10.1 SK भूय एव महा-बाहो शृणु मे परमं वचः | यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हित-काम्यया ||Bह्G_१०.१||
10.1 SK भूय एव भूयः पुनर् हे महाबाहो सृणु मे मदीयं परमं प्रकृष्टं निरतिशय-वस्तुनः प्रकाशकं वचो वाक्यं यत् परमं ते तुभ्यं प्रीयमाणाय - मद्-वचनात् प्रीयसे त्वम् अतीवामृतम् इव पिबन्, ततः - वक्ष्यामि हित-काम्यया हितेच्छया ||Bह्GS_१०.१||
3 SK ==============================
4 SK किम्-अर्थम् अहं वक्ष्यामीत्य् अत आह -
10.2 SK न मे विदुः सुरगणाः प्रभवं न महर्षयः | अहम् आदिर् हि देवानां महर्षीणां च सर्वशः ||Bह्G_१०.२||
10.2 SK न मे विदुर् न जानन्ति सुर-गणा ब्रह्मादयः | किं ते न विदुः ? मम प्रभवं प्रभावं प्रभु-शक्त्य्-अतिशयम्, अथवा प्रभवं प्रभवनम् उत्पत्तिम् | नापि महर्षयो भृग्व्-आदयो विदुः | कस्मात् ते न विदुर् इत्य् उच्यते - अहम् आदिः कारणं हि यस्माद् देवानां महर्षीणां च सर्वशः सर्व-प्रकारैः ||Bह्GS_१०.२||
7 SK ==============================
10.3 SK यो माम् अजम् अनादिं च वेत्ति लोक-महेश्वरम् | असंमूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते ||Bह्G_१०.३||
10.3 SK यः माम् अजम् अनादिं च, यस्मात् अहम् आदिर् देवानां महर्षीणां च, न ममान्यः आदिः विद्यते | अतो ऽहम् अजो ऽनादि च | अनादित्वम् अजत्वे हेतुः, तं माम् अजम् अनादिं च यो वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तम् ईश्वरं तुरीयम् अज्ञानतत्कार्यवर्जितम् असंमूढः संमोहवर्जितः सः मत्र्येषु मनुष्येषु, सर्वपापैः सर्वेः पापैर् मति-पूर्वामतिपूर्व-कृतैः प्रमुच्यते प्रमोक्ष्यते ||Bह्GS_१०.३||
11 SK ==============================
12 SK इतश् चाहं महेश्वरो लोकानाम् -
10.4 SK बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः | सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च ||Bह्G_१०.४||
10.4 SK बुद्धिर् अन्तः-करणस्य सूक्ष्माद्य्-अर्थावबोधन-सामर्थ्यम्, तद्वन्तं बुद्धिमान् इति हि वदन्ति | ज्ञानम् आत्मादि-पदार्थानाम् अवबोधः | असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेक-पूर्विका प्रवृत्तिः | क्षमा आक्रुष्टस्य ताडितस्य वाविकृत-चित्तता | सत्यं यथा-दृष्टस्य यथा-श्रुतस्य चात्मानुभवस्य पर-बुद्धि-संक्रान्तये तथैवोउचार्यमाणा वाक् सत्यम् उच्यते | दमो बाह्येन्द्रियोपशमः | शमो ऽन्तः-करणस्योपशमः | सुखम् आह्लादः | दुःखं सन्तापः | भव उद्भवः | अभावस् तद्-विपर्ययः | भयं च त्रासः, अभयम् एव च तद्-विपरीतम् ||Bह्GS_१०.४||
15 SK ==============================
10.5 SK अहिंसा समता तुष्टिस् तपो दानं यशो ऽयशः | भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ||Bह्G_१०.५||
10.5 SK अहिंसापीडा प्राणिनाम् | समता सम-चित्तता | तुष्टिः संतोषः पर्याप्त-बुद्धिर् लाभेषु | तप इन्द्रिय-संयम-पूर्वकं शरीर-पीडानम् | दानं यथा-शक्ति संविभागः | यशो धर्म-निमित्ता कीर्तिः | अयशस् त्व् अधर्म-निमित्ता कीर्तिः | भवन्ति भावा यथोक्ता बुद्ध्य्-आदयो भूतानां प्राणिनां मत्त एवेश्वरात् पृथग्-विधाः नाना-विधाः स्व-कर्मानुरूपेण ||Bह्GS_१०.५||
18 SK ==============================
10.6 SK महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा | मद्-भावा मानसा जाता येषां लोक इमाः प्रजाः ||Bह्G_१०.६||
10.6 SK महर्षयः सप्त भृग्व्-आदयः पूर्वे ऽतीत-काल-संबन्धिनः, चत्वारो मनवस् तथा सावर्णा इति प्रसिद्धाः | ते च मद्-भावा मद्-गत-भावना वैष्णवेन सामर्थ्येन उपेताः | मानसा मनसैवोत्पादिता मया जाता उत्पन्नाः | येषां मनूनां महर्षीणां च सृष्टिर् लोक इमाः स्थावर-जङ्गम-लक्षणाः प्रजाः ||Bह्GS_१०.६||
22 SK ==============================
10.7 SK एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः | सो ऽविकम्पेन योगेन युज्यते नात्र संशयः ||Bह्G_१०.७||
10.7 SK एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं चात्मनो घटनम्, अथवा योगैश्वर्य-सामर्थ्यं सर्व-ज्ञत्वं योग-जं योग उच्यते, मम मदीयं योगं यो वेत्ति तत्त्वतस् तत्त्वेन यथावद् इत्य् एतत्, सो ऽविकम्पेनाप्रचलितेन योगेन सम्यग् दर्शन-स्थैर्य-लक्षणेन युज्यते संबध्यते | नात्र संशयो नास्मिन्न् अर्थे संशयो ऽस्ति ||Bह्GS_१०.७||
25 SK ==============================
26 SK कीदृशेनाविकम्पेन योगेन युज्यते ? इत्य् उच्यते -
10.8 SK अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते | इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ||Bह्G_१०.८||
10.8 SK अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिः | मत्त एव स्थिति-नाश-क्रिया-फलोपभोग-लक्षणं विक्रिया-रूपं सर्वं जगत् प्रवर्तते | इत्य् एवं मत्वा भजन्ते सेवन्ते मां बुधा अवगत-परमार्थ-तत्त्वाः | भाव-समन्विता भावो भावना परमार्थ-तत्त्वाभिनिवेशस् तेन समन्विताः संयुक्ताः इत्य् अर्थः ||Bह्GS_१०.८||
29 SK ==============================
10.9 SK मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् | कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ||Bह्G_१०.९||
10.9 SK मच्-चित्ताः, मयि चित्तं येषां ते मच्-चित्ताः | मद्-गत-प्राणाः मां गताः प्राप्ताश् चक्षुर्-आदयः प्राणा येषां ते मद्-गत-प्राणाः | मय्य् उपसंहृत-करणाः इत्य् अर्थः | अथवा, मद्-गत-प्राणाः मद्-गत-जीवना इत्य् एतत् | बोधयन्तो ऽवगमयन्तः परस्परम् अन्योन्यम्, कथयन्तश् च ज्ञान-बल-वीर्यादि-धर्मैर् विशिष्टं माम् | तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रिय-संगत्येव ||Bह्GS_१०.९||
33 SK ==============================
34 SK ये यथोक्तैः प्रकारैर् भजन्ते मां भक्ताः सन्तः -
10.10 SK तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् | ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ||Bह्G_१०.१०||
10.10 SK तेषां सतत-युक्तानां नित्याभियुक्तानां निवृत्त-सर्व-बाह्यैषणानां भजतां सेवमानानाम् | किम् अर्थित्वादिना कारणेन ? नेत्य् आह - -प्रीति-पूर्वकं प्रीतिः स्नेहस् तत्-पूर्वकं मां भजताम् इत्य् अर्थः | ददामि प्रयच्छामि बुद्धि-योगं बुद्धिः सम्यग् दर्शनं मत्-तत्त्व-विषयं तेन योगो बुद्धि-योगस् तं बुद्धि-योगम्, येन बुद्धि-योगेन सम्यग् दर्शन-लक्षणेन मां परमेश्वरम् आत्म-भूतम् आत्मत्वेन उपयान्ति प्रतिपद्यन्ते | के ? ते ये मच्-चित्तत्वादि-प्रकारैर् मां भजन्ते ||Bह्GS_१०.१०||
37 SK ==============================
38 SK किम्-अर्थम् कस्य वा त्वत्-प्राप्ति-प्रतिबन्ध-हेतोर् नाशकं बुद्धि-योगं तेषां त्वद्-भक्तानां ददासि ? इत्य् अपेक्षायाम् आह -
10.11 SK तेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः | नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ||Bह्G_१०.११||
10.11 SK तेषाम् एव कथं नु नाम श्रेयः स्यात् इत्य् अनुकम्पार्थं दया-हेतोर् अहम् अज्ञान-जम् अविवेकतो जातं मिथ्या-प्रत्यय-लक्षणं मोहान्धकारं तमो नाशयामि, आत्म-भाव-स्थ आत्मनो भावो ऽन्तः-करणाशयस् तस्मिन्न् एव स्थितः सन् ज्ञान-दीपेन विवेक-प्रत्यय-रूपेण भक्ति-प्रसाद-स्नेहाभिषिक्तेन मद्-भावनाभिनिवेश-वातेरितेन ब्रह्मचर्यादि-साधन-संस्कार-वत्-प्रज्ञावर्तिना विरक्तान्तः-करणाधारेण विषय-व्यावृत्त-चित्त-राग-द्वेषाकलुषित-निवातापवरक-स्थेन नित्य-प्रवृत्तैकाग्र्य-ध्यान-जनित-सम्यग्-दर्शन-भास्वता ज्ञान-दीपेनेत्य् अर्थः ||Bह्GS_१०.११||
41 SK ==============================
42 SK यथोक्तां भगवतो विभूतिं योगं च श्रुत्वार्जुन उवाच -
10.12 SK परं ब्रह्म परं धाम पवित्रं परमं भवान् | पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् ||Bह्G_१०.१२||
10.12 SK परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान् | पुरुषं शाश्वतं नित्यं दिव्यं दिवि भवम् आदि-देवं सर्व-देवानाम् आदौ भवम् आदि-देवम् अजं विभुं विभवन-शीलम् ||Bह्GS_१०.१२||
45 SK ==============================
10.13 SK आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा | असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||Bह्G_१०.१३||
10.13 SK आहुः कथयन्ति त्वाम् ऋषयो वसिष्ठादयः सर्वे देवर्षिर् नारदस् तथा | असितो देवलो ऽपि एवम् एवाह, व्यासश् च, स्वयं चैव त्वं च ब्रवीषि मे ||Bह्GS_१०.१३||
49 SK ==============================
10.14 SK सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव | न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ||Bह्G_१०.१४||
10.14 SK सर्वम् एतद् यथोक्तम् ऋषिभिस् त्वया चैतद् ऋतं सत्यम् एव मन्ये, यन् मां प्रति वदसि भाषसे हे केशव | न हि ते तव भगवन् व्यक्तिं प्रभवं विदुर् न देवा न दानवाः ||Bह्GS_१०.१४||
52 SK ==============================
53 SK यतस् त्वं देवादीनाम् आदिः, अतः -
10.15 SK स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम | भूत-भावन भूतेश देव-देव जगत्पते ||Bह्G_१०.१५||
10.15 SK स्वयम् एव आत्मनात्मानं वेत्थ जानासि त्वं निरतिशय-ज्ञानैश्वर्य-बलादि-शक्तिमन्तम् ईश्वरं | पुरुषोत्तम ! भूतानि भावयतीति भूत-भावनः | हे भूतभावन ! भूतेश ! भूतानाम् ईशितः ! हे देव-देव ! जगत्-पते ! ||Bह्GS_१०.१५||
56 SK ==============================
10.16 SK वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः | याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ||Bह्G_१०.१६||
10.16 SK वक्तुं कथयितुम् अर्हस्य् अशेषेण | दिव्या ह्य् आत्म-विभूतयः | आत्मनो विभूतयो यास् ताः वक्तुम् अर्हसि | याभिर् विभूतिभिर् आत्मनो माहात्म्य-विस्तरैर् इमान् लोकान् त्वं व्याप्य तिष्ठसि ||Bह्GS_१०.१६||
59 SK ==============================
10.17 SK कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् | केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ||Bह्G_१०.१७||
10.17 SK कथं विद्यां विजानीयाम् अहं हे योगिन् त्वां सदा परिचिन्तयन् | केषु केषु च भावेषु वस्तुषु चिन्त्यो ऽसि ध्येयो ऽसि भगवन् मया ||Bह्GS_१०.१७||
62 SK ==============================
10.18 SK विस्तरेणात्मनो योगं विभूतिं च जनार्दन | भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् ||Bह्G_१०.१८||
10.18 SK विस्तरेणात्मनो योगं योगैश्वर्य-शक्ति-विशेषं विभूतिं च विस्तरं ध्येय-पदार्थानां हे जनार्दन, अर्दतेर् गति-कर्मणो रूपम्, असुराणां देव-प्रतिपक्ष-भूतानां जनानां नरकादि-गमयितृत्वात् जनार्दनो ऽभ्युदय-निःश्रेयस-पुरुषार्थ-प्रयोजनं सर्वैर् जनैर् याच्यते इति वा | भूयः पूर्वम् उक्तम् अपि कथय | तृप्तिः परितोषो हि यस्मान् नास्ति मे मम शृण्वतस् त्वन्-मुख-निःसृत-वाक्यामृतम् ||Bह्GS_१०.१८||
65 SK ==============================
10.19 SK हन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः | प्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ||Bह्G_१०.१९||
10.19 SK हन्त इदानीं ते तव दिव्या दिवि भवा आत्म-विभूतयो ऽत्मनो मम विभूतयो यास् ताः कथयिष्यामीत्य् एतत् | प्राधान्यतो यत्र यत्र प्रधाना या या विभूतिस् तां तां प्रधानां प्राधान्यतः कथयिष्याम्य् अहं कुरु-श्रेष्ठ ! अशेषतस् तु वर्ष-शतेनापि न शक्या वक्तुम्, यतो नास्त्य् अन्तो विस्तरस्य मे मम विभूतीनाम् इत्य् अर्थः ||Bह्GS_१०.१९||
69 SK ==============================
70 SK तत्र प्रथमम् एव तावत् सृणु -
10.20 SK अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः | अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ||Bह्G_१०.२०||
10.20 SK अहम् आत्मा प्रत्यग्-आत्मा गुडाकेश, गुडाका निद्रा तस्याः ईशो गुडाकेशः, जित-निद्र इत्य् अर्थः | घन-केशेति वा | सर्व-भूताशय-स्थितः सर्वेषां भूतानाम् आशये ऽन्तर्-हृदि स्थितो ऽहम् आत्मा प्रत्यग्-आत्मा नित्यं ध्येयः | तद्-अशक्तेन चोत्तरेषु भावेषु चिन्त्यो ऽहम् | यस्माद् अहम् एव आदिर् भूतानां कारणं तथा मध्यं च स्थितिर् अन्तः प्रलयश् च ||Bह्GS_१०.२०||
73 SK ==============================
10.21 SK आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् | मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ||Bह्G_१०.२१||
10.21 SK आदित्यानां द्वादशानां विष्णुर् नाम आदित्यो ऽहम् | ज्योतिषां रविः प्रकाशयितॄणाम् अंशुमान् रश्मिमान् | मरीचिर् नाम मरुतां मरुद्-देवता-भेदानाम् अस्मि | नक्षत्राणाम् अहं शशी चन्द्रमाः ||Bह्GS_१०.२१||
77 SK ==============================
10.22 SK वेदानां साम-वेदो ऽस्मि देवानाम् अस्मि वासवः | इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना ||Bह्G_१०.२२||
10.22 SK वेदानां मध्ये साम-वेदो ऽस्मि | देवानां रूद्रादित्यादीनां वासव इन्द्रो ऽस्मि | इन्द्रियाणाम् एकादशानां चक्षुर्-आदीनां मनश् चास्मि संकल्प-विकल्पात्मकं मनश् चास्मि | भूतानाम् अस्मि चेतना कार्य-करण-संघाते नित्याभिव्यक्ता बुद्धि-वृत्तिश् चेतना ||Bह्GS_१०.२२||
80 SK ==============================
10.23 SK रुद्राणां शंकरश् चास्मि वित्तेशो यक्ष-रक्षसाम् | वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम् ||Bह्G_१०.२३||
10.23 SK रुद्राणाम् एकादशानां शंकरश् चास्मि | वित्तेशः कुवेरो यक्ष-रक्षसां यक्षाणां रक्षसां च | वसूनाम् अष्टनां पावकश् चास्म्य् अग्निः | मेरुः शिखरिणां शिखरवताम् अहम् ||Bह्GS_१०.२३||
83 SK ==============================
10.24 SK पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् | सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ||Bह्G_१०.२४||
10.24 SK पुरोधसां च राज-पुरोहितानां च मुख्यं प्रधानं मां विद्धि हे पार्थ बृहस्पतिम् | स हीन्द्रस्येति मुख्यः स्यात् पुरोधाः | सेनानीनां सेनापतीनाम् अहं स्कन्दो देव-सेनापतिः | सरसां यानि देव-खातानि सरांसि तेषां सरसां सागरो ऽस्मि भवामि ||Bह्GS_१०.२४||
86 SK ==============================
10.25 SK महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् | यज्ञानां जप-यज्ञो ऽस्मि स्थावराणां हिमालयः ||Bह्G_१०.२५||
10.25 SK महर्षीणां भृगुर् अहम् | गिरां वाचां पद-लक्षणानाम् एकम् अक्षरम् ॐकारो ऽस्मि | यज्ञानां जप-यज्ञो ऽस्मि, स्थावराणां स्थिति-मतां हिमालयः ||Bह्GS_१०.२५||
89 SK ==============================
10.26 SK अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः | गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||Bह्G_१०.२६||
10.26 SK अश्वत्थः सर्व-वृक्षाणाम्, देवर्षीणां च नारदो देवाः एव सन्तः ऋषित्वं प्राप्ताः मन्त्र-दर्शित्वात् ते देवर्षयः | तेषां नारदो ऽस्मि | गन्धर्वाणां चित्ररथो नाम गन्धर्वो ऽस्मि | सिद्धानां जन्मनैव धर्म-ज्ञान-वैराग्यैश्वर्यातिशयं प्राप्तानां कपिलो मुनिः ||Bह्GS_१०.२६||
92 SK ==============================
10.27 SK उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् | ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||Bह्G_१०.२७||
10.27 SK उचैःश्रवसम् अ वानां उचैःश्रवाः नामा वराजस् तं मां विद्धि विजानीह्य् अमृतोद्भवम् अमृत-निमित्त-मथनोद्भवम् | ऐरावतम् इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम्, तम् मां विद्धीत्य् अनुवर्तते | नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि ||Bह्GS_१०.२७||
95 SK ==============================
10.28 SK आयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम-धुक् | प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ||Bह्G_१०.२८||
10.28 SK आयुधानाम् अहं वज्रं दधीच्य्-अस्थि-संभवम् | धेनूनां दोग्ध्रीणाम् अस्मि काम-धुक् वसिष्ठस्य सर्व-कामानां दोग्ध्री, सामान्या वा काम-धुक् | प्रजनः प्रजनयितास्मि कन्दर्पः कामः | सर्पाणां सर्प-भेदानाम् अस्मि वासुकिः सर्प-राजः ||Bह्GS_१०.२८||
98 SK ==============================
10.29 SK अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् | पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम् ||Bह्G_१०.२९||
10.29 SK अनन्तश् चास्मि नागानां नाग-विशेषाणां नागराजश् चास्मि | वरुणो यादसाम् अहम् अब्-देवतानां राजाहम् | पितॄणाम् अर्यमा नाम पितृ-राजश् चास्मि | यमः संयमतां संयमनं कुर्वताम् अहम् ||Bह्GS_१०.२९||
101 SK ==============================
10.30 SK प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् | मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम् ||Bह्G_१०.३०||
10.30 SK प्रह्लादो नामश् चास्मि दैत्यानां दिति-वंश्यानाम् | कालः कलयतां कलनं गणनं कुर्वताम् अहम् | मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वाहम् | वैनतेयश् च गरुत्मान् विनता-सुतः पक्षिणां पतत्रिणाम् ||Bह्GS_१०.३०||
104 SK ==============================
10.31 SK पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् | झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी ||Bह्G_१०.३१||
10.31 SK पवनो वायुः पवतां पावयितॠणाम् अस्मि | रामः शस्त्र-भृताम् अहं शस्त्राणां धारयितॄणां दाशरथिः रामो ऽहम् | झषाणां मत्स्यादीनां मकरो नाम जाति-विशेषो ऽहम् | स्रोतसां स्रवन्तीनाम् अस्मि जाह्नवी गङ्गा ||Bह्GS_१०.३१||
107 SK ==============================
10.32 SK सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन | अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम् ||Bह्G_१०.३२||
10.32 SK सर्गाणां सृष्टीनाम् आदिर् अन्तश् च मध्यं चैवाहम् उत्पत्ति-स्थिति-लया अहम् अर्जुन | भूतानां जीवाधिष्ठितानाम् एव आदिर् अन्तश् चेत्य् आद्य् उक्तम् उपक्रमे, इह तु सर्वस्यैव सर्ग-मात्रस्येति विशेषः | अध्यात्म-विद्या विद्यानां मोक्षार्थत्वात् प्रधानम् अस्मि | वादो ऽर्थ-निर्णय-हेतुत्वात् प्रवदतां प्रधानम्, अतः सो ऽहम् अस्मि | प्रवक्तृ-द्वारेण वदन-भेदानाम् एव वाद-जल्प-वितण्डानाम् इह ग्रहणं प्रवदताम् इति ||Bह्GS_१०.३२||
110 SK ==============================
10.33 SK अक्षराणाम् अकारो ऽस्मि द्वन्द्वः सामासिकस्य च | अहम् एवाक्षयः कालो धाताहं विश्वतो-मुखः ||Bह्G_१०.३३||
10.33 SK अक्षराणां वर्णानाम् अकारो वर्णो ऽस्मि | द्वन्द्वः समासो ऽस्मि सामासिकस्य च समास-समूहस्य | किं चाहम् एवाक्षयः कालः प्रसिद्धः क्षणाद्य्-आख्यः, अथवा परमेश्वरः कालस्यापि कालो ऽस्मि | धाताहं कर्म-फलस्य विधाता सर्व-जगतो विश्वतो-मुखः सर्वतो-मुखः ||Bह्GS_१०.३३||
113 SK ==============================
10.34 SK मृत्युः सर्व-हरश् चाहम् उद्भवश् च भविष्यताम् | कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ||Bह्G_१०.३४||
10.34 SK मृत्युर् द्विविधो धनादि-हरः प्राण-हरश् च | तत्र यः प्राण-हरः, स सर्व-हर उच्यते | सो ऽहम् इत्य् अर्थः | अथवा, पर ईश्वरः प्रलये सर्व-हरणात् सर्व-हरः, सो ऽहम् | उद्भव उत्कर्षः अभ्युदयस् तत्-प्राप्ति-हेतुश् चाहम् | केषाम् ? भविष्यतां भावि-कल्याणानाम्, उत्कर्ष-प्राप्ति-योग्यानाम् इत्य् अर्थः | कीर्तिः श्रीः वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा इत्य् एता उत्तमाः स्त्रीणाम् अहम् अस्मि, यासाम् आभास-मात्र-संबन्धेनापि लोकः कृतार्थम् आत्मानं मन्यते ||Bह्GS_१०.३४||
116 SK ==============================
10.35 SK बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् | मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः ||Bह्G_१०.३५||
10.35 SK बृहत्-साम तथा साम्नां प्रधानम् अस्मि | गायत्री च्छन्दसाम् अहं गायत्र्य्-आदि-च्छन्दो-विशिष्टानाम् ऋचां गायत्री ऋग् अहम् अस्मीत्य् अर्थः | मासानां मार्गशीर्षो ऽहम्, ऋतूनां कुसुमाकरो वसन्तः ||Bह्GS_१०.३५||
119 SK ==============================
10.36 SK द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् | जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ||Bह्G_१०.३६||
10.36 SK द्यूतम् अक्ष-देवनादि-लक्षणं छलयतां छलस्य कर्तॄणाम् अस्मि | तेजस्विनां तेजो ऽहम् | जयो ऽस्मि जेतॄणाम् | व्यवसायो ऽस्मि व्यवसायिनाम् | सत्त्वं सत्त्ववतां सात्त्विकानाम् अहम् ||Bह्GS_१०.३६||
122 SK ==============================
10.37 SK वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनंजयः | मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ||Bह्G_१०.३७||
10.37 SK वृष्णीनां यादवानां वासुदेवो ऽस्म्य् अयम् एवाहं त्वत्सखः | पाण्डावानां धनंजयस् त्वम् एव | मुनीनीं मननशीलानां सर्वपदार्थज्ञानिनाम् अप्य् अहं व्यासः, कवीनां क्त्रान्तदर्शिनाम् उशना कविर् अस्मि ||Bह्GS_१०.३७||
125 SK ==============================
10.38 SK दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् | मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ||Bह्G_१०.३८||
10.38 SK दण्डो दमयतां दमयितॄणाम् अस्म्य् अदान्तानां दमन-कारः | नीतिर् अस्मि जिगीषतां जेतुम् इच्छताम् | मौनं चैवास्मि गुह्यानां गोप्यानाम् | ज्ञानं ज्ञानवताम् अहम् ||Bह्GS_१०.३८||
128 SK ==============================
10.39 SK यच् चापि सर्व-भूतानां बीजं तद् अहम् अर्जुन | न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् ||Bह्G_१०.३९||
10.39 SK यच् चापि सर्व-भूतानां बीजं प्ररोह-कारणम्, तद् अहम् अर्जुन | प्रकरणोप-संहारार्थं विभूति-संक्षेपम् आह - न तद् अस्ति भूतं चराचरं चरम् अचरं वा, मया विना यत् स्यात् भवेत् | मयापकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत् स्यात् | अतो मद्-आत्मकं सर्वम् इत्य् अर्थः ||Bह्GS_१०.३९||
131 SK ==============================
10.40 SK नान्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप | एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ||Bह्G_१०.४०||
10.40 SK नान्तो ऽस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तप | न हीश्वरस्य सर्वात्मनो दिव्यानां विभूतीनाम् इयत्ता शक्या वक्तुं ज्ञातुं वा केनचित् | एष तूद्देशत एक-देशेन प्रोक्तो विभूतेर् विस्तरः मया ||Bह्GS_१०.४०||
134 SK ==============================
10.41 SK यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा | तत् तद् एवावगच्छ त्वं मम तेजो ऽंश-संभवम् ||Bह्G_१०.४१||
10.41 SK यद् यल् लोके विभूतिमद् विभूति-युक्तं सत्त्वं वस्तु श्रीमद् ऊर्जितम् एव वा श्रीर् लक्ष्मीस् तया सहितम् उत्साहोपेतं वा | तत् तद् एवावगच्छ त्वं जानीहि ममेश्वरस्य तेजो ऽंश-संभवं तेजसो ऽंश एक-देशः संभवो यस्य तत् तेजो ऽंश-संभवम् इत्य् अवगच्छ त्वम् ||Bह्GS_१०.४१||
137 SK ==============================
10.42 SK अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन | विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ||Bह्G_१०.४२||
10.42 SK अथवा बहुनैतेन एवम् आदिना किं ज्ञातेन तवार्जुन स्यात् सावशेषेण | अशेषतस् त्वम् उच्यमानम् अर्थं सृणु - विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वेदं कृत्स्नं जगद् एकांशेनैकावयवेनैक-पादेन, सर्व-भूत-स्वरूपेणेत्य् एतत् | तथा च मन्त्र-वर्णः - पादो ऽस्य विश्वा भूतानि [Ṛक् ८.४.१७.३] इति | स्थितो ऽहम् इति ||Bह्GS_१०.४२||
140 SK इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्रीगोवन्दिभगवत्पूज्यपाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये दशमो ऽध्यायः ||
142 SK अथैकादशो ऽध्यायः विश्व-रूप-दर्शन-योगः
143 SK (श्री-शङ्कराचार्य-भगवत्-पाद-कृत-भाष्यम्)
144 SK भगवतो विभूतय उक्ताः | तत्र च विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [Gईता १०.४२] इति भगवताभिहितं श्रुत्वा यत् जगद्-आत्म-रूपम्, आद्यम् ऐश्वरं तत् साक्षात्-कर्तुम् इच्छन्न् अर्जुन उवाच -
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.
Source