर्ता | कुतः ? इत्य् आह - मृत्यु-संसार-सागरान् मृत्यु-युक्तः संसारो मृत्यु-संसारः, स एव सागर इव सागरः, दुस्तरत्वात्, तस्मात् मृत्यु-संसार-सागरात् अहं तेषां समुद्धर्ता भवामि न चिरात् | किं तर्हि ? क्षिप्रम् एव हे पार्थ, मयि आवेशित-चेतसां मयि विश्व-रूप आवेशितं समाहितं चेतो येषां ते मय्य् आवेशित-चेतसस् तेषाम् ||Bह्GS_१२.७||
24 SK ==============================
12.8 SK मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय | निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ||Bह्G_१२.८||
12.8 SK मय्य् एव विश्व-रूप ईश्वरे मनः संकल्प-विकल्पात्मकं आधत्स्व स्थापय | मय्य् एवाध्यवसायं कुर्वतीं बुद्धिम् आधत्स्व निवेशय | ततस् ते किं स्याद् इति सृणु - निवसिष्यसि निवत्स्यसि निश्चयेन मद्-आत्मना मयि निवासं करिष्यसि | एवातः शरीर-पाताद् ऊर्ध्वम् | न संशयः, संशयो ऽत्र न कर्तव्यः ||Bह्GS_१२.८||
28 SK ==============================
12.9 SK अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् | अभ्यास-योगेन ततो माम् इच्छाप्तुं धनञ्जय ||Bह्G_१२.९||
12.9 SK अथ एवं यथावोचं तथा मयि चित्तं समाधातुं स्थापयितुं स्थिरम् अचलं न शक्नोषि चेत्, ततः पश्चाद् अभ्यास-योगेन | चित्तस्यैकस्मिन् आलम्बने सर्वतः समाहृत्य पुनः पुनः स्थापनम् अभ्यासः | तत्-पूर्वको योगः समाधान-लक्षणस् तेनाभ्यास-योगेन मां विश्व-रूपम् इच्छ प्रार्थयस्व आप्तुं प्राप्तुम् | हे धनञ्जय ||Bह्GS_१२.९||
31 SK ==============================
12.10 SK अभ्यासे ऽप्य् असमर्थो ऽसि मत्-कर्म-परमो भव | मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ||Bह्G_१२.१०||
12.10 SK अभ्यासे ऽप्य् असमर्थो ऽस्य् अशक्तो ऽसि, तर्हि मत्-कर्म-परमो भव मद्-अर्थं कर्म मत्-कर्म तत्-परमः मत्-कर्म-परमः, मत्-कर्म-प्रधान इत्य् अर्थः | अभ्यासेन विना मद्-अर्थम् अपि कर्माणि केवलं कुर्वन् सिद्धिं सत्त्व-शुद्धि-योग-ज्ञान-प्राप्ति-द्वारेणावाप्स्यसि ||Bह्GS_१२.१०||
34 SK ==============================
12.11 SK अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्-योगम् आश्रितः | सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् ||Bह्G_१२.११||
12.11 SK अथ पुनर् एतद् अपि यद् उक्तं मत्-कर्म-परमत्वम्, तत् कर्तुम् अशक्तो ऽसि, मद्-योगम्, आश्रितो मयि क्रियमाणानि कर्माणि संन्यस्य यत् करणं तेषाम् अनुष्ठानं स मद्-योगः, तम् आश्रितः सन्, सर्व-कर्म-फल-त्यागं सर्वेषां कर्मणां फल-संन्यासं सर्व-कर्म-फल-त्यागं ततो ऽनन्तरं कुरु यतात्मवान् संयत-चित्तः सन् इत्य् अर्थः ||Bह्GS_१२.११||
37 SK ==============================
38 SK इदानीं सर्व-कर्म-फल-त्यागं स्तौति -
12.12 SK श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते | ध्यानात् कर्म-फल-त्यागस् त्यागाच् छान्तिर् अनन्तरम् ||Bह्G_१२.१२||
40 SK श्रेयो हि प्रशस्यतरं ज्ञानम् | कस्मात् ? विवेक-पूर्वकाद् अभ्यासात् | तस्माद् अपि ज्ञानाज् ज्ञान-पूर्वकं ध्यानं विशिष्यते | ज्ञानवतो ध्यानाद् अपि कर्म-फल-त्यागो विशिष्यत इत्य् अनुषज्यते | एवं कर्म-फल-त्यागात् पूर्व-विशेषणवतः शान्तिर् उपशमः स-हेतुकस्य संसारस्यानन्तरम् एव स्यात्, न तु कालान्तरम् अपेक्षते |
12.12 SK अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्तौ सर्व-कर्मणां फल-त्यागः श्रेयः-साधनम् उपदिष्टम्, न प्रथमम् एव | अतश् च श्रेयो हि ज्ञानम् अभ्यासाद् इत्य् उत्तरोत्तर-विशिष्टत्वोपदेशेन सर्व-कर्म-फल-त्यागः स्तूयते, संपन्न-साधनानुष्ठानाशक्तौ अनुष्ठेयत्वेन श्रुतत्वात् | केन साधर्म्येण स्तुतित्वम् ? यदा सर्वे प्रमुच्यन्त इति सर्व-काम-प्रहाणाद् अमृतत्वम् उक्तम् | तत् प्रसिद्धम् | कामाश् च सर्वे श्रौत-स्मार्त-कर्मणां फलानि | तत्-त्यागे च विदुषो ध्यान-निष्ठस्यानन्तरैव शान्तिर् इति सर्व-काम-त्याग-सामान्यम् अज्ञ-कर्म-फल-त्यागस्यास्तीति तत्-सामान्यात् सर्व-कर्म-फल-त्याग-स्तुतिर् इयं प्ररोचनार्था | यथागस्त्येन ब्राह्मणेन समुद्रः पीत इतीदानींतना अपि ब्राह्मणा ब्राह्मणत्व-सामान्यात् स्तूयन्ते, एवं कर्म-फल-त्यागात् कर्म-योगस्य श्रेयः साधनत्वम् अभिहितम् ||Bह्GS_१२.१२||
42 SK ==============================
43 SK अत्र चात्मेश्वर-भेदम् आश्रित्य विश्व-रूप ईश्वरे चेतः-समाधान-लक्षणो योग उक्तः, ईश्वरार्थं कर्मानुष्ठानादि च | अथैतद् अप्य् अशक्तो ऽसि [Gईता १२.११] इत्य् अज्ञान-कार्य-सूचनान् नाभेद-दर्शिनो ऽक्षरोपासकस्य कर्म-योग उपपद्यत इति दर्शयति | तथा कर्म-योगिनो ऽक्षरोपासनानुपपत्तिम् | ते प्राप्नुवन्ति माम् एव [Gईता १२.४] इत्य् अक्षरोपासकानां कैवल्य-प्राप्तौ स्वातन्त्र्यम् उक्त्वा, इतरेषां पारतन्त्र्याद् ईश्वराधीनतां दर्शितवान् तेषाम् अहं समुद्धर्ता [Gईता १२.७] इति | यदि हीश्वरस्यात्म-भूतास् ते मता अभेद-दर्शित्वात्, अक्षर-स्वरूपा एव त इति समुद्धरण-कर्म-वचनं तान् प्रत्य् अपेशलं स्यात् | यस्माच् चार्जुनस्यात्यन्तम् एव हितैषी भगवान् तस्य सम्यग्-दर्शनानन्वितं कर्म-योगं भेद-दृष्टिमन्तम् एव उपदिशति | न चात्मानम् ईश्वरं प्रमाणतो बुद्ध्वा कस्यचिद् गुण-भावं जिगमिषति कश्चिद्, विरोधात् | तस्माद् अक्षरोपासकानां सम्यग् दर्शन-निष्ठानां संन्यासिनां त्यक्त-सर्वेषणानाम् अद्वेष्टा सर्व-भूतानाम् इत्य् आदि-धर्म-पूगं साक्षाद् अमृतत्व-कारणं वक्ष्यामीति प्रवर्तते -
12.13 SK अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च | निर्ममो निरहंकारः सम-दुःख-सुखः क्षमी ||Bह्G_१२.१३||
12.13 SK अद्वेष्टा सर्व-भूतानां न द्वेष्टा, आत्मनो दुःख-हेतुम् अपि न किंचिद् द्वेष्टि, सर्वाणि भूतान्य् आत्मत्वेन हि पश्यति | मैत्रो मित्र-भावो मैत्री मित्रतया वर्तत इति मैत्रः | करुण एव च, करुणा कृपा दुःखितेषु दया, तद्वान् करुणः, सर्व-भूताभय-प्रदः, संन्यासीत्य् अर्थः | निर्ममो मम-प्रत्यय-वर्जितः | निरहंकारो निर्गताहं-प्रत्ययः | सम-दुःख-सुखः समे दुःख-सुखे द्वेष-रागयोर् अप्रवर्तके यस्य स सम-दुःख-सुखः | क्षमी क्षमावान्, आक्रुष्टो ऽभिहतो वाविक्रिय एवास्ते ||Bह्GS_१२.१३||
46 SK ==============================
12.14 SK संतुष्टः सततं योगी यतात्मा दृढ-निश्चयः | मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः ||Bह्G_१२.१४||
12.14 SK संतुष्टः सततं नित्यं देह-स्थिति-कारणस्य लाभे ऽलाभे च उत्पन्नालं-प्रत्ययः | तथा गुणवल्-लाभे विपर्यये च संतुष्टः | सततं योगी समाहित-चित्तः | यतात्मा संयत-स्वभावः | दृढ-निश्चयो दृढः स्थिरो निश्चयो ऽध्यवसायो यस्यात्म-तत्त्व-विषये स दृढ-निश्चयः | मय्य् अर्पित-मनो-बुद्धिः संकल्प-विकल्पात्मकं मनः, अध्यवसाय-लक्षणा बुद्धिः, ते मय्य् एवार्पिते स्थापिते यस्य संन्यासिनः स मय्य् अर्पित-मनो-बुद्धिः | य ईदृशो मद्-भक्तः स मे प्रियः | प्रियो हि ज्ञानिनो ऽत्य् अर्थम् अहं स च मम प्रिय इति सप्तमे ऽध्याये सूचितम्, तद् इह प्रपञ्च्यते ||Bह्GS_१२.१४||
49 SK ==============================
12.15 SK यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः | हर्षामर्ष-भयोद्वेगैर् मुक्तो यः स च मे प्रियः ||Bह्G_१२.१५||
12.15 SK यस्मात् संन्यासिनो नोद्विजते नोद्वेगं गच्छति न सन्तप्यते न संक्षुभ्यति लोकः, तथा लोकान् नोद्विजते च यः, हर्षामर्ष-भयोद्वेगैर् हर्षश् चामर्षश् च भयं चोद्वेगश् च तैर् हर्षामर्ष-भयोद्वेगैर् मुक्तः | हर्षः प्रिय-लाभे ऽन्तः-करणस्योत्कर्षो रोमाञ्चनाश्रुपातादि-लिङ्गः | अमर्षो ऽसहिष्णुता | भयं त्रासः | उद्वेग उद्विग्नता | तैर् मुक्तो यः स च मे प्रियः ||Bह्GS_१२.१५||
52 SK ==============================
12.16 SK अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः | सर्वारम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ||Bह्G_१२.१६||
12.16 SK देहेन्द्रिय-विषय-संबन्धादिषु अपेक्षा-विषयेषु अनपेक्षो निःस्पृहः | शुचिर् बाह्येन आभ्यन्तरेण च शौचेन संपन्नः | दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यो यथावत् प्रतिपत्तुं समर्थः | उदासीनो न कस्यचित् मित्रादेः पक्षं भजते यः, स उदासीनो यतिः | गत-व्यथो गत-भयः | सर्वारम्भ-परित्यागी आरभ्यन्तेति | आरम्भा इहामुत्र-फल-भोगार्थानि काम-हेतूनि कर्माणि सर्वारम्भाः, तान् परित्यक्तुं शीलम् अस्येति सर्वारम्भ-परित्यागी यः मद्-भक्तः सः मे प्रियः ||Bह्GS_१२.१६||
55 SK ==============================
12.17 SK किं च - यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति | शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ||Bह्G_१२.१७||
12.17 SK यो न हृष्यतीष्ट-प्राप्तौ, न द्वेष्ट्य् अनिष्ट-प्राप्तौ, न शोचति प्रिय-वियोगे, न चाप्राप्तं काङ्क्षति, शुभाशुभे कर्मणी परित्यक्तुं शीलम् अस्येति शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ||Bह्GS_१२.१७||
58 SK ==============================
12.18 SK समः शत्रौ च मित्रे च तथा मानापमानयोः | शीतोष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ||Bह्G_१२.१८||
12.18 SK समः शत्रौ च मित्रे च, तथा मानापमानयोः पूजा-परिभवयोः, शीतोष्ण-सुख-दुःखेषु समः | सर्वत्र च सङ्ग-विवर्जितः ||Bह्GS_१२.१८||
61 SK ==============================
12.19 SK किं च - तुल्य-निन्दा-स्तुतिर् मौनी संतुष्टो येन केनचित् | अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः ||Bह्G_१२.१९||
63 SK तुल्य-निन्दा-स्तुतिः | निन्दा च स्तुतिश् च निन्दा-स्तुती | ते तुल्ये यस्य स तुल्य-निन्दा-स्तुतिः | मौनी मौनवान् संयत-वाक् | संतुष्टः येन केनचित् शरीर-स्थिति-हेतु-मात्रेण | तथा चोक्तम् -
12.19 SK येन केनचिद् आच्छन्नो येन केनचिद् आशितः | यत्र क्वचन शायी स्यात् तं देवा ब्राह्मणं विदुः || [Mभ् १२.२४५.१२] इति | किं च, अनिकेतो निकेत आश्रयो निवासो नियतो न विद्यते यस्य सो ऽनिकेतः, नागारे इत्य् आदि-स्मृत्य्-अन्तरात् | स्थिर-मतिः स्थिरा परमार्थ-विषया यस्य मतिः सः स्थिर-मतिः | भक्तिमान् मे प्रियो नरः ||Bह्GS_१२.१९||
65 SK ==============================
66 SK अद्वेष्टा सर्व-भूतानाम् [Gईता १२.१३] इत्य् आदिनाक्षरोपासकानां निवृत्त-सर्वेषणानां संन्यासिनां परमार्थ-ज्ञान-निष्ठानां धर्म-जातं प्रक्रान्तम् उपसंह्रियते -
12.20 SK ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते | श्रद्दधाना मत्-परमा भक्तास् ते ऽतीव मे प्रियाः ||Bह्G_१२.२०||
12.20 SK ये तु संन्यासिनो धर्म्यामृतं धर्माद् अनपेतं धर्म्यं च तद् अमृतं च तत्, अमृतत्व-हेतुत्वात्, इदं यथोक्तम्, अद्वेष्टा सर्व-भूतानाम् इत्य् आदिना पर्युपासते ऽनुतिष्ठन्ति श्रद्दधानाः सन्तः मत्-परमाः यथोक्तो ऽहम् अक्षरात्मा परमो निरतिशया गतिर् येषां ते मत्-परमाः, मद्-भक्ताश् चोत्तमां परमार्थ-ज्ञान-लक्षणां भक्तिम् आश्रिताः, ते ऽतीव मे प्रियाः | प्रियो हि ज्ञानिनो ऽत्य् अर्थम् [Gईता ७.१८] इति यत् सूचितं तत् व्याख्यायेहोपसंहृतम् भक्तास् ते ऽतीव मे प्रिया इति | यस्माद् धर्म्यामृतम् इदं यथोक्तम् अनुतिष्ठन् भगवतो विष्णोः परमेश्वरस्यातीव प्रियो भवति, तस्माद् इदं धर्म्यामृतं मुमुक्षुणा यत्नतो ऽनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणेति वाक्यार्थः ||Bह्GS_१२.२०||
69 SK इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये द्वादशो ऽध्यायः ||
71 SK [*NOTE: Nउम्बेरिन्ग् ओf थिस् अध्यय ओउत् ओf तुने wइथ् स्तन्दर्द् एदितिओन्स् अन्द् प्रोबब्ल्य् देfएच्तिवे; ᳚१३.३३᳚ मिस्सिन्ग्!]
72 SK अथ क्षेत्र-क्षेत्रज्ञ-योगो नाम त्रयोदशो ऽध्यायः
73 SK (श्री-शङ्कराचार्य-भगवत्-पाद-कृत-भाष्यम्)
74 SK सप्तमे ऽध्याये सूचिते द्वे प्रकृती ईश्वरस्य त्रिगुणात्मिकाष्टधा भिन्नापरा संसार-हेतुत्वात्, परा चान्या जीव-भूता क्षेत्रज्ञ-लक्षणेश्वरात्मिका | याभ्यां प्रकृतिभ्याम् ईश्वरो जगद्-उत्पत्ति-स्थिति-लय-हेतुत्वं प्रतिपद्यते | तत्र क्षेत्र-क्षेत्रज्ञ-लक्षण-प्रकृति-द्वय-निरूपण-द्वारेण तद्वत ईश्वरस्य तत्त्व-निर्धारणार्थं क्षेत्राध्याय आरभ्यते | अतीतानन्तराध्याये च अद्वेष्टा सर्व-भूतानां [Gईता १२.१३] इत्य् आदिना यावद्-अध्याय-परिसमाप्तिस् तावत् तत्त्व-ज्ञानिनां सन्न्यासिनां निष्ठा यथा ते वर्तन्त इत्य् एतद् उक्तम् | केन पुनस् ते तत्त्व-ज्ञानेन युक्ता यथोक्त-धर्माचरणाद् भगवतः प्रिया भवन्त्य् एवम् अर्थश् चायम् अध्याय आरभ्यते | प्रकृतिश् च त्रिगुणात्मिका सर्व-कार्य-करण-विषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थ-कर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते | सो ऽयं सङ्घात इदं शरीरम् | तद् एतद् भगवान् उवाच --
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.
Source